This overlay will guide you through the buttons:

| |
|
अथ संस्मारयामास मातली राघवं तदा। अजानन्निव किं वीर त्वमेनमनुवर्तसे॥ १॥
अथ संस्मारयामास मातलिः राघवम् तदा। अ जानन् इव किम् वीर त्वम् एनम् अनुवर्तसे॥ १॥
atha saṃsmārayāmāsa mātaliḥ rāghavam tadā. a jānan iva kim vīra tvam enam anuvartase.. 1..
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो। विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते॥ २॥
विसृज अस्मै वधाय त्वम् अस्त्रम् पैतामहम् प्रभो। विनाश-कालः कथितः यः सुरैः सः अद्य वर्तते॥ २॥
visṛja asmai vadhāya tvam astram paitāmaham prabho. vināśa-kālaḥ kathitaḥ yaḥ suraiḥ saḥ adya vartate.. 2..
ततः संस्मारितो रामस्तेन वाक्येन मातलेः। जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम्॥ ३॥
ततस् संस्मारितः रामः तेन वाक्येन मातलेः। जग्राह स शरम् दीप्तम् निःश्वसन्तम् इव उरगम्॥ ३॥
tatas saṃsmāritaḥ rāmaḥ tena vākyena mātaleḥ. jagrāha sa śaram dīptam niḥśvasantam iva uragam.. 3..
यं तस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः। ब्रह्मदत्तं महद् बाणममोघं युधि वीर्यवान्॥ ४॥
यम् तस्मै प्रथमम् प्रादात् अगस्त्यः भगवान् ऋषिः। ब्रह्मदत्तम् महत् बाणम् अमोघम् युधि वीर्यवान्॥ ४॥
yam tasmai prathamam prādāt agastyaḥ bhagavān ṛṣiḥ. brahmadattam mahat bāṇam amogham yudhi vīryavān.. 4..
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा। दत्तं सुरपतेः पूर्वं त्रिलोकजयकांक्षिणः॥ ५॥
ब्रह्मणा निर्मितम् पूर्वम् इन्द्र-अर्थम् अमित-ओजसा। दत्तम् सुरपतेः पूर्वम् त्रिलोक-जय-कांक्षिणः॥ ५॥
brahmaṇā nirmitam pūrvam indra-artham amita-ojasā. dattam surapateḥ pūrvam triloka-jaya-kāṃkṣiṇaḥ.. 5..
यस्य वाजेषु पवनः फले पावकभास्करौ। शरीरमाकाशमयं गौरवे मेरुमन्दरौ॥ ६॥
यस्य वाजेषु पवनः फले पावक-भास्करौ। शरीरम् आकाश-मयम् गौरवे मेरु-मन्दरौ॥ ६॥
yasya vājeṣu pavanaḥ phale pāvaka-bhāskarau. śarīram ākāśa-mayam gaurave meru-mandarau.. 6..
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्। तेजसा सर्वभूतानां कृतं भास्करवर्चसम्॥ ७॥
जाज्वल्यमानम् वपुषा सु पुङ्खम् हेम-भूषितम्। तेजसा सर्व-भूतानाम् कृतम् भास्कर-वर्चसम्॥ ७॥
jājvalyamānam vapuṣā su puṅkham hema-bhūṣitam. tejasā sarva-bhūtānām kṛtam bhāskara-varcasam.. 7..
सधूममिव कालाग्निं दीप्तमाशीविषोपमम्। नरनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम्॥ ८॥
स धूमम् इव कालाग्निम् दीप्तम् आशीविष-उपमम्। नर-नाग-अश्व-वृन्दानाम् भेदनम् क्षिप्रकारिणम्॥ ८॥
sa dhūmam iva kālāgnim dīptam āśīviṣa-upamam. nara-nāga-aśva-vṛndānām bhedanam kṣiprakāriṇam.. 8..
द्वाराणां परिघाणां च गिरीणां चापि भेदनम्। नानारुधिरदिग्धाङ्गं मेदोदिग्धं सुदारुणम्॥ ९॥
द्वाराणाम् परिघाणाम् च गिरीणाम् च अपि भेदनम्। नाना रुधिर-दिग्ध-अङ्गम् मेदः-दिग्धम् सु दारुणम्॥ ९॥
dvārāṇām parighāṇām ca girīṇām ca api bhedanam. nānā rudhira-digdha-aṅgam medaḥ-digdham su dāruṇam.. 9..
वज्रसारं महानादं नानासमितिदारुणम्। सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम्॥ १०॥
वज्र-सारम् महा-नादम् नाना समिति-दारुणम्। सर्व-वित्रासनम् भीमम् श्वसन्तम् इव पन्नगम्॥ १०॥
vajra-sāram mahā-nādam nānā samiti-dāruṇam. sarva-vitrāsanam bhīmam śvasantam iva pannagam.. 10..
कङ्कगृध्रबकानां च गोमायुगणरक्षसाम्। नित्यभक्षप्रदं युद्धे यमरूपं भयावहम्॥ ११॥
कङ्क-गृध्र-बकानाम् च गोमायु-गण-रक्षसाम्। नित्य-भक्ष-प्रदम् युद्धे यम-रूपम् भय-आवहम्॥ ११॥
kaṅka-gṛdhra-bakānām ca gomāyu-gaṇa-rakṣasām. nitya-bhakṣa-pradam yuddhe yama-rūpam bhaya-āvaham.. 11..
नन्दनं वानरेन्द्राणां रक्षसामवसादनम्। वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः॥ १२॥
नन्दनम् वानर-इन्द्राणाम् रक्षसाम् अवसादनम्। वाजितम् विविधैः वाजैः चारु-चित्रैः गरुत्मतः॥ १२॥
nandanam vānara-indrāṇām rakṣasām avasādanam. vājitam vividhaiḥ vājaiḥ cāru-citraiḥ garutmataḥ.. 12..
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम्। द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः॥ १३॥
तम् उत्तम-इषुम् लोकानाम् इक्ष्वाकु-भय-नाशनम्। द्विषताम् कीर्ति-हरणम् प्रहर्ष-करम् आत्मनः॥ १३॥
tam uttama-iṣum lokānām ikṣvāku-bhaya-nāśanam. dviṣatām kīrti-haraṇam praharṣa-karam ātmanaḥ.. 13..
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः। वेदप्रोक्तेन विधिना संदधे कार्मुके बली॥ १४॥
अभिमन्त्र्य ततस् रामः तम् महा-इषुम् महा-बलः। वेद-प्रोक्तेन विधिना संदधे कार्मुके बली॥ १४॥
abhimantrya tatas rāmaḥ tam mahā-iṣum mahā-balaḥ. veda-proktena vidhinā saṃdadhe kārmuke balī.. 14..
तस्मिन् संधीयमाने तु राघवेण शरोत्तमे। सर्वभूतानि संत्रेसुश्चचाल च वसुंधरा॥ १५॥
तस्मिन् संधीयमाने तु राघवेण शर-उत्तमे। सर्व-भूतानि संत्रेसुः चचाल च वसुंधरा॥ १५॥
tasmin saṃdhīyamāne tu rāghaveṇa śara-uttame. sarva-bhūtāni saṃtresuḥ cacāla ca vasuṃdharā.. 15..
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम्। चिक्षेप परमायत्तः शरं मर्मविदारणम्॥ १६॥
स रावणाय संक्रुद्धः भृशम् आयम्य कार्मुकम्। चिक्षेप परम-आयत्तः शरम् मर्म-विदारणम्॥ १६॥
sa rāvaṇāya saṃkruddhaḥ bhṛśam āyamya kārmukam. cikṣepa parama-āyattaḥ śaram marma-vidāraṇam.. 16..
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः। कृतान्त इव चावार्यो न्यपतद् रावणोरसि॥ १७॥
स वज्रः इव दुर्धर्षः वज्रि-बाहु-विसर्जितः। कृतान्तः इव च अ वार्यः न्यपतत् रावण-उरसि॥ १७॥
sa vajraḥ iva durdharṣaḥ vajri-bāhu-visarjitaḥ. kṛtāntaḥ iva ca a vāryaḥ nyapatat rāvaṇa-urasi.. 17..
स विसृष्टो महावेगः शरीरान्तकरः परः। बिभेद हृदयं तस्य रावणस्य दुरात्मनः॥ १८॥
स विसृष्टः महा-वेगः शरीर-अन्त-करः परः। बिभेद हृदयम् तस्य रावणस्य दुरात्मनः॥ १८॥
sa visṛṣṭaḥ mahā-vegaḥ śarīra-anta-karaḥ paraḥ. bibheda hṛdayam tasya rāvaṇasya durātmanaḥ.. 18..
रुधिराक्तः स वेगेन शरीरान्तकरः शरः। रावणस्य हरन् प्राणान् विवेश धरणीतलम्॥ १९॥
रुधिर-अक्तः स वेगेन शरीर-अन्त-करः शरः। रावणस्य हरन् प्राणान् विवेश धरणी-तलम्॥ १९॥
rudhira-aktaḥ sa vegena śarīra-anta-karaḥ śaraḥ. rāvaṇasya haran prāṇān viveśa dharaṇī-talam.. 19..
स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः। कृतकर्मा निभृतवत् स तूणीं पुनराविशत्॥ २०॥
स शरः रावणम् हत्वा रुधिर-आर्द्र-कृत-छविः। कृत-कर्मा निभृत-वत् स तूणीम् पुनर् आविशत्॥ २०॥
sa śaraḥ rāvaṇam hatvā rudhira-ārdra-kṛta-chaviḥ. kṛta-karmā nibhṛta-vat sa tūṇīm punar āviśat.. 20..
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम्। निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात्॥ २१॥
तस्य हस्तात् हतस्य आशु कार्मुकम् तत् स सायकम्। निपपात सह प्राणैः भ्रश्यमानस्य जीवितात्॥ २१॥
tasya hastāt hatasya āśu kārmukam tat sa sāyakam. nipapāta saha prāṇaiḥ bhraśyamānasya jīvitāt.. 21..
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः। पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा॥ २२॥
गतासुः भीम-वेगः तु नैरृत-इन्द्रः महा-द्युतिः। पपात स्यन्दनात् भूमौ वृत्रः वज्र-हतः यथा॥ २२॥
gatāsuḥ bhīma-vegaḥ tu nairṛta-indraḥ mahā-dyutiḥ. papāta syandanāt bhūmau vṛtraḥ vajra-hataḥ yathā.. 22..
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः। हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः॥ २३॥
तम् दृष्ट्वा पतितम् भूमौ हत-शेषाः निशाचराः। हत-नाथाः भय-त्रस्ताः सर्वतस् सम्प्रदुद्रुवुः॥ २३॥
tam dṛṣṭvā patitam bhūmau hata-śeṣāḥ niśācarāḥ. hata-nāthāḥ bhaya-trastāḥ sarvatas sampradudruvuḥ.. 23..
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः। दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः॥ २४॥
नर्दन्तः च अभिपेतुः तान् वानराः द्रुम-योधिनः। दशग्रीव-वधम् दृष्ट्वा वानराः जित-काशिनः॥ २४॥
nardantaḥ ca abhipetuḥ tān vānarāḥ druma-yodhinaḥ. daśagrīva-vadham dṛṣṭvā vānarāḥ jita-kāśinaḥ.. 24..
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात्। हताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः॥ २५॥
अर्दिताः वानरैः हृष्टैः लङ्काम् अभ्यपतन् भयात्। हत-आश्रय-त्वात् करुणैः बाष्प-प्रस्रवणैः मुखैः॥ २५॥
arditāḥ vānaraiḥ hṛṣṭaiḥ laṅkām abhyapatan bhayāt. hata-āśraya-tvāt karuṇaiḥ bāṣpa-prasravaṇaiḥ mukhaiḥ.. 25..
ततो विनेदुः संहृष्टा वानरा जितकाशिनः। वदन्तो राघवजयं रावणस्य च तद्वधम्॥ २६॥
ततस् विनेदुः संहृष्टाः वानराः जित-काशिनः। वदन्तः राघव-जयम् रावणस्य च तद्-वधम्॥ २६॥
tatas vineduḥ saṃhṛṣṭāḥ vānarāḥ jita-kāśinaḥ. vadantaḥ rāghava-jayam rāvaṇasya ca tad-vadham.. 26..
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः। दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ॥ २७॥
अथ अन्तरिक्षे व्यनदत् सौम्यः त्रिदश-दुन्दुभिः। दिव्य-गन्ध-वहः तत्र मारुतः सु सुखः ववौ॥ २७॥
atha antarikṣe vyanadat saumyaḥ tridaśa-dundubhiḥ. divya-gandha-vahaḥ tatra mārutaḥ su sukhaḥ vavau.. 27..
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि। किरन्ती राघवरथं दुरावापा मनोहरा॥ २८॥
निपपात अन्तरिक्षात् च पुष्प-वृष्टिः तदा भुवि। किरन्ती राघव-रथम् दुरावापा मनोहरा॥ २८॥
nipapāta antarikṣāt ca puṣpa-vṛṣṭiḥ tadā bhuvi. kirantī rāghava-ratham durāvāpā manoharā.. 28..
राघवस्तवसंयुक्ता गगने च विशुश्रुवे। साधुसाध्विति वागग्र्या देवतानां महात्मनाम्॥ २९॥
राघव-स्तव-संयुक्ता गगने च विशुश्रुवे। साधु-साधु इति वाच्-अग्र्या देवतानाम् महात्मनाम्॥ २९॥
rāghava-stava-saṃyuktā gagane ca viśuśruve. sādhu-sādhu iti vāc-agryā devatānām mahātmanām.. 29..
आविवेश महान् हर्षो देवानां चारणैः सह। रावणे निहते रौद्रे सर्वलोकभयंकरे॥ ३०॥
आविवेश महान् हर्षः देवानाम् चारणैः सह। रावणे निहते रौद्रे सर्व-लोक-भयंकरे॥ ३०॥
āviveśa mahān harṣaḥ devānām cāraṇaiḥ saha. rāvaṇe nihate raudre sarva-loka-bhayaṃkare.. 30..
ततः सकामं सुग्रीवमङ्गदं च विभीषणम्। चकार राघवः प्रीतो हत्वा राक्षसपुंगवम्॥ ३१॥
ततस् स कामम् सुग्रीवम् अङ्गदम् च विभीषणम्। चकार राघवः प्रीतः हत्वा राक्षस-पुंगवम्॥ ३१॥
tatas sa kāmam sugrīvam aṅgadam ca vibhīṣaṇam. cakāra rāghavaḥ prītaḥ hatvā rākṣasa-puṃgavam.. 31..
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत्। मही चकम्पे न च मारुतो ववौ स्थिरप्रभश्चाप्यभवद् दिवाकरः॥ ३२॥
ततस् प्रजग्मुः प्रशमम् मरुत्-गणाः दिशः प्रसेदुः विमलम् नभः अभवत्। मही चकम्पे न च मारुतः ववौ स्थिर-प्रभः च अपि अभवत् दिवाकरः॥ ३२॥
tatas prajagmuḥ praśamam marut-gaṇāḥ diśaḥ praseduḥ vimalam nabhaḥ abhavat. mahī cakampe na ca mārutaḥ vavau sthira-prabhaḥ ca api abhavat divākaraḥ.. 32..
ततस्तु सुग्रीवविभीषणाङ्गदाः सुहृद्विशिष्टाः सहलक्ष्मणस्तदा। समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन्॥ ३३॥
ततस् तु सुग्रीव-विभीषण-अङ्गदाः सुहृद्-विशिष्टाः सहलक्ष्मणः तदा। समेत्य हृष्टाः विजयेन राघवम् रणे अभिरामम् विधिना अभ्यपूजयन्॥ ३३॥
tatas tu sugrīva-vibhīṣaṇa-aṅgadāḥ suhṛd-viśiṣṭāḥ sahalakṣmaṇaḥ tadā. sametya hṛṣṭāḥ vijayena rāghavam raṇe abhirāmam vidhinā abhyapūjayan.. 33..
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे बभूव। रघुकुलनृपनन्दनो महौजा- स्त्रिदशगणैरभिसंवृतो महेन्द्रः॥ ३४॥
स तु निहत-रिपुः स्थिर-प्रतिज्ञः स्व-जन-बल-अभिवृतः रणे बभूव। रघु-कुल-नृप-नन्दनः महा-ओजाः त्रिदश-गणैः अभिसंवृतः महा-इन्द्रः॥ ३४॥
sa tu nihata-ripuḥ sthira-pratijñaḥ sva-jana-bala-abhivṛtaḥ raṇe babhūva. raghu-kula-nṛpa-nandanaḥ mahā-ojāḥ tridaśa-gaṇaiḥ abhisaṃvṛtaḥ mahā-indraḥ.. 34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In