This overlay will guide you through the buttons:

| |
|
भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे। शोकवेगपरीतात्मा विललाप विभीषणः॥ १॥
भ्रातरम् निहतम् दृष्ट्वा शयानम् निर्जितम् रणे। शोक-वेग-परीत-आत्मा विललाप विभीषणः॥ १॥
bhrātaram nihatam dṛṣṭvā śayānam nirjitam raṇe. śoka-vega-parīta-ātmā vilalāpa vibhīṣaṇaḥ.. 1..
वीरविक्रान्त विख्यात प्रवीण नयकोविद। महार्हशयनोपेत किं शेषे निहतो भुवि॥ २॥
वीर-विक्रान्त विख्यात प्रवीण नय-कोविद। महार्ह-शयन-उपेत किम् शेषे निहतः भुवि॥ २॥
vīra-vikrānta vikhyāta pravīṇa naya-kovida. mahārha-śayana-upeta kim śeṣe nihataḥ bhuvi.. 2..
निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ। मुकुटेनापवृत्तेन भास्कराकारवर्चसा॥ ३॥
निक्षिप्य दीर्घौ निश्चेष्टौ भुजौ अङ्गद-भूषितौ। मुकुटेन अपवृत्तेन भास्कर-आकार-वर्चसा॥ ३॥
nikṣipya dīrghau niśceṣṭau bhujau aṅgada-bhūṣitau. mukuṭena apavṛttena bhāskara-ākāra-varcasā.. 3..
तदिदं वीर सम्प्राप्तं यन्मया पूर्वमीरितम्। काममोहपरीतस्य यत् तन्न रुचितं तव॥ ४॥
तत् इदम् वीर सम्प्राप्तम् यत् मया पूर्वम् ईरितम्। काम-मोह-परीतस्य यत् तत् न रुचितम् तव॥ ४॥
tat idam vīra samprāptam yat mayā pūrvam īritam. kāma-moha-parītasya yat tat na rucitam tava.. 4..
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः। न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः॥ ५॥
यत् न दर्पात् प्रहस्तः वा न इन्द्रजित् न अपरे जनाः। न कुम्भकर्णः अतिरथः न अतिकायः नरान्तकः। न स्वयम् बहु मन्येथाः तस्य उदर्कः अयम् आगतः॥ ५॥
yat na darpāt prahastaḥ vā na indrajit na apare janāḥ. na kumbhakarṇaḥ atirathaḥ na atikāyaḥ narāntakaḥ. na svayam bahu manyethāḥ tasya udarkaḥ ayam āgataḥ.. 5..
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः। गतः सत्त्वस्य संक्षेपः सुहस्तानां गतिर्गता॥ ६॥
गतः सेतुः सु नीतानाम् गतः धर्मस्य विग्रहः। गतः सत्त्वस्य संक्षेपः सुहस्तानाम् गतिः गता॥ ६॥
gataḥ setuḥ su nītānām gataḥ dharmasya vigrahaḥ. gataḥ sattvasya saṃkṣepaḥ suhastānām gatiḥ gatā.. 6..
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः। चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः। अस्मिन् निपतिते वीरे भूमौ शस्त्रभृतां वरे॥ ७॥
आदित्यः पतितः भूमौ मग्नः तमसि चन्द्रमाः। । अस्मिन् निपतिते वीरे भूमौ शस्त्रभृताम् वरे॥ ७॥
ādityaḥ patitaḥ bhūmau magnaḥ tamasi candramāḥ. . asmin nipatite vīre bhūmau śastrabhṛtām vare.. 7..
किं शेषमिहलोकस्य गतसत्त्वस्य सम्प्रति। रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु॥ ८॥
किम् शेषम् इहलोकस्य गत-सत्त्वस्य सम्प्रति। रणे राक्षस-शार्दूले प्रसुप्तः इव पांसुषु॥ ८॥
kim śeṣam ihalokasya gata-sattvasya samprati. raṇe rākṣasa-śārdūle prasuptaḥ iva pāṃsuṣu.. 8..
धृतिप्रवालः प्रसभाग्र्यपुष्प- स्तपोबलः शौर्यनिबद्धमूलः। रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन॥ ९॥
। रणे महान् राक्षस-राज-वृक्षः सम्मर्दितः राघव-मारुतेन॥ ९॥
. raṇe mahān rākṣasa-rāja-vṛkṣaḥ sammarditaḥ rāghava-mārutena.. 9..
तेजोविषाणः कुलवंशवंशःकोपप्रसादापरगात्रहस्तः। इक्ष्वाकुसिंहावगृहीतदेहःसुप्तः क्षितौ रावणगन्धहस्ती॥ १०॥
तेजः-विषाणः कुल-वंश-वंशः कोप-प्रसाद-अपर-गात्र-हस्तः। इक्ष्वाकु-सिंह-अवगृहीत-देहः सुप्तः क्षितौ रावण-गन्धहस्ती॥ १०॥
tejaḥ-viṣāṇaḥ kula-vaṃśa-vaṃśaḥ kopa-prasāda-apara-gātra-hastaḥ. ikṣvāku-siṃha-avagṛhīta-dehaḥ suptaḥ kṣitau rāvaṇa-gandhahastī.. 10..
पराक्रमोत्साहविजृम्भितार्चि-र्निःश्वासधूमः स्वबलप्रतापः। प्रतापवान् संयति राक्षसाग्नि-
। प्रतापवान् संयति राक्षस-अग्नि-
. pratāpavān saṃyati rākṣasa-agni-
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धवाहः। रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः॥ १२॥
सिंह-ऋक्ष-लाङ्गूल-ककुद्-विषाणः पर-अभिजित्-गन्धन-गन्धवाहः। रक्षः-वृषः चापल-कर्ण-चक्षुः क्षितीश्वर-व्याघ्र-हतः अवसन्नः॥ १२॥
siṃha-ṛkṣa-lāṅgūla-kakud-viṣāṇaḥ para-abhijit-gandhana-gandhavāhaḥ. rakṣaḥ-vṛṣaḥ cāpala-karṇa-cakṣuḥ kṣitīśvara-vyāghra-hataḥ avasannaḥ.. 12..
वदन्तं हेतुमद्वाक्यं परिदृष्टार्थनिश्चयम्। रामः शोकसमाविष्टमित्युवाच विभीषणम्॥ १३॥
वदन्तम् हेतुमत् वाक्यम् परिदृष्ट-अर्थ-निश्चयम्। रामः शोक-समाविष्टम् इति उवाच विभीषणम्॥ १३॥
vadantam hetumat vākyam paridṛṣṭa-artha-niścayam. rāmaḥ śoka-samāviṣṭam iti uvāca vibhīṣaṇam.. 13..
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः। अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः॥ १४॥
न अयम् विनष्टः निश्चेष्टः समरे चण्ड-विक्रमः। अति उन्नत-महा-उत्साहः पतितः अयम् अशङ्कितः॥ १४॥
na ayam vinaṣṭaḥ niśceṣṭaḥ samare caṇḍa-vikramaḥ. ati unnata-mahā-utsāhaḥ patitaḥ ayam aśaṅkitaḥ.. 14..
नैवं विनष्टाः शोचन्ते क्षत्रधर्मव्यवस्थिताः। वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे॥ १५॥
न एवम् विनष्टाः शोचन्ते क्षत्र-धर्म-व्यवस्थिताः। वृद्धिम् आशंसमानाः ये निपतन्ति रण-अजिरे॥ १५॥
na evam vinaṣṭāḥ śocante kṣatra-dharma-vyavasthitāḥ. vṛddhim āśaṃsamānāḥ ye nipatanti raṇa-ajire.. 15..
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता। तस्मिन् कालसमायुक्ते न कालः परिशोचितुम्॥ १६॥
येन स इन्द्राः त्रयः लोकाः त्रासिताः युधि धीमता। तस्मिन् काल-समायुक्ते न कालः परिशोचितुम्॥ १६॥
yena sa indrāḥ trayaḥ lokāḥ trāsitāḥ yudhi dhīmatā. tasmin kāla-samāyukte na kālaḥ pariśocitum.. 16..
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन। परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे॥ १७॥
न एकान्त-विजयः युद्धे भूत-पूर्वः कदाचन। परैः वा हन्यते वीरः परान् वा हन्ति संयुगे॥ १७॥
na ekānta-vijayaḥ yuddhe bhūta-pūrvaḥ kadācana. paraiḥ vā hanyate vīraḥ parān vā hanti saṃyuge.. 17..
इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसम्मता। क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः॥ १८॥
इयम् हि पूर्वैः संदिष्टा गतिः क्षत्रिय-सम्मता। क्षत्रियः निहतः संख्ये न शोच्यः इति निश्चयः॥ १८॥
iyam hi pūrvaiḥ saṃdiṣṭā gatiḥ kṣatriya-sammatā. kṣatriyaḥ nihataḥ saṃkhye na śocyaḥ iti niścayaḥ.. 18..
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः। यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय॥ १९॥
तत् एवम् निश्चयम् दृष्ट्वा तत्त्वम् आस्थाय विज्वरः। यत् इह अनन्तरम् कार्यम् कल्प्यम् तत् अनुचिन्तय॥ १९॥
tat evam niścayam dṛṣṭvā tattvam āsthāya vijvaraḥ. yat iha anantaram kāryam kalpyam tat anucintaya.. 19..
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः। उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम्॥ २०॥
तम् उक्त-वाक्यम् विक्रान्तम् राज-पुत्रम् विभीषणः। उवाच शोक-संतप्तः भ्रातुः हितम् अनन्तरम्॥ २०॥
tam ukta-vākyam vikrāntam rāja-putram vibhīṣaṇaḥ. uvāca śoka-saṃtaptaḥ bhrātuḥ hitam anantaram.. 20..
योऽयं विमर्देष्वविभग्नपूर्वः सुरैः समस्तैरपि वासवेन। भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः॥ २१॥
यः अयम् विमर्देषु अविभग्न-पूर्वः सुरैः समस्तैः अपि वासवेन। भवन्तम् आसाद्य रणे विभग्नः वेलाम् इव आसाद्य यथा समुद्रः॥ २१॥
yaḥ ayam vimardeṣu avibhagna-pūrvaḥ suraiḥ samastaiḥ api vāsavena. bhavantam āsādya raṇe vibhagnaḥ velām iva āsādya yathā samudraḥ.. 21..
अनेन दत्तानि वनीपकेषुभुक्ताश्च भोगा निभृताश्च भृत्याः। धनानि मित्रेषु समर्पितानिवैराण्यमित्रेषु च यापितानि॥ २२॥
अनेन दत्तानि वनीपक-इषु-भुक्ताः च भोगाः निभृताः च भृत्याः। धनानि मित्रेषु समर्पितानि वैराणि अमित्रेषु च यापितानि॥ २२॥
anena dattāni vanīpaka-iṣu-bhuktāḥ ca bhogāḥ nibhṛtāḥ ca bhṛtyāḥ. dhanāni mitreṣu samarpitāni vairāṇi amitreṣu ca yāpitāni.. 22..
एषोऽहिताग्निश्च महातपाश्चवेदान्तगः कर्मसु चाग्र्यशूरः। एतस्य यत् प्रेतगतस्य कृत्यंतत् कर्तुमिच्छामि तव प्रसादात्॥ २३॥
एषः अहित-अग्निः च महा-तपाः च वेद-अन्तगः कर्मसु च अग्र्य-शूरः। एतस्य यत् प्रेत-गतस्य कृत्यम् तत् कर्तुम् इच्छामि तव प्रसादात्॥ २३॥
eṣaḥ ahita-agniḥ ca mahā-tapāḥ ca veda-antagaḥ karmasu ca agrya-śūraḥ. etasya yat preta-gatasya kṛtyam tat kartum icchāmi tava prasādāt.. 23..
स तस्य वाक्यैः करुणैर्महात्मासम्बोधितः साधु विभीषणेन। आज्ञापयामास नरेन्द्रसूनुःस्वर्गीयमाधानमदीनसत्त्वः॥ २४॥
स तस्य वाक्यैः करुणैः महात्मा अ सम्बोधितः साधु विभीषणेन। आज्ञापयामास नरेन्द्र-सूनुः स्वर्गीयम् आधानम् अदीन-सत्त्वः॥ २४॥
sa tasya vākyaiḥ karuṇaiḥ mahātmā a sambodhitaḥ sādhu vibhīṣaṇena. ājñāpayāmāsa narendra-sūnuḥ svargīyam ādhānam adīna-sattvaḥ.. 24..
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्। क्रियतामस्य संस्कारो ममाप्येष यथा तव॥ २५॥
मरण-अन्तानि वैराणि निर्वृत्तम् नः प्रयोजनम्। क्रियताम् अस्य संस्कारः मम अपि एष यथा तव॥ २५॥
maraṇa-antāni vairāṇi nirvṛttam naḥ prayojanam. kriyatām asya saṃskāraḥ mama api eṣa yathā tava.. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In