This overlay will guide you through the buttons:

| |
|
स बभूव कृशो राजा मैथिलीकाममोहितः । असन्मानाच्च सुहृदां पापं पापेन कर्मणा ॥ १ ॥
स बभूव कृशः राजा मैथिली-काम-मोहितः । असत्-मानात् च सुहृदाम् पापम् पापेन कर्मणा ॥ १ ॥
sa babhūva kṛśaḥ rājā maithilī-kāma-mohitaḥ . asat-mānāt ca suhṛdām pāpam pāpena karmaṇā .. 1 ..
अतीतसमये काले तस्मिन् वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥ २ ॥
अतीत-समये काले तस्मिन् वै युधि रावणः । अमात्यैः च सुहृद्भिः च प्राप्त-कालम् अमन्यत ॥ २ ॥
atīta-samaye kāle tasmin vai yudhi rāvaṇaḥ . amātyaiḥ ca suhṛdbhiḥ ca prāpta-kālam amanyata .. 2 ..
स हेमजालविततं मणिविद्रुमभूषितम् । उपगम्य विनीताश्वमारुरोह महारथम् ॥ ३ ॥
स हेम-जाल-विततम् मणि-विद्रुम-भूषितम् । उपगम्य विनीत-अश्वम् आरुरोह महा-रथम् ॥ ३ ॥
sa hema-jāla-vitatam maṇi-vidruma-bhūṣitam . upagamya vinīta-aśvam āruroha mahā-ratham .. 3 ..
तमास्थाय रथश्रेष्ठं महामेघसमस्वनम् । प्रययौ रक्षसां श्रेष्ठो दशग्रीव सभां प्रति ॥ ४ ॥
तम् आस्थाय रथ-श्रेष्ठम् महा-मेघ-सम-स्वनम् । प्रययौ रक्षसाम् श्रेष्ठः दशग्रीव सभाम् प्रति ॥ ४ ॥
tam āsthāya ratha-śreṣṭham mahā-megha-sama-svanam . prayayau rakṣasām śreṣṭhaḥ daśagrīva sabhām prati .. 4 ..
असिचर्मधरा योधा सर्वायुधधरास्ततः । राक्षसा राक्षसेन्द्रस्य पुरस्तात् सम्प्रतस्थिरे ॥ ५ ॥
असि-चर्म-धराः सर्व-आयुध-धराः ततस् । राक्षसाः राक्षस-इन्द्रस्य पुरस्तात् सम्प्रतस्थिरे ॥ ५ ॥
asi-carma-dharāḥ sarva-āyudha-dharāḥ tatas . rākṣasāḥ rākṣasa-indrasya purastāt sampratasthire .. 5 ..
नानाविकृतवेषाश्च नानाभूषणभूषिताः । पार्श्वत पृष्ठतश्चैनं परिवार्य ययुस्तत: ॥ ६ ॥
नाना विकृत-वेषाः च नाना भूषण-भूषिताः । पृष्ठतस् च एनम् परिवार्य ययुः ततस् ॥ ६ ॥
nānā vikṛta-veṣāḥ ca nānā bhūṣaṇa-bhūṣitāḥ . pṛṣṭhatas ca enam parivārya yayuḥ tatas .. 6 ..
रथैश्चातिरथा शीघ्रं मत्तैश्च वरवारणैः । अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ७ ॥
रथैः च अतिरथा शीघ्रम् मत्तैः च वर-वारणैः । अनूत्पेतुः दशग्रीवम् आक्रीडद्भिः च वाजिभिः ॥ ७ ॥
rathaiḥ ca atirathā śīghram mattaiḥ ca vara-vāraṇaiḥ . anūtpetuḥ daśagrīvam ākrīḍadbhiḥ ca vājibhiḥ .. 7 ..
गदापरिघहस्ताश्च शक्तितोमरपाणयः । परश्वथधराश्चान्ये तथाऽन्ये शूलपाणयः । ततस्तूर्यसहस्राणां सञ्जज्ञे निस्स्वनो महान् ॥ ८ ॥
गदा-परिघ-हस्ताः च शक्ति-तोमर-पाणयः । परश्वथ-धराः च अन्ये तथा अन्ये शूल-पाणयः । ततस् तूर्य-सहस्राणाम् सञ्जज्ञे निस्स्वनः महान् ॥ ८ ॥
gadā-parigha-hastāḥ ca śakti-tomara-pāṇayaḥ . paraśvatha-dharāḥ ca anye tathā anye śūla-pāṇayaḥ . tatas tūrya-sahasrāṇām sañjajñe nissvanaḥ mahān .. 8 ..
तुमुलश्शङ्खशब्दश्च सभां गच्छति रावणे । स नेमिघोषेण महान् सहसाऽभिनिनादयन् ॥ 9 ॥
तुमुलः शङ्ख-शब्दः च सभाम् गच्छति रावणे । स नेमि-घोषेण महान् सहसा अभिनिनादयन् ॥ ९ ॥
tumulaḥ śaṅkha-śabdaḥ ca sabhām gacchati rāvaṇe . sa nemi-ghoṣeṇa mahān sahasā abhininādayan .. 9 ..
राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः । विमलं चातपत्र प्रगृहीतमशोभत ॥ 10 ॥
राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महा-रथः । विमलम् च आतपत्र प्रगृहीतम् अशोभत ॥ १० ॥
rājamārgam śriyā juṣṭam pratipede mahā-rathaḥ . vimalam ca ātapatra pragṛhītam aśobhata .. 10 ..
पाण्डुरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा । हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ॥ 11 ॥
पाण्डुरम् राक्षस-इन्द्रस्य पूर्णः ताराधिपः यथा । हेम-मञ्जरि-गर्भे च शुद्ध-स्फटिक-विग्रहे ॥ ११ ॥
pāṇḍuram rākṣasa-indrasya pūrṇaḥ tārādhipaḥ yathā . hema-mañjari-garbhe ca śuddha-sphaṭika-vigrahe .. 11 ..
चामरव्यजने तस्य रेजतु सव्यदक्षिणे । ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः ॥ 12 ॥
चामर-व्यजने तस्य रेजतु सव्य-दक्षिणे । ते कृताञ्जलयः सर्वे रथ-स्थम् पृथिवी-स्थिताः ॥ १२ ॥
cāmara-vyajane tasya rejatu savya-dakṣiṇe . te kṛtāñjalayaḥ sarve ratha-stham pṛthivī-sthitāḥ .. 12 ..
राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे । राक्षसैः स्त्सूयमान सञ्जयाशीर्भिररिन्दमः ॥ 13 ॥
राक्षसाः राक्षस-श्रेष्ठम् शिरोभिः तम् ववन्दिरे । राक्षसैः सञ्जय आशीर्भिः अरिन्दमः ॥ १३ ॥
rākṣasāḥ rākṣasa-śreṣṭham śirobhiḥ tam vavandire . rākṣasaiḥ sañjaya āśīrbhiḥ arindamaḥ .. 13 ..
आससाद महातेजा सभां विरचितां तदा । सुवर्णरजतास्तीर्णां विशुद्धस्फटिकान्तराम् ॥ 14 ॥
आससाद महा-तेजाः सभाम् विरचिताम् तदा । सुवर्ण-रजत-आस्तीर्णाम् विशुद्ध-स्फटिक-अन्तराम् ॥ १४ ॥
āsasāda mahā-tejāḥ sabhām viracitām tadā . suvarṇa-rajata-āstīrṇām viśuddha-sphaṭika-antarām .. 14 ..
विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् । तां पिशाचशतै: षङ्भिरभिगुप्तां सदाप्रभाम् ॥ 15 ॥
विराजमानः वपुषा रुक्म-पट्ट-उत्तरच्छदाम् । ताम् पिशाच-शतैः षङ्भिः अभिगुप्ताम् सदाप्रभाम् ॥ १५ ॥
virājamānaḥ vapuṣā rukma-paṭṭa-uttaracchadām . tām piśāca-śataiḥ ṣaṅbhiḥ abhiguptām sadāprabhām .. 15 ..
प्रविवेश महातेजा सुकृतां विश्वकर्मणा । तस्यां तु वैडूर्यमयं प्रियकाजिनसम्वृतम् ॥ 16 ॥
प्रविवेश महा-तेजाः सुकृताम् विश्वकर्मणा । तस्याम् तु वैडूर्य-मयम् प्रियक-अजिन-सम्वृतम् ॥ १६ ॥
praviveśa mahā-tejāḥ sukṛtām viśvakarmaṇā . tasyām tu vaiḍūrya-mayam priyaka-ajina-samvṛtam .. 16 ..
महत्सोपाश्रयं भेजे रावणः परमासनम् । तत: शशासेश्वरवद्दूतान्लघुपराक्रमान् ॥ 17 ॥
महत् सोपाश्रयम् भेजे रावणः परम-आसनम् । ततस् शशास ईश्वर-वत् दूतान् लघु-पराक्रमान् ॥ १७ ॥
mahat sopāśrayam bheje rāvaṇaḥ parama-āsanam . tatas śaśāsa īśvara-vat dūtān laghu-parākramān .. 17 ..
समानयत मे क्षिप्रमिहैतान् राक्षसानिति । कृत्यमस्ति महज्जाने कर्तव्यमिति शत्रुभिः ॥ 18 ॥
समानयत मे क्षिप्रम् इह एतान् राक्षसान् इति । कृत्यम् अस्ति महत् जाने कर्तव्यम् इति शत्रुभिः ॥ १८ ॥
samānayata me kṣipram iha etān rākṣasān iti . kṛtyam asti mahat jāne kartavyam iti śatrubhiḥ .. 18 ..
राक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः । अनुगेहमवस्थाय विहारशयनेषु च । उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ 19 ॥
राक्षसाः तद्-वचः श्रुत्वा लङ्कायाम् परिचक्रमुः । अनुगेहम् अवस्थाय विहार-शयनेषु च । उद्यानेषु च रक्षांसि चोदयन्तः हि अभीत-वत् ॥ १९ ॥
rākṣasāḥ tad-vacaḥ śrutvā laṅkāyām paricakramuḥ . anugeham avasthāya vihāra-śayaneṣu ca . udyāneṣu ca rakṣāṃsi codayantaḥ hi abhīta-vat .. 19 ..
ते रथान्तचरा एके दृप्तानेके दृढान हयान् । नागानेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ 20 ॥
ते रथ-अन्त-चराः एके दृप्तान् एके हयान् । नागान् एके अधिरुरुहुः जग्मुः च एके पदातयः ॥ २० ॥
te ratha-anta-carāḥ eke dṛptān eke hayān . nāgān eke adhiruruhuḥ jagmuḥ ca eke padātayaḥ .. 20 ..
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः । सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ 21 ॥
सा पुरी परमा आकीर्णा रथ-कुञ्जर-वाजिभिः । सम्पतद्भिः विरुरुचे गरुत्मद्भिः इव अम्बरम् ॥ २१ ॥
sā purī paramā ākīrṇā ratha-kuñjara-vājibhiḥ . sampatadbhiḥ viruruce garutmadbhiḥ iva ambaram .. 21 ..
ते वाहनाव्यवस्थाप्य यानानि विविधानि च । सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥ 22 ॥
ते यानानि विविधानि च । सभाम् पद्भिः प्रविविशुः सिंहाः गिरि-गुहाम् इव ॥ २२ ॥
te yānāni vividhāni ca . sabhām padbhiḥ praviviśuḥ siṃhāḥ giri-guhām iva .. 22 ..
राज्ञःपादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ 23 ॥
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेषु अन्ये बृसीषु अन्ये भूमौ केचिद् उपाविशन् ॥ २३ ॥
rājñaḥ pādau gṛhītvā tu rājñā te pratipūjitāḥ . pīṭheṣu anye bṛsīṣu anye bhūmau kecid upāviśan .. 23 ..
ते समेत्य सभायां वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ 24 ॥
ते समेत्य सभायाम् वै राक्षसाः राज-शासनात् । यथार्हम् उपतस्थुः ते रावणम् राक्षस-अधिपम् ॥ २४ ॥
te sametya sabhāyām vai rākṣasāḥ rāja-śāsanāt . yathārham upatasthuḥ te rāvaṇam rākṣasa-adhipam .. 24 ..
मन्त्रिणश्च यथामुख्या निश्चयार्थेषु पण्डिताः । अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥ 25 ॥
मन्त्रिणः च यथामुख्याः निश्चय-अर्थेषु पण्डिताः । अमात्याः च गुण-उपेताः सर्व-ज्ञाः बुद्धि-दर्शनाः ॥ २५ ॥
mantriṇaḥ ca yathāmukhyāḥ niścaya-artheṣu paṇḍitāḥ . amātyāḥ ca guṇa-upetāḥ sarva-jñāḥ buddhi-darśanāḥ .. 25 ..
समीयुस्तत्र शतश शूराश्च बहवस्तदा । सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै ॥ 26 ॥
समीयुः तत्र शतशस् शूराः च बहवः तदा । सभायाम् हेम-वर्णायाम् सर्व-अर्थस्य सुखाय वै ॥ २६ ॥
samīyuḥ tatra śataśas śūrāḥ ca bahavaḥ tadā . sabhāyām hema-varṇāyām sarva-arthasya sukhāya vai .. 26 ..
ततो महात्मा विपुलं सुयुग्यं रथं वरं हेमविचित्रिताङ्गम् । शुभं समास्थाय ययौ यशस्वी विभीषण संसदमग्रजस्य ॥ 27 ॥
ततस् महात्मा विपुलम् सु युग्यम् रथम् वरम् हेम-विचित्रित-अङ्गम् । शुभम् समास्थाय ययौ यशस्वी विभीषण संसदम् अग्रजस्य ॥ २७ ॥
tatas mahātmā vipulam su yugyam ratham varam hema-vicitrita-aṅgam . śubham samāsthāya yayau yaśasvī vibhīṣaṇa saṃsadam agrajasya .. 27 ..
स पूर्वजायावरज शशंस नामाथ पश्चाश्चरणौ ववन्दे । शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि ॥ 28 ॥
स पूर्व-जाया-अवरज शशंस नाम अथ पश्चास् चरणौ ववन्दे । शुकः प्रहस्तः च तथा एव तेभ्यः ददौ यथार्हम् पृथक् आसनानि ॥ २८ ॥
sa pūrva-jāyā-avaraja śaśaṃsa nāma atha paścās caraṇau vavande . śukaḥ prahastaḥ ca tathā eva tebhyaḥ dadau yathārham pṛthak āsanāni .. 28 ..
सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम् । तेषां परार्घ्यागुरुचन्दनानां स्रजाश्च च गन्धाः प्रववु स्समन्तात् ॥ 29 ॥
सुवर्ण-नाना मणि-भूषणानाम् सु वाससाम् संसदि राक्षसानाम् । तेषाम् पर-अर्घ्य-अगुरु-चन्दनानाम् स्रजाः च च गन्धाः प्रववुः स्समन्तात् ॥ २९ ॥
suvarṇa-nānā maṇi-bhūṣaṇānām su vāsasām saṃsadi rākṣasānām . teṣām para-arghya-aguru-candanānām srajāḥ ca ca gandhāḥ pravavuḥ ssamantāt .. 29 ..
न चुक्रुशुर्नानृतमाह कश्चित् सभापदो नापि जजल्पुरुच्चैः । संसिद्धार्था सर्व एवोग्रवीर्या भर्तु सर्वे ददृशुश्चाननंते ॥ 30 ॥
न चुक्रुशुः ना अनृतम् आह कश्चिद् सभा-पदः ना अपि जजल्पुः उच्चैस् । संसिद्ध-अर्था सर्वे एव उग्र-वीर्या सर्वे ददृशुः च अननंते ॥ ३० ॥
na cukruśuḥ nā anṛtam āha kaścid sabhā-padaḥ nā api jajalpuḥ uccais . saṃsiddha-arthā sarve eva ugra-vīryā sarve dadṛśuḥ ca ananaṃte .. 30 ..
स रावण शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी । तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तेः ॥ 31 ॥
स रावण शस्त्रभृताम् मनस्विनाम् महा-बलानाम् समितौ मनस्वी । तस्याम् सभायाम् प्रभया चकाशे मध्ये वसूनाम् इव वज्रहस्तेः ॥ ३१ ॥
sa rāvaṇa śastrabhṛtām manasvinām mahā-balānām samitau manasvī . tasyām sabhāyām prabhayā cakāśe madhye vasūnām iva vajrahasteḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In