This overlay will guide you through the buttons:

| |
|
रावणं निहतं श्रुत्वा राघवेण महात्मना। अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः॥ १॥
रावणम् निहतम् श्रुत्वा राघवेण महात्मना। अन्तःपुरात् विनिष्पेतुः राक्षस्यः शोक-कर्शिताः॥ १॥
rāvaṇam nihatam śrutvā rāghaveṇa mahātmanā. antaḥpurāt viniṣpetuḥ rākṣasyaḥ śoka-karśitāḥ.. 1..
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु। विमुक्तकेश्यः शोकार्ता गावो वत्सहता इव॥ २॥
वार्यमाणाः सु बहुशस् वेष्टन्त्यः क्षिति-पांसुषु। विमुक्त-केश्यः शोक-आर्ताः गावः वत्स-हताः इव॥ २॥
vāryamāṇāḥ su bahuśas veṣṭantyaḥ kṣiti-pāṃsuṣu. vimukta-keśyaḥ śoka-ārtāḥ gāvaḥ vatsa-hatāḥ iva.. 2..
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः। प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्॥ ३॥
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः। प्रविश्य आयोधनम् घोरम् विचिन्वन्त्यः हतम् पतिम्॥ ३॥
uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ. praviśya āyodhanam ghoram vicinvantyaḥ hatam patim.. 3..
आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः। परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्॥ ४॥
आर्य-पुत्र इति वादिन्यः हा नाथ इति च सर्वशस्। परिपेतुः कबन्ध-अङ्काम् महीम् शोणित-कर्दमाम्॥ ४॥
ārya-putra iti vādinyaḥ hā nātha iti ca sarvaśas. paripetuḥ kabandha-aṅkām mahīm śoṇita-kardamām.. 4..
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः। करिण्य इव नर्दन्त्यः करेण्वो हतयूथपाः॥ ५॥
ताः बाष्प-परिपूर्ण-अक्ष्यः भर्तृ-शोक-पराजिताः। करिण्यः इव नर्दन्त्यः करेण्वः हत-यूथपाः॥ ५॥
tāḥ bāṣpa-paripūrṇa-akṣyaḥ bhartṛ-śoka-parājitāḥ. kariṇyaḥ iva nardantyaḥ kareṇvaḥ hata-yūthapāḥ.. 5..
ददृशुस्ता महाकायं महावीर्यं महाद्युतिम्। रावणं निहतं भूमौ नीलाञ्जनचयोपमम्॥ ६॥
ददृशुः ताः महा-कायम् महा-वीर्यम् महा-द्युतिम्। रावणम् निहतम् भूमौ नीलाञ्जन-चय-उपमम्॥ ६॥
dadṛśuḥ tāḥ mahā-kāyam mahā-vīryam mahā-dyutim. rāvaṇam nihatam bhūmau nīlāñjana-caya-upamam.. 6..
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु। निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव॥ ७॥
ताः पतिम् सहसा दृष्ट्वा शयानम् रण-पांसुषु। निपेतुः तस्य गात्रेषु छिन्नाः वन-लताः इव॥ ७॥
tāḥ patim sahasā dṛṣṭvā śayānam raṇa-pāṃsuṣu. nipetuḥ tasya gātreṣu chinnāḥ vana-latāḥ iva.. 7..
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह। चरणौ काचिदालम्ब्य काचित् कण्ठेऽवलम्ब्य च॥ ८॥
बहु-मानात् परिष्वज्य काचिद् एनम् रुरोद ह। चरणौ काचिद् आलम्ब्य काचिद् कण्ठे अवलम्ब्य च॥ ८॥
bahu-mānāt pariṣvajya kācid enam ruroda ha. caraṇau kācid ālambya kācid kaṇṭhe avalambya ca.. 8..
उत्क्षिप्य च भुजौ काचिद् भूमौ सुपरिवर्तते। हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत्॥ ९॥
उत्क्षिप्य च भुजौ काचिद् भूमौ सुपरिवर्तते। हतस्य वदनम् दृष्ट्वा काचिद् मोहम् उपागमत्॥ ९॥
utkṣipya ca bhujau kācid bhūmau suparivartate. hatasya vadanam dṛṣṭvā kācid moham upāgamat.. 9..
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती। स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्॥ १०॥
काचिद् अङ्के शिरः कृत्वा रुरोद मुखम् ईक्षती। स्नापयन्ती मुखम् बाष्पैः तुषारैः इव पङ्कजम्॥ १०॥
kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī. snāpayantī mukham bāṣpaiḥ tuṣāraiḥ iva paṅkajam.. 10..
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि। चुक्रुशुर्बहुधा शोकाद् भूयस्ताः पर्यदेवयन्॥ ११॥
एवम् आर्ताः पतिम् दृष्ट्वा रावणम् निहतम् भुवि। चुक्रुशुः बहुधा शोकात् भूयस् ताः पर्यदेवयन्॥ ११॥
evam ārtāḥ patim dṛṣṭvā rāvaṇam nihatam bhuvi. cukruśuḥ bahudhā śokāt bhūyas tāḥ paryadevayan.. 11..
येन वित्रासितः शक्रो येन वित्रासितो यमः। येन वैश्रवणो राजा पुष्पकेण वियोजितः॥ १२॥
येन वित्रासितः शक्रः येन वित्रासितः यमः। येन वैश्रवणः राजा पुष्पकेण वियोजितः॥ १२॥
yena vitrāsitaḥ śakraḥ yena vitrāsitaḥ yamaḥ. yena vaiśravaṇaḥ rājā puṣpakeṇa viyojitaḥ.. 12..
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्। भयं येन रणे दत्तं सोऽयं शेते रणे हतः॥ १३॥
गन्धर्वाणाम् ऋषीणाम् च सुराणाम् च महात्मनाम्। भयम् येन रणे दत्तम् सः अयम् शेते रणे हतः॥ १३॥
gandharvāṇām ṛṣīṇām ca surāṇām ca mahātmanām. bhayam yena raṇe dattam saḥ ayam śete raṇe hataḥ.. 13..
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा। भयं यो न विजानाति तस्येदं मानुषाद् भयम्॥ १४॥
असुरेभ्यः सुरेभ्यः वा पन्नगेभ्यः अपि वा तथा। भयम् यः न विजानाति तस्य इदम् मानुषात् भयम्॥ १४॥
asurebhyaḥ surebhyaḥ vā pannagebhyaḥ api vā tathā. bhayam yaḥ na vijānāti tasya idam mānuṣāt bhayam.. 14..
अवध्यो देवतानां यस्तथा दानवरक्षसाम्। हतः सोऽयं रणे शेते मानुषेण पदातिना॥ १५॥
अवध्यः देवतानाम् यः तथा दानव-रक्षसाम्। हतः सः अयम् रणे शेते मानुषेण पदातिना॥ १५॥
avadhyaḥ devatānām yaḥ tathā dānava-rakṣasām. hataḥ saḥ ayam raṇe śete mānuṣeṇa padātinā.. 15..
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा। सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः॥ १६॥
यः न शक्यः सुरैः हन्तुम् न यक्षैः न असुरैः तथा। सः अयम् कश्चिद् इव असत्त्वः मृत्युम् मर्त्येन लम्भितः॥ १६॥
yaḥ na śakyaḥ suraiḥ hantum na yakṣaiḥ na asuraiḥ tathā. saḥ ayam kaścid iva asattvaḥ mṛtyum martyena lambhitaḥ.. 16..
एवं वदन्त्यो रुरुदुस्तस्य ता दुःखिताः स्त्रियः। भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः॥ १७॥
एवम् वदन्त्यः रुरुदुः तस्य ताः दुःखिताः स्त्रियः। भूयस् एव च दुःख-आर्ताः विलेपुः च पुनर् पुनर्॥ १७॥
evam vadantyaḥ ruruduḥ tasya tāḥ duḥkhitāḥ striyaḥ. bhūyas eva ca duḥkha-ārtāḥ vilepuḥ ca punar punar.. 17..
अशृण्वता तु सुहृदां सततं हितवादिनाम्। मरणायाहृता सीता राक्षसाश्च निपातिताः। एताः सममिदानीं ते वयमात्मा च पातितः॥ १८॥
अशृण्वता तु सुहृदाम् सततम् हित-वादिनाम्। मरणाय आहृता सीता राक्षसाः च निपातिताः। एताः समम् इदानीम् ते वयम् आत्मा च पातितः॥ १८॥
aśṛṇvatā tu suhṛdām satatam hita-vādinām. maraṇāya āhṛtā sītā rākṣasāḥ ca nipātitāḥ. etāḥ samam idānīm te vayam ātmā ca pātitaḥ.. 18..
ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः। दृष्टं परुषितो मोहात् त्वयाऽऽत्मवधकांक्षिणा॥ १९॥
ब्रुवाणः अपि हितम् वाक्यम् इष्टः भ्राता विभीषणः। दृष्टम् परुषितः मोहात् त्वया आत्म-वध-कांक्षिणा॥ १९॥
bruvāṇaḥ api hitam vākyam iṣṭaḥ bhrātā vibhīṣaṇaḥ. dṛṣṭam paruṣitaḥ mohāt tvayā ātma-vadha-kāṃkṣiṇā.. 19..
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली। न नः स्याद् व्यसनं घोरमिदं मूलहरं महत्॥ २०॥
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली। न नः स्यात् व्यसनम् घोरम् इदम् मूल-हरम् महत्॥ २०॥
yadi niryātitā te syāt sītā rāmāya maithilī. na naḥ syāt vyasanam ghoram idam mūla-haram mahat.. 20..
वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत्। वयं चाविधवाः सर्वाः सकामा न च शत्रवः॥ २१॥
वृत्त-कामः भवेत् भ्राता रामः मित्र-कुलम् भवेत्। वयम् च अविधवाः सर्वाः स कामाः न च शत्रवः॥ २१॥
vṛtta-kāmaḥ bhavet bhrātā rāmaḥ mitra-kulam bhavet. vayam ca avidhavāḥ sarvāḥ sa kāmāḥ na ca śatravaḥ.. 21..
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्। राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम्॥ २२॥
त्वया पुनर् नृशंसेन सीताम् संरुन्धता बलात्। राक्षसाः वयम् आत्मा च त्रयम् तुल्यम् निपातितम्॥ २२॥
tvayā punar nṛśaṃsena sītām saṃrundhatā balāt. rākṣasāḥ vayam ātmā ca trayam tulyam nipātitam.. 22..
न कामकारः कामं वा तव राक्षसपुंगव। दैवं चेष्टयते सर्वं हतं दैवेन हन्यते॥ २३॥
न काम-कारः कामम् वा तव राक्षस-पुंगव। दैवम् चेष्टयते सर्वम् हतम् दैवेन हन्यते॥ २३॥
na kāma-kāraḥ kāmam vā tava rākṣasa-puṃgava. daivam ceṣṭayate sarvam hatam daivena hanyate.. 23..
वानराणां विनाशोऽयं राक्षसानां च ते रणे। तव चैव महाबाहो दैवयोगादुपागतः॥ २४॥
वानराणाम् विनाशः अयम् राक्षसानाम् च ते रणे। तव च एव महा-बाहो दैव-योगात् उपागतः॥ २४॥
vānarāṇām vināśaḥ ayam rākṣasānām ca te raṇe. tava ca eva mahā-bāho daiva-yogāt upāgataḥ.. 24..
नैवार्थेन च कामेन विक्रमेण न चाज्ञया। शक्या दैवगतिर्लोके निवर्तयितुमुद्यता॥ २५॥
न एव अर्थेन च कामेन विक्रमेण न च आज्ञया। शक्या दैव-गतिः लोके निवर्तयितुम् उद्यता॥ २५॥
na eva arthena ca kāmena vikrameṇa na ca ājñayā. śakyā daiva-gatiḥ loke nivartayitum udyatā.. 25..
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः। कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः॥ २६॥
विलेपुः एवम् दीनाः ताः राक्षस-अधिप-योषितः। कुरर्यः इव दुःख-आर्ताः बाष्प-पर्याकुल-ईक्षणाः॥ २६॥
vilepuḥ evam dīnāḥ tāḥ rākṣasa-adhipa-yoṣitaḥ. kuraryaḥ iva duḥkha-ārtāḥ bāṣpa-paryākula-īkṣaṇāḥ.. 26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In