This overlay will guide you through the buttons:

| |
|
तासां विलपमानानां तदा राक्षसयोषिताम्। ज्येष्ठपत्नी प्रिया दीना भर्तारं समुदैक्षत॥ १॥
तासाम् विलपमानानाम् तदा राक्षस-योषिताम्। ज्येष्ठ-पत्नी प्रिया दीना भर्तारम् समुदैक्षत॥ १॥
tāsām vilapamānānām tadā rākṣasa-yoṣitām. jyeṣṭha-patnī priyā dīnā bhartāram samudaikṣata.. 1..
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा। पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत्॥ २॥
दशग्रीवम् हतम् दृष्ट्वा रामेण अचिन्त्य-कर्मणा। पतिम् मन्दोदरी तत्र कृपणा पर्यदेवयत्॥ २॥
daśagrīvam hatam dṛṣṭvā rāmeṇa acintya-karmaṇā. patim mandodarī tatra kṛpaṇā paryadevayat.. 2..
ननु नाम महाबाहो तव वैश्रवणानुज। क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः॥ ३॥
ननु नाम महा-बाहो तव वैश्रवणानुज। क्रुद्धस्य प्रमुखे स्थातुम् त्रस्यति अपि पुरंदरः॥ ३॥
nanu nāma mahā-bāho tava vaiśravaṇānuja. kruddhasya pramukhe sthātum trasyati api puraṃdaraḥ.. 3..
ऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः। ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः॥ ४॥
ऋषयः च महान्तः अपि गन्धर्वाः च यशस्विनः। ननु नाम तव उद्वेगात् चारणाः च दिशः गताः॥ ४॥
ṛṣayaḥ ca mahāntaḥ api gandharvāḥ ca yaśasvinaḥ. nanu nāma tava udvegāt cāraṇāḥ ca diśaḥ gatāḥ.. 4..
स त्वं मानुषमात्रेण रामेण युधि निर्जितः। न व्यपत्रपसे राजन् किमिदं राक्षसेश्वर॥ ५॥
स त्वम् मानुष-मात्रेण रामेण युधि निर्जितः। न व्यपत्रपसे राजन् किम् इदम् राक्षसेश्वर॥ ५॥
sa tvam mānuṣa-mātreṇa rāmeṇa yudhi nirjitaḥ. na vyapatrapase rājan kim idam rākṣaseśvara.. 5..
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्। अविषह्यं जघान त्वां मानुषो वनगोचरः॥ ६॥
कथम् त्रैलोक्यम् आक्रम्य श्रिया वीर्येण च अन्वितम्। अविषह्यम् जघान त्वाम् मानुषः वन-गोचरः॥ ६॥
katham trailokyam ākramya śriyā vīryeṇa ca anvitam. aviṣahyam jaghāna tvām mānuṣaḥ vana-gocaraḥ.. 6..
मानुषाणामविषये चरतः कामरूपिणः। विनाशस्तव रामेण संयुगे नोपपद्यते॥ ७॥
मानुषाणाम् अविषये चरतः कामरूपिणः। विनाशः तव रामेण संयुगे न उपपद्यते॥ ७॥
mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ. vināśaḥ tava rāmeṇa saṃyuge na upapadyate.. 7..
न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे। सर्वतः समुपेतस्य तव तेनाभिमर्षणम्॥ ८॥
न च एतत् कर्म रामस्य श्रद्दधामि चमू-मुखे। सर्वतस् समुपेतस्य तव तेन अभिमर्षणम्॥ ८॥
na ca etat karma rāmasya śraddadhāmi camū-mukhe. sarvatas samupetasya tava tena abhimarṣaṇam.. 8..
अथवा रामरूपेण कृतान्तः स्वयमागतः। मायां तव विनाशाय विधायाप्रतितर्किताम्॥ ९॥
अथवा राम-रूपेण कृतान्तः स्वयम् आगतः। मायाम् तव विनाशाय विधाय अप्रतितर्किताम्॥ ९॥
athavā rāma-rūpeṇa kṛtāntaḥ svayam āgataḥ. māyām tava vināśāya vidhāya apratitarkitām.. 9..
अथवा वासवेन त्वं धर्षितोऽसि महाबल। वासवस्य तु का शक्तिस्त्वां द्रष्टुमपि संयुगे॥ १०॥
अथवा वासवेन त्वम् धर्षितः असि महा-बल। वासवस्य तु का शक्तिः त्वाम् द्रष्टुम् अपि संयुगे॥ १०॥
athavā vāsavena tvam dharṣitaḥ asi mahā-bala. vāsavasya tu kā śaktiḥ tvām draṣṭum api saṃyuge.. 10..
महाबलं महावीर्यं देवशत्रुं महौजसम्। व्यक्तमेष महायोगी परमात्मा सनातनः॥ ११॥
महा-बलम् महा-वीर्यम् देवशत्रुम् महा-ओजसम्। व्यक्तम् एष महा-योगी परम-आत्मा सनातनः॥ ११॥
mahā-balam mahā-vīryam devaśatrum mahā-ojasam. vyaktam eṣa mahā-yogī parama-ātmā sanātanaḥ.. 11..
अनादिमध्यनिधनो महतः परमो महान्। तमसः परमो धाता शङ्खचक्रगदाधरः॥ १२॥
अन् आदि-मध्य-निधनः महतः परमः महान्। तमसः परमः धाता शङ्ख-चक्र-गदा-धरः॥ १२॥
an ādi-madhya-nidhanaḥ mahataḥ paramaḥ mahān. tamasaḥ paramaḥ dhātā śaṅkha-cakra-gadā-dharaḥ.. 12..
श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः। मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः॥ १३॥
श्रीवत्स-वक्षाः नित्य-श्रीः अजय्यः शाश्वतः ध्रुवः। मानुषम् रूपम् आस्थाय विष्णुः सत्य-पराक्रमः॥ १३॥
śrīvatsa-vakṣāḥ nitya-śrīḥ ajayyaḥ śāśvataḥ dhruvaḥ. mānuṣam rūpam āsthāya viṣṇuḥ satya-parākramaḥ.. 13..
सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः। सर्वलोकेश्वरः श्रीमाँल्लोकानां हितकाम्यया॥ १४॥
सर्वैः परिवृतः देवैः वानर-त्वम् उपागतैः। सर्व-लोक-ईश्वरः श्रीमान् लोकानाम् हित-काम्यया॥ १४॥
sarvaiḥ parivṛtaḥ devaiḥ vānara-tvam upāgataiḥ. sarva-loka-īśvaraḥ śrīmān lokānām hita-kāmyayā.. 14..
स राक्षसपरीवारं देवशत्रुं भयावहम्। इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया॥ १५॥
स राक्षस-परीवारम् देवशत्रुम् भय-आवहम्। इन्द्रियाणि पुरा जित्वा जितम् त्रिभुवनम् त्वया॥ १५॥
sa rākṣasa-parīvāram devaśatrum bhaya-āvaham. indriyāṇi purā jitvā jitam tribhuvanam tvayā.. 15..
स्मरद्भिरिव तद् वैरमिन्द्रियैरेव निर्जितः। यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः॥ १६॥
स्मरद्भिः इव तत् वैरम् इन्द्रियैः एव निर्जितः। यदा एव हि जनस्थाने राक्षसैः बहुभिः वृतः॥ १६॥
smaradbhiḥ iva tat vairam indriyaiḥ eva nirjitaḥ. yadā eva hi janasthāne rākṣasaiḥ bahubhiḥ vṛtaḥ.. 16..
खरस्तु निहतो भ्राता तदा रामो न मानुषः। यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि॥ १७॥
खरः तु निहतः भ्राता तदा रामः न मानुषः। यदा एव नगरीम् लङ्काम् दुष्प्रवेशाम् सुरैः अपि॥ १७॥
kharaḥ tu nihataḥ bhrātā tadā rāmaḥ na mānuṣaḥ. yadā eva nagarīm laṅkām duṣpraveśām suraiḥ api.. 17..
प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम्। क्रियतामविरोधश्च राघवेणेति यन्मया॥ १८॥
प्रविष्टः हनुमान् वीर्यात् तदा एव व्यथिताः वयम्। क्रियताम् अविरोधः च राघवेण इति यत् मया॥ १८॥
praviṣṭaḥ hanumān vīryāt tadā eva vyathitāḥ vayam. kriyatām avirodhaḥ ca rāghaveṇa iti yat mayā.. 18..
उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता। अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव॥ १९॥
उच्यमानः न गृह्णासि तस्य इयम् व्युष्टिः आगता। अकस्मात् च अभिकामः असि सीताम् राक्षस-पुङ्गव॥ १९॥
ucyamānaḥ na gṛhṇāsi tasya iyam vyuṣṭiḥ āgatā. akasmāt ca abhikāmaḥ asi sītām rākṣasa-puṅgava.. 19..
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च। अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते॥ २०॥
ऐश्वर्यस्य विनाशाय देहस्य स्व-जनस्य च। अरुन्धत्याः विशिष्टाम् ताम् रोहिण्याः च अपि दुर्मते॥ २०॥
aiśvaryasya vināśāya dehasya sva-janasya ca. arundhatyāḥ viśiṣṭām tām rohiṇyāḥ ca api durmate.. 20..
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्। वसुधाया हि वसुधां श्रियाः श्रीं भर्तृवत्सलाम्॥ २१॥
सीताम् धर्षयता मा अन्याम् त्वया हि अ सदृशम् कृतम्। वसुधायाः हि वसुधाम् श्रियाः श्रीम् भर्तृ-वत्सलाम्॥ २१॥
sītām dharṣayatā mā anyām tvayā hi a sadṛśam kṛtam. vasudhāyāḥ hi vasudhām śriyāḥ śrīm bhartṛ-vatsalām.. 21..
सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम्। आनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषणम्॥ २२॥
सीताम् सर्व-अनवद्य-अङ्गीम् अरण्ये विजने शुभाम्। आनयित्वा तु ताम् दीनाम् छद्मना आत्म-स्व-दूषणम्॥ २२॥
sītām sarva-anavadya-aṅgīm araṇye vijane śubhām. ānayitvā tu tām dīnām chadmanā ātma-sva-dūṣaṇam.. 22..
अप्राप्य तं चैव कामं मैथिलीसंगमे कृतम्। पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो॥ २३॥
अ प्राप्य तम् च एव कामम् मैथिली-संगमे कृतम्। पतिव्रतायाः तपसा नूनम् दग्धः असि मे प्रभो॥ २३॥
a prāpya tam ca eva kāmam maithilī-saṃgame kṛtam. pativratāyāḥ tapasā nūnam dagdhaḥ asi me prabho.. 23..
तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम्। देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः॥ २४॥
तदा एव यत् न दग्धः त्वम् धर्षयन् तनु-मध्यमाम्। देवाः बिभ्यति ते सर्वे स इन्द्राः स अग्नि-पुरोगमाः॥ २४॥
tadā eva yat na dagdhaḥ tvam dharṣayan tanu-madhyamām. devāḥ bibhyati te sarve sa indrāḥ sa agni-purogamāḥ.. 24..
अवश्यमेव लभते फलं पापस्य कर्मणः। भर्तः पर्यागते काले कर्ता नास्त्यत्र संशयः॥ २५॥
अवश्यम् एव लभते फलम् पापस्य कर्मणः। भर्तर् पर्यागते काले कर्ता न अस्ति अत्र संशयः॥ २५॥
avaśyam eva labhate phalam pāpasya karmaṇaḥ. bhartar paryāgate kāle kartā na asti atra saṃśayaḥ.. 25..
शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते। विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम्॥ २६॥
शुभ-कृत् शुभम् आप्नोति पाप-कृत् पापम् अश्नुते। विभीषणः सुखम् प्राप्तः त्वम् प्राप्तः पापम् ईदृशम्॥ २६॥
śubha-kṛt śubham āpnoti pāpa-kṛt pāpam aśnute. vibhīṣaṇaḥ sukham prāptaḥ tvam prāptaḥ pāpam īdṛśam.. 26..
सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः। अनङ्गवशमापन्नस्त्वं तु मोहान्न बुद्ध्यसे॥ २७॥
सन्ति अन्याः प्रमदाः तुभ्यम् रूपेण अभ्यधिकाः ततस्। अनङ्ग-वशम् आपन्नः त्वम् तु मोहात् न बुद्ध्यसे॥ २७॥
santi anyāḥ pramadāḥ tubhyam rūpeṇa abhyadhikāḥ tatas. anaṅga-vaśam āpannaḥ tvam tu mohāt na buddhyase.. 27..
न कुलेन न रूपेण न दाक्षिण्येन मैथिली। मयाधिका वा तुल्या वा तत् तु मोहान्न बुद्ध्यसे॥ २८॥
न कुलेन न रूपेण न दाक्षिण्येन मैथिली। मया अधिका वा तुल्या वा तत् तु मोहात् न बुद्ध्यसे॥ २८॥
na kulena na rūpeṇa na dākṣiṇyena maithilī. mayā adhikā vā tulyā vā tat tu mohāt na buddhyase.. 28..
सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः। तव तद्वदयं मृत्युर्मैथिलीकृतलक्षणः॥ २९॥
सर्वदा सर्व-भूतानाम् न अस्ति मृत्युः अलक्षणः। तव तद्वत् अयम् मृत्युः मैथिलीकृत-लक्षणः॥ २९॥
sarvadā sarva-bhūtānām na asti mṛtyuḥ alakṣaṇaḥ. tava tadvat ayam mṛtyuḥ maithilīkṛta-lakṣaṇaḥ.. 29..
सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः। मैथिली सह रामेण विशोका विहरिष्यति॥ ३०॥
सीता-निमित्त-जः मृत्युः त्वया दूरात् उपाहृतः। मैथिली सह रामेण विशोका विहरिष्यति॥ ३०॥
sītā-nimitta-jaḥ mṛtyuḥ tvayā dūrāt upāhṛtaḥ. maithilī saha rāmeṇa viśokā vihariṣyati.. 30..
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे। कैलासे मन्दरे मेरौ तथा चैत्ररथे वने॥ ३१॥
अल्प-पुण्या तु अहम् घोरे पतिता शोक-सागरे। कैलासे मन्दरे मेरौ तथा चैत्ररथे वने॥ ३१॥
alpa-puṇyā tu aham ghore patitā śoka-sāgare. kailāse mandare merau tathā caitrarathe vane.. 31..
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया। विमानेनानुरूपेण या याम्यतुलया श्रिया॥ ३२॥
देव-उद्यानेषु सर्वेषु विहृत्य सहिता त्वया। विमानेन अनुरूपेण या यामि अतुलया श्रिया॥ ३२॥
deva-udyāneṣu sarveṣu vihṛtya sahitā tvayā. vimānena anurūpeṇa yā yāmi atulayā śriyā.. 32..
पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा। भ्रंशिता कामभोगेभ्यः सास्मि वीर वधात् तव॥ ३३॥
पश्यन्ती विविधान् देशान् तान् तान् चित्र-स्रज्-अम्बरा। भ्रंशिता काम-भोगेभ्यः सा अस्मि वीर वधात् तव॥ ३३॥
paśyantī vividhān deśān tān tān citra-sraj-ambarā. bhraṃśitā kāma-bhogebhyaḥ sā asmi vīra vadhāt tava.. 33..
सैवान्येवास्मि संवृत्ता धिग्राज्ञां चञ्चलां श्रियम्। हा राजन् सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम्॥ ३४॥
सा एव अन्या इव अस्मि संवृत्ता धिक् राज्ञाम् चञ्चलाम् श्रियम्। हा राजन् सु कुमारम् ते सुभ्रु सु त्वच्-समुन्नसम्॥ ३४॥
sā eva anyā iva asmi saṃvṛttā dhik rājñām cañcalām śriyam. hā rājan su kumāram te subhru su tvac-samunnasam.. 34..
कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः। किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम्॥ ३५॥
कान्ति-श्री-द्युतिभिः तुल्यम् इन्दु-पद्म-दिवाकरैः। किरीटकूट-उज्ज्वलितम् ताम्र-आस्यम् दीप्त-कुण्डलम्॥ ३५॥
kānti-śrī-dyutibhiḥ tulyam indu-padma-divākaraiḥ. kirīṭakūṭa-ujjvalitam tāmra-āsyam dīpta-kuṇḍalam.. 35..
मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु। विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्॥ ३६॥
मद-व्याकुल-लोल-अक्षम् भूत्वा यत् पान-भूमिषु। विविध-स्रज्-धरम् चारु वल्गु-स्मित-कथम् शुभम्॥ ३६॥
mada-vyākula-lola-akṣam bhūtvā yat pāna-bhūmiṣu. vividha-sraj-dharam cāru valgu-smita-katham śubham.. 36..
तदेवाद्य तवैवं हि वक्त्रं न भ्राजते प्रभो। रामसायकनिर्भिन्नं रक्तं रुधिरविस्रवैः॥ ३७॥
तत् एव अद्य तव एवम् हि वक्त्रम् न भ्राजते प्रभो। राम-सायक-निर्भिन्नम् रक्तम् रुधिर-विस्रवैः॥ ३७॥
tat eva adya tava evam hi vaktram na bhrājate prabho. rāma-sāyaka-nirbhinnam raktam rudhira-visravaiḥ.. 37..
विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः। हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यदायिनी॥ ३८॥
विशीर्ण-मेदः-मस्तिष्कम् रूक्षम् स्यन्दन-रेणुभिः। हा पश्चिमा मे सम्प्राप्ता दशा वैधव्य-दायिनी॥ ३८॥
viśīrṇa-medaḥ-mastiṣkam rūkṣam syandana-reṇubhiḥ. hā paścimā me samprāptā daśā vaidhavya-dāyinī.. 38..
या मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया। पिता दानवराजो मे भर्ता मे राक्षसेश्वरः॥ ३९॥
या मया आसीत् न सम्बुद्धा कदाचिद् अपि मन्दया। पिता दानव-राजः मे भर्ता मे राक्षसेश्वरः॥ ३९॥
yā mayā āsīt na sambuddhā kadācid api mandayā. pitā dānava-rājaḥ me bhartā me rākṣaseśvaraḥ.. 39..
पुत्रो मे शक्रनिर्जेता इत्यहं गर्विता भृशम्। दृप्तारिमथनाः क्रूराः प्रख्यातबलपौरुषाः॥ ४०॥
पुत्रः मे शक्र-निर्जेता इति अहम् गर्विता भृशम्। दृप्त-अरि-मथनाः क्रूराः प्रख्यात-बल-पौरुषाः॥ ४०॥
putraḥ me śakra-nirjetā iti aham garvitā bhṛśam. dṛpta-ari-mathanāḥ krūrāḥ prakhyāta-bala-pauruṣāḥ.. 40..
अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्ध्रुवा। तेषामेवंप्रभावाणां युष्माकं राक्षसर्षभाः॥ ४१॥
अकुतश्चिद् भयाः नाथाः मम इति आसीत् मतिः ध्रुवा। तेषाम् एवंप्रभावाणाम् युष्माकम् राक्षस-ऋषभाः॥ ४१॥
akutaścid bhayāḥ nāthāḥ mama iti āsīt matiḥ dhruvā. teṣām evaṃprabhāvāṇām yuṣmākam rākṣasa-ṛṣabhāḥ.. 41..
कथं भयमसम्बुद्धं मानुषादिदमागतम्। स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत्॥ ४२॥
कथम् भयम् असम्बुद्धम् मानुषात् इदम् आगतम्। स्निग्ध-इन्द्रनील-नीलम् तु प्रांशु-शैल-उपमम् महत्॥ ४२॥
katham bhayam asambuddham mānuṣāt idam āgatam. snigdha-indranīla-nīlam tu prāṃśu-śaila-upamam mahat.. 42..
केयूराङ्गदवैदूर्यमुक्ताहारस्रगुज्ज्वलम्। कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु॥ ४३॥
केयूर-अङ्गद-वैदूर्य-मुक्ता-हार-स्रज्-उज्ज्वलम्। कान्तम् विहारेषु अधिकम् दीप्तम् संग्राम-भूमिषु॥ ४३॥
keyūra-aṅgada-vaidūrya-muktā-hāra-sraj-ujjvalam. kāntam vihāreṣu adhikam dīptam saṃgrāma-bhūmiṣu.. 43..
भात्याभरणभाभिर्यद् विद्युद्भिरिव तोयदः। तदेवाद्य शरीरं ते तीक्ष्णैर्नैकशरैश्चितम्॥ ४४॥
भाति आभरण-भाभिः यत् विद्युद्भिः इव तोयदः। तत् एव अद्य शरीरम् ते तीक्ष्णैः न एक-शरैः चितम्॥ ४४॥
bhāti ābharaṇa-bhābhiḥ yat vidyudbhiḥ iva toyadaḥ. tat eva adya śarīram te tīkṣṇaiḥ na eka-śaraiḥ citam.. 44..
पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते। श्वाविधः शललैर्यद्वद् बाणैर्लग्नैर्निरन्तरम्॥ ४५॥
पुनर् दुर्लभ-संस्पर्शम् परिष्वक्तुम् न शक्यते। श्वाविधः शललैः यद्वत् बाणैः लग्नैः निरन्तरम्॥ ४५॥
punar durlabha-saṃsparśam pariṣvaktum na śakyate. śvāvidhaḥ śalalaiḥ yadvat bāṇaiḥ lagnaiḥ nirantaram.. 45..
स्वर्पितैर्मर्मसु भृशं संछिन्नस्नायुबन्धनम्। क्षितौ निपतितं राजन् श्यामं वै रुधिरच्छवि॥ ४६॥
सु अर्पितैः मर्मसु भृशम् संछिन्न-स्नायु-बन्धनम्। क्षितौ निपतितम् राजन् श्यामम् वै रुधिर-छवि॥ ४६॥
su arpitaiḥ marmasu bhṛśam saṃchinna-snāyu-bandhanam. kṣitau nipatitam rājan śyāmam vai rudhira-chavi.. 46..
वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः। हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः॥ ४७॥
वज्र-प्रहार-अभिहतः विकीर्णः इव पर्वतः। हा स्वप्नः सत्यम् एव इदम् त्वम् रामेण कथम् हतः॥ ४७॥
vajra-prahāra-abhihataḥ vikīrṇaḥ iva parvataḥ. hā svapnaḥ satyam eva idam tvam rāmeṇa katham hataḥ.. 47..
त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः। त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत्॥ ४८॥
त्वम् मृत्योः अपि मृत्युः स्याः कथम् मृत्यु-वशम् गतः। त्रैलोक्य-वसु-भोक्तारम् त्रैलोक्य-उद्वेग-दम् महत्॥ ४८॥
tvam mṛtyoḥ api mṛtyuḥ syāḥ katham mṛtyu-vaśam gataḥ. trailokya-vasu-bhoktāram trailokya-udvega-dam mahat.. 48..
जेतारं लोकपालानां क्षेप्तारं शंकरस्य च। दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम्॥ ४९॥
जेतारम् लोकपालानाम् क्षेप्तारम् शंकरस्य च। दृप्तानाम् निग्रहीतारम् आविष्कृत-पराक्रमम्॥ ४९॥
jetāram lokapālānām kṣeptāram śaṃkarasya ca. dṛptānām nigrahītāram āviṣkṛta-parākramam.. 49..
लोकक्षोभयितारं च साधुभूतविदारणम्। ओजसा दृप्तवाक्यानां वक्तारं रिपुसंनिधौ॥ ५०॥
लोक-क्षोभयितारम् च साधु-भूत-विदारणम्। ओजसा दृप्त-वाक्यानाम् वक्तारम् रिपु-संनिधौ॥ ५०॥
loka-kṣobhayitāram ca sādhu-bhūta-vidāraṇam. ojasā dṛpta-vākyānām vaktāram ripu-saṃnidhau.. 50..
स्वयूथभृत्यगोप्तारं हन्तारं भीमकर्मणाम्। हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः॥ ५१॥
स्व-यूथ-भृत्य-गोप्तारम् हन्तारम् भीम-कर्मणाम्। हन्तारम् दानव-इन्द्राणाम् यक्षाणाम् च सहस्रशस्॥ ५१॥
sva-yūtha-bhṛtya-goptāram hantāram bhīma-karmaṇām. hantāram dānava-indrāṇām yakṣāṇām ca sahasraśas.. 51..
निवातकवचानां तु निग्रहीतारमाहवे। नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च॥ ५२॥
निवात-कवचानाम् तु निग्रहीतारम् आहवे। न एक-यज्ञ-विलोप्तारम् त्रातारम् स्व-जनस्य च॥ ५२॥
nivāta-kavacānām tu nigrahītāram āhave. na eka-yajña-viloptāram trātāram sva-janasya ca.. 52..
धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे। देवासुरनृकन्यानामाहर्तारं ततस्ततः॥ ५३॥
धर्म-व्यवस्था-भेत्तारम् माया-स्रष्टारम् आहवे। देव-असुर-नृ-कन्यानाम् आहर्तारम् ततस् ततस्॥ ५३॥
dharma-vyavasthā-bhettāram māyā-sraṣṭāram āhave. deva-asura-nṛ-kanyānām āhartāram tatas tatas.. 53..
शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च। लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम्॥ ५४॥
शत्रु-स्त्री-शोक-दातारम् नेतारम् स्व-जनस्य च। लङ्का-द्वीपस्य गोप्तारम् कर्तारम् भीम-कर्मणाम्॥ ५४॥
śatru-strī-śoka-dātāram netāram sva-janasya ca. laṅkā-dvīpasya goptāram kartāram bhīma-karmaṇām.. 54..
अस्माकं कामभोगानां दातारं रथिनां वरम्। एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम्॥ ५५॥
अस्माकम् काम-भोगानाम् दातारम् रथिनाम् वरम्। एवंप्रभावम् भर्तारम् दृष्ट्वा रामेण पातितम्॥ ५५॥
asmākam kāma-bhogānām dātāram rathinām varam. evaṃprabhāvam bhartāram dṛṣṭvā rāmeṇa pātitam.. 55..
स्थिरास्मि या देहमिमं धारयामि हतप्रिया। शयनेषु महार्हेषु शयित्वा राक्षसेश्वर॥ ५६॥
स्थिरा अस्मि या देहम् इमम् धारयामि हत-प्रिया। शयनेषु महार्हेषु शयित्वा राक्षसेश्वर॥ ५६॥
sthirā asmi yā deham imam dhārayāmi hata-priyā. śayaneṣu mahārheṣu śayitvā rākṣaseśvara.. 56..
इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुगुण्ठितः। यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद् युधि॥ ५७॥
इह कस्मात् प्रसुप्तः असि धरण्याम् रेणु-गुण्ठितः। यदा मे तनयः शस्तः लक्ष्मणेन इन्द्रजित् युधि॥ ५७॥
iha kasmāt prasuptaḥ asi dharaṇyām reṇu-guṇṭhitaḥ. yadā me tanayaḥ śastaḥ lakṣmaṇena indrajit yudhi.. 57..
तदा त्वभिहता तीव्रमद्य त्वस्मिन् निपातिता। साहं बन्धुजनैर्हीना हीना नाथेन च त्वया॥ ५८॥
तदा तु अभिहता तीव्रम् अद्य तु अस्मिन् निपातिता। सा अहम् बन्धु-जनैः हीना हीना नाथेन च त्वया॥ ५८॥
tadā tu abhihatā tīvram adya tu asmin nipātitā. sā aham bandhu-janaiḥ hīnā hīnā nāthena ca tvayā.. 58..
विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः। प्रपन्नो दीर्घमध्वानं राजन्नद्य सुदुर्गमम्॥ ५९॥
विहीना काम-भोगैः च शोचिष्ये शाश्वतीः समाः। प्रपन्नः दीर्घम् अध्वानम् राजन् अद्य सु दुर्गमम्॥ ५९॥
vihīnā kāma-bhogaiḥ ca śociṣye śāśvatīḥ samāḥ. prapannaḥ dīrgham adhvānam rājan adya su durgamam.. 59..
नय मामपि दुःखार्तां न वर्तिष्ये त्वया विना। कस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि॥ ६०॥
नय माम् अपि दुःख-आर्ताम् न वर्तिष्ये त्वया विना। कस्मात् त्वम् माम् विहाय इह कृपणाम् गन्तुम् इच्छसि॥ ६०॥
naya mām api duḥkha-ārtām na vartiṣye tvayā vinā. kasmāt tvam mām vihāya iha kṛpaṇām gantum icchasi.. 60..
दीनां विलपतीं मन्दां किं च मां नाभिभाषसे। दृष्ट्वा न खल्वभिक्रुद्धो मामिहानवगुण्ठिताम्॥ ६१॥
दीनाम् विलपतीम् मन्दाम् किम् च माम् न अभिभाषसे। दृष्ट्वा न खलु अभिक्रुद्धः माम् इह अनवगुण्ठिताम्॥ ६१॥
dīnām vilapatīm mandām kim ca mām na abhibhāṣase. dṛṣṭvā na khalu abhikruddhaḥ mām iha anavaguṇṭhitām.. 61..
निर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो। पश्येष्टदार दारांस्ते भ्रष्टलज्जावगुण्ठनान्॥ ६२॥
निर्गताम् नगर-द्वारात् पद्भ्याम् एव आगताम् प्रभो। पश्य इष्टदार दारान् ते भ्रष्ट-लज्जा-अवगुण्ठनान्॥ ६२॥
nirgatām nagara-dvārāt padbhyām eva āgatām prabho. paśya iṣṭadāra dārān te bhraṣṭa-lajjā-avaguṇṭhanān.. 62..
बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि। अयं क्रीडासहायस्तेऽनाथो लालप्यते जनः॥ ६३॥
बहिस् निष्पतितान् सर्वान् कथम् दृष्ट्वा न कुप्यसि। अयम् क्रीडा-सहायः ते अनाथः लालप्यते जनः॥ ६३॥
bahis niṣpatitān sarvān katham dṛṣṭvā na kupyasi. ayam krīḍā-sahāyaḥ te anāthaḥ lālapyate janaḥ.. 63..
न चैनमाश्वासयसि किं वा न बहुमन्यसे। यास्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः॥ ६४॥
न च एनम् आश्वासयसि किम् वा न बहु मन्यसे। याः त्वया विधवाः राजन् कृताः न एकाः कुलस्त्रियः॥ ६४॥
na ca enam āśvāsayasi kim vā na bahu manyase. yāḥ tvayā vidhavāḥ rājan kṛtāḥ na ekāḥ kulastriyaḥ.. 64..
पतिव्रता धर्मरता गुरुशुश्रूषणे रताः। ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः॥ ६५॥
पतिव्रताः धर्म-रताः गुरु-शुश्रूषणे रताः। ताभिः शोक-अभितप्ताभिः शप्तः पर-वशम् गतः॥ ६५॥
pativratāḥ dharma-ratāḥ guru-śuśrūṣaṇe ratāḥ. tābhiḥ śoka-abhitaptābhiḥ śaptaḥ para-vaśam gataḥ.. 65..
त्वया विप्रकृताभिश्च तदा शप्तस्तदागतम्। प्रवादः सत्यमेवायं त्वां प्रति प्रायशो नृप॥ ६६॥
त्वया विप्रकृताभिः च तदा शप्तः तद्-आगतम्। प्रवादः सत्यम् एव अयम् त्वाम् प्रति प्रायशस् नृप॥ ६६॥
tvayā viprakṛtābhiḥ ca tadā śaptaḥ tad-āgatam. pravādaḥ satyam eva ayam tvām prati prāyaśas nṛpa.. 66..
पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले। कथं च नाम ते राजँल्लोकानाक्रम्य तेजसा॥ ६७॥
पतिव्रतानाम् ना अकस्मात् पतन्ति अश्रूणि भू-तले। कथम् च नाम ते राजन् लोकान् आक्रम्य तेजसा॥ ६७॥
pativratānām nā akasmāt patanti aśrūṇi bhū-tale. katham ca nāma te rājan lokān ākramya tejasā.. 67..
नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना। अपनीयाश्रमाद् रामं यन्मृगच्छद्मना त्वया॥ ६८॥
नारी-चौर्यम् इदम् क्षुद्रम् कृतम् शौण्डीर्य-मानिना। अपनीय आश्रमात् रामम् यत् मृग-छद्मना त्वया॥ ६८॥
nārī-cauryam idam kṣudram kṛtam śauṇḍīrya-māninā. apanīya āśramāt rāmam yat mṛga-chadmanā tvayā.. 68..
आनीता रामपत्नी सा अपनीय च लक्ष्मणम्। कातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम्॥ ६९॥
आनीता राम-पत्नी सा अपनीय च लक्ष्मणम्। कातर्यम् च न ते युद्धे कदाचिद् संस्मरामि अहम्॥ ६९॥
ānītā rāma-patnī sā apanīya ca lakṣmaṇam. kātaryam ca na te yuddhe kadācid saṃsmarāmi aham.. 69..
तत् तु भाग्यविपर्यासान्नूनं ते पक्वलक्षणम्। अतीतानागतार्थज्ञो वर्तमानविचक्षणः॥ ७०॥
तत् तु भाग्य-विपर्यासात् नूनम् ते पक्व-लक्षणम्। ॥ ७०॥
tat tu bhāgya-viparyāsāt nūnam te pakva-lakṣaṇam. .. 70..
मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम्। सत्यवाक् स महाबाहो देवरो मे यदब्रवीत्॥ ७१॥
मैथिलीम् आहृताम् दृष्ट्वा ध्यात्वा निःश्वस्य च आयतम्। सत्य-वाच् स महा-बाहो देवरः मे यत् अब्रवीत्॥ ७१॥
maithilīm āhṛtām dṛṣṭvā dhyātvā niḥśvasya ca āyatam. satya-vāc sa mahā-bāho devaraḥ me yat abravīt.. 71..
अयं राक्षसमुख्यानां विनाशः प्रत्युपस्थितः। कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना॥ ७२॥
अयम् राक्षस-मुख्यानाम् विनाशः प्रत्युपस्थितः। काम-क्रोध-समुत्थेन व्यसनेन प्रसङ्गिना॥ ७२॥
ayam rākṣasa-mukhyānām vināśaḥ pratyupasthitaḥ. kāma-krodha-samutthena vyasanena prasaṅginā.. 72..
निवृत्तस्त्वत्कृतेनार्थः सोऽयं मूलहरो महान्। त्वया कृतमिदं सर्वमनाथं राक्षसं कुलम्॥ ७३॥
निवृत्तः त्वद्-कृतेन अर्थः सः अयम् मूल-हरः महान्। त्वया कृतम् इदम् सर्वम् अनाथम् राक्षसम् कुलम्॥ ७३॥
nivṛttaḥ tvad-kṛtena arthaḥ saḥ ayam mūla-haraḥ mahān. tvayā kṛtam idam sarvam anātham rākṣasam kulam.. 73..
नहि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः। स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते॥ ७४॥
नहि त्वम् शोचितव्यः मे प्रख्यात-बल-पौरुषः। स्त्री-स्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते॥ ७४॥
nahi tvam śocitavyaḥ me prakhyāta-bala-pauruṣaḥ. strī-svabhāvāt tu me buddhiḥ kāruṇye parivartate.. 74..
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः। आत्मानमनुशोचामि त्वद्विनाशेन दुःखिताम्॥ ७५॥
सुकृतम् दुष्कृतम् च त्वम् गृहीत्वा स्वाम् गतिम् गतः। आत्मानम् अनुशोचामि त्वद्-विनाशेन दुःखिताम्॥ ७५॥
sukṛtam duṣkṛtam ca tvam gṛhītvā svām gatim gataḥ. ātmānam anuśocāmi tvad-vināśena duḥkhitām.. 75..
सुहृदां हितकामानां न श्रुतं वचनं त्वया। भ्रातॄणां चैव कात्स्र्न्येन हितमुक्तं दशानन॥ ७६॥
सुहृदाम् हित-कामानाम् न श्रुतम् वचनम् त्वया। भ्रातॄणाम् च एव कात्स्र्न्येन हितम् उक्तम् दशानन॥ ७६॥
suhṛdām hita-kāmānām na śrutam vacanam tvayā. bhrātṝṇām ca eva kātsrnyena hitam uktam daśānana.. 76..
हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम्। विभीषणेनाभिहितं न कृतं हेतुमत् त्वया॥ ७७॥
हेतु-अर्थ-युक्तम् विधिवत् श्रेयस्करम् अदारुणम्। विभीषणेन अभिहितम् न कृतम् हेतुमत् त्वया॥ ७७॥
hetu-artha-yuktam vidhivat śreyaskaram adāruṇam. vibhīṣaṇena abhihitam na kṛtam hetumat tvayā.. 77..
मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तथा। न कृतं वीर्यमत्तेन तस्येदं फलमीदृशम्॥ ७८॥
मारीच-कुम्भकर्णाभ्याम् वाक्यम् मम पितुः तथा। न कृतम् वीर्यम् अत्तेन तस्य इदम् फलम् ईदृशम्॥ ७८॥
mārīca-kumbhakarṇābhyām vākyam mama pituḥ tathā. na kṛtam vīryam attena tasya idam phalam īdṛśam.. 78..
नीलजीमूतसंकाश पीताम्बर शुभाङ्गद। स्वगात्राणि विनिक्षिप्य किं शेषे रुधिरावृतः॥ ७९॥
नील-जीमूत-संकाश पीत-अम्बर शुभ-अङ्गद। स्व-गात्राणि विनिक्षिप्य किम् शेषे रुधिर-आवृतः॥ ७९॥
nīla-jīmūta-saṃkāśa pīta-ambara śubha-aṅgada. sva-gātrāṇi vinikṣipya kim śeṣe rudhira-āvṛtaḥ.. 79..
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे। महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः॥ ८०॥
प्रसुप्तः इव शोक-आर्ताम् किम् माम् न प्रतिभाषसे। महा-वीर्यस्य दक्षस्य संयुगेषु अपलायिनः॥ ८०॥
prasuptaḥ iva śoka-ārtām kim mām na pratibhāṣase. mahā-vīryasya dakṣasya saṃyugeṣu apalāyinaḥ.. 80..
यातुधानस्य दौहित्रीं किं मां न प्रतिभाषसे। उत्तिष्ठोत्तिष्ठ किं शेषे नवे परिभवे कृते॥ ८१॥
यातुधानस्य दौहित्रीम् किम् माम् न प्रतिभाषसे। उत्तिष्ठ उत्तिष्ठ किम् शेषे नवे परिभवे कृते॥ ८१॥
yātudhānasya dauhitrīm kim mām na pratibhāṣase. uttiṣṭha uttiṣṭha kim śeṣe nave paribhave kṛte.. 81..
अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः। येन सूदयसे शत्रून् समरे सूर्यवर्चसा॥ ८२॥
अद्य वै निर्भयाः लङ्काम् प्रविष्टाः सूर्य-रश्मयः। येन सूदयसे शत्रून् समरे सूर्य-वर्चसा॥ ८२॥
adya vai nirbhayāḥ laṅkām praviṣṭāḥ sūrya-raśmayaḥ. yena sūdayase śatrūn samare sūrya-varcasā.. 82..
वज्रं वज्रधरस्येव सोऽयं ते सततार्चितः। रणे बहुप्रहरणो हेमजालपरिष्कृतः॥ ८३॥
वज्रम् वज्रधरस्य इव सः अयम् ते सतत-अर्चितः। रणे बहु-प्रहरणः हेम-जाल-परिष्कृतः॥ ८३॥
vajram vajradharasya iva saḥ ayam te satata-arcitaḥ. raṇe bahu-praharaṇaḥ hema-jāla-pariṣkṛtaḥ.. 83..
परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा। प्रियामिवोपसंगृह्य किं शेषे रणमेदिनीम्॥ ८४॥
परिघः व्यवकीर्णः ते बाणैः छिन्नः सहस्रधा। प्रियाम् इव उपसंगृह्य किम् शेषे रण-मेदिनीम्॥ ८४॥
parighaḥ vyavakīrṇaḥ te bāṇaiḥ chinnaḥ sahasradhā. priyām iva upasaṃgṛhya kim śeṣe raṇa-medinīm.. 84..
अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम्। धिगस्तु हृदयं यस्या ममेदं न सहस्रधा॥ ८५॥
अप्रियाम् इव कस्मात् च माम् ना इच्छसि अभिभाषितुम्। धिक् अस्तु हृदयम् यस्याः मम इदम् न सहस्रधा॥ ८५॥
apriyām iva kasmāt ca mām nā icchasi abhibhāṣitum. dhik astu hṛdayam yasyāḥ mama idam na sahasradhā.. 85..
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्। इत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा॥ ८६॥
त्वयि पञ्चत्वम् आपन्ने फलते शोक-पीडितम्। इति एवम् विलपन्ती सा बाष्प-पर्याकुल-ईक्षणा॥ ८६॥
tvayi pañcatvam āpanne phalate śoka-pīḍitam. iti evam vilapantī sā bāṣpa-paryākula-īkṣaṇā.. 86..
स्नेहोपस्कन्नहृदया तदा मोहमुपागमत्। कश्मलाभिहता सन्ना बभौ सा रावणोरसि॥ ८७॥
स्नेह-उपस्कन्न-हृदया तदा मोहम् उपागमत्। कश्मल-अभिहता सन्ना बभौ सा रावण-उरसि॥ ८७॥
sneha-upaskanna-hṛdayā tadā moham upāgamat. kaśmala-abhihatā sannā babhau sā rāvaṇa-urasi.. 87..
संध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला। तथागतां समुत्थाप्य सपत्न्यस्तां भृशातुराः॥ ८८॥
संध्या-अनुरक्ते जलदे दीप्ता विद्युत् इव उज्ज्वला। तथागताम् समुत्थाप्य सपत्न्यः ताम् भृश-आतुराः॥ ८८॥
saṃdhyā-anurakte jalade dīptā vidyut iva ujjvalā. tathāgatām samutthāpya sapatnyaḥ tām bhṛśa-āturāḥ.. 88..
पर्यवस्थापयामासू रुदत्यो रुदतीं भृशम्। किं ते न विदिता देवि लोकानां स्थितिरध्रुवा॥ ८९॥
पर्यवस्थापयामासुः रुदत्यः रुदतीम् भृशम्। किम् ते न विदिता देवि लोकानाम् स्थितिः अध्रुवा॥ ८९॥
paryavasthāpayāmāsuḥ rudatyaḥ rudatīm bhṛśam. kim te na viditā devi lokānām sthitiḥ adhruvā.. 89..
दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः। इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह॥ ९०॥
दश-अविभाग-पर्याये राज्ञाम् वै चञ्चलाः श्रियः। इति एवम् उच्यमाना सा स शब्दम् प्ररुरोद ह॥ ९०॥
daśa-avibhāga-paryāye rājñām vai cañcalāḥ śriyaḥ. iti evam ucyamānā sā sa śabdam praruroda ha.. 90..
स्नपयन्ती तदास्रेण स्तनौ वक्त्रं सुनिर्मलम्। एतस्मिन्नन्तरे रामो विभीषणमुवाच ह॥ ९१॥
स्नपयन्ती तदा अस्रेण स्तनौ वक्त्रम् सुनिर्मलम्। एतस्मिन् अन्तरे रामः विभीषणम् उवाच ह॥ ९१॥
snapayantī tadā asreṇa stanau vaktram sunirmalam. etasmin antare rāmaḥ vibhīṣaṇam uvāca ha.. 91..
संस्कारः क्रियतां भ्रातुः स्त्रीगणः परिसान्त्व्यताम्। तमुवाच ततो धीमान् विभीषण इदं वचः॥ ९२॥
संस्कारः क्रियताम् भ्रातुः स्त्री-गणः परिसान्त्व्यताम्। तम् उवाच ततस् धीमान् विभीषणः इदम् वचः॥ ९२॥
saṃskāraḥ kriyatām bhrātuḥ strī-gaṇaḥ parisāntvyatām. tam uvāca tatas dhīmān vibhīṣaṇaḥ idam vacaḥ.. 92..
विमृश्य बुद्ध्या प्रश्रितं धर्मार्थसहितं हितम्। त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा॥ ९३॥
विमृश्य बुद्ध्या प्रश्रितम् धर्म-अर्थ-सहितम् हितम्। त्यक्त-धर्म-व्रतम् क्रूरम् नृशंसम् अनृतम् तथा॥ ९३॥
vimṛśya buddhyā praśritam dharma-artha-sahitam hitam. tyakta-dharma-vratam krūram nṛśaṃsam anṛtam tathā.. 93..
नाहमर्हामि संस्कर्तुं परदाराभिमर्शनम्। भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः॥ ९४॥
न अहम् अर्हामि संस्कर्तुम् पर-दार-अभिमर्शनम्। भ्रातृ-रूपः हि मे शत्रुः एष सर्व-अहिते रतः॥ ९४॥
na aham arhāmi saṃskartum para-dāra-abhimarśanam. bhrātṛ-rūpaḥ hi me śatruḥ eṣa sarva-ahite rataḥ.. 94..
रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात्। नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि॥ ९५॥
रावणः ना अर्हते पूजाम् पूज्यः अपि गुरु-गौरवात्। नृशंसः इति माम् राम वक्ष्यन्ति मनुजाः भुवि॥ ९५॥
rāvaṇaḥ nā arhate pūjām pūjyaḥ api guru-gauravāt. nṛśaṃsaḥ iti mām rāma vakṣyanti manujāḥ bhuvi.. 95..
श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः। तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः॥ ९६॥
श्रुत्वा तस्य अगुणान् सर्वे वक्ष्यन्ति सुकृतम् पुनर्। तत् श्रुत्वा परम-प्रीतः रामः धर्म-भृताम् वरः॥ ९६॥
śrutvā tasya aguṇān sarve vakṣyanti sukṛtam punar. tat śrutvā parama-prītaḥ rāmaḥ dharma-bhṛtām varaḥ.. 96..
विभीषणमुवाचेदं वाक्यज्ञं वाक्यकोविदः। तवापि मे प्रियं कार्यं त्वत्प्रभावान्मया जितम्॥ ९७॥
विभीषणम् उवाच इदम् वाक्य-ज्ञम् वाक्य-कोविदः। तव अपि मे प्रियम् कार्यम् त्वद्-प्रभावात् मया जितम्॥ ९७॥
vibhīṣaṇam uvāca idam vākya-jñam vākya-kovidaḥ. tava api me priyam kāryam tvad-prabhāvāt mayā jitam.. 97..
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर। अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः॥ ९८॥
अवश्यम् तु क्षमम् वाच्यः मया त्वम् राक्षस-ईश्वर। अधर्म-अनृत-संयुक्तः कामम् तु एष निशाचरः॥ ९८॥
avaśyam tu kṣamam vācyaḥ mayā tvam rākṣasa-īśvara. adharma-anṛta-saṃyuktaḥ kāmam tu eṣa niśācaraḥ.. 98..
तेजस्वी बलवाञ्छूरः संग्रामेषु च नित्यशः। शतक्रतुमुखैर्देवैः श्रूयते न पराजितः॥ ९९॥
तेजस्वी बलवान् शूरः संग्रामेषु च नित्यशस्। शतक्रतु-मुखैः देवैः श्रूयते न पराजितः॥ ९९॥
tejasvī balavān śūraḥ saṃgrāmeṣu ca nityaśas. śatakratu-mukhaiḥ devaiḥ śrūyate na parājitaḥ.. 99..
महात्मा बलसम्पन्नो रावणो लोकरावणः। मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्॥ १००॥
महात्मा बल-सम्पन्नः रावणः लोक-रावणः। मरण-अन्तानि वैराणि निर्वृत्तम् नः प्रयोजनम्॥ १००॥
mahātmā bala-sampannaḥ rāvaṇaḥ loka-rāvaṇaḥ. maraṇa-antāni vairāṇi nirvṛttam naḥ prayojanam.. 100..
क्रियतामस्य संस्कारो ममाप्येष यथा तव। त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम्॥ १०१॥
क्रियताम् अस्य संस्कारः मम अपि एष यथा तव। त्वद्-सकाशात् महा-बाहो संस्कारम् विधि-पूर्वकम्॥ १०१॥
kriyatām asya saṃskāraḥ mama api eṣa yathā tava. tvad-sakāśāt mahā-bāho saṃskāram vidhi-pūrvakam.. 101..
क्षिप्रमर्हति धर्मेण त्वं यशोभाग् भविष्यसि। राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः॥ १०२॥
क्षिप्रम् अर्हति धर्मेण त्वम् यशः-भाज् भविष्यसि। राघवस्य वचः श्रुत्वा त्वरमाणः विभीषणः॥ १०२॥
kṣipram arhati dharmeṇa tvam yaśaḥ-bhāj bhaviṣyasi. rāghavasya vacaḥ śrutvā tvaramāṇaḥ vibhīṣaṇaḥ.. 102..
संस्कारयितुमारेभे भ्रातरं रावणं हतम्। स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः॥ १०३॥
संस्कारयितुम् आरेभे भ्रातरम् रावणम् हतम्। स प्रविश्य पुरीम् लङ्काम् राक्षस-इन्द्रः विभीषणः॥ १०३॥
saṃskārayitum ārebhe bhrātaram rāvaṇam hatam. sa praviśya purīm laṅkām rākṣasa-indraḥ vibhīṣaṇaḥ.. 103..
रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम्। शकटान् दारुरूपाणि अग्नीन् वै याजकांस्तथा॥ १०४॥
रावणस्य अग्निहोत्रम् तु निर्यापयति सत्वरम्। शकटान् दारु-रूपाणि अग्नीन् वै याजकान् तथा॥ १०४॥
rāvaṇasya agnihotram tu niryāpayati satvaram. śakaṭān dāru-rūpāṇi agnīn vai yājakān tathā.. 104..
तथा चन्दनकाष्ठानि काष्ठानि विविधानि च। अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा॥ १०५॥
तथा चन्दन-काष्ठानि काष्ठानि विविधानि च। अगरूणि सुगन्धीनि गन्धान् च सुरभीन् तथा॥ १०५॥
tathā candana-kāṣṭhāni kāṣṭhāni vividhāni ca. agarūṇi sugandhīni gandhān ca surabhīn tathā.. 105..
मणिमुक्ताप्रवालानि निर्यापयति राक्षसः। आजगाम मुहूर्तेन राक्षसैः परिवारितः॥ १०६॥
मणि-मुक्ता-प्रवालानि निर्यापयति राक्षसः। आजगाम मुहूर्तेन राक्षसैः परिवारितः॥ १०६॥
maṇi-muktā-pravālāni niryāpayati rākṣasaḥ. ājagāma muhūrtena rākṣasaiḥ parivāritaḥ.. 106..
ततो माल्यवता सार्धं क्रियामेव चकार सः। सौवर्णीं शिबिकां दिव्यामारोप्य क्षौमवाससम्॥ १०७॥
ततस् माल्यवता सार्धम् क्रियाम् एव चकार सः। सौवर्णीम् शिबिकाम् दिव्याम् आरोप्य क्षौम-वाससम्॥ १०७॥
tatas mālyavatā sārdham kriyām eva cakāra saḥ. sauvarṇīm śibikām divyām āropya kṣauma-vāsasam.. 107..
रावणं राक्षसाधीशमश्रुवर्णमुखा द्विजाः। तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम्॥ १०८॥
रावणम् राक्षस-अधीशम् अश्रु-वर्ण-मुखाः द्विजाः। तूर्य-घोषैः च विविधैः स्तुवद्भिः च अभिनन्दितम्॥ १०८॥
rāvaṇam rākṣasa-adhīśam aśru-varṇa-mukhāḥ dvijāḥ. tūrya-ghoṣaiḥ ca vividhaiḥ stuvadbhiḥ ca abhinanditam.. 108..
पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम्। उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः॥ १०९॥
पताकाभिः च चित्राभिः सुमनोभिः च चित्रिताम्। उत्क्षिप्य शिबिकाम् ताम् तु विभीषण-पुरोगमाः॥ १०९॥
patākābhiḥ ca citrābhiḥ sumanobhiḥ ca citritām. utkṣipya śibikām tām tu vibhīṣaṇa-purogamāḥ.. 109..
दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे। अग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः॥ ११०॥
दक्षिण-अभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे। अग्नयः दीप्यमानाः ते तदा अध्वर्यु-समीरिताः॥ ११०॥
dakṣiṇa-abhimukhāḥ sarve gṛhya kāṣṭhāni bhejire. agnayaḥ dīpyamānāḥ te tadā adhvaryu-samīritāḥ.. 110..
शरणाभिगताः सर्वे पुरस्तात् तस्य ते ययुः। अन्तःपुराणि सर्वाणि रुदमानानि सत्वरम्॥ १११॥
शरण-अभिगताः सर्वे पुरस्तात् तस्य ते ययुः। अन्तःपुराणि सर्वाणि रुदमानानि स त्वरम्॥ १११॥
śaraṇa-abhigatāḥ sarve purastāt tasya te yayuḥ. antaḥpurāṇi sarvāṇi rudamānāni sa tvaram.. 111..
पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः। रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः॥ ११२॥
पृष्ठतस् अनुययुः तानि प्लवमानानि सर्वतस्। रावणम् प्रयते देशे स्थाप्य ते भृश-दुःखिताः॥ ११२॥
pṛṣṭhatas anuyayuḥ tāni plavamānāni sarvatas. rāvaṇam prayate deśe sthāpya te bhṛśa-duḥkhitāḥ.. 112..
चितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः। ब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम्॥ ११३॥
चिताम् चन्दन-काष्ठैः च पद्मक-उशीर-चन्दनैः। ब्राह्म्या संवर्तयामासुः राङ्कव-आस्तरण-आवृताम्॥ ११३॥
citām candana-kāṣṭhaiḥ ca padmaka-uśīra-candanaiḥ. brāhmyā saṃvartayāmāsuḥ rāṅkava-āstaraṇa-āvṛtām.. 113..
प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम्। वेदिं च दक्षिणाप्राचीं यथास्थानं च पावकम्॥ ११४॥
प्रचक्रुः राक्षस-इन्द्रस्य पितृमेधम् अनुत्तमम्। वेदिम् च दक्षिणा-प्राचीम् यथास्थानम् च पावकम्॥ ११४॥
pracakruḥ rākṣasa-indrasya pitṛmedham anuttamam. vedim ca dakṣiṇā-prācīm yathāsthānam ca pāvakam.. 114..
पृषदाज्येन सम्पूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः। पादयोः शकटं प्रापुरूर्वोश्चोलूखलं तदा॥ ११५॥
पृषदाज्येन सम्पूर्णम् स्रुवम् स्कन्धे प्रचिक्षिपुः। पादयोः शकटम् प्रापुः ऊर्वोः च उलूखलम् तदा॥ ११५॥
pṛṣadājyena sampūrṇam sruvam skandhe pracikṣipuḥ. pādayoḥ śakaṭam prāpuḥ ūrvoḥ ca ulūkhalam tadā.. 115..
दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम्। दत्त्वा तु मुसलं चान्यं यथास्थानं विचक्रमुः॥ ११६॥
दारु-पात्राणि सर्वाणि अरणिम् च उत्तरारणिम्। दत्त्वा तु मुसलम् च अन्यम् यथास्थानम् विचक्रमुः॥ ११६॥
dāru-pātrāṇi sarvāṇi araṇim ca uttarāraṇim. dattvā tu musalam ca anyam yathāsthānam vicakramuḥ.. 116..
शास्त्रदृष्टेन विधिना महर्षिविहितेन च। तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः॥ ११७॥
शास्त्र-दृष्टेन विधिना महा-ऋषि-विहितेन च। तत्र मेध्यम् पशुम् हत्वा राक्षस-इन्द्रस्य राक्षसाः॥ ११७॥
śāstra-dṛṣṭena vidhinā mahā-ṛṣi-vihitena ca. tatra medhyam paśum hatvā rākṣasa-indrasya rākṣasāḥ.. 117..
परिस्तरणिकां राज्ञो घृताक्तां समवेशयन्। गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः॥ ११८॥
परिस्तरणिकाम् राज्ञः घृत-अक्ताम् समवेशयन्। गन्धैः माल्यैः अलंकृत्य रावणम् दीन-मानसाः॥ ११८॥
paristaraṇikām rājñaḥ ghṛta-aktām samaveśayan. gandhaiḥ mālyaiḥ alaṃkṛtya rāvaṇam dīna-mānasāḥ.. 118..
विभीषणसहायास्ते वस्त्रैश्च विविधैरपि। लाजैरवकिरन्ति स्म बाष्पपूर्णमुखास्तथा॥ ११९॥
विभीषण-सहायाः ते वस्त्रैः च विविधैः अपि। लाजैः अवकिरन्ति स्म बाष्प-पूर्ण-मुखाः तथा॥ ११९॥
vibhīṣaṇa-sahāyāḥ te vastraiḥ ca vividhaiḥ api. lājaiḥ avakiranti sma bāṣpa-pūrṇa-mukhāḥ tathā.. 119..
स ददौ पावकं तस्य विधियुक्तं विभीषणः। स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भविमिश्रितान्॥ १२०॥
स ददौ पावकम् तस्य विधि-युक्तम् विभीषणः। स्नात्वा च एव आर्द्र-वस्त्रेण तिलान् दर्भ-विमिश्रितान्॥ १२०॥
sa dadau pāvakam tasya vidhi-yuktam vibhīṣaṇaḥ. snātvā ca eva ārdra-vastreṇa tilān darbha-vimiśritān.. 120..
उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम्। ताः स्त्रियोऽनुनयामास सान्त्वयित्वा पुनः पुनः॥ १२१॥
उदकेन च सम्मिश्रान् प्रदाय विधि-पूर्वकम्। ताः स्त्रियः अनुनयामास सान्त्वयित्वा पुनर् पुनर्॥ १२१॥
udakena ca sammiśrān pradāya vidhi-pūrvakam. tāḥ striyaḥ anunayāmāsa sāntvayitvā punar punar.. 121..
गम्यतामिति ताः सर्वा विविशुर्नगरं ततः। प्रविष्टासु पुरीं स्त्रीषु राक्षसेन्द्रो विभीषणः। रामपार्श्वमुपागम्य समतिष्ठद् विनीतवत्॥ १२२॥
गम्यताम् इति ताः सर्वाः विविशुः नगरम् ततस्। प्रविष्टासु पुरीम् स्त्रीषु राक्षस-इन्द्रः विभीषणः। राम-पार्श्वम् उपागम्य समतिष्ठत् विनीत-वत्॥ १२२॥
gamyatām iti tāḥ sarvāḥ viviśuḥ nagaram tatas. praviṣṭāsu purīm strīṣu rākṣasa-indraḥ vibhīṣaṇaḥ. rāma-pārśvam upāgamya samatiṣṭhat vinīta-vat.. 122..
रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः। हर्षं लेभे रिपुं हत्वा वृत्रं वज्रधरो यथा॥ १२३॥
रामः अपि सह सैन्येन स सुग्रीवः स लक्ष्मणः। हर्षम् लेभे रिपुम् हत्वा वृत्रम् वज्रधरः यथा॥ १२३॥
rāmaḥ api saha sainyena sa sugrīvaḥ sa lakṣmaṇaḥ. harṣam lebhe ripum hatvā vṛtram vajradharaḥ yathā.. 123..
ततो विमुक्त्वा सशरं शरासनं महेन्द्रदत्तं कवचं स तन्महत्। विमुच्य रोषं रिपुनिग्रहात् ततो रामः स सौम्यत्वमुपागतोऽरिहा॥ १२४॥
ततस् विमुक्त्वा स शरम् शरासनम् महा-इन्द्र-दत्तम् कवचम् स तत् महत्। विमुच्य रोषम् रिपु-निग्रहात् ततस् रामः स सौम्य-त्वम् उपागतः अरि-हा॥ १२४॥
tatas vimuktvā sa śaram śarāsanam mahā-indra-dattam kavacam sa tat mahat. vimucya roṣam ripu-nigrahāt tatas rāmaḥ sa saumya-tvam upāgataḥ ari-hā.. 124..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In