This overlay will guide you through the buttons:

| |
|
तमुवाच महाप्राज्ञः सोऽभिवाद्य प्लवङ्गमः। रामं कमलपत्राक्षं वरं सर्वधनुष्मताम्॥ १॥
तम् उवाच महा-प्राज्ञः सः अभिवाद्य प्लवङ्गमः। रामम् कमल-पत्र-अक्षम् वरम् सर्व-धनुष्मताम्॥ १॥
tam uvāca mahā-prājñaḥ saḥ abhivādya plavaṅgamaḥ. rāmam kamala-patra-akṣam varam sarva-dhanuṣmatām.. 1..
यन्निमित्तोऽयमारम्भः कर्मणां यः फलोदयः। तां देवीं शोकसंतप्तां द्रष्टुमर्हसि मैथिलीम्॥ २॥
यद्-निमित्तः अयम् आरम्भः कर्मणाम् यः फल-उदयः। ताम् देवीम् शोक-संतप्ताम् द्रष्टुम् अर्हसि मैथिलीम्॥ २॥
yad-nimittaḥ ayam ārambhaḥ karmaṇām yaḥ phala-udayaḥ. tām devīm śoka-saṃtaptām draṣṭum arhasi maithilīm.. 2..
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा। मैथिली विजयं श्रुत्वा द्रष्टुं त्वामभिकांक्षति॥ ३॥
सा हि शोक-समाविष्टा बाष्प-पर्याकुल-ईक्षणा। मैथिली विजयम् श्रुत्वा द्रष्टुम् त्वाम् अभिकांक्षति॥ ३॥
sā hi śoka-samāviṣṭā bāṣpa-paryākula-īkṣaṇā. maithilī vijayam śrutvā draṣṭum tvām abhikāṃkṣati.. 3..
पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया। द्रष्टुमिच्छामि भर्तारमिति पर्याकुलेक्षणा॥ ४॥
पूर्वकात् प्रत्ययात् च अहम् उक्तः विश्वस्तया तया। द्रष्टुम् इच्छामि भर्तारम् इति पर्याकुल-ईक्षणा॥ ४॥
pūrvakāt pratyayāt ca aham uktaḥ viśvastayā tayā. draṣṭum icchāmi bhartāram iti paryākula-īkṣaṇā.. 4..
एवमुक्तो हनुमता रामो धर्मभृतां वरः। आगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः॥ ५॥
एवम् उक्तः हनुमता रामः धर्म-भृताम् वरः। आगच्छत् सहसा ध्यानम् ईषत् बाष्प-परिप्लुतः॥ ५॥
evam uktaḥ hanumatā rāmaḥ dharma-bhṛtām varaḥ. āgacchat sahasā dhyānam īṣat bāṣpa-pariplutaḥ.. 5..
स दीर्घमभिनिःश्वस्य जगतीमवलोकयन्। उवाच मेघसंकाशं विभीषणमुपस्थितम्॥ ६॥
स दीर्घम् अभिनिःश्वस्य जगतीम् अवलोकयन्। उवाच मेघ-संकाशम् विभीषणम् उपस्थितम्॥ ६॥
sa dīrgham abhiniḥśvasya jagatīm avalokayan. uvāca megha-saṃkāśam vibhīṣaṇam upasthitam.. 6..
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्। इह सीतां शिरःस्नातामुपस्थापय मा चिरम्॥ ७॥
दिव्य-अङ्ग-रागाम् वैदेहीम् दिव्य-आभरण-भूषिताम्। इह सीताम् शिरः-स्नाताम् उपस्थापय मा चिरम्॥ ७॥
divya-aṅga-rāgām vaidehīm divya-ābharaṇa-bhūṣitām. iha sītām śiraḥ-snātām upasthāpaya mā ciram.. 7..
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः। प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत्॥ ८॥
एवम् उक्तः तु रामेण त्वरमाणः विभीषणः। प्रविश्य अन्तःपुरम् सीताम् स्त्रीभिः स्वाभिः अचोदयत्॥ ८॥
evam uktaḥ tu rāmeṇa tvaramāṇaḥ vibhīṣaṇaḥ. praviśya antaḥpuram sītām strībhiḥ svābhiḥ acodayat.. 8..
ततः सीतां महाभागां दृष्ट्वोवाच विभीषणः। मूर्ध्नि बद्धाञ्जलिः श्रीमान् विनीतो राक्षसेश्वरः॥ ९॥
ततस् सीताम् महाभागाम् दृष्ट्वा उवाच विभीषणः। मूर्ध्नि बद्धाञ्जलिः श्रीमान् विनीतः राक्षस-ईश्वरः॥ ९॥
tatas sītām mahābhāgām dṛṣṭvā uvāca vibhīṣaṇaḥ. mūrdhni baddhāñjaliḥ śrīmān vinītaḥ rākṣasa-īśvaraḥ.. 9..
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता। यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति॥ १०॥
दिव्य-अङ्ग-रागा वैदेहि दिव्य-आभरण-भूषिता। यानम् आरोह भद्रम् ते भर्ता त्वाम् द्रष्टुम् इच्छति॥ १०॥
divya-aṅga-rāgā vaidehi divya-ābharaṇa-bhūṣitā. yānam āroha bhadram te bhartā tvām draṣṭum icchati.. 10..
एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्। अस्नात्वा द्रष्टुमिच्छामि भर्तारं राक्षसेश्वर॥ ११॥
एवम् उक्ता तु वैदेही प्रत्युवाच विभीषणम्। अ स्नात्वा द्रष्टुम् इच्छामि भर्तारम् राक्षस-ईश्वर॥ ११॥
evam uktā tu vaidehī pratyuvāca vibhīṣaṇam. a snātvā draṣṭum icchāmi bhartāram rākṣasa-īśvara.. 11..
तस्यास्तद् वचनं श्रुत्वा प्रत्युवाच विभीषणः। यथाऽऽह रामो भर्ता ते तत् तथा कर्तुमर्हसि॥ १२॥
तस्याः तत् वचनम् श्रुत्वा प्रत्युवाच विभीषणः। यथा आह रामः भर्ता ते तत् तथा कर्तुम् अर्हसि॥ १२॥
tasyāḥ tat vacanam śrutvā pratyuvāca vibhīṣaṇaḥ. yathā āha rāmaḥ bhartā te tat tathā kartum arhasi.. 12..
तस्य तद् वचनं श्रुत्वा मैथिली पतिदेवता। भर्तृभक्त्यावृता साध्वी तथेति प्रत्यभाषत॥ १३॥
तस्य तत् वचनम् श्रुत्वा मैथिली पति-देवता। भर्तृ-भक्ति-आवृता साध्वी तथा इति प्रत्यभाषत॥ १३॥
tasya tat vacanam śrutvā maithilī pati-devatā. bhartṛ-bhakti-āvṛtā sādhvī tathā iti pratyabhāṣata.. 13..
ततः सीतां शिरःस्नातां संयुक्तां प्रतिकर्मणा। महार्हाभरणोपेतां महार्हाम्बरधारिणीम्॥ १४॥
ततस् सीताम् शिरः-स्नाताम् संयुक्ताम् प्रतिकर्मणा। महार्ह-आभरण-उपेताम् महार्ह-अम्बर-धारिणीम्॥ १४॥
tatas sītām śiraḥ-snātām saṃyuktām pratikarmaṇā. mahārha-ābharaṇa-upetām mahārha-ambara-dhāriṇīm.. 14..
आरोप्य शिबिकां दीप्तां परार्घ्याम्बरसंवृताम्। रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः॥ १५॥
आरोप्य शिबिकाम् दीप्ताम् पर-अर्घ्य-अम्बर-संवृताम्। रक्षोभिः बहुभिः गुप्ताम् आजहार विभीषणः॥ १५॥
āropya śibikām dīptām para-arghya-ambara-saṃvṛtām. rakṣobhiḥ bahubhiḥ guptām ājahāra vibhīṣaṇaḥ.. 15..
सोऽभिगम्य महात्मानं ज्ञात्वापि ध्यानमास्थितम्। प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत्॥ १६॥
सः अभिगम्य महात्मानम् ज्ञात्वा अपि ध्यानम् आस्थितम्। प्रणतः च प्रहृष्टः च प्राप्ताम् सीताम् न्यवेदयत्॥ १६॥
saḥ abhigamya mahātmānam jñātvā api dhyānam āsthitam. praṇataḥ ca prahṛṣṭaḥ ca prāptām sītām nyavedayat.. 16..
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्। रोषं हर्षं च दैन्यं च राघवः प्राप शत्रुहा॥ १७॥
ताम् आगताम् उपश्रुत्य रक्षः-गृह-चिर-उषिताम्। रोषम् हर्षम् च दैन्यम् च राघवः प्राप शत्रु-हा॥ १७॥
tām āgatām upaśrutya rakṣaḥ-gṛha-cira-uṣitām. roṣam harṣam ca dainyam ca rāghavaḥ prāpa śatru-hā.. 17..
ततो यानगतां सीतां सविमर्शं विचारयन्। विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत्॥ १८॥
ततस् यान-गताम् सीताम् स विमर्शम् विचारयन्। विभीषणम् इदम् वाक्यम् अहृष्टः राघवः अब्रवीत्॥ १८॥
tatas yāna-gatām sītām sa vimarśam vicārayan. vibhīṣaṇam idam vākyam ahṛṣṭaḥ rāghavaḥ abravīt.. 18..
राक्षसाधिपते सौम्य नित्यं मद्विजये रत। वैदेही संनिकर्षं मे क्षिप्रं समभिगच्छतु॥ १९॥
राक्षस-अधिपते सौम्य नित्यम् मद्-विजये रत। वैदेही संनिकर्षम् मे क्षिप्रम् समभिगच्छतु॥ १९॥
rākṣasa-adhipate saumya nityam mad-vijaye rata. vaidehī saṃnikarṣam me kṣipram samabhigacchatu.. 19..
तस्य तद् वचनं श्रुत्वा राघवस्य विभीषणः। तूर्णमुत्सारणं तत्र कारयामास धर्मवित्॥ २०॥
तस्य तत् वचनम् श्रुत्वा राघवस्य विभीषणः। तूर्णम् उत्सारणम् तत्र कारयामास धर्म-विद्॥ २०॥
tasya tat vacanam śrutvā rāghavasya vibhīṣaṇaḥ. tūrṇam utsāraṇam tatra kārayāmāsa dharma-vid.. 20..
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः। उत्सारयन्तस्तान् योधान् समन्तात् परिचक्रमुः॥ २१॥
कञ्चुक-उष्णीषिणः तत्र वेत्र-झर्झर-पाणयः। उत्सारयन्तः तान् योधान् समन्तात् परिचक्रमुः॥ २१॥
kañcuka-uṣṇīṣiṇaḥ tatra vetra-jharjhara-pāṇayaḥ. utsārayantaḥ tān yodhān samantāt paricakramuḥ.. 21..
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः। वृन्दान्युत्सार्यमाणानि दूरमुत्तस्थुरन्ततः॥ २२॥
ऋक्षाणाम् वानराणाम् च राक्षसानाम् च सर्वशस्। वृन्दानि उत्सार्यमाणानि दूरम् उत्तस्थुः अन्ततस्॥ २२॥
ṛkṣāṇām vānarāṇām ca rākṣasānām ca sarvaśas. vṛndāni utsāryamāṇāni dūram uttasthuḥ antatas.. 22..
तेषामुत्सार्यमाणानां निःस्वनः सुमहानभूत्। वायुनोद्धूयमानस्य सागरस्येव निःस्वनः॥ २३॥
तेषाम् उत्सार्यमाणानाम् निःस्वनः सु महान् अभूत्। वायुना उद्धूयमानस्य सागरस्य इव निःस्वनः॥ २३॥
teṣām utsāryamāṇānām niḥsvanaḥ su mahān abhūt. vāyunā uddhūyamānasya sāgarasya iva niḥsvanaḥ.. 23..
उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान्। दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः॥ २४॥
उत्सार्यमाणान् तान् दृष्ट्वा समन्तात् जात-सम्भ्रमान्। दाक्षिण्यात् तद्-अमर्षात् च वारयामास राघवः॥ २४॥
utsāryamāṇān tān dṛṣṭvā samantāt jāta-sambhramān. dākṣiṇyāt tad-amarṣāt ca vārayāmāsa rāghavaḥ.. 24..
संरम्भाच्चाब्रवीद् रामश्चक्षुषा प्रदहन्निव। विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः॥ २५॥
संरम्भात् च अब्रवीत् रामः चक्षुषा प्रदहन् इव। विभीषणम् महा-प्राज्ञम् स उपालम्भम् इदम् वचः॥ २५॥
saṃrambhāt ca abravīt rāmaḥ cakṣuṣā pradahan iva. vibhīṣaṇam mahā-prājñam sa upālambham idam vacaḥ.. 25..
किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः। निवर्तयैनमुद्वेगं जनोऽयं स्वजनो मम॥ २६॥
किमर्थम् माम् अन् आदृत्य क्लिश्यते अयम् त्वया जनः। निवर्तय एनम् उद्वेगम् जनः अयम् स्व-जनः मम॥ २६॥
kimartham mām an ādṛtya kliśyate ayam tvayā janaḥ. nivartaya enam udvegam janaḥ ayam sva-janaḥ mama.. 26..
न गृहाणि न वस्त्राणि न प्राकारस्तिरस्क्रिया। नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः॥ २७॥
न गृहाणि न वस्त्राणि न प्राकारः तिरस्क्रिया। न ईदृशाः राज-सत्काराः वृत्तम् आवरणम् स्त्रियाः॥ २७॥
na gṛhāṇi na vastrāṇi na prākāraḥ tiraskriyā. na īdṛśāḥ rāja-satkārāḥ vṛttam āvaraṇam striyāḥ.. 27..
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे। न क्रतौ नो विवाहे वा दर्शनं दूष्यते स्त्रियाः॥ २८॥
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे। न क्रतौ नो विवाहे वा दर्शनम् दूष्यते स्त्रियाः॥ २८॥
vyasaneṣu na kṛcchreṣu na yuddheṣu svayaṃvare. na kratau no vivāhe vā darśanam dūṣyate striyāḥ.. 28..
सैषा विपद्गता चैव कृच्छ्रेण च समन्विता। दर्शने नास्ति दोषोऽस्या मत्समीपे विशेषतः॥ २९॥
सा एषा विपद्-गता च एव कृच्छ्रेण च समन्विता। दर्शने न अस्ति दोषः अस्याः मद्-समीपे विशेषतः॥ २९॥
sā eṣā vipad-gatā ca eva kṛcchreṇa ca samanvitā. darśane na asti doṣaḥ asyāḥ mad-samīpe viśeṣataḥ.. 29..
विसृज्य शिबिकां तस्मात् पद्भ्यामेवापसर्पतु। समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः॥ ३०॥
विसृज्य शिबिकाम् तस्मात् पद्भ्याम् एव अपसर्पतु। समीपे मम वैदेहीम् पश्यन्तु एते वनौकसः॥ ३०॥
visṛjya śibikām tasmāt padbhyām eva apasarpatu. samīpe mama vaidehīm paśyantu ete vanaukasaḥ.. 30..
एवमुक्तस्तु रामेण सविमर्शो विभीषणः। रामस्योपानयत् सीतां संनिकर्षं विनीतवत्॥ ३१॥
एवम् उक्तः तु रामेण स विमर्शः विभीषणः। रामस्य उपानयत् सीताम् संनिकर्षम् विनीत-वत्॥ ३१॥
evam uktaḥ tu rāmeṇa sa vimarśaḥ vibhīṣaṇaḥ. rāmasya upānayat sītām saṃnikarṣam vinīta-vat.. 31..
ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवङ्गमः। निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम्॥ ३२॥
ततस् लक्ष्मण-सुग्रीवौ हनूमान् च प्लवङ्गमः। निशम्य वाक्यम् रामस्य बभूवुः व्यथिताः भृशम्॥ ३२॥
tatas lakṣmaṇa-sugrīvau hanūmān ca plavaṅgamaḥ. niśamya vākyam rāmasya babhūvuḥ vyathitāḥ bhṛśam.. 32..
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः। अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम्॥ ३३॥
कलत्र-निरपेक्षैः च इङ्गितैः अस्य दारुणैः। अ प्रीतम् इव सीतायाम् तर्कयन्ति स्म राघवम्॥ ३३॥
kalatra-nirapekṣaiḥ ca iṅgitaiḥ asya dāruṇaiḥ. a prītam iva sītāyām tarkayanti sma rāghavam.. 33..
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली। विभीषणेनानुगता भर्तारं साभ्यवर्तत॥ ३४॥
लज्जया तु अवलीयन्ती स्वेषु गात्रेषु मैथिली। विभीषणेन अनुगता भर्तारम् सा अभ्यवर्तत॥ ३४॥
lajjayā tu avalīyantī sveṣu gātreṣu maithilī. vibhīṣaṇena anugatā bhartāram sā abhyavartata.. 34..
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता। उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना॥ ३५॥
विस्मयात् च प्रहर्षात् च स्नेहात् च पति-देवता। उदैक्षत मुखम् भर्तुः सौम्यम् सौम्यतर-आनना॥ ३५॥
vismayāt ca praharṣāt ca snehāt ca pati-devatā. udaikṣata mukham bhartuḥ saumyam saumyatara-ānanā.. 35..
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य। वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदाऽऽसीत्॥ ३६॥
अथ समपनुदत् मनः-क्लमम् सा सु चिरम् अदृष्टम् उदीक्ष्य वै प्रियस्य। वदनम् उदित-पूर्ण-चन्द्र-कान्तम् विमल-शशाङ्क-निभ-आनना तदा आसीत्॥ ३६॥
atha samapanudat manaḥ-klamam sā su ciram adṛṣṭam udīkṣya vai priyasya. vadanam udita-pūrṇa-candra-kāntam vimala-śaśāṅka-nibha-ānanā tadā āsīt.. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In