This overlay will guide you through the buttons:

| |
|
तां तु पार्श्वे स्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम्। हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे॥ १॥
ताम् तु पार्श्वे स्थिताम् प्रह्वाम् रामः सम्प्रेक्ष्य मैथिलीम्। हृदय-अन्तर्गतम् भावम् व्याहर्तुम् उपचक्रमे॥ १॥
tām tu pārśve sthitām prahvām rāmaḥ samprekṣya maithilīm. hṛdaya-antargatam bhāvam vyāhartum upacakrame.. 1..
एषासि निर्जिता भद्रे शत्रुं जित्वा रणाजिरे। पौरुषाद् यदनुष्ठेयं मयैतदुपपादितम्॥ २॥
एषा असि निर्जिता भद्रे शत्रुम् जित्वा रण-अजिरे। पौरुषात् यत् अनुष्ठेयम् मया एतत् उपपादितम्॥ २॥
eṣā asi nirjitā bhadre śatrum jitvā raṇa-ajire. pauruṣāt yat anuṣṭheyam mayā etat upapāditam.. 2..
गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता। अवमानश्च शत्रुश्च युगपन्निहतौ मया॥ ३॥
गतः अस्मि अन्तम् अमर्षस्य धर्षणा सम्प्रमार्जिता। अवमानः च शत्रुः च युगपद् निहतौ मया॥ ३॥
gataḥ asmi antam amarṣasya dharṣaṇā sampramārjitā. avamānaḥ ca śatruḥ ca yugapad nihatau mayā.. 3..
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः। अद्य तीर्णप्रतिज्ञोऽहं प्रभवाम्यद्य चात्मनः॥ ४॥
अद्य मे पौरुषम् दृष्टम् अद्य मे सफलः श्रमः। अद्य तीर्ण-प्रतिज्ञः अहम् प्रभवामि अद्य च आत्मनः॥ ४॥
adya me pauruṣam dṛṣṭam adya me saphalaḥ śramaḥ. adya tīrṇa-pratijñaḥ aham prabhavāmi adya ca ātmanaḥ.. 4..
या त्वं विरहिता नीता चलचित्तेन रक्षसा। दैवसम्पादितो दोषो मानुषेण मया जितः॥ ५॥
या त्वम् विरहिता नीता चल-चित्तेन रक्षसा। दैव-सम्पादितः दोषः मानुषेण मया जितः॥ ५॥
yā tvam virahitā nītā cala-cittena rakṣasā. daiva-sampāditaḥ doṣaḥ mānuṣeṇa mayā jitaḥ.. 5..
सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति। कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः॥ ६॥
सम्प्राप्तम् अवमानम् यः तेजसा न प्रमार्जति। कः तस्य पौरुषेण अर्थः महता अपि अल्प-चेतसः॥ ६॥
samprāptam avamānam yaḥ tejasā na pramārjati. kaḥ tasya pauruṣeṇa arthaḥ mahatā api alpa-cetasaḥ.. 6..
लङ्घनं च समुद्रस्य लङ्कायाश्चापि मर्दनम्। सफलं तस्य च श्लाघ्यमद्य कर्म हनूमतः॥ ७॥
लङ्घनम् च समुद्रस्य लङ्कायाः च अपि मर्दनम्। सफलम् तस्य च श्लाघ्यम् अद्य कर्म हनूमतः॥ ७॥
laṅghanam ca samudrasya laṅkāyāḥ ca api mardanam. saphalam tasya ca ślāghyam adya karma hanūmataḥ.. 7..
युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तथा। सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः॥ ८॥
युद्धे विक्रमतः च एव हितम् मन्त्रयतः तथा। सुग्रीवस्य स सैन्यस्य सफलः अद्य परिश्रमः॥ ८॥
yuddhe vikramataḥ ca eva hitam mantrayataḥ tathā. sugrīvasya sa sainyasya saphalaḥ adya pariśramaḥ.. 8..
विभीषणस्य च तथा सफलोऽद्य परिश्रमः। विगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः॥ ९॥
विभीषणस्य च तथा सफलः अद्य परिश्रमः। विगुणम् भ्रातरम् त्यक्त्वा यः माम् स्वयम् उपस्थितः॥ ९॥
vibhīṣaṇasya ca tathā saphalaḥ adya pariśramaḥ. viguṇam bhrātaram tyaktvā yaḥ mām svayam upasthitaḥ.. 9..
इत्येवं वदतः श्रुत्वा सीता रामस्य तद् वचः। मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता॥ १०॥
इति एवम् वदतः श्रुत्वा सीता रामस्य तत् वचः। मृगी इव उत्फुल्ल-नयना बभूव अश्रु-परिप्लुता॥ १०॥
iti evam vadataḥ śrutvā sītā rāmasya tat vacaḥ. mṛgī iva utphulla-nayanā babhūva aśru-pariplutā.. 10..
पश्यतस्तां तु रामस्य समीपे हृदयप्रियाम्। जनवादभयाद् राज्ञो बभूव हृदयं द्विधा॥ ११॥
पश्यतः ताम् तु रामस्य समीपे हृदय-प्रियाम्। जनवाद-भयात् राज्ञः बभूव हृदयम् द्विधा॥ ११॥
paśyataḥ tām tu rāmasya samīpe hṛdaya-priyām. janavāda-bhayāt rājñaḥ babhūva hṛdayam dvidhā.. 11..
सीतामुत्पलपत्राक्षीं नीलकुञ्चितमूर्धजाम्। अवदद् वै वरारोहां मध्ये वानररक्षसाम्॥ १२॥
सीताम् उत्पल-पत्र-अक्षीम् नील-कुञ्चित-मूर्धजाम्। अवदत् वै वरारोहाम् मध्ये वानर-रक्षसाम्॥ १२॥
sītām utpala-patra-akṣīm nīla-kuñcita-mūrdhajām. avadat vai varārohām madhye vānara-rakṣasām.. 12..
यत् कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता। तत् कृतं रावणं हत्वा मयेदं मानकांक्षिणा॥ १३॥
यत् कर्तव्यम् मनुष्येण धर्षणाम् प्रतिमार्जता। तत् कृतम् रावणम् हत्वा मया इदम् मान-कांक्षिणा॥ १३॥
yat kartavyam manuṣyeṇa dharṣaṇām pratimārjatā. tat kṛtam rāvaṇam hatvā mayā idam māna-kāṃkṣiṇā.. 13..
निर्जिता जीवलोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक्॥ १४॥
निर्जिताः जीव-लोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणा इव दिश्॥ १४॥
nirjitāḥ jīva-lokasya tapasā bhāvitātmanā. agastyena durādharṣā muninā dakṣiṇā iva diś.. 14..
विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः। सुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः॥ १५॥
विदितः च अस्तु भद्रम् ते यः अयम् रण-परिश्रमः। सु तीर्णः सुहृदाम् वीर्यात् न त्वद्-अर्थम् मया कृतः॥ १५॥
viditaḥ ca astu bhadram te yaḥ ayam raṇa-pariśramaḥ. su tīrṇaḥ suhṛdām vīryāt na tvad-artham mayā kṛtaḥ.. 15..
रक्षता तु मया वृत्तमपवादं च सर्वतः। प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता॥ १६॥
रक्षता तु मया वृत्तम् अपवादम् च सर्वतस्। प्रख्यातस्य आत्म-वंशस्य न्यङ्गम् च परिमार्जता॥ १६॥
rakṣatā tu mayā vṛttam apavādam ca sarvatas. prakhyātasya ātma-vaṃśasya nyaṅgam ca parimārjatā.. 16..
प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता। दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढा॥ १७॥
प्राप्त-चारित्र-संदेहा मम प्रतिमुखे स्थिता। दीपः नेत्र-आतुरस्य इव प्रतिकूला असि मे दृढा॥ १७॥
prāpta-cāritra-saṃdehā mama pratimukhe sthitā. dīpaḥ netra-āturasya iva pratikūlā asi me dṛḍhā.. 17..
तद् गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे। एता दश दिशो भद्रे कार्यमस्ति न मे त्वया॥ १८॥
तत् गच्छ त्वा अनुजाने अद्य यथेष्टम् जनकात्मजे। एताः दश दिशः भद्रे कार्यम् अस्ति न मे त्वया॥ १८॥
tat gaccha tvā anujāne adya yatheṣṭam janakātmaje. etāḥ daśa diśaḥ bhadre kāryam asti na me tvayā.. 18..
कः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम्। तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा॥ १९॥
कः पुमान् तु कुले जातः स्त्रियम् पर-गृह-उषिताम्। तेजस्वी पुनर् आदद्यात् सुहृद्-लोभेन चेतसा॥ १९॥
kaḥ pumān tu kule jātaḥ striyam para-gṛha-uṣitām. tejasvī punar ādadyāt suhṛd-lobhena cetasā.. 19..
रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा। कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत्॥ २०॥
रावण-अङ्क-परिक्लिष्टाम् दृष्टाम् दुष्टेन चक्षुषा। कथम् त्वाम् पुनर् आदद्याम् कुलम् व्यपदिशन् महत्॥ २०॥
rāvaṇa-aṅka-parikliṣṭām dṛṣṭām duṣṭena cakṣuṣā. katham tvām punar ādadyām kulam vyapadiśan mahat.. 20..
यदर्थं निर्जिता मे त्वं सोऽयमासादितो मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति॥ २१॥
यद्-अर्थम् निर्जिता मे त्वम् सः अयम् आसादितः मया। न अस्ति मे त्वयि अभिष्वङ्गः यथेष्टम् गम्यताम् इति॥ २१॥
yad-artham nirjitā me tvam saḥ ayam āsāditaḥ mayā. na asti me tvayi abhiṣvaṅgaḥ yatheṣṭam gamyatām iti.. 21..
तदद्य व्याहृतं भद्रे मयैतत् कृतबुद्धिना। लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम्॥ २२॥
तत् अद्य व्याहृतम् भद्रे मया एतत् कृत-बुद्धिना। लक्ष्मणे वा अथ भरते कुरु बुद्धिम् यथासुखम्॥ २२॥
tat adya vyāhṛtam bhadre mayā etat kṛta-buddhinā. lakṣmaṇe vā atha bharate kuru buddhim yathāsukham.. 22..
शत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे। निवेशय मनः सीते यथा वा सुखमात्मना॥ २३॥
शत्रुघ्ने वा अथ सुग्रीवे राक्षसे वा विभीषणे। निवेशय मनः सीते यथा वा सुखम् आत्मना॥ २३॥
śatrughne vā atha sugrīve rākṣase vā vibhīṣaṇe. niveśaya manaḥ sīte yathā vā sukham ātmanā.. 23..
नहि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। मर्षयेत चिरं सीते स्वगृहे पर्यवस्थिताम्॥ २४॥
नहि त्वाम् रावणः दृष्ट्वा दिव्य-रूपाम् मनोरमाम्। मर्षयेत चिरम् सीते स्व-गृहे पर्यवस्थिताम्॥ २४॥
nahi tvām rāvaṇaḥ dṛṣṭvā divya-rūpām manoramām. marṣayeta ciram sīte sva-gṛhe paryavasthitām.. 24..
ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मानिनी। मुमोच बाष्पं रुदती तदा भृशं गजेन्द्रहस्ताभिहतेव वल्लरी॥ २५॥
ततस् प्रिय-अर्ह-श्रवणा तत् अप्रियम् प्रियात् उपश्रुत्य चिरस्य मानिनी। मुमोच बाष्पम् रुदती तदा भृशम् गज-इन्द्र-हस्त-अभिहता इव वल्लरी॥ २५॥
tatas priya-arha-śravaṇā tat apriyam priyāt upaśrutya cirasya māninī. mumoca bāṣpam rudatī tadā bhṛśam gaja-indra-hasta-abhihatā iva vallarī.. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In