This overlay will guide you through the buttons:

| |
|
एवमुक्ता तु वैदेही परुषं रोमहर्षणम्। राघवेण सरोषेण श्रुत्वा प्रव्यथिताभवत्॥ १॥
एवम् उक्ता तु वैदेही परुषम् रोम-हर्षणम्। राघवेण स रोषेण श्रुत्वा प्रव्यथिता अभवत्॥ १॥
evam uktā tu vaidehī paruṣam roma-harṣaṇam. rāghaveṇa sa roṣeṇa śrutvā pravyathitā abhavat.. 1..
सा तदाश्रुतपूर्वं हि जने महति मैथिली। श्रुत्वा भर्तुर्वचो घोरं लज्जयावनताभवत्॥ २॥
सा तदा आश्रुत-पूर्वम् हि जने महति मैथिली। श्रुत्वा भर्तुः वचः घोरम् लज्जया अवनता अभवत्॥ २॥
sā tadā āśruta-pūrvam hi jane mahati maithilī. śrutvā bhartuḥ vacaḥ ghoram lajjayā avanatā abhavat.. 2..
प्रविशन्तीव गात्राणि स्वानि सा जनकात्मजा। वाक्शरैस्तैः सशल्येव भृशमश्रूण्यवर्तयत्॥ ३॥
प्रविशन्ती इव गात्राणि स्वानि सा जनकात्मजा। वाच्-शरैः तैः स शल्या इव भृशम् अश्रूणि अवर्तयत्॥ ३॥
praviśantī iva gātrāṇi svāni sā janakātmajā. vāc-śaraiḥ taiḥ sa śalyā iva bhṛśam aśrūṇi avartayat.. 3..
ततो बाष्पपरिक्लिन्नं प्रमार्जन्ती स्वमाननम्। शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत्॥ ४॥
ततस् बाष्प-परिक्लिन्नम् प्रमार्जन्ती स्वम् आननम्। शनैस् गद्गदया वाचा भर्तारम् इदम् अब्रवीत्॥ ४॥
tatas bāṣpa-pariklinnam pramārjantī svam ānanam. śanais gadgadayā vācā bhartāram idam abravīt.. 4..
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्। रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव॥ ५॥
किम् माम् असदृशम् वाक्यम् ईदृशम् श्रोत्र-दारुणम्। रूक्षम् श्रावयसे वीर प्राकृतः प्राकृताम् इव॥ ५॥
kim mām asadṛśam vākyam īdṛśam śrotra-dāruṇam. rūkṣam śrāvayase vīra prākṛtaḥ prākṛtām iva.. 5..
न तथास्मि महाबाहो यथा मामवगच्छसि। प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे॥ ६॥
न तथा अस्मि महा-बाहो यथा माम् अवगच्छसि। प्रत्ययम् गच्छ मे स्वेन चारित्रेण एव ते शपे॥ ६॥
na tathā asmi mahā-bāho yathā mām avagacchasi. pratyayam gaccha me svena cāritreṇa eva te śape.. 6..
पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे। परित्यजैनां शङ्कां तु यदि तेऽहं परीक्षिता॥ ७॥
पृथक् स्त्रीणाम् प्रचारेण जातिम् त्वम् परिशङ्कसे। परित्यज एनाम् शङ्काम् तु यदि ते अहम् परीक्षिता॥ ७॥
pṛthak strīṇām pracāreṇa jātim tvam pariśaṅkase. parityaja enām śaṅkām tu yadi te aham parīkṣitā.. 7..
यदहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो। कामकारो न मे तत्र दैवं तत्रापराध्यति॥ ८॥
यत् अहम् गात्र-संस्पर्शम् गता अस्मि विवशा प्रभो। कामकारः न मे तत्र दैवम् तत्र अपराध्यति॥ ८॥
yat aham gātra-saṃsparśam gatā asmi vivaśā prabho. kāmakāraḥ na me tatra daivam tatra aparādhyati.. 8..
मदधीनं तु यत् तन्मे हृदयं त्वयि वर्तते। पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरी॥ ९॥
मद्-अधीनम् तु यत् तत् मे हृदयम् त्वयि वर्तते। पर-अधीनेषु गात्रेषु किम् करिष्यामि अनीश्वरी॥ ९॥
mad-adhīnam tu yat tat me hṛdayam tvayi vartate. para-adhīneṣu gātreṣu kim kariṣyāmi anīśvarī.. 9..
सह संवृद्धभावेन संसर्गेण च मानद। यदि तेऽहं न विज्ञाता हता तेनास्मि शाश्वतम्॥ १०॥
सह संवृद्ध-भावेन संसर्गेण च मानद। यदि ते अहम् न विज्ञाता हता तेन अस्मि शाश्वतम्॥ १०॥
saha saṃvṛddha-bhāvena saṃsargeṇa ca mānada. yadi te aham na vijñātā hatā tena asmi śāśvatam.. 10..
प्रेषितस्ते महावीरो हनुमानवलोककः। लङ्कास्थाहं त्वया राजन् किं तदा न विसर्जिता॥ ११॥
प्रेषितः ते महा-वीरः हनुमान् अवलोककः। लङ्का-स्था अहम् त्वया राजन् किम् तदा न विसर्जिता॥ ११॥
preṣitaḥ te mahā-vīraḥ hanumān avalokakaḥ. laṅkā-sthā aham tvayā rājan kim tadā na visarjitā.. 11..
प्रत्यक्षं वानरस्यास्य तद्वाक्यसमनन्तरम्। त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया॥ १२॥
प्रत्यक्षम् वानरस्य अस्य तद्-वाक्य-समनन्तरम्। त्वया संत्यक्तया वीर त्यक्तम् स्यात् जीवितम् मया॥ १२॥
pratyakṣam vānarasya asya tad-vākya-samanantaram. tvayā saṃtyaktayā vīra tyaktam syāt jīvitam mayā.. 12..
न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम्। सुहृज्जनपरिक्लेशो न चायं विफलस्तव॥ १३॥
न वृथा ते श्रमः अयम् स्यात् संशये न्यस्य जीवितम्। सुहृद्-जन-परिक्लेशः न च अयम् विफलः तव॥ १३॥
na vṛthā te śramaḥ ayam syāt saṃśaye nyasya jīvitam. suhṛd-jana-parikleśaḥ na ca ayam viphalaḥ tava.. 13..
त्वया तु नृपशार्दूल रोषमेवानुवर्तता। लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम्॥ १४॥
त्वया तु नृप-शार्दूल रोषम् एव अनुवर्तता। लघुना इव मनुष्येण स्त्री-त्वम् एव पुरस्कृतम्॥ १४॥
tvayā tu nṛpa-śārdūla roṣam eva anuvartatā. laghunā iva manuṣyeṇa strī-tvam eva puraskṛtam.. 14..
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात्। मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम्॥ १५॥
अपदेशेन जनकात् ना उत्पत्तिः वसुधा-तलात्। मम वृत्तम् च वृत्त-ज्ञ बहु ते न पुरस्कृतम्॥ १५॥
apadeśena janakāt nā utpattiḥ vasudhā-talāt. mama vṛttam ca vṛtta-jña bahu te na puraskṛtam.. 15..
न प्रमाणीकृतः पाणिर्बाल्ये मम निपीडितः। मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम्॥ १६॥
न प्रमाणीकृतः पाणिः बाल्ये मम निपीडितः। मम भक्तिः च शीलम् च सर्वम् ते पृष्ठतस् कृतम्॥ १६॥
na pramāṇīkṛtaḥ pāṇiḥ bālye mama nipīḍitaḥ. mama bhaktiḥ ca śīlam ca sarvam te pṛṣṭhatas kṛtam.. 16..
इति ब्रुवन्ती रुदती बाष्पगद्गदभाषिणी। उवाच लक्ष्मणं सीता दीनं ध्यानपरायणम्॥ १७॥
इति ब्रुवन्ती रुदती बाष्प-गद्गद-भाषिणी। उवाच लक्ष्मणम् सीता दीनम् ध्यान-परायणम्॥ १७॥
iti bruvantī rudatī bāṣpa-gadgada-bhāṣiṇī. uvāca lakṣmaṇam sītā dīnam dhyāna-parāyaṇam.. 17..
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्। मिथ्यापवादोपहता नाहं जीवितुमुत्सहे॥ १८॥
चिताम् मे कुरु सौमित्रे व्यसनस्य अस्य भेषजम्। मिथ्या अपवाद-उपहता न अहम् जीवितुम् उत्सहे॥ १८॥
citām me kuru saumitre vyasanasya asya bheṣajam. mithyā apavāda-upahatā na aham jīvitum utsahe.. 18..
अप्रीतेन गुणैर्भर्त्रा त्यक्ताया जनसंसदि। या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम्॥ १९॥
अ प्रीतेन गुणैः भर्त्रा त्यक्तायाः जन-संसदि। या क्षमा मे गतिः गन्तुम् प्रवेक्ष्ये हव्यवाहनम्॥ १९॥
a prītena guṇaiḥ bhartrā tyaktāyāḥ jana-saṃsadi. yā kṣamā me gatiḥ gantum pravekṣye havyavāhanam.. 19..
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा। अमर्षवशमापन्नो राघवं समुदैक्षत॥ २०॥
एवम् उक्तः तु वैदेह्या लक्ष्मणः पर-वीर-हा। अमर्ष-वशम् आपन्नः राघवम् समुदैक्षत॥ २०॥
evam uktaḥ tu vaidehyā lakṣmaṇaḥ para-vīra-hā. amarṣa-vaśam āpannaḥ rāghavam samudaikṣata.. 20..
स विज्ञाय मनश्छन्दं रामस्याकारसूचितम्। चितां चकार सौमित्रिर्मते रामस्य वीर्यवान्॥ २१॥
स विज्ञाय मनः-छन्दम् रामस्य आकार-सूचितम्। चिताम् चकार सौमित्रिः मते रामस्य वीर्यवान्॥ २१॥
sa vijñāya manaḥ-chandam rāmasya ākāra-sūcitam. citām cakāra saumitriḥ mate rāmasya vīryavān.. 21..
नहि रामं तदा कश्चित् कालान्तकयमोपमम्। अनुनेतुमथो वक्तुं द्रष्टुं वाप्यशकत् सुहृत्॥ २२॥
नहि रामम् तदा कश्चिद् काल-अन्तक-यम-उपमम्। अनुनेतुम् अथो वक्तुम् द्रष्टुम् वा अपि अशकत् सुहृद्॥ २२॥
nahi rāmam tadā kaścid kāla-antaka-yama-upamam. anunetum atho vaktum draṣṭum vā api aśakat suhṛd.. 22..
अधोमुखं स्थितं रामं ततः कृत्वा प्रदक्षिणम्। उपावर्तत वैदेही दीप्यमानं हुताशनम्॥ २३॥
अधोमुखम् स्थितम् रामम् ततस् कृत्वा प्रदक्षिणम्। उपावर्तत वैदेही दीप्यमानम् हुताशनम्॥ २३॥
adhomukham sthitam rāmam tatas kṛtvā pradakṣiṇam. upāvartata vaidehī dīpyamānam hutāśanam.. 23..
प्रणम्य दैवतेभ्यश्च ब्राह्मणेभ्यश्च मैथिली। बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः॥ २४॥
प्रणम्य दैवतेभ्यः च ब्राह्मणेभ्यः च मैथिली। बद्धाञ्जलि-पुटा च इदम् उवाच अग्नि-समीपतः॥ २४॥
praṇamya daivatebhyaḥ ca brāhmaṇebhyaḥ ca maithilī. baddhāñjali-puṭā ca idam uvāca agni-samīpataḥ.. 24..
यथा मे हृदयं नित्यं नापसर्पति राघवात्। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ २५॥
यथा मे हृदयम् नित्यम् न अपसर्पति राघवात्। तथा लोकस्य साक्षी माम् सर्वतस् पातु पावकः॥ २५॥
yathā me hṛdayam nityam na apasarpati rāghavāt. tathā lokasya sākṣī mām sarvatas pātu pāvakaḥ.. 25..
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ २६॥
यथा माम् शुद्ध-चारित्राम् दुष्टाम् जानाति राघवः। तथा लोकस्य साक्षी माम् सर्वतस् पातु पावकः॥ २६॥
yathā mām śuddha-cāritrām duṣṭām jānāti rāghavaḥ. tathā lokasya sākṣī mām sarvatas pātu pāvakaḥ.. 26..
कर्मणा मनसा वाचा यथा नातिचराम्यहम्। राघवं सर्वधर्मज्ञं तथा मां पातु पावकः॥ २७॥
कर्मणा मनसा वाचा यथा न अतिचरामि अहम्। राघवम् सर्व-धर्म-ज्ञम् तथा माम् पातु पावकः॥ २७॥
karmaṇā manasā vācā yathā na aticarāmi aham. rāghavam sarva-dharma-jñam tathā mām pātu pāvakaḥ.. 27..
आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च। अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा। यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम्॥ २८॥
आदित्यः भगवान् वायुः दिशः चन्द्रः तथा एव च। अहर् च अपि तथा संध्ये रात्रिः च पृथिवी तथा। यथा अन्ये अपि विजानन्ति तथा चारित्र-संयुताम्॥ २८॥
ādityaḥ bhagavān vāyuḥ diśaḥ candraḥ tathā eva ca. ahar ca api tathā saṃdhye rātriḥ ca pṛthivī tathā. yathā anye api vijānanti tathā cāritra-saṃyutām.. 28..
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्। विवेश ज्वलनं दीप्तं निःशङ्केनान्तरात्मना॥ २९॥
एवम् उक्त्वा तु वैदेही परिक्रम्य हुताशनम्। विवेश ज्वलनम् दीप्तम् निःशङ्केन अन्तरात्मना॥ २९॥
evam uktvā tu vaidehī parikramya hutāśanam. viveśa jvalanam dīptam niḥśaṅkena antarātmanā.. 29..
जनश्च सुमहांस्तत्र बालवृद्धसमाकुलः। ददर्श मैथिलीं दीप्तां प्रविशन्तीं हुताशनम्॥ ३०॥
जनः च सु महान् तत्र बाल-वृद्ध-समाकुलः। ददर्श मैथिलीम् दीप्ताम् प्रविशन्तीम् हुताशनम्॥ ३०॥
janaḥ ca su mahān tatra bāla-vṛddha-samākulaḥ. dadarśa maithilīm dīptām praviśantīm hutāśanam.. 30..
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा। पपात ज्वलनं दीप्तं सर्वलोकस्य संनिधौ॥ ३१॥
सा तप्त-नव-हेम-आभा तप्त-काञ्चन-भूषणा। पपात ज्वलनम् दीप्तम् सर्व-लोकस्य संनिधौ॥ ३१॥
sā tapta-nava-hema-ābhā tapta-kāñcana-bhūṣaṇā. papāta jvalanam dīptam sarva-lokasya saṃnidhau.. 31..
ददृशुस्तां विशालाक्षीं पतन्तीं हव्यवाहनम्। सीतां सर्वाणि रूपाणि रुक्मवेदिनिभां तदा॥ ३२॥
ददृशुः ताम् विशाल-अक्षीम् पतन्तीम् हव्यवाहनम्। सीताम् सर्वाणि रूपाणि रुक्म-वेदि-निभाम् तदा॥ ३२॥
dadṛśuḥ tām viśāla-akṣīm patantīm havyavāhanam. sītām sarvāṇi rūpāṇi rukma-vedi-nibhām tadā.. 32..
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम्। ऋषयो देवगन्धर्वा यज्ञे पूर्णाहुतीमिव॥ ३३॥
ददृशुः ताम् महाभागाम् प्रविशन्तीम् हुताशनम्। ऋषयः देव-गन्धर्वाः यज्ञे पूर्णाहुतीम् इव॥ ३३॥
dadṛśuḥ tām mahābhāgām praviśantīm hutāśanam. ṛṣayaḥ deva-gandharvāḥ yajñe pūrṇāhutīm iva.. 33..
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने। पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे॥ ३४॥
प्रचुक्रुशुः स्त्रियः सर्वाः ताम् दृष्ट्वा हव्यवाहने। पतन्तीम् संस्कृताम् मन्त्रैः वसोः धाराम् इव अध्वरे॥ ३४॥
pracukruśuḥ striyaḥ sarvāḥ tām dṛṣṭvā havyavāhane. patantīm saṃskṛtām mantraiḥ vasoḥ dhārām iva adhvare.. 34..
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः। शप्तां पतन्तीं निरये त्रिदिवाद् देवतामिव॥ ३५॥
ददृशुः ताम् त्रयः लोकाः देव-गन्धर्व-दानवाः। शप्ताम् पतन्तीम् निरये त्रिदिवात् देवताम् इव॥ ३५॥
dadṛśuḥ tām trayaḥ lokāḥ deva-gandharva-dānavāḥ. śaptām patantīm niraye tridivāt devatām iva.. 35..
तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः। रक्षसां वानराणां च सम्बभूवाद्भुतोपमः॥ ३६॥
तस्याम् अग्निम् विशन्त्याम् तु हाहा इति विपुलः स्वनः। रक्षसाम् वानराणाम् च सम्बभूव अद्भुत-उपमः॥ ३६॥
tasyām agnim viśantyām tu hāhā iti vipulaḥ svanaḥ. rakṣasām vānarāṇām ca sambabhūva adbhuta-upamaḥ.. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In