This overlay will guide you through the buttons:

| |
|
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः। दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः॥ १॥
ततस् हि दुर्मनाः रामः श्रुत्वा एवम् वदताम् गिरः। दध्यौ मुहूर्तम् धर्म-आत्मा बाष्प-व्याकुल-लोचनः॥ १॥
tatas hi durmanāḥ rāmaḥ śrutvā evam vadatām giraḥ. dadhyau muhūrtam dharma-ātmā bāṣpa-vyākula-locanaḥ.. 1..
ततो वैश्रवणो राजा यमश्च पितृभिः सह। सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः॥ २॥
ततस् वैश्रवणः राजा यमः च पितृभिः सह। सहस्राक्षः च देवेशः वरुणः च जलेश्वरः॥ २॥
tatas vaiśravaṇaḥ rājā yamaḥ ca pitṛbhiḥ saha. sahasrākṣaḥ ca deveśaḥ varuṇaḥ ca jaleśvaraḥ.. 2..
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः। कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः॥ ३॥
षष्-अर्ध-नयनः श्रीमान् महादेवः वृषध्वजः। कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्म-विदाम् वरः॥ ३॥
ṣaṣ-ardha-nayanaḥ śrīmān mahādevaḥ vṛṣadhvajaḥ. kartā sarvasya lokasya brahmā brahma-vidām varaḥ.. 3..
एते सर्वे समागम्य विमानैः सूर्यसंनिभैः। आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम्॥ ४॥
एते सर्वे समागम्य विमानैः सूर्य-संनिभैः। आगम्य नगरीम् लङ्काम् अभिजग्मुः च राघवम्॥ ४॥
ete sarve samāgamya vimānaiḥ sūrya-saṃnibhaiḥ. āgamya nagarīm laṅkām abhijagmuḥ ca rāghavam.. 4..
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान्। अब्रुवंस्त्रिदशश्रेष्ठा राघवं प्राञ्जलिं स्थितम्॥ ५॥
ततस् स हस्त-आभरणान् प्रगृह्य विपुलान् भुजान्। अब्रुवन् त्रिदश-श्रेष्ठाः राघवम् प्राञ्जलिम् स्थितम्॥ ५॥
tatas sa hasta-ābharaṇān pragṛhya vipulān bhujān. abruvan tridaśa-śreṣṭhāḥ rāghavam prāñjalim sthitam.. 5..
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानविदां विभुः। उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने। कथं देवगणश्रेष्ठमात्मानं नावबुद्ध््यसे॥ ६॥
कर्ता सर्वस्य लोकस्य श्रेष्ठः ज्ञान-विदाम् विभुः। उपेक्षसे कथम् सीताम् पतन्तीम् हव्यवाहने। कथम् देव-गण-श्रेष्ठम् आत्मानम् न अवबुद्ध्यसे॥ ६॥
kartā sarvasya lokasya śreṣṭhaḥ jñāna-vidām vibhuḥ. upekṣase katham sītām patantīm havyavāhane. katham deva-gaṇa-śreṣṭham ātmānam na avabuddhyase.. 6..
ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः। त्रयाणामपि लोकानामादिकर्ता स्वयंप्रभुः॥ ७॥
ऋतधामा वसुः पूर्वम् वसूनाम् च प्रजापतिः। त्रयाणाम् अपि लोकानाम् आदिकर्ता स्वयंप्रभुः॥ ७॥
ṛtadhāmā vasuḥ pūrvam vasūnām ca prajāpatiḥ. trayāṇām api lokānām ādikartā svayaṃprabhuḥ.. 7..
रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः। अश्विनौ चापि कर्णौ ते सूर्याचन्द्रमसौ दृशौ॥ ८॥
रुद्राणाम् अष्टमः रुद्रः साध्यानाम् अपि पञ्चमः। अश्विनौ च अपि कर्णौ ते सूर्याचन्द्रमसौ दृशौ॥ ८॥
rudrāṇām aṣṭamaḥ rudraḥ sādhyānām api pañcamaḥ. aśvinau ca api karṇau te sūryācandramasau dṛśau.. 8..
अन्ते चादौ च मध्ये च दृश्यसे च परंतप। उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा॥ ९॥
अन्ते च आदौ च मध्ये च दृश्यसे च परंतप। उपेक्षसे च वैदेहीम् मानुषः प्राकृतः यथा॥ ९॥
ante ca ādau ca madhye ca dṛśyase ca paraṃtapa. upekṣase ca vaidehīm mānuṣaḥ prākṛtaḥ yathā.. 9..
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः। अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः॥ १०॥
इति उक्तः लोकपालैः तैः स्वामी लोकस्य राघवः। अब्रवीत् त्रिदश-श्रेष्ठान् रामः धर्म-भृताम् वरः॥ १०॥
iti uktaḥ lokapālaiḥ taiḥ svāmī lokasya rāghavaḥ. abravīt tridaśa-śreṣṭhān rāmaḥ dharma-bhṛtām varaḥ.. 10..
आत्मानं मानुषं मन्ये रामं दशरथात्मजम्। सोऽहं यश्च यतश्चाहं भगवांस्तद् ब्रवीतु मे॥ ११॥
आत्मानम् मानुषम् मन्ये रामम् दशरथ-आत्मजम्। सः अहम् यः च यतस् च अहम् भगवान् तत् ब्रवीतु मे॥ ११॥
ātmānam mānuṣam manye rāmam daśaratha-ātmajam. saḥ aham yaḥ ca yatas ca aham bhagavān tat bravītu me.. 11..
इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः। अब्रवीच्छृणु मे वाक्यं सत्यं सत्यपराक्रम॥ १२॥
इति ब्रुवाणम् काकुत्स्थम् ब्रह्मा ब्रह्म-विदाम् वरः। अब्रवीत् शृणु मे वाक्यम् सत्यम् सत्य-पराक्रम॥ १२॥
iti bruvāṇam kākutstham brahmā brahma-vidām varaḥ. abravīt śṛṇu me vākyam satyam satya-parākrama.. 12..
भवान् नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः। एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित्॥ १३॥
भवान् नारायणः देवः श्रीमान् चक्र-आयुधः प्रभुः। एकशृङ्गः वराहः त्वम् भूत-भव्य-सपत्नजित्॥ १३॥
bhavān nārāyaṇaḥ devaḥ śrīmān cakra-āyudhaḥ prabhuḥ. ekaśṛṅgaḥ varāhaḥ tvam bhūta-bhavya-sapatnajit.. 13..
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव। लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः॥ १४॥
अक्षरम् ब्रह्म सत्यम् च मध्ये च अन्ते च राघव। लोकानाम् त्वम् परः धर्मः विष्वक्सेनः चतुर्भुजः॥ १४॥
akṣaram brahma satyam ca madhye ca ante ca rāghava. lokānām tvam paraḥ dharmaḥ viṣvaksenaḥ caturbhujaḥ.. 14..
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः। अजितः खड्गधृग् विष्णुः कृष्णश्चैव बृहद्बलः॥ १५॥
। अजितः खड्ग-धृक् विष्णुः कृष्णः च एव बृहत्-बलः॥ १५॥
. ajitaḥ khaḍga-dhṛk viṣṇuḥ kṛṣṇaḥ ca eva bṛhat-balaḥ.. 15..
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः। प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः॥ १६॥
सेना-नीः ग्रामणीः च त्वम् बुद्धिः सत्त्वम् क्षमा दमः। प्रभवः च अप्ययः च त्वम् उपेन्द्रः मधुसूदनः॥ १६॥
senā-nīḥ grāmaṇīḥ ca tvam buddhiḥ sattvam kṣamā damaḥ. prabhavaḥ ca apyayaḥ ca tvam upendraḥ madhusūdanaḥ.. 16..
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत्। शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः॥ १७॥
इन्द्रकर्मा महेन्द्रः त्वम् पद्मनाभः रणान्तकृत्। शरण्यम् शरणम् च त्वाम् आहुः दिव्याः महा-ऋषयः॥ १७॥
indrakarmā mahendraḥ tvam padmanābhaḥ raṇāntakṛt. śaraṇyam śaraṇam ca tvām āhuḥ divyāḥ mahā-ṛṣayaḥ.. 17..
सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः। त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः॥ १८॥
सहस्र-शृङ्गः वेदात्मा शत-शीर्षः महा-ऋषभः। त्वम् त्रयाणाम् हि लोकानाम् आदिकर्ता स्वयंप्रभुः॥ १८॥
sahasra-śṛṅgaḥ vedātmā śata-śīrṣaḥ mahā-ṛṣabhaḥ. tvam trayāṇām hi lokānām ādikartā svayaṃprabhuḥ.. 18..
सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः। त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परात्परः॥ १९॥
सिद्धानाम् अपि साध्यानाम् आश्रयः च असि पूर्वजः। त्वम् यज्ञः त्वम् वषट्कारः त्वम् ओंकारः परात्परः॥ १९॥
siddhānām api sādhyānām āśrayaḥ ca asi pūrvajaḥ. tvam yajñaḥ tvam vaṣaṭkāraḥ tvam oṃkāraḥ parātparaḥ.. 19..
प्रभवं निधनं चापि नो विदुः को भवानिति। दृश्यसे सर्वभूतेषु गोषु च ब्राह्मणेषु च॥ २०॥
प्रभवम् निधनम् च अपि नः विदुः कः भवान् इति। दृश्यसे सर्व-भूतेषु गोषु च ब्राह्मणेषु च॥ २०॥
prabhavam nidhanam ca api naḥ viduḥ kaḥ bhavān iti. dṛśyase sarva-bhūteṣu goṣu ca brāhmaṇeṣu ca.. 20..
दिक्षु सर्वासु गगने पर्वतेषु नदीषु च। सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक्॥ २१॥
दिक्षु सर्वासु गगने पर्वतेषु नदीषु च। सहस्र-चरणः श्रीमान् शत-शीर्षः सहस्र-दृश्॥ २१॥
dikṣu sarvāsu gagane parvateṣu nadīṣu ca. sahasra-caraṇaḥ śrīmān śata-śīrṣaḥ sahasra-dṛś.. 21..
त्वं धारयसि भूतानि पृथिवीं सर्वपर्वतान्। अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः॥ २२॥
त्वम् धारयसि भूतानि पृथिवीम् सर्व-पर्वतान्। अन्ते पृथिव्याः सलिले दृश्यसे त्वम् महा-उरगः॥ २२॥
tvam dhārayasi bhūtāni pṛthivīm sarva-parvatān. ante pṛthivyāḥ salile dṛśyase tvam mahā-uragaḥ.. 22..
त्रीँल्लोकान् धारयन् राम देवगन्धर्वदानवान्। अहं ते हृदयं राम जिह्वा देवी सरस्वती॥ २३॥
त्रीन् लोकान् धारयन् राम देव-गन्धर्व-दानवान्। अहम् ते हृदयम् राम जिह्वा देवी सरस्वती॥ २३॥
trīn lokān dhārayan rāma deva-gandharva-dānavān. aham te hṛdayam rāma jihvā devī sarasvatī.. 23..
देवा रोमाणि गात्रेषु ब्रह्मणा निर्मिताः प्रभो। निमेषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा॥ २४॥
देवाः रोमाणि गात्रेषु ब्रह्मणा निर्मिताः प्रभो। निमेषः ते स्मृताः रात्रिः उन्मेषः दिवसः तथा॥ २४॥
devāḥ romāṇi gātreṣu brahmaṇā nirmitāḥ prabho. nimeṣaḥ te smṛtāḥ rātriḥ unmeṣaḥ divasaḥ tathā.. 24..
संस्कारास्त्वभवन् वेदा नैतदस्ति त्वया विना। जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्॥ २५॥
संस्काराः तु अभवन् वेदाः न एतत् अस्ति त्वया विना। जगत् सर्वम् शरीरम् ते स्थैर्यम् ते वसुधा-तलम्॥ २५॥
saṃskārāḥ tu abhavan vedāḥ na etat asti tvayā vinā. jagat sarvam śarīram te sthairyam te vasudhā-talam.. 25..
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः। त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः॥ २६॥
अग्निः कोपः प्रसादः ते सोमः श्रीवत्स-लक्षणः। त्वया लोकाः त्रयः क्रान्ताः पुरा स्वैः विक्रमैः त्रिभिः॥ २६॥
agniḥ kopaḥ prasādaḥ te somaḥ śrīvatsa-lakṣaṇaḥ. tvayā lokāḥ trayaḥ krāntāḥ purā svaiḥ vikramaiḥ tribhiḥ.. 26..
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा सुदारुणम्। सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः॥ २७॥
महेन्द्रः च कृतः राजा बलिम् बद्ध्वा सु दारुणम्। सीता लक्ष्मीः भवान् विष्णुः देवः कृष्णः प्रजापतिः॥ २७॥
mahendraḥ ca kṛtaḥ rājā balim baddhvā su dāruṇam. sītā lakṣmīḥ bhavān viṣṇuḥ devaḥ kṛṣṇaḥ prajāpatiḥ.. 27..
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्। तदिदं नस्त्वया कार्यं कृतं धर्मभृतां वर॥ २८॥
वध-अर्थम् रावणस्य इह प्रविष्टः मानुषीम् तनुम्। तत् इदम् नः त्वया कार्यम् कृतम् धर्म-भृताम् वर॥ २८॥
vadha-artham rāvaṇasya iha praviṣṭaḥ mānuṣīm tanum. tat idam naḥ tvayā kāryam kṛtam dharma-bhṛtām vara.. 28..
निहतो रावणो राम प्रहृष्टो दिवमाक्रम। अमोघं देव वीर्यं ते न ते मोघाः पराक्रमाः॥ २९॥
निहतः रावणः राम प्रहृष्टः दिवम् आक्रम। अमोघम् देव वीर्यम् ते न ते मोघाः पराक्रमाः॥ २९॥
nihataḥ rāvaṇaḥ rāma prahṛṣṭaḥ divam ākrama. amogham deva vīryam te na te moghāḥ parākramāḥ.. 29..
अमोघं दर्शनं राम अमोघस्तव संस्तवः। अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि॥ ३०॥
अमोघम् दर्शनम् राम अमोघः तव संस्तवः। अमोघाः ते भविष्यन्ति भक्तिमन्तः नराः भुवि॥ ३०॥
amogham darśanam rāma amoghaḥ tava saṃstavaḥ. amoghāḥ te bhaviṣyanti bhaktimantaḥ narāḥ bhuvi.. 30..
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्। प्राप्नुवन्ति तथा कामानिह लोके परत्र च॥ ३१॥
ये त्वाम् देवम् ध्रुवम् भक्ताः पुराणम् पुरुषोत्तमम्। प्राप्नुवन्ति तथा कामान् इह लोके परत्र च॥ ३१॥
ye tvām devam dhruvam bhaktāḥ purāṇam puruṣottamam. prāpnuvanti tathā kāmān iha loke paratra ca.. 31..
इममार्षं स्तवं दिव्यमितिहासं पुरातनम्। ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः॥ ३२॥
इमम् आर्षम् स्तवम् दिव्यम् इतिहासम् पुरातनम्। ये नराः कीर्तयिष्यन्ति न अस्ति तेषाम् पराभवः॥ ३२॥
imam ārṣam stavam divyam itihāsam purātanam. ye narāḥ kīrtayiṣyanti na asti teṣām parābhavaḥ.. 32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In