This overlay will guide you through the buttons:

| |
|
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्। अङ्केनादाय वैदेहीमुत्पपात विभावसुः॥ १॥
एतत् श्रुत्वा शुभम् वाक्यम् पितामह-समीरितम्। अङ्केन आदाय वैदेहीम् उत्पपात विभावसुः॥ १॥
etat śrutvā śubham vākyam pitāmaha-samīritam. aṅkena ādāya vaidehīm utpapāta vibhāvasuḥ.. 1..
विधूयाथ चितां तां तु वैदेहीं हव्यवाहनः। उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम्॥ २॥
विधूय अथ चिताम् ताम् तु वैदेहीम् हव्यवाहनः। उत्तस्थौ मूर्तिमान् आशु गृहीत्वा जनकात्मजाम्॥ २॥
vidhūya atha citām tām tu vaidehīm havyavāhanaḥ. uttasthau mūrtimān āśu gṛhītvā janakātmajām.. 2..
तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्। रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्॥ ३॥
तरुण-आदित्य-संकाशाम् तप्त-काञ्चन-भूषणाम्। रक्त-अम्बर-धराम् बालाम् नील-कुञ्चित-मूर्धजाम्॥ ३॥
taruṇa-āditya-saṃkāśām tapta-kāñcana-bhūṣaṇām. rakta-ambara-dharām bālām nīla-kuñcita-mūrdhajām.. 3..
अक्लिष्टमाल्याभरणां तथारूपामनिन्दिताम्। ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः॥ ४॥
अक्लिष्ट-माल्य-आभरणाम् तथारूपाम् अनिन्दिताम्। ददौ रामाय वैदेहीम् अङ्के कृत्वा विभावसुः॥ ४॥
akliṣṭa-mālya-ābharaṇām tathārūpām aninditām. dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ.. 4..
अब्रवीत् तु तदा रामं साक्षी लोकस्य पावकः। एषा ते राम वैदेही पापमस्यां न विद्यते॥ ५॥
अब्रवीत् तु तदा रामम् साक्षी लोकस्य पावकः। एषा ते राम वैदेही पापम् अस्याम् न विद्यते॥ ५॥
abravīt tu tadā rāmam sākṣī lokasya pāvakaḥ. eṣā te rāma vaidehī pāpam asyām na vidyate.. 5..
नैव वाचा न मनसा नैव बुद्ध्या न चक्षुषा। सुवृत्ता वृत्तशौटीर्यं न त्वामत्यचरच्छुभा॥ ६॥
न एव वाचा न मनसा न एव बुद्ध्या न चक्षुषा। सु वृत्ता वृत्त-शौटीर्यम् न त्वाम् अत्यचरत् शुभा॥ ६॥
na eva vācā na manasā na eva buddhyā na cakṣuṣā. su vṛttā vṛtta-śauṭīryam na tvām atyacarat śubhā.. 6..
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा। त्वया विरहिता दीना विवशा निर्जने सती॥ ७॥
रावणेन अपनीता एषा वीर्य-उत्सिक्तेन रक्षसा। त्वया विरहिता दीना विवशा निर्जने सती॥ ७॥
rāvaṇena apanītā eṣā vīrya-utsiktena rakṣasā. tvayā virahitā dīnā vivaśā nirjane satī.. 7..
रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा। रक्षिता राक्षसीभिश्च घोराभिर्घोरबुद्धिभिः॥ ८॥
रुद्धा च अन्तःपुरे गुप्ता त्वद्-चित्ता त्वद्-परायणा। रक्षिता राक्षसीभिः च घोराभिः घोर-बुद्धिभिः॥ ८॥
ruddhā ca antaḥpure guptā tvad-cittā tvad-parāyaṇā. rakṣitā rākṣasībhiḥ ca ghorābhiḥ ghora-buddhibhiḥ.. 8..
प्रलोभ्यमाना विविधं तर्ज्यमाना च मैथिली। नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना॥ ९॥
प्रलोभ्यमाना विविधम् तर्ज्यमाना च मैथिली। न अचिन्तयत तत् रक्षः त्वद्-गतेन अन्तरात्मना॥ ९॥
pralobhyamānā vividham tarjyamānā ca maithilī. na acintayata tat rakṣaḥ tvad-gatena antarātmanā.. 9..
विशुद्धभावां निष्पापां प्रतिगृह्णीष्व मैथिलीम्। न किंचिदभिधातव्या अहमाज्ञापयामि ते॥ १०॥
विशुद्ध-भावाम् निष्पापाम् प्रतिगृह्णीष्व मैथिलीम्। न किंचिद् अभिधातव्याः अहम् आज्ञापयामि ते॥ १०॥
viśuddha-bhāvām niṣpāpām pratigṛhṇīṣva maithilīm. na kiṃcid abhidhātavyāḥ aham ājñāpayāmi te.. 10..
ततः प्रीतमना रामः श्रुत्वैवं वदतां वरः। दध्यौ मुहूर्तं धर्मात्मा हर्षव्याकुललोचनः॥ ११॥
ततस् प्रीत-मनाः रामः श्रुत्वा एवम् वदताम् वरः। दध्यौ मुहूर्तम् धर्म-आत्मा हर्ष-व्याकुल-लोचनः॥ ११॥
tatas prīta-manāḥ rāmaḥ śrutvā evam vadatām varaḥ. dadhyau muhūrtam dharma-ātmā harṣa-vyākula-locanaḥ.. 11..
एवमुक्तो महातेजा धृतिमानुरुविक्रमः। उवाच त्रिदशश्रेष्ठं रामो धर्मभृतां वरः॥ १२॥
एवम् उक्तः महा-तेजाः धृतिमान् उरु-विक्रमः। उवाच त्रिदश-श्रेष्ठम् रामः धर्म-भृताम् वरः॥ १२॥
evam uktaḥ mahā-tejāḥ dhṛtimān uru-vikramaḥ. uvāca tridaśa-śreṣṭham rāmaḥ dharma-bhṛtām varaḥ.. 12..
अवश्यं चापि लोकेषु सीता पावनमर्हति। दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा॥ १३॥
अवश्यम् च अपि लोकेषु सीता पावनम् अर्हति। दीर्घ-काल-उषिता हि इयम् रावण-अन्तःपुरे शुभा॥ १३॥
avaśyam ca api lokeṣu sītā pāvanam arhati. dīrgha-kāla-uṣitā hi iyam rāvaṇa-antaḥpure śubhā.. 13..
बालिशो बत कामात्मा रामो दशरथात्मजः। इति वक्ष्यति मां लोको जानकीमविशोध्य हि॥ १४॥
बालिशः बत काम-आत्मा रामः दशरथ-आत्मजः। इति वक्ष्यति माम् लोकः जानकीम् अ विशोध्य हि॥ १४॥
bāliśaḥ bata kāma-ātmā rāmaḥ daśaratha-ātmajaḥ. iti vakṣyati mām lokaḥ jānakīm a viśodhya hi.. 14..
अनन्यहृदयां सीतां मच्चित्तपरिरक्षिणीम्। अहमप्यवगच्छामि मैथिलीं जनकात्मजाम्॥ १५॥
अनन्य-हृदयाम् सीताम् मद्-चित्त-परिरक्षिणीम्। अहम् अपि अवगच्छामि मैथिलीम् जनकात्मजाम्॥ १५॥
ananya-hṛdayām sītām mad-citta-parirakṣiṇīm. aham api avagacchāmi maithilīm janakātmajām.. 15..
इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा। रावणो नातिवर्तेत वेलामिव महोदधिः॥ १६॥
इमाम् अपि विशाल-अक्षीम् रक्षिताम् स्वेन तेजसा। रावणः न अतिवर्तेत वेलाम् इव महा-उदधिः॥ १६॥
imām api viśāla-akṣīm rakṣitām svena tejasā. rāvaṇaḥ na ativarteta velām iva mahā-udadhiḥ.. 16..
प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः। उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्॥ १७॥
प्रत्यय-अर्थम् तु लोकानाम् त्रयाणाम् सत्य-संश्रयः। उपेक्षे च अपि वैदेहीम् प्रविशन्तीम् हुताशनम्॥ १७॥
pratyaya-artham tu lokānām trayāṇām satya-saṃśrayaḥ. upekṣe ca api vaidehīm praviśantīm hutāśanam.. 17..
न हि शक्तः सुदुष्टात्मा मनसापि हि मैथिलीम्। प्रधर्षयितुमप्राप्यां दीप्तामग्निशिखामिव॥ १८॥
न हि शक्तः सु दुष्ट-आत्मा मनसा अपि हि मैथिलीम्। प्रधर्षयितुम् अ प्राप्याम् दीप्ताम् अग्नि-शिखाम् इव॥ १८॥
na hi śaktaḥ su duṣṭa-ātmā manasā api hi maithilīm. pradharṣayitum a prāpyām dīptām agni-śikhām iva.. 18..
नेयमर्हति वैक्लव्यं रावणान्तःपुरे सती। अनन्या हि मया सीता भास्करस्य प्रभा यथा॥ १९॥
न इयम् अर्हति वैक्लव्यम् रावण-अन्तःपुरे सती। अनन्या हि मया सीता भास्करस्य प्रभा यथा॥ १९॥
na iyam arhati vaiklavyam rāvaṇa-antaḥpure satī. ananyā hi mayā sītā bhāskarasya prabhā yathā.. 19..
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा। न विहातुं मया शक्या कीर्तिरात्मवता यथा॥ २०॥
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा। न विहातुम् मया शक्या कीर्तिः आत्मवता यथा॥ २०॥
viśuddhā triṣu lokeṣu maithilī janakātmajā. na vihātum mayā śakyā kīrtiḥ ātmavatā yathā.. 20..
अवश्यं च मया कार्यं सर्वेषां वो वचो हितम्। स्निग्धानां लोकनाथानामेवं च वदतां हितम्॥ २१॥
अवश्यम् च मया कार्यम् सर्वेषाम् वः वचः हितम्। स्निग्धानाम् लोक-नाथानाम् एवम् च वदताम् हितम्॥ २१॥
avaśyam ca mayā kāryam sarveṣām vaḥ vacaḥ hitam. snigdhānām loka-nāthānām evam ca vadatām hitam.. 21..
इत्येवमुक्त्वा विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा। समेत्य रामः प्रियया महायशाः सुखं सुखार्होऽनुबभूव राघवः॥ २२॥
इति एवम् उक्त्वा विजयी महा-बलः प्रशस्यमानः स्व-कृतेन कर्मणा। समेत्य रामः प्रियया महा-यशाः सुखम् सुख-अर्हः अनुबभूव राघवः॥ २२॥
iti evam uktvā vijayī mahā-balaḥ praśasyamānaḥ sva-kṛtena karmaṇā. sametya rāmaḥ priyayā mahā-yaśāḥ sukham sukha-arhaḥ anubabhūva rāghavaḥ.. 22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In