This overlay will guide you through the buttons:

| |
|
एतच्छ्रुत्वा शुभं वाक्यं राघवेणानुभाषितम्। ततः शुभतरं वाक्यं व्याजहार महेश्वरः॥ १॥
एतत् श्रुत्वा शुभम् वाक्यम् राघवेण अनुभाषितम्। ततस् शुभतरम् वाक्यम् व्याजहार महेश्वरः॥ १॥
etat śrutvā śubham vākyam rāghaveṇa anubhāṣitam. tatas śubhataram vākyam vyājahāra maheśvaraḥ.. 1..
पुष्कराक्ष महाबाहो महावक्षः परंतप। दिष्ट्या कृतमिदं कर्म त्वया धर्मभृतां वर॥ २॥
पुष्कराक्ष महा-बाहो महा-वक्षः परंतप। दिष्ट्या कृतम् इदम् कर्म त्वया धर्म-भृताम् वर॥ २॥
puṣkarākṣa mahā-bāho mahā-vakṣaḥ paraṃtapa. diṣṭyā kṛtam idam karma tvayā dharma-bhṛtām vara.. 2..
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः। अपवृत्तं त्वया संख्ये राम रावणजं भयम्॥ ३॥
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धम् दारुणम् तमः। अपवृत्तम् त्वया संख्ये राम रावण-जम् भयम्॥ ३॥
diṣṭyā sarvasya lokasya pravṛddham dāruṇam tamaḥ. apavṛttam tvayā saṃkhye rāma rāvaṇa-jam bhayam.. 3..
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्। कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्॥ ४॥
आश्वास्य भरतम् दीनम् कौसल्याम् च यशस्विनीम्। कैकेयीम् च सुमित्राम् च दृष्ट्वा लक्ष्मण-मातरम्॥ ४॥
āśvāsya bharatam dīnam kausalyām ca yaśasvinīm. kaikeyīm ca sumitrām ca dṛṣṭvā lakṣmaṇa-mātaram.. 4..
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्। इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल॥ ५॥
प्राप्य राज्यम् अयोध्यायाम् नन्दयित्वा सुहृद्-जनम्। इक्ष्वाकूणाम् कुले वंशम् स्थापयित्वा महा-बल॥ ५॥
prāpya rājyam ayodhyāyām nandayitvā suhṛd-janam. ikṣvākūṇām kule vaṃśam sthāpayitvā mahā-bala.. 5..
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः। ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि॥ ६॥
इष्ट्वा तुरग-मेधेन प्राप्य च अनुत्तमम् यशः। ब्राह्मणेभ्यः धनम् दत्त्वा त्रिदिवम् गन्तुम् अर्हसि॥ ६॥
iṣṭvā turaga-medhena prāpya ca anuttamam yaśaḥ. brāhmaṇebhyaḥ dhanam dattvā tridivam gantum arhasi.. 6..
एष राजा दशरथो विमानस्थः पिता तव। काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः॥ ७॥
एष राजा दशरथः विमान-स्थः पिता तव। काकुत्स्थ मानुषे लोके गुरुः तव महा-यशाः॥ ७॥
eṣa rājā daśarathaḥ vimāna-sthaḥ pitā tava. kākutstha mānuṣe loke guruḥ tava mahā-yaśāḥ.. 7..
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः। लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय॥ ८॥
इन्द्र-लोकम् गतः श्रीमान् त्वया पुत्रेण तारितः। लक्ष्मणेन सह भ्रात्रा त्वम् एनम् अभिवादय॥ ८॥
indra-lokam gataḥ śrīmān tvayā putreṇa tāritaḥ. lakṣmaṇena saha bhrātrā tvam enam abhivādaya.. 8..
महादेववचः श्रुत्वा राघवः सहलक्ष्मणः। विमानशिखरस्थस्य प्रणाममकरोत् पितुः॥ ९॥
महादेव-वचः श्रुत्वा राघवः सहलक्ष्मणः। विमान-शिखर-स्थस्य प्रणामम् अकरोत् पितुः॥ ९॥
mahādeva-vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ. vimāna-śikhara-sthasya praṇāmam akarot pituḥ.. 9..
दीप्यमानं स्वया लक्ष्म्या विरजोऽम्बरधारिणम्। लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः॥ १०॥
दीप्यमानम् स्वया लक्ष्म्या विरजः-अम्बर-धारिणम्। लक्ष्मणेन सह भ्रात्रा ददर्श पितरम् प्रभुः॥ १०॥
dīpyamānam svayā lakṣmyā virajaḥ-ambara-dhāriṇam. lakṣmaṇena saha bhrātrā dadarśa pitaram prabhuḥ.. 10..
हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः। प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा॥ ११॥
हर्षेण महता आविष्टः विमान-स्थः महीपतिः। प्राणैः प्रियतरम् दृष्ट्वा पुत्रम् दशरथः तदा॥ ११॥
harṣeṇa mahatā āviṣṭaḥ vimāna-sthaḥ mahīpatiḥ. prāṇaiḥ priyataram dṛṣṭvā putram daśarathaḥ tadā.. 11..
आरोप्याङ्के महाबाहुर्वरासनगतः प्रभुः। बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे॥ १२॥
आरोप्य अङ्के महा-बाहुः वरासन-गतः प्रभुः। बाहुभ्याम् सम्परिष्वज्य ततस् वाक्यम् समाददे॥ १२॥
āropya aṅke mahā-bāhuḥ varāsana-gataḥ prabhuḥ. bāhubhyām sampariṣvajya tatas vākyam samādade.. 12..
न मे स्वर्गो बहु मतः सम्मानश्च सुरर्षभैः। त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते॥ १३॥
न मे स्वर्गः बहु मतः सम्मानः च सुर-ऋषभैः। त्वया राम विहीनस्य सत्यम् प्रतिशृणोमि ते॥ १३॥
na me svargaḥ bahu mataḥ sammānaḥ ca sura-ṛṣabhaiḥ. tvayā rāma vihīnasya satyam pratiśṛṇomi te.. 13..
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम्। निस्तीर्णवनवासं च प्रीतिरासीत् परा मम॥ १४॥
अद्य त्वाम् निहत-अमित्रम् दृष्ट्वा सम्पूर्ण-मानसम्। निस्तीर्ण-वन-वासम् च प्रीतिः आसीत् परा मम॥ १४॥
adya tvām nihata-amitram dṛṣṭvā sampūrṇa-mānasam. nistīrṇa-vana-vāsam ca prītiḥ āsīt parā mama.. 14..
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर। तव प्रव्राजनार्थानि स्थितानि हृदये मम॥ १५॥
कैकेय्याः यानि च उक्तानि वाक्यानि वदताम् वर। तव प्रव्राजन-अर्थानि स्थितानि हृदये मम॥ १५॥
kaikeyyāḥ yāni ca uktāni vākyāni vadatām vara. tava pravrājana-arthāni sthitāni hṛdaye mama.. 15..
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्। अद्य दुःखाद् विमुक्तोऽस्मि नीहारादिव भास्करः॥ १६॥
त्वाम् तु दृष्ट्वा कुशलिनम् परिष्वज्य स लक्ष्मणम्। अद्य दुःखात् विमुक्तः अस्मि नीहारात् इव भास्करः॥ १६॥
tvām tu dṛṣṭvā kuśalinam pariṣvajya sa lakṣmaṇam. adya duḥkhāt vimuktaḥ asmi nīhārāt iva bhāskaraḥ.. 16..
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना। अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा॥ १७॥
तारितः अहम् त्वया पुत्र सु पुत्रेण महात्मना। अष्टावक्रेण धर्म-आत्मा कहोलः ब्राह्मणः यथा॥ १७॥
tāritaḥ aham tvayā putra su putreṇa mahātmanā. aṣṭāvakreṇa dharma-ātmā kaholaḥ brāhmaṇaḥ yathā.. 17..
इदानीं च विजानामि यथा सौम्य सुरेश्वरैः। वधार्थं रावणस्येह विहितं पुरुषोत्तमम्॥ १८॥
इदानीम् च विजानामि यथा सौम्य सुर-ईश्वरैः। वध-अर्थम् रावणस्य इह विहितम् पुरुषोत्तमम्॥ १८॥
idānīm ca vijānāmi yathā saumya sura-īśvaraiḥ. vadha-artham rāvaṇasya iha vihitam puruṣottamam.. 18..
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्। वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदनम्॥ १९॥
सिद्धार्था खलु कौसल्या या त्वाम् राम गृहम् गतम्। वनात् निवृत्तम् संहृष्टा द्रक्ष्यते शत्रु-सूदनम्॥ १९॥
siddhārthā khalu kausalyā yā tvām rāma gṛham gatam. vanāt nivṛttam saṃhṛṣṭā drakṣyate śatru-sūdanam.. 19..
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्। राज्ये चैवाभिषिक्तं च द्रक्ष्यन्ते वसुधाधिपम्॥ २०॥
सिद्धार्थाः खलु ते राम नराः ये त्वाम् पुरीम् गतम्। राज्ये च एव अभिषिक्तम् च द्रक्ष्यन्ते वसुधाधिपम्॥ २०॥
siddhārthāḥ khalu te rāma narāḥ ye tvām purīm gatam. rājye ca eva abhiṣiktam ca drakṣyante vasudhādhipam.. 20..
अनुरक्तेन बलिना शुचिना धर्मचारिणा। इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम्॥ २१॥
अनुरक्तेन बलिना शुचिना धर्म-चारिणा। इच्छेयम् त्वाम् अहम् द्रष्टुम् भरतेन समागतम्॥ २१॥
anuraktena balinā śucinā dharma-cāriṇā. iccheyam tvām aham draṣṭum bharatena samāgatam.. 21..
चतुर्दश समाः सौम्य वने निर्यातितास्त्वया। वसता सीतया सार्धं मत्प्रीत्या लक्ष्मणेन च॥ २२॥
चतुर्दश समाः सौम्य वने निर्यातिताः त्वया। वसता सीतया सार्धम् मद्-प्रीत्या लक्ष्मणेन च॥ २२॥
caturdaśa samāḥ saumya vane niryātitāḥ tvayā. vasatā sītayā sārdham mad-prītyā lakṣmaṇena ca.. 22..
निवृत्तवनवासोऽसि प्रतिज्ञा पूरिता त्वया। रावणं च रणे हत्वा देवताः परितोषिताः॥ २३॥
निवृत्त-वन-वासः असि प्रतिज्ञा पूरिता त्वया। रावणम् च रणे हत्वा देवताः परितोषिताः॥ २३॥
nivṛtta-vana-vāsaḥ asi pratijñā pūritā tvayā. rāvaṇam ca raṇe hatvā devatāḥ paritoṣitāḥ.. 23..
कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन। भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि॥ २४॥
कृतम् कर्म यशः श्लाघ्यम् प्राप्तम् ते शत्रु-सूदन। भ्रातृभिः सह राज्य-स्थः दीर्घम् आयुः अवाप्नुहि॥ २४॥
kṛtam karma yaśaḥ ślāghyam prāptam te śatru-sūdana. bhrātṛbhiḥ saha rājya-sthaḥ dīrgham āyuḥ avāpnuhi.. 24..
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्। कुरु प्रसादं धर्मज्ञ कैकय्या भरतस्य च॥ २५॥
इति ब्रुवाणम् राजानम् रामः प्राञ्जलिः अब्रवीत्। कुरु प्रसादम् धर्म-ज्ञ कैकय्याः भरतस्य च॥ २५॥
iti bruvāṇam rājānam rāmaḥ prāñjaliḥ abravīt. kuru prasādam dharma-jña kaikayyāḥ bharatasya ca.. 25..
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया। स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो॥ २६॥
स पुत्राम् त्वाम् त्यजामि इति यत् उक्ता कैकयी त्वया। स शापः कैकयीम् घोरः स पुत्राम् न स्पृशेत् प्रभो॥ २६॥
sa putrām tvām tyajāmi iti yat uktā kaikayī tvayā. sa śāpaḥ kaikayīm ghoraḥ sa putrām na spṛśet prabho.. 26..
तथेति स महाराजो राममुक्त्वा कृताञ्जलिम्। लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह॥ २७॥
तथा इति स महा-राजः रामम् उक्त्वा कृत-अञ्जलिम्। लक्ष्मणम् च परिष्वज्य पुनर् वाक्यम् उवाच ह॥ २७॥
tathā iti sa mahā-rājaḥ rāmam uktvā kṛta-añjalim. lakṣmaṇam ca pariṣvajya punar vākyam uvāca ha.. 27..
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया। कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते॥ २८॥
रामम् शुश्रूषता भक्त्या वैदेह्या सह सीतया। कृता मम महा-प्रीतिः प्राप्तम् धर्म-फलम् च ते॥ २८॥
rāmam śuśrūṣatā bhaktyā vaidehyā saha sītayā. kṛtā mama mahā-prītiḥ prāptam dharma-phalam ca te.. 28..
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि। रामे प्रसन्ने स्वर्गं च महिमानं तथोत्तमम्॥ २९॥
धर्मम् प्राप्स्यसि धर्म-ज्ञ यशः च विपुलम् भुवि। रामे प्रसन्ने स्वर्गम् च महिमानम् तथा उत्तमम्॥ २९॥
dharmam prāpsyasi dharma-jña yaśaḥ ca vipulam bhuvi. rāme prasanne svargam ca mahimānam tathā uttamam.. 29..
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन। रामः सर्वस्य लोकस्य हितेष्वभिरतः सदा॥ ३०॥
रामम् शुश्रूष भद्रम् ते सुमित्रा-आनन्द-वर्धन। रामः सर्वस्य लोकस्य हितेषु अभिरतः सदा॥ ३०॥
rāmam śuśrūṣa bhadram te sumitrā-ānanda-vardhana. rāmaḥ sarvasya lokasya hiteṣu abhirataḥ sadā.. 30..
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः। अभिवाद्य महात्मानमर्चन्ति पुरुषोत्तमम्॥ ३१॥
एते स इन्द्राः त्रयः लोकाः सिद्धाः च परम-ऋषयः। अभिवाद्य महात्मानम् अर्चन्ति पुरुषोत्तमम्॥ ३१॥
ete sa indrāḥ trayaḥ lokāḥ siddhāḥ ca parama-ṛṣayaḥ. abhivādya mahātmānam arcanti puruṣottamam.. 31..
एतत् तदुक्तमव्यक्तमक्षरं ब्रह्मसम्मितम्। देवानां हृदयं सौम्य गुह्यं रामः परंतपः॥ ३२॥
एतत् तत् उक्तम् अव्यक्तम् अक्षरम् ब्रह्म-सम्मितम्। देवानाम् हृदयम् सौम्य गुह्यम् रामः परंतपः॥ ३२॥
etat tat uktam avyaktam akṣaram brahma-sammitam. devānām hṛdayam saumya guhyam rāmaḥ paraṃtapaḥ.. 32..
अवाप्तधर्माचरणं यशश्च विपुलं त्वया। एवं शुश्रूषताव्यग्रं वैदेह्या सह सीतया॥ ३३॥
अवाप्त-धर्म-आचरणम् यशः च विपुलम् त्वया। एवम् शुश्रूषता अव्यग्रम् वैदेह्या सह सीतया॥ ३३॥
avāpta-dharma-ācaraṇam yaśaḥ ca vipulam tvayā. evam śuśrūṣatā avyagram vaidehyā saha sītayā.. 33..
इत्युक्त्वा लक्ष्मणं राजा स्नुषां बद्धाञ्जलिं स्थिताम्। पुत्रीत्याभाष्य मधुरं शनैरेनामुवाच ह॥ ३४॥
इति उक्त्वा लक्ष्मणम् राजा स्नुषाम् बद्धाञ्जलिम् स्थिताम्। पुत्री इति आभाष्य मधुरम् शनैस् एनाम् उवाच ह॥ ३४॥
iti uktvā lakṣmaṇam rājā snuṣām baddhāñjalim sthitām. putrī iti ābhāṣya madhuram śanais enām uvāca ha.. 34..
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति। रामेणेदं विशुद्ध्यर्थं कृतं वै त्वद्धितैषिणा॥ ३५॥
कर्तव्यः न तु वैदेहि मन्युः त्यागम् इमम् प्रति। रामेण इदम् विशुद्धि-अर्थम् कृतम् वै त्वद्-हित-एषिणा॥ ३५॥
kartavyaḥ na tu vaidehi manyuḥ tyāgam imam prati. rāmeṇa idam viśuddhi-artham kṛtam vai tvad-hita-eṣiṇā.. 35..
सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम्। कृतं यत् तेऽन्यनारीणां यशो ह्यभिभविष्यति॥ ३६॥
सु दुष्करम् इदम् पुत्रि तव चारित्र-लक्षणम्। कृतम् यत् ते अन्य-नारीणाम् यशः हि अभिभविष्यति॥ ३६॥
su duṣkaram idam putri tava cāritra-lakṣaṇam. kṛtam yat te anya-nārīṇām yaśaḥ hi abhibhaviṣyati.. 36..
न त्वं कामं समाधेया भर्तृशुश्रूषणं प्रति। अवश्यं तु मया वाच्यमेष ते दैवतं परम्॥ ३७॥
न त्वम् कामम् समाधेया भर्तृ-शुश्रूषणम् प्रति। अवश्यम् तु मया वाच्यम् एष ते दैवतम् परम्॥ ३७॥
na tvam kāmam samādheyā bhartṛ-śuśrūṣaṇam prati. avaśyam tu mayā vācyam eṣa te daivatam param.. 37..
इति प्रतिसमादिश्य पुत्रौ सीतां च राघवः। इन्द्रलोकं विमानेन ययौ दशरथो नृपः॥ ३८॥
इति प्रतिसमादिश्य पुत्रौ सीताम् च राघवः। इन्द्र-लोकम् विमानेन ययौ दशरथः नृपः॥ ३८॥
iti pratisamādiśya putrau sītām ca rāghavaḥ. indra-lokam vimānena yayau daśarathaḥ nṛpaḥ.. 38..
विमानमास्थाय महानुभावः श्रिया च संहृष्टतनुर्नृपोत्तमः। आमन्त्र्य पुत्रौ सह सीतया च जगाम देवप्रवरस्य लोकम्॥ ३९॥
विमानम् आस्थाय महा-अनुभावः श्रिया च संहृष्ट-तनुः नृप-उत्तमः। आमन्त्र्य पुत्रौ सह सीतया च जगाम देव-प्रवरस्य लोकम्॥ ३९॥
vimānam āsthāya mahā-anubhāvaḥ śriyā ca saṃhṛṣṭa-tanuḥ nṛpa-uttamaḥ. āmantrya putrau saha sītayā ca jagāma deva-pravarasya lokam.. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In