This overlay will guide you through the buttons:

| |
|
स तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः । प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥ 1 ॥
स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिञ्जयः । प्रचोदयामास तदा प्रहस्तम् वाहिनीपतिम् ॥ १ ॥
sa tām pariṣadam kṛtsnām samīkṣya samitiñjayaḥ . pracodayāmāsa tadā prahastam vāhinīpatim .. 1 ..
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । योधा नगररक्षायां तथा व्यादेष्टुमर्हसि ॥ 2 ॥
सेनापते यथा ते स्युः कृतविद्याः चतुर्विधाः । योधाः नगर-रक्षायाम् तथा व्यादेष्टुम् अर्हसि ॥ २ ॥
senāpate yathā te syuḥ kṛtavidyāḥ caturvidhāḥ . yodhāḥ nagara-rakṣāyām tathā vyādeṣṭum arhasi .. 2 ..
स प्रहस्तःप्रणीतात्मा चिकीर्षन् राजशासनम् । विनिक्षिपद् बलं सर्वं बहिरन्तश्च मन्दिरे ॥ 3 ॥
स प्रहस्तः प्रणीत-आत्मा चिकीर्षन् राज-शासनम् । विनिक्षिपत् बलम् सर्वम् बहिस् अन्तर् च मन्दिरे ॥ ३ ॥
sa prahastaḥ praṇīta-ātmā cikīrṣan rāja-śāsanam . vinikṣipat balam sarvam bahis antar ca mandire .. 3 ..
ततो विनिक्षिप्य बलं सर्व नगरगुप्तये । प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ 4 ॥
ततस् विनिक्षिप्य बलम् सर्व नगर-गुप्तये । प्रहस्तः प्रमुखे राज्ञः निषसाद जगाद च ॥ ४ ॥
tatas vinikṣipya balam sarva nagara-guptaye . prahastaḥ pramukhe rājñaḥ niṣasāda jagāda ca .. 4 ..
विहितं बहिरन्तश्च बलं बलवतस्तव । कुरुष्याविमनाः क्षिप्रं यदभिप्रेतमस्तु ते ॥ 5 ॥
विहितम् बहिस् अन्तर् च बलम् बलवतः तव । कुरुष्य अविमनाः क्षिप्रम् यत् अभिप्रेतम् अस्तु ते ॥ ५ ॥
vihitam bahis antar ca balam balavataḥ tava . kuruṣya avimanāḥ kṣipram yat abhipretam astu te .. 5 ..
प्रहस्तस्यवचश्श्रुत्वाराजाराज्यहितैषिणः । सुखेप्सुस्सुहृदांमध्येव्याजहारसरावणः ॥ 6 ॥
प्रहस्तस्य वचः श्रुत्वा राजा आराज्य-हित-एषिणः । सुख-ईप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥ ६ ॥
prahastasya vacaḥ śrutvā rājā ārājya-hita-eṣiṇaḥ . sukha-īpsuḥ suhṛdām madhye vyājahāra sa rāvaṇaḥ .. 6 ..
प्रियाप्रियेसुखंदुःखंलाभालाभेहिताहिते । धर्मकामार्थकृच्छ्रेषुयूयमर्हथवेदितुम् ॥ 7 ॥
प्रिय-अप्रिये सुखम् दुःखम् लाभ-अलाभे हित-अहिते । धर्म-काम-अर्थ-कृच्छ्रेषु यूयम् अर्हथ वेदितुम् ॥ ७ ॥
priya-apriye sukham duḥkham lābha-alābhe hita-ahite . dharma-kāma-artha-kṛcchreṣu yūyam arhatha veditum .. 7 ..
सर्वकृत्यानियुष्माभिस्समारब्धानिसर्वथा । मन्त्रकर्मनियुक्तानिनजातुविफलानिमे ॥ 8 ॥
सर्व-कृत्यानि युष्माभिः समारब्धानि सर्वथा । मन्त्र-कर्म-नियुक्तानि न जातु विफलानि मे ॥ ८ ॥
sarva-kṛtyāni yuṣmābhiḥ samārabdhāni sarvathā . mantra-karma-niyuktāni na jātu viphalāni me .. 8 ..
ससोमग्रहनक्षत्रैर्मरुद्भिरिववासवः । भवद्भिरहमत्यर्थंवृतश्रियमवाप्नुयाम् ॥ 9 ॥
स सोम-ग्रह-नक्षत्रैः मरुद्भिः इव वासवः । भवद्भिः अहम् अत्यर्थम् वृत-श्रियम् अवाप्नुयाम् ॥ ९ ॥
sa soma-graha-nakṣatraiḥ marudbhiḥ iva vāsavaḥ . bhavadbhiḥ aham atyartham vṛta-śriyam avāpnuyām .. 9 ..
अहंतुखलुसर्वान्वस्समर्थयितुमुद्यतः । कुम्भकर्णस्यतुस्वप्नान्नेममर्थमचोदयम् ॥ 10 ॥
अहम् तु खलु सर्वान् वः समर्थयितुम् उद्यतः । न इमम् अर्थम् अचोदयम् ॥ १० ॥
aham tu khalu sarvān vaḥ samarthayitum udyataḥ . na imam artham acodayam .. 10 ..
अयंहिसुप्तःषण्मासान्कुम्भकर्णोमहाबलः । सर्वशस्त्रभृतांमुख्यस्सइदानींसमुत्थितः ॥ 11 ॥
अयम् हि सुप्तः षष्-मासान् कुम्भकर्णः महा-बलः । सर्व-शस्त्रभृताम् मुख्यः सः एदानीम् समुत्थितः ॥ ११ ॥
ayam hi suptaḥ ṣaṣ-māsān kumbhakarṇaḥ mahā-balaḥ . sarva-śastrabhṛtām mukhyaḥ saḥ edānīm samutthitaḥ .. 11 ..
इयंचदण्डकारण्याद्रामस्यमहिषीमया । रक्षोभिश्चरितोद्देशादानीताजनकात्मजा ॥ 12 ॥
इयम् च दण्डक-अरण्यात् रामस्य महिषी मया । रक्षोभिः चरित-उद्देशात् आनीता अ जनकात्मजा ॥ १२ ॥
iyam ca daṇḍaka-araṇyāt rāmasya mahiṣī mayā . rakṣobhiḥ carita-uddeśāt ānītā a janakātmajā .. 12 ..
सामेवशय्यामारोढुमिच्छत्यलसगामिनी । त्रिषुलोकेषुचान्यामेनसीतासदृशीमता ॥ 13 ॥
साम् एव शय्याम् आरोढुम् इच्छति अलस-गामिनी । त्रिषु लोकेषु च अन्याम् एनः-सीता-सदृशी मता ॥ १३ ॥
sām eva śayyām āroḍhum icchati alasa-gāminī . triṣu lokeṣu ca anyām enaḥ-sītā-sadṛśī matā .. 13 ..
तनुमध्यापृथुश्रोणीशरदिन्दुनिभानना । हेमबिम्बनिभासौम्यामायेवमयनिर्मिता ॥ 14 ॥
तनु-मध्या अपृथु-श्रोणी-शरद्-इन्दु-निभ-आनना । हेम-बिम्ब-निभा सौम्या माया इव मय-निर्मिता ॥ १४ ॥
tanu-madhyā apṛthu-śroṇī-śarad-indu-nibha-ānanā . hema-bimba-nibhā saumyā māyā iva maya-nirmitā .. 14 ..
सुलोहिततलौश्लक्ष् णौचरणौसुप्रतिष्ठितौ । दृष्ट्वाताम्रनखौतस्यादीप्यतेमेशरीरजः ॥ 15 ॥
सु लोहित-तलौ श्लक्ष् णौ सु प्रतिष्ठितौ । दृष्ट्वा आताम्र-नखौ तस्य आदीप्यते इमे शरीर-जः ॥ १५ ॥
su lohita-talau ślakṣ ṇau su pratiṣṭhitau . dṛṣṭvā ātāmra-nakhau tasya ādīpyate ime śarīra-jaḥ .. 15 ..
हुताग्निरर्चिस्सङ्काशामेनांसौरीमिवप्रभाम् । उन्नसंविमलंवल्गुविपुलांचारुलोचनम् ॥ 16 ॥
हुत-अग्निः अर्चिः-सङ्काशाम् एनाम् सौरीम् इव प्रभाम् । उन्नसम् विमलम् वल्गु-विपुलान् चारु-लोचनम् ॥ १६ ॥
huta-agniḥ arciḥ-saṅkāśām enām saurīm iva prabhām . unnasam vimalam valgu-vipulān cāru-locanam .. 16 ..
पश्यंस्तदवशस्तस्याःकामस्यवशमेयिवान् । क्रोधहर्षसमानेनदुर्वर्णकरणेनच ॥ 17 ॥
पश्यन् तद्-अवशः तस्याः कामस्य वशम् एयिवान् । क्रोध-हर्ष-समानेन दुर्वर्ण-करणेन च ॥ १७ ॥
paśyan tad-avaśaḥ tasyāḥ kāmasya vaśam eyivān . krodha-harṣa-samānena durvarṇa-karaṇena ca .. 17 ..
शोकसन्तापनित्येनकामेनकलुषीकृतः । सातुसंवत्सरंकालंमामयाचतभामिनी ॥ 18 ॥
शोक-सन्ताप-नित्येन कामेन कलुषीकृतः । सा अतु संवत्सरम् कालम् माम् अयाचत भामिनी ॥ १८ ॥
śoka-santāpa-nityena kāmena kaluṣīkṛtaḥ . sā atu saṃvatsaram kālam mām ayācata bhāminī .. 18 ..
प्रतीक्षमाणाभर्तारंराममायतलोचना । तन्मयाचारुनेत्रायःप्रतिज्ञातंवचश्शुभम् ॥ 19 ॥
प्रतीक्षमाणा आ भर्तारम् रामम् आयत-लोचना । तत् मया अचारु-नेत्र अयः-प्रतिज्ञातम् वचः शुभम् ॥ १९ ॥
pratīkṣamāṇā ā bhartāram rāmam āyata-locanā . tat mayā acāru-netra ayaḥ-pratijñātam vacaḥ śubham .. 19 ..
श्रान्तोऽहंसततंकामाद्यातोहयइवाध्वनि । कथंसागरमक्षोभ्यंतरिष्यन्तिवनौकसः ॥ 20 ॥
श्रान्तः अहम् सततम् काम-आद्यातः हय एव अध्वनि । कथम् सागरम् अक्षोभ्यम् तरिष्यन्ति वनौकसः ॥ २० ॥
śrāntaḥ aham satatam kāma-ādyātaḥ haya eva adhvani . katham sāgaram akṣobhyam tariṣyanti vanaukasaḥ .. 20 ..
बहुसत्त्वसमाकीर्णंतौवादशरथात्मजौ । अथवाकपिनैकेनकृतंनःकदनंमहत् ॥ 21 ॥
बहु-सत्त्व-समाकीर्णंतौ तौ वा अदशरथ-आत्मजौ । अथवा कपिना एकेन कृतम् नः कदनम् महत् ॥ २१ ॥
bahu-sattva-samākīrṇaṃtau tau vā adaśaratha-ātmajau . athavā kapinā ekena kṛtam naḥ kadanam mahat .. 21 ..
दुर् ज्ञेयाःकार्यगतयोब्रूतयस्ययथामति । मानुष्यान्नोभयंनास्तितथापितुविमृश्यताम् ॥ 22 ॥
दुस् ज्ञेयाः कार्य-गतयः ब्रूतयस्य यथामति । मानुष्यात् न उभयम् न अस्ति तथा अपि तु विमृश्यताम् ॥ २२ ॥
dus jñeyāḥ kārya-gatayaḥ brūtayasya yathāmati . mānuṣyāt na ubhayam na asti tathā api tu vimṛśyatām .. 22 ..
तदादेवासुरेयुद्धेयुष्माभिस्सहितोऽजयम् । तेमेभवन्तश्चतथासुग्रीवप्रमुखान्हरीन् ॥ 23 ॥
तदा देव-असुर-युद्धे युष्माभिः सहितः अजयम् । ते मे भवन्तः च तथा सुग्रीव-प्रमुखान् हरीन् ॥ २३ ॥
tadā deva-asura-yuddhe yuṣmābhiḥ sahitaḥ ajayam . te me bhavantaḥ ca tathā sugrīva-pramukhān harīn .. 23 ..
परेपारेसमुद्रस्यपुरस्कृत्यनृपात्मजौ । सीतायाःपदवींप्राप्यसम्प्राप्तौवरुणालयाम् ॥ 24 ॥
परे पारे समुद्रस्य पुरस्कृत्य नृप-आत्मजौ । सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयाम् ॥ २४ ॥
pare pāre samudrasya puraskṛtya nṛpa-ātmajau . sītāyāḥ padavīm prāpya samprāptau varuṇālayām .. 24 ..
अदेयाचयथासीतावध्यौदशरथात्मजौ । भवद्भिर्मन्त्र्यतांमन्त्रस्सुनीतंचाभिधीयताम् ॥ 25 ॥
अदेयाचयथासीतौ अवध्यौ दशरथ-आत्मजौ । भवद्भिः मन्त्र्यताम् मन्त्रः सुनीतम् च अभिधीयताम् ॥ २५ ॥
adeyācayathāsītau avadhyau daśaratha-ātmajau . bhavadbhiḥ mantryatām mantraḥ sunītam ca abhidhīyatām .. 25 ..
नहिशक्तिंप्रपश्यामिजगत्यन्यस्यकस्यचित् । सागरंवानरैस्तीर्वानिश्चयेनजयोमम ॥ 26 ॥
न हि शक्तिम् प्रपश्यामि जगति अन्यस्य कस्यचिद् । सागरम् वानरैः तीर्वा अ निश्चयेन अजयः मम ॥ २६ ॥
na hi śaktim prapaśyāmi jagati anyasya kasyacid . sāgaram vānaraiḥ tīrvā a niścayena ajayaḥ mama .. 26 ..
तस्यकामपरीतस्यनिशम्यपरिदेवितम् । कुम्भकर्णःप्रचुक्रोधवचनंचेदमब्रवीत् ॥ 27 ॥
तस्य काम-परीतस्य निशम्य परिदेवितम् । कुम्भकर्णः प्रचुक्रोध वचनम् च इदम् अब्रवीत् ॥ २७ ॥
tasya kāma-parītasya niśamya paridevitam . kumbhakarṇaḥ pracukrodha vacanam ca idam abravīt .. 27 ..
यदातुरामस्यसलक्ष्मणस्य - प्रसह्यसीताखलुसाइहाऽहृता । सकृत्समीक्ष्यैवसुनिश्चितं - तदाभजेतचित्तंयमुनेवयामुनम् ॥ 28 ॥
यदा आतुर-आमस्य-स लक्ष्मणस्य । सकृत् समीक्ष्य एव सु निश्चितम् तदा भजेत चित्तम् यमुना इव यामुनम् ॥ २८ ॥
yadā ātura-āmasya-sa lakṣmaṇasya . sakṛt samīkṣya eva su niścitam tadā bhajeta cittam yamunā iva yāmunam .. 28 ..
सर्वमेतन्महाराजकृतमप्रतिमंतव । विधीयेतसहास्माभिरादावेवास्यकर्मणः ॥ 29 ॥
सर्वम् एतत् महा-राज-कृतम् अप्रतिमम् तव । विधीयेत सह अस्माभिः आदौ एव अस्य कर्मणः ॥ २९ ॥
sarvam etat mahā-rāja-kṛtam apratimam tava . vidhīyeta saha asmābhiḥ ādau eva asya karmaṇaḥ .. 29 ..
न्यायेनराजकार्याणियःकरोतिदशानन: । नससन्तप्यतेपश्चान्निश्चितार्थमतिर्नृपः ॥ 30 ॥
न्यायेन राज-कार्याणि यः करोति दशाननः । न ससन्तप्यते पश्चात् निश्चित-अर्थ-मतिः नृपः ॥ ३० ॥
nyāyena rāja-kāryāṇi yaḥ karoti daśānanaḥ . na sasantapyate paścāt niścita-artha-matiḥ nṛpaḥ .. 30 ..
अनुपायेनकर्माणिविपरीतानियानिच । क्रियमाणानिदुष्यन्तिहवींष्यप्रयतेष्विव ॥ 31 ॥
अनुपायेन कर्माणि विपरीतानि यानि च । क्रियमाणानि दुष्यन्ति हवींषि अप्रयतेषु इव ॥ ३१ ॥
anupāyena karmāṇi viparītāni yāni ca . kriyamāṇāni duṣyanti havīṃṣi aprayateṣu iva .. 31 ..
यःपश्चात्पूर्वकार्याणिकर्माण्यभिचिकीर्षति । पूर्वंचापरकार्याणिनसवेदनयानयौ ॥ 32 ॥
यः पश्चात् पूर्व-कार्याणि कर्माणि अभिचिकीर्षति । पूर्वम् च अपर-कार्याणि न स वेदनया-अनयौ ॥ ३२ ॥
yaḥ paścāt pūrva-kāryāṇi karmāṇi abhicikīrṣati . pūrvam ca apara-kāryāṇi na sa vedanayā-anayau .. 32 ..
चपलस्यतुकृत्येषुप्रसमीक्ष्याधिकंबलम् । क्षिप्रमन्येप्रपद्यन्तेक्रौञ्चस्यखमिवद्विजाः ॥ 33 ॥
चपलस्य तु कृत्येषु प्रसमीक्ष्य अधिकम् बलम् । क्षिप्रम् अन्ये प्रपद्यन्ते क्रौञ्चस्य अखम् इव द्विजाः ॥ ३३ ॥
capalasya tu kṛtyeṣu prasamīkṣya adhikam balam . kṣipram anye prapadyante krauñcasya akham iva dvijāḥ .. 33 ..
त्वयेदंमहादारब्धंकार्यमप्रतिचिन्तितम् । दिष्ट्यात्वांनावधीद्रामोविषमिश्रमिवामिषम् ॥ 34 ॥
त्वया इदम् महादारब्धम् कार्यम् अ प्रतिचिन्तितम् । दिष्ट्या त्वाम् न अवधीत् रामः विष-मिश्रम् इव आमिषम् ॥ ३४ ॥
tvayā idam mahādārabdham kāryam a praticintitam . diṣṭyā tvām na avadhīt rāmaḥ viṣa-miśram iva āmiṣam .. 34 ..
तस्मात्त्वयासमारब्धंकर्मह्यप्रतिमंपरैः । अहंसमीकरिष्यामिहत्वाशत्रूंस्तवानघ ॥ 35 ॥
तस्मात् त्वया अ समारब्धम् कर्महि अप्रतिमम् परैः । अहम् समीकरिष्यामि हत्वा अ शत्रून् तव अनघ ॥ ३५ ॥
tasmāt tvayā a samārabdham karmahi apratimam paraiḥ . aham samīkariṣyāmi hatvā a śatrūn tava anagha .. 35 ..
अहमुत्सादयिष्यामिशत्रूंस्तवनिशाचर । यदिशक्रविवस्वन्तौयदिपावकमारुतौ तावहंयोधयिष्यामिकुबेरवरुणावपि ॥ 36 ॥
अहम् उत्सादयिष्यामि शत्रून् तव निशाचर । यदि शक्र-विवस्वन्तौ यदि पावक-मारुतौ तौ अहम् योधयिष्यामि कुबेर-वरुणौ अपि ॥ ३६ ॥
aham utsādayiṣyāmi śatrūn tava niśācara . yadi śakra-vivasvantau yadi pāvaka-mārutau tau aham yodhayiṣyāmi kubera-varuṇau api .. 36 ..
गिरिमात्रशरीरस्यमहापरिघयोधिनः । नर्दतस्तीक्ष्णदंष्ट्रस्यबिभीयाद्वैपुरन्दरः ॥ 37 ॥
गिरि-मात्र-शरीरस्य अ महा-परिघ-योधिनः । नर्दतः तीक्ष्ण-दंष्ट्रस्य अबिभीयात् वैपुरन्दरः ॥ ३७ ॥
giri-mātra-śarīrasya a mahā-parigha-yodhinaḥ . nardataḥ tīkṣṇa-daṃṣṭrasya abibhīyāt vaipurandaraḥ .. 37 ..
पुनर्मांसद्वितीयेनशरेणनिहनिष्यति । ततोऽहंतस्यपास्यामिरुधिरंकाममाश्वस ॥ 38 ॥
पुनर् मांस-द्वितीयेन शरेण निहनिष्यति । ततस् अहम् तस्य अपास्यामि रुधिरम् कामम् आश्वस ॥ ३८ ॥
punar māṃsa-dvitīyena śareṇa nihaniṣyati . tatas aham tasya apāsyāmi rudhiram kāmam āśvasa .. 38 ..
वधेनवैदाशरथेस्सुखावहं - जयंतवाहर्तुमहंयतिष्ये । हत्वाचरामंसहलक्ष्मणेन - खादामिसर्वान्हरियूथमुख्यान् ॥ 39 ॥
वधेन वैदाशरथेः सुख-आवहम् जयम् तव आहर्तुम् अहम् यतिष्ये । हत्वा आचरामम् सहलक्ष्मणेन खादामि सर्वान् हरि-यूथ-मुख्यान् ॥ ३९ ॥
vadhena vaidāśaratheḥ sukha-āvaham jayam tava āhartum aham yatiṣye . hatvā ācarāmam sahalakṣmaṇena khādāmi sarvān hari-yūtha-mukhyān .. 39 ..
रमस्वकामम् पिबचाग्य्रवारुणींकुरष्व - कार्याणिहितानिविज्वरः । मयातुरामेगमितेयमक्षयंचिराय - सीतावशगाभविष्यति ॥ 40 ॥
रमस्व अकामम् । मया आतुरा अ मेघ-मिता इयम् अक्षयम् चिराय सीता-वशगा भविष्यति ॥ ४० ॥
ramasva akāmam . mayā āturā a megha-mitā iyam akṣayam cirāya sītā-vaśagā bhaviṣyati .. 40 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In