This overlay will guide you through the buttons:

| |
|
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः। अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम्॥ १॥
प्रतिप्रयाते काकुत्स्थे महा-इन्द्रः पाकशासनः। अब्रवीत् परम-प्रीतः राघवम् प्राञ्जलिम् स्थितम्॥ १॥
pratiprayāte kākutsthe mahā-indraḥ pākaśāsanaḥ. abravīt parama-prītaḥ rāghavam prāñjalim sthitam.. 1..
अमोघं दर्शनं राम तवास्माकं नरर्षभ। प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेप्सितम्॥ २॥
अमोघम् दर्शनम् राम तव अस्माकम् नर-ऋषभ। प्रीति-युक्ताः स्म तेन त्वम् ब्रूहि यत् मनसा ईप्सितम्॥ २॥
amogham darśanam rāma tava asmākam nara-ṛṣabha. prīti-yuktāḥ sma tena tvam brūhi yat manasā īpsitam.. 2..
एवमुक्तो महेन्द्रेण प्रसन्नेन महात्मना। सुप्रसन्नमना हृष्टो वचनं प्राह राघवः॥ ३॥
एवम् उक्तः महा-इन्द्रेण प्रसन्नेन महात्मना। सु प्रसन्न-मनाः हृष्टः वचनम् प्राह राघवः॥ ३॥
evam uktaḥ mahā-indreṇa prasannena mahātmanā. su prasanna-manāḥ hṛṣṭaḥ vacanam prāha rāghavaḥ.. 3..
यदि प्रीतिः समुत्पन्ना मयि ते विबुधेश्वर। वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर॥ ४॥
यदि प्रीतिः समुत्पन्ना मयि ते विबुध-ईश्वर। वक्ष्यामि कुरु मे सत्यम् वचनम् वदताम् वर॥ ४॥
yadi prītiḥ samutpannā mayi te vibudha-īśvara. vakṣyāmi kuru me satyam vacanam vadatām vara.. 4..
मम हेतोः पराक्रान्ता ये गता यमसादनम्। ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः॥ ५॥
मम हेतोः पराक्रान्ताः ये गताः यम-सादनम्। ते सर्वे जीवितम् प्राप्य समुत्तिष्ठन्तु वानराः॥ ५॥
mama hetoḥ parākrāntāḥ ye gatāḥ yama-sādanam. te sarve jīvitam prāpya samuttiṣṭhantu vānarāḥ.. 5..
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः। तान् प्रीतमनसः सर्वान् द्रष्टुमिच्छामि मानद॥ ६॥
मद्-कृते विप्रयुक्ताः ये पुत्रैः दारैः च वानराः। तान् प्रीत-मनसः सर्वान् द्रष्टुम् इच्छामि मानद॥ ६॥
mad-kṛte viprayuktāḥ ye putraiḥ dāraiḥ ca vānarāḥ. tān prīta-manasaḥ sarvān draṣṭum icchāmi mānada.. 6..
विक्रान्ताश्चापि शूराश्च न मृत्युं गणयन्ति च। कृतयत्ना विपन्नाश्च जीवयैतान् पुरंदर॥ ७॥
विक्रान्ताः च अपि शूराः च न मृत्युम् गणयन्ति च। कृत-यत्नाः विपन्नाः च जीवय एतान् पुरंदर॥ ७॥
vikrāntāḥ ca api śūrāḥ ca na mṛtyum gaṇayanti ca. kṛta-yatnāḥ vipannāḥ ca jīvaya etān puraṃdara.. 7..
मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति ये। त्वत्प्रसादात् समेयुस्ते वरमेतमहं वृणे॥ ८॥
मद्-प्रियेषु अभिरक्ताः च न मृत्युम् गणयन्ति ये। त्वद्-प्रसादात् समेयुः ते वरम् एतम् अहम् वृणे॥ ८॥
mad-priyeṣu abhiraktāḥ ca na mṛtyum gaṇayanti ye. tvad-prasādāt sameyuḥ te varam etam aham vṛṇe.. 8..
नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान्। गोलाङ्गूलांस्तथर्क्षांश्च द्रष्टुमिच्छामि मानद॥ ९॥
नीरुजः निर्व्रणान् च एव सम्पन्न-बल-पौरुषान्। गोलाङ्गूलान् तथा ऋक्षान् च द्रष्टुम् इच्छामि मानद॥ ९॥
nīrujaḥ nirvraṇān ca eva sampanna-bala-pauruṣān. golāṅgūlān tathā ṛkṣān ca draṣṭum icchāmi mānada.. 9..
अकाले चापि पुष्पाणि मूलानि च फलानि च। नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः॥ १०॥
अकाले च अपि पुष्पाणि मूलानि च फलानि च। नद्यः च विमलाः तत्र तिष्ठेयुः यत्र वानराः॥ १०॥
akāle ca api puṣpāṇi mūlāni ca phalāni ca. nadyaḥ ca vimalāḥ tatra tiṣṭheyuḥ yatra vānarāḥ.. 10..
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः। महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिसंयुतम्॥ ११॥
श्रुत्वा तु वचनम् तस्य राघवस्य महात्मनः। महा-इन्द्रः प्रत्युवाच इदम् वचनम् प्रीति-संयुतम्॥ ११॥
śrutvā tu vacanam tasya rāghavasya mahātmanaḥ. mahā-indraḥ pratyuvāca idam vacanam prīti-saṃyutam.. 11..
महानयं वरस्तात यस्त्वयोक्तो रघूत्तम। द्विर्मया नोक्तपूर्वं च तस्मादेतद् भविष्यति॥ १२॥
महान् अयम् वरः तात यः त्वया उक्तः रघूत्तम। द्विस् मया न उक्त-पूर्वम् च तस्मात् एतत् भविष्यति॥ १२॥
mahān ayam varaḥ tāta yaḥ tvayā uktaḥ raghūttama. dvis mayā na ukta-pūrvam ca tasmāt etat bhaviṣyati.. 12..
समुत्तिष्ठन्तु ते सर्वे हता ये युधि राक्षसैः। ऋक्षाश्च सह गोपुच्छैर्निकृत्ताननबाहवः॥ १३॥
समुत्तिष्ठन्तु ते सर्वे हताः ये युधि राक्षसैः। ऋक्षाः च सह गो-पुच्छैः निकृत्त-आनन-बाहवः॥ १३॥
samuttiṣṭhantu te sarve hatāḥ ye yudhi rākṣasaiḥ. ṛkṣāḥ ca saha go-pucchaiḥ nikṛtta-ānana-bāhavaḥ.. 13..
नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः। समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा॥ १४॥
नीरुजः निर्व्रणाः च एव सम्पन्न-बल-पौरुषाः। समुत्थास्यन्ति हरयः सुप्ताः निद्रा-क्षये यथा॥ १४॥
nīrujaḥ nirvraṇāḥ ca eva sampanna-bala-pauruṣāḥ. samutthāsyanti harayaḥ suptāḥ nidrā-kṣaye yathā.. 14..
सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च। सर्व एव समेष्यन्ति संयुक्ताः परया मुदा॥ १५॥
सुहृद्भिः बान्धवैः च एव ज्ञातिभिः स्व-जनेन च। सर्वे एव समेष्यन्ति संयुक्ताः परया मुदा॥ १५॥
suhṛdbhiḥ bāndhavaiḥ ca eva jñātibhiḥ sva-janena ca. sarve eva sameṣyanti saṃyuktāḥ parayā mudā.. 15..
अकाले पुष्पशबलाः फलवन्तश्च पादपाः। भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः॥ १६॥
अकाले पुष्प-शबलाः फलवन्तः च पादपाः। भविष्यन्ति महा-इष्वास नद्यः च सलिल-आयुताः॥ १६॥
akāle puṣpa-śabalāḥ phalavantaḥ ca pādapāḥ. bhaviṣyanti mahā-iṣvāsa nadyaḥ ca salila-āyutāḥ.. 16..
सव्रणैः प्रथमं गात्रैरिदानीं निर्व्रणैः समैः। ततः समुत्थिताः सर्वे सुप्त्वेव हरिसत्तमाः॥ १७॥
स व्रणैः प्रथमम् गात्रैः इदानीम् निर्व्रणैः समैः। ततस् समुत्थिताः सर्वे सुप्त्वा इव हरि-सत्तमाः॥ १७॥
sa vraṇaiḥ prathamam gātraiḥ idānīm nirvraṇaiḥ samaiḥ. tatas samutthitāḥ sarve suptvā iva hari-sattamāḥ.. 17..
बभूवुर्वानराः सर्वे किं त्वेतदिति विस्मिताः। काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः॥ १८॥
बभूवुः वानराः सर्वे किम् तु एतत् इति विस्मिताः। काकुत्स्थम् परिपूर्ण-अर्थम् दृष्ट्वा सर्वे सुर-उत्तमाः॥ १८॥
babhūvuḥ vānarāḥ sarve kim tu etat iti vismitāḥ. kākutstham paripūrṇa-artham dṛṣṭvā sarve sura-uttamāḥ.. 18..
अब्रुवन् परमप्रीताः स्तुत्वा रामं सलक्ष्मणम्। गच्छायोध्यामितो राजन् विसर्जय च वानरान्॥ १९॥
अब्रुवन् परम-प्रीताः स्तुत्वा रामम् स लक्ष्मणम्। गच्छ अयोध्याम् इतस् राजन् विसर्जय च वानरान्॥ १९॥
abruvan parama-prītāḥ stutvā rāmam sa lakṣmaṇam. gaccha ayodhyām itas rājan visarjaya ca vānarān.. 19..
मैथिलीं सान्त्वयस्वैनामनुरक्तां यशस्विनीम्। भ्रातरं भरतं पश्य त्वच्छोकाद् व्रतचारिणम्॥ २०॥
मैथिलीम् सान्त्वयस्व एनाम् अनुरक्ताम् यशस्विनीम्। भ्रातरम् भरतम् पश्य त्वद्-शोकात् व्रत-चारिणम्॥ २०॥
maithilīm sāntvayasva enām anuraktām yaśasvinīm. bhrātaram bharatam paśya tvad-śokāt vrata-cāriṇam.. 20..
शत्रुघ्नं च महात्मानं मातॄः सर्वाः परंतप। अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय॥ २१॥
शत्रुघ्नम् च महात्मानम् मातॄः सर्वाः परंतप। अभिषेचय च आत्मानम् पौरान् गत्वा प्रहर्षय॥ २१॥
śatrughnam ca mahātmānam mātṝḥ sarvāḥ paraṃtapa. abhiṣecaya ca ātmānam paurān gatvā praharṣaya.. 21..
एवमुक्त्वा सहस्राक्षो रामं सौमित्रिणा सह। विमानैः सूर्यसंकाशैर्ययौ हृष्टः सुरैः सह॥ २२॥
एवम् उक्त्वा सहस्राक्षः रामम् सौमित्रिणा सह। विमानैः सूर्य-संकाशैः ययौ हृष्टः सुरैः सह॥ २२॥
evam uktvā sahasrākṣaḥ rāmam saumitriṇā saha. vimānaiḥ sūrya-saṃkāśaiḥ yayau hṛṣṭaḥ suraiḥ saha.. 22..
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान्। लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत् तदा॥ २३॥
अभिवाद्य च काकुत्स्थः सर्वान् तान् त्रिदश-उत्तमान्। लक्ष्मणेन सह भ्रात्रा वासम् आज्ञापयत् तदा॥ २३॥
abhivādya ca kākutsthaḥ sarvān tān tridaśa-uttamān. lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā.. 23..
ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी। श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना॥ २४॥
ततस् तु सा लक्ष्मण-राम-पालिता महा-चमूः हृष्ट-जना यशस्विनी। श्रिया ज्वलन्ती विरराज सर्वतस् निशा प्रणीता इव हि शीतरश्मिना॥ २४॥
tatas tu sā lakṣmaṇa-rāma-pālitā mahā-camūḥ hṛṣṭa-janā yaśasvinī. śriyā jvalantī virarāja sarvatas niśā praṇītā iva hi śītaraśminā.. 24..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In