This overlay will guide you through the buttons:

| |
|
तां रात्रिमुषितं रामं सुखोदितमरिंदमम्। अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः॥ १॥
ताम् रात्रिम् उषितम् रामम् सुख-उदितम् अरिंदमम्। अब्रवीत् प्राञ्जलिः वाक्यम् जयम् पृष्ट्वा विभीषणः॥ १॥
tām rātrim uṣitam rāmam sukha-uditam ariṃdamam. abravīt prāñjaliḥ vākyam jayam pṛṣṭvā vibhīṣaṇaḥ.. 1..
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च। चन्दनानि च माल्यानि दिव्यानि विविधानि च॥ २॥
स्नानानि च अङ्गरागाणि वस्त्राणि आभरणानि च। चन्दनानि च माल्यानि दिव्यानि विविधानि च॥ २॥
snānāni ca aṅgarāgāṇi vastrāṇi ābharaṇāni ca. candanāni ca mālyāni divyāni vividhāni ca.. 2..
अलंकारविदश्चैता नार्यः पद्मनिभेक्षणाः। उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव॥ ३॥
अलंकार-विदः च एताः नार्यः पद्म-निभ-ईक्षणाः। उपस्थिताः त्वाम् विधिवत् स्नापयिष्यन्ति राघव॥ ३॥
alaṃkāra-vidaḥ ca etāḥ nāryaḥ padma-nibha-īkṣaṇāḥ. upasthitāḥ tvām vidhivat snāpayiṣyanti rāghava.. 3..
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम्। हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय॥ ४॥
एवम् उक्तः तु काकुत्स्थः प्रत्युवाच विभीषणम्। हरीन् सुग्रीव-मुख्यान् त्वम् स्नानेन उपनिमन्त्रय॥ ४॥
evam uktaḥ tu kākutsthaḥ pratyuvāca vibhīṣaṇam. harīn sugrīva-mukhyān tvam snānena upanimantraya.. 4..
स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः। सुकुमारो महाबाहुर्भरतः सत्यसंश्रयः॥ ५॥
स तु ताम्यति धर्म-आत्मा मम हेतोः सुख-उचितः। सुकुमारः महा-बाहुः भरतः सत्य-संश्रयः॥ ५॥
sa tu tāmyati dharma-ātmā mama hetoḥ sukha-ucitaḥ. sukumāraḥ mahā-bāhuḥ bharataḥ satya-saṃśrayaḥ.. 5..
तं विना कैकयीपुत्रं भरतं धर्मचारिणम्। न मे स्नानं बहु मतं वस्त्राण्याभरणानि च॥ ६॥
तम् विना कैकयी-पुत्रम् भरतम् धर्म-चारिणम्। न मे स्नानम् बहु मतम् वस्त्राणि आभरणानि च॥ ६॥
tam vinā kaikayī-putram bharatam dharma-cāriṇam. na me snānam bahu matam vastrāṇi ābharaṇāni ca.. 6..
एतत् पश्य यथा क्षिप्रं प्रतिगच्छाम तां पुरीम्। अयोध्यां गच्छतो ह्येष पन्थाः परमदुर्गमः॥ ७॥
एतत् पश्य यथा क्षिप्रम् प्रतिगच्छाम ताम् पुरीम्। अयोध्याम् गच्छतः हि एष पन्थाः परम-दुर्गमः॥ ७॥
etat paśya yathā kṣipram pratigacchāma tām purīm. ayodhyām gacchataḥ hi eṣa panthāḥ parama-durgamaḥ.. 7..
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः। अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज॥ ८॥
एवम् उक्तः तु काकुत्स्थम् प्रत्युवाच विभीषणः। अह्ना त्वाम् प्रापयिष्यामि ताम् पुरीम् पार्थिव-आत्मज॥ ८॥
evam uktaḥ tu kākutstham pratyuvāca vibhīṣaṇaḥ. ahnā tvām prāpayiṣyāmi tām purīm pārthiva-ātmaja.. 8..
पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम्। मम भ्रातुः कुबेरस्य रावणेन बलीयसा॥ ९॥
पुष्पकम् नाम भद्रम् ते विमानम् सूर्य-संनिभम्। मम भ्रातुः कुबेरस्य रावणेन बलीयसा॥ ९॥
puṣpakam nāma bhadram te vimānam sūrya-saṃnibham. mama bhrātuḥ kuberasya rāvaṇena balīyasā.. 9..
हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम्। त्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम॥ १०॥
हृतम् निर्जित्य संग्रामे कामगम् दिव्यम् उत्तमम्। त्वद्-अर्थम् पालितम् च इदम् तिष्ठति अतुल-विक्रम॥ १०॥
hṛtam nirjitya saṃgrāme kāmagam divyam uttamam. tvad-artham pālitam ca idam tiṣṭhati atula-vikrama.. 10..
तदिदं मेघसंकाशं विमानमिह तिष्ठति। येन यास्यसि यानेन त्वमयोध्यां गतज्वरः॥ ११॥
तत् इदम् मेघ-संकाशम् विमानम् इह तिष्ठति। येन यास्यसि यानेन त्वम् अयोध्याम् गत-ज्वरः॥ ११॥
tat idam megha-saṃkāśam vimānam iha tiṣṭhati. yena yāsyasi yānena tvam ayodhyām gata-jvaraḥ.. 11..
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान्। वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम्॥ १२॥
अहम् ते यदि अनुग्राह्यः यदि स्मरसि मे गुणान्। वस तावत् इह प्राज्ञ यदि अस्ति मयि सौहृदम्॥ १२॥
aham te yadi anugrāhyaḥ yadi smarasi me guṇān. vasa tāvat iha prājña yadi asti mayi sauhṛdam.. 12..
लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह। अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि॥ १३॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह। अर्चितः सर्व-कामैः त्वम् ततस् राम गमिष्यसि॥ १३॥
lakṣmaṇena saha bhrātrā vaidehyā bhāryayā saha. arcitaḥ sarva-kāmaiḥ tvam tatas rāma gamiṣyasi.. 13..
प्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः। सत्क्रियां राम मे तावद् गृहाण त्वं मयोद्यताम्॥ १४॥
प्रीति-युक्तस्य विहिताम् स सैन्यः स सुहृद्-गणः। सत्क्रियाम् राम मे तावत् गृहाण त्वम् मया उद्यताम्॥ १४॥
prīti-yuktasya vihitām sa sainyaḥ sa suhṛd-gaṇaḥ. satkriyām rāma me tāvat gṛhāṇa tvam mayā udyatām.. 14..
प्रणयाद् बहुमानाच्च सौहार्देन च राघव। प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते॥ १५॥
प्रणयात् बहु-मानात् च सौहार्देन च राघव। प्रसादयामि प्रेष्यः अहम् न खलु आज्ञापयामि ते॥ १५॥
praṇayāt bahu-mānāt ca sauhārdena ca rāghava. prasādayāmi preṣyaḥ aham na khalu ājñāpayāmi te.. 15..
एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम्। रक्षसां वानराणां च सर्वेषामेव शृण्वताम्॥ १६॥
एवम् उक्तः ततस् रामः प्रत्युवाच विभीषणम्। रक्षसाम् वानराणाम् च सर्वेषाम् एव शृण्वताम्॥ १६॥
evam uktaḥ tatas rāmaḥ pratyuvāca vibhīṣaṇam. rakṣasām vānarāṇām ca sarveṣām eva śṛṇvatām.. 16..
पूजितोऽस्मि त्वया वीर साचिव्येन परेण च। सर्वात्मना च चेष्टाभिः सौहार्देन परेण च॥ १७॥
पूजितः अस्मि त्वया वीर साचिव्येन परेण च। सर्व-आत्मना च चेष्टाभिः सौहार्देन परेण च॥ १७॥
pūjitaḥ asmi tvayā vīra sācivyena pareṇa ca. sarva-ātmanā ca ceṣṭābhiḥ sauhārdena pareṇa ca.. 17..
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर। तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः॥ १८॥
न खलु एतत् न कुर्याम् ते वचनम् राक्षसेश्वर। तम् तु मे भ्रातरम् द्रष्टुम् भरतम् त्वरते मनः॥ १८॥
na khalu etat na kuryām te vacanam rākṣaseśvara. tam tu me bhrātaram draṣṭum bharatam tvarate manaḥ.. 18..
मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः। शिरसा याचतो यस्य वचनं न कृतं मया॥ १९॥
माम् निवर्तयितुम् यः असौ चित्रकूटम् उपागतः। शिरसा याचतः यस्य वचनम् न कृतम् मया॥ १९॥
mām nivartayitum yaḥ asau citrakūṭam upāgataḥ. śirasā yācataḥ yasya vacanam na kṛtam mayā.. 19..
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्। गुहं च सुहृदं चैव पौराञ्जानपदैः सह॥ २०॥
कौसल्याम् च सुमित्राम् च कैकेयीम् च यशस्विनीम्। गुहम् च सुहृदम् च एव पौरान् जानपदैः सह॥ २०॥
kausalyām ca sumitrām ca kaikeyīm ca yaśasvinīm. guham ca suhṛdam ca eva paurān jānapadaiḥ saha.. 20..
अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण। मन्युर्न खलु कर्तव्यः सखे त्वां चानुमानये॥ २१॥
अनुजानीहि माम् सौम्य पूजितः अस्मि विभीषण। मन्युः न खलु कर्तव्यः सखे त्वाम् च अनुमानये॥ २१॥
anujānīhi mām saumya pūjitaḥ asmi vibhīṣaṇa. manyuḥ na khalu kartavyaḥ sakhe tvām ca anumānaye.. 21..
उपस्थापय मे शीघ्रं विमानं राक्षसेश्वर। कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः॥ २२॥
उपस्थापय मे शीघ्रम् विमानम् राक्षसेश्वर। कृत-कार्यस्य मे वासः कथम् स्यात् इह सम्मतः॥ २२॥
upasthāpaya me śīghram vimānam rākṣaseśvara. kṛta-kāryasya me vāsaḥ katham syāt iha sammataḥ.. 22..
एवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषणः। विमानं सूर्यसंकाशमाजुहाव त्वरान्वितः॥ २३॥
एवम् उक्तः तु रामेण राक्षस-इन्द्रः विभीषणः। विमानम् सूर्य-संकाशम् आजुहाव त्वरा-अन्वितः॥ २३॥
evam uktaḥ tu rāmeṇa rākṣasa-indraḥ vibhīṣaṇaḥ. vimānam sūrya-saṃkāśam ājuhāva tvarā-anvitaḥ.. 23..
ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम्। कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम्॥ २४॥
ततस् काञ्चन-चित्र-अङ्गम् वैदूर्य-मणि-वेदिकम्। कूटागारैः परिक्षिप्तम् सर्वतस् रजत-प्रभम्॥ २४॥
tatas kāñcana-citra-aṅgam vaidūrya-maṇi-vedikam. kūṭāgāraiḥ parikṣiptam sarvatas rajata-prabham.. 24..
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम्। शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः॥ २५॥
पाण्डुराभिः पताकाभिः ध्वजैः च समलंकृतम्। शोभितम् काञ्चनैः हर्म्यैः हेम-पद्म-विभूषितैः॥ २५॥
pāṇḍurābhiḥ patākābhiḥ dhvajaiḥ ca samalaṃkṛtam. śobhitam kāñcanaiḥ harmyaiḥ hema-padma-vibhūṣitaiḥ.. 25..
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षकम्। घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम्॥ २६॥
प्रकीर्णम् किङ्किणी-जालैः मुक्तामणि-गवाक्षकम्। घण्टा-जालैः परिक्षिप्तम् सर्वतस् मधुर-स्वनम्॥ २६॥
prakīrṇam kiṅkiṇī-jālaiḥ muktāmaṇi-gavākṣakam. ghaṇṭā-jālaiḥ parikṣiptam sarvatas madhura-svanam.. 26..
तं मेरुशिखराकारं निर्मितं विश्वकर्मणा। बृहद्भिर्भूषितं हर्म्यैर्मुक्तारजतशोभितैः॥ २७॥
तम् मेरु-शिखर-आकारम् निर्मितम् विश्वकर्मणा। बृहद्भिः भूषितम् हर्म्यैः मुक्ता-रजत-शोभितैः॥ २७॥
tam meru-śikhara-ākāram nirmitam viśvakarmaṇā. bṛhadbhiḥ bhūṣitam harmyaiḥ muktā-rajata-śobhitaiḥ.. 27..
तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥ २८॥
तलैः स्फटिक-चित्र-अङ्गैः वैदूर्यैः च वरासनैः। महार्ह-आस्तरण-उपेतैः उपपन्नम् महाधनैः॥ २८॥
talaiḥ sphaṭika-citra-aṅgaiḥ vaidūryaiḥ ca varāsanaiḥ. mahārha-āstaraṇa-upetaiḥ upapannam mahādhanaiḥ.. 28..
उपस्थितमनाधृष्यं तद् विमानं मनोजवम्। निवेदयित्वा रामाय तस्थौ तत्र विभीषणः॥ २९॥
उपस्थित-मनाधृष्यम् तत् विमानम् मनोजवम्। निवेदयित्वा रामाय तस्थौ तत्र विभीषणः॥ २९॥
upasthita-manādhṛṣyam tat vimānam manojavam. nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ.. 29..
तत् पुष्पकं कामगमं विमान- मुपस्थितं भूधरसंनिकाशम्। दृष्ट्वा तदा विस्मयमाजगाम रामः ससौमित्रिरुदारसत्त्वः॥ ३०॥
तत् पुष्पकम् काम-गमम् विमानम् उपस्थितम् भूधर-संनिकाशम्। दृष्ट्वा तदा विस्मयम् आजगाम रामः स सौमित्रिः उदार-सत्त्वः॥ ३०॥
tat puṣpakam kāma-gamam vimānam upasthitam bhūdhara-saṃnikāśam. dṛṣṭvā tadā vismayam ājagāma rāmaḥ sa saumitriḥ udāra-sattvaḥ.. 30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In