This overlay will guide you through the buttons:

| |
|
उपस्थितं तु तं कृत्वा पुष्पकं पुष्पभूषितम्। अविदूरे स्थितो राममित्युवाच विभीषणः॥ १॥
उपस्थितम् तु तम् कृत्वा पुष्पकम् पुष्प-भूषितम्। अविदूरे स्थितः रामम् इति उवाच विभीषणः॥ १॥
upasthitam tu tam kṛtvā puṣpakam puṣpa-bhūṣitam. avidūre sthitaḥ rāmam iti uvāca vibhīṣaṇaḥ.. 1..
स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः। अब्रवीत् त्वरयोपेतः किं करोमीति राघवम्॥ २॥
स तु बद्धाञ्जलि-पुटः विनीतः राक्षस-ईश्वरः। अब्रवीत् त्वरया उपेतः किम् करोमि इति राघवम्॥ २॥
sa tu baddhāñjali-puṭaḥ vinītaḥ rākṣasa-īśvaraḥ. abravīt tvarayā upetaḥ kim karomi iti rāghavam.. 2..
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः। विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्॥ ३॥
तम् अब्रवीत् महा-तेजाः लक्ष्मणस्य उपशृण्वतः। विमृश्य राघवः वाक्यम् इदम् स्नेह-पुरस्कृतम्॥ ३॥
tam abravīt mahā-tejāḥ lakṣmaṇasya upaśṛṇvataḥ. vimṛśya rāghavaḥ vākyam idam sneha-puraskṛtam.. 3..
कृतप्रयत्नकर्माणः सर्व एव वनौकसः। रत्नैरर्थैश्च विविधैः सम्पूज्यन्तां विभीषण॥ ४॥
कृत-प्रयत्न-कर्माणः सर्वे एव वनौकसः। रत्नैः अर्थैः च विविधैः सम्पूज्यन्ताम् विभीषण॥ ४॥
kṛta-prayatna-karmāṇaḥ sarve eva vanaukasaḥ. ratnaiḥ arthaiḥ ca vividhaiḥ sampūjyantām vibhīṣaṇa.. 4..
सहामीभिस्त्वया लङ्का निर्जिता राक्षसेश्वर। हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः॥ ५॥
सह अमीभिः त्वया लङ्का निर्जिता राक्षस-ईश्वर। हृष्टैः प्राण-भयम् त्यक्त्वा संग्रामेषु अनिवर्तिभिः॥ ५॥
saha amībhiḥ tvayā laṅkā nirjitā rākṣasa-īśvara. hṛṣṭaiḥ prāṇa-bhayam tyaktvā saṃgrāmeṣu anivartibhiḥ.. 5..
त इमे कृतकर्माणः सर्व एव वनौकसः। धनरत्नप्रदानैश्च कर्मैषां सफलं कुरु॥ ६॥
ते इमे कृत-कर्माणः सर्वे एव वनौकसः। धन-रत्न-प्रदानैः च कर्म एषाम् सफलम् कुरु॥ ६॥
te ime kṛta-karmāṇaḥ sarve eva vanaukasaḥ. dhana-ratna-pradānaiḥ ca karma eṣām saphalam kuru.. 6..
एवं सम्मानिताश्चैते नन्द्यमाना यथा त्वया। भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः॥ ७॥
एवम् सम्मानिताः च एते नन्द्यमानाः यथा त्वया। भविष्यन्ति कृतज्ञेन निर्वृताः हरि-यूथपाः॥ ७॥
evam sammānitāḥ ca ete nandyamānāḥ yathā tvayā. bhaviṣyanti kṛtajñena nirvṛtāḥ hari-yūthapāḥ.. 7..
त्यागिनं संग्रहीतारं सानुक्रोशं जितेन्द्रियम्। सर्वे त्वामभिगच्छन्ति ततः सम्बोधयामि ते॥ ८॥
त्यागिनम् संग्रहीतारम् स अनुक्रोशम् जित-इन्द्रियम्। सर्वे त्वाम् अभिगच्छन्ति ततस् सम्बोधयामि ते॥ ८॥
tyāginam saṃgrahītāram sa anukrośam jita-indriyam. sarve tvām abhigacchanti tatas sambodhayāmi te.. 8..
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे। सेना त्यजति संविग्ना नृपतिं तं नरेश्वर॥ ९॥
हीनम् रति-गुणैः सर्वैः अभिहन्तारम् आहवे। सेना त्यजति संविग्ना नृपतिम् तम् नरेश्वर॥ ९॥
hīnam rati-guṇaiḥ sarvaiḥ abhihantāram āhave. senā tyajati saṃvignā nṛpatim tam nareśvara.. 9..
एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः। रत्नार्थसंविभागेन सर्वानेवाभ्यपूजयत्॥ १०॥
एवम् उक्तः तु रामेण वानरान् तान् विभीषणः। रत्न-अर्थ-संविभागेन सर्वान् एव अभ्यपूजयत्॥ १०॥
evam uktaḥ tu rāmeṇa vānarān tān vibhīṣaṇaḥ. ratna-artha-saṃvibhāgena sarvān eva abhyapūjayat.. 10..
ततस्तान् पूजितान् दृष्ट्वा रत्नार्थैर्हरियूथपान्। आरुरोह तदा रामस्तद् विमानमनुत्तमम्॥ ११॥
ततस् तान् पूजितान् दृष्ट्वा रत्न-अर्थैः हरि-यूथपान्। आरुरोह तदा रामः तत् विमानम् अनुत्तमम्॥ ११॥
tatas tān pūjitān dṛṣṭvā ratna-arthaiḥ hari-yūthapān. āruroha tadā rāmaḥ tat vimānam anuttamam.. 11..
अङ्केनादाय वैदेहीं लज्जमानां मनस्विनीम्। लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता॥ १२॥
अङ्केन आदाय वैदेहीम् लज्जमानाम् मनस्विनीम्। लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता॥ १२॥
aṅkena ādāya vaidehīm lajjamānām manasvinīm. lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā.. 12..
अब्रवीत् स विमानस्थः पूजयन् सर्ववानरान्। सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम्॥ १३॥
अब्रवीत् स विमान-स्थः पूजयन् सर्व-वानरान्। सुग्रीवम् च महा-वीर्यम् काकुत्स्थः स विभीषणम्॥ १३॥
abravīt sa vimāna-sthaḥ pūjayan sarva-vānarān. sugrīvam ca mahā-vīryam kākutsthaḥ sa vibhīṣaṇam.. 13..
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः। अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत॥ १४॥
मित्र-कार्यम् कृतम् इदम् भवद्भिः वानर-ऋषभाः। अनुज्ञाताः मया सर्वे यथेष्टम् प्रतिगच्छत॥ १४॥
mitra-kāryam kṛtam idam bhavadbhiḥ vānara-ṛṣabhāḥ. anujñātāḥ mayā sarve yatheṣṭam pratigacchata.. 14..
यत् तु कार्यं वयस्येन स्निग्धेन च हितेन च। कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा॥ १५॥
यत् तु कार्यम् वयस्येन स्निग्धेन च हितेन च। कृतम् सुग्रीव तत् सर्वम् भवता अधर्म-भीरुणा॥ १५॥
yat tu kāryam vayasyena snigdhena ca hitena ca. kṛtam sugrīva tat sarvam bhavatā adharma-bhīruṇā.. 15..
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण। न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः॥ १६॥
स्व-राज्ये वस लङ्कायाम् मया दत्ते विभीषण। न त्वाम् धर्षयितुम् शक्ताः स इन्द्राः अपि दिवौकसः॥ १६॥
sva-rājye vasa laṅkāyām mayā datte vibhīṣaṇa. na tvām dharṣayitum śaktāḥ sa indrāḥ api divaukasaḥ.. 16..
अयोध्यां प्रति यास्यामि राजधानीं पितुर्मम। अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः॥ १७॥
अयोध्याम् प्रति यास्यामि राजधानीम् पितुः मम। अभ्यनुज्ञातुम् इच्छामि सर्वान् आमन्त्रयामि वः॥ १७॥
ayodhyām prati yāsyāmi rājadhānīm pituḥ mama. abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ.. 17..
एवमुक्तास्तु रामेण हरीन्द्रा हरयस्तथा। ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः॥ १८॥
एवम् उक्ताः तु रामेण हरि-इन्द्राः हरयः तथा। ऊचुः प्राञ्जलयः सर्वे राक्षसः च विभीषणः॥ १८॥
evam uktāḥ tu rāmeṇa hari-indrāḥ harayaḥ tathā. ūcuḥ prāñjalayaḥ sarve rākṣasaḥ ca vibhīṣaṇaḥ.. 18..
अयोध्यां गन्तुमिच्छामः सर्वान् नयतु नो भवान्। मुद्युक्ता विचरिष्यामो वनान्युपवनानि च॥ १९॥
अयोध्याम् गन्तुम् इच्छामः सर्वान् नयतु नः भवान्। मुद्-युक्ताः विचरिष्यामः वनानि उपवनानि च॥ १९॥
ayodhyām gantum icchāmaḥ sarvān nayatu naḥ bhavān. mud-yuktāḥ vicariṣyāmaḥ vanāni upavanāni ca.. 19..
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च। अचिरादागमिष्यामः स्वगृहान् नृपसत्तम॥ २०॥
दृष्ट्वा त्वाम् अभिषेक-आर्द्रम् कौसल्याम् अभिवाद्य च। अचिरात् आगमिष्यामः स्व-गृहात् नृप-सत्तम॥ २०॥
dṛṣṭvā tvām abhiṣeka-ārdram kausalyām abhivādya ca. acirāt āgamiṣyāmaḥ sva-gṛhāt nṛpa-sattama.. 20..
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः। अब्रवीद् वानरान् रामः ससुग्रीवविभीषणान्॥ २१॥
एवम् उक्तः तु धर्म-आत्मा वानरैः स विभीषणैः। अब्रवीत् वानरान् रामः स सुग्रीव-विभीषणान्॥ २१॥
evam uktaḥ tu dharma-ātmā vānaraiḥ sa vibhīṣaṇaiḥ. abravīt vānarān rāmaḥ sa sugrīva-vibhīṣaṇān.. 21..
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः। सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः॥ २२॥
प्रियात् प्रियतरम् लब्धम् यत् अहम् स सुहृद्-जनः। सर्वैः भवद्भिः सहितः प्रीतिम् लप्स्ये पुरीम् गतः॥ २२॥
priyāt priyataram labdham yat aham sa suhṛd-janaḥ. sarvaiḥ bhavadbhiḥ sahitaḥ prītim lapsye purīm gataḥ.. 22..
क्षिप्रमारोह सुग्रीव विमानं सह वानरैः। त्वमप्यारोह सामात्यो राक्षसेन्द्र विभीषण॥ २३॥
क्षिप्रम् आरोह सुग्रीव विमानम् सह वानरैः। त्वम् अपि आरोह स अमात्यः राक्षस-इन्द्र विभीषण॥ २३॥
kṣipram āroha sugrīva vimānam saha vānaraiḥ. tvam api āroha sa amātyaḥ rākṣasa-indra vibhīṣaṇa.. 23..
ततः स पुष्पकं दिव्यं सुग्रीवः सह वानरैः। आरुरोह मुदा युक्तः सामात्यश्च विभीषणः॥ २४॥
ततस् स पुष्पकम् दिव्यम् सुग्रीवः सह वानरैः। आरुरोह मुदा युक्तः स अमात्यः च विभीषणः॥ २४॥
tatas sa puṣpakam divyam sugrīvaḥ saha vānaraiḥ. āruroha mudā yuktaḥ sa amātyaḥ ca vibhīṣaṇaḥ.. 24..
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्। राघवेणाभ्यनुज्ञातमुत्पपात विहायसम्॥ २५॥
तेषु आरूढेषु सर्वेषु कौबेरम् परम-आसनम्। राघवेण अभ्यनुज्ञातम् उत्पपात विहायसम्॥ २५॥
teṣu ārūḍheṣu sarveṣu kauberam parama-āsanam. rāghaveṇa abhyanujñātam utpapāta vihāyasam.. 25..
खगतेन विमानेन हंसयुक्तेन भास्वता। प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्॥ २६॥
ख-गतेन विमानेन हंस-युक्तेन भास्वता। प्रहृष्टः च प्रतीतः च बभौ रामः कुबेर-वत्॥ २६॥
kha-gatena vimānena haṃsa-yuktena bhāsvatā. prahṛṣṭaḥ ca pratītaḥ ca babhau rāmaḥ kubera-vat.. 26..
ते सर्वे वानरर्क्षाश्च राक्षसाश्च महाबलाः। यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन्॥ २७॥
ते सर्वे वानर-ऋक्षाः च राक्षसाः च महा-बलाः। यथासुखम् असम्बाधम् दिव्ये तस्मिन् उपाविशन्॥ २७॥
te sarve vānara-ṛkṣāḥ ca rākṣasāḥ ca mahā-balāḥ. yathāsukham asambādham divye tasmin upāviśan.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In