This overlay will guide you through the buttons:

| |
|
अनुज्ञातं तु रामेण तद् विमानमनुत्तमम्। हंसयुक्तं महानादमुत्पपात विहायसम्॥ १॥
अनुज्ञातम् तु रामेण तत् विमानम् अनुत्तमम्। हंस-युक्तम् महा-नादम् उत्पपात विहायसम्॥ १॥
anujñātam tu rāmeṇa tat vimānam anuttamam. haṃsa-yuktam mahā-nādam utpapāta vihāyasam.. 1..
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः। अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्॥ २॥
पातयित्वा ततस् चक्षुः सर्वतस् रघुनन्दनः। अब्रवीत् मैथिलीम् सीताम् रामः शशि-निभ-आननाम्॥ २॥
pātayitvā tatas cakṣuḥ sarvatas raghunandanaḥ. abravīt maithilīm sītām rāmaḥ śaśi-nibha-ānanām.. 2..
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्। लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा॥ ३॥
कैलास-शिखर-आकारे त्रिकूट-शिखरे स्थिताम्। लङ्काम् ईक्षस्व वैदेहि निर्मिताम् विश्वकर्मणा॥ ३॥
kailāsa-śikhara-ākāre trikūṭa-śikhare sthitām. laṅkām īkṣasva vaidehi nirmitām viśvakarmaṇā.. 3..
एतदायोधनं पश्य मांसशोणितकर्दमम्। हरीणां राक्षसानां च सीते विशसनं महत्॥ ४॥
एतत् आयोधनम् पश्य मांस-शोणित-कर्दमम्। हरीणाम् राक्षसानाम् च सीते विशसनम् महत्॥ ४॥
etat āyodhanam paśya māṃsa-śoṇita-kardamam. harīṇām rākṣasānām ca sīte viśasanam mahat.. 4..
एष दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोर्विशालाक्षि निहतो रावणो मया॥ ५॥
एष दत्त-वरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोः विशाल-अक्षि निहतः रावणः मया॥ ५॥
eṣa datta-varaḥ śete pramāthī rākṣaseśvaraḥ. tava hetoḥ viśāla-akṣi nihataḥ rāvaṇaḥ mayā.. 5..
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः। धूम्राक्षश्चात्र निहतो वानरेण हनूमता॥ ६॥
कुम्भकर्णः अत्र निहतः प्रहस्तः च निशाचरः। धूम्राक्षः च अत्र निहतः वानरेण हनूमता॥ ६॥
kumbhakarṇaḥ atra nihataḥ prahastaḥ ca niśācaraḥ. dhūmrākṣaḥ ca atra nihataḥ vānareṇa hanūmatā.. 6..
विद्युन्माली हतश्चात्र सुषेणेन महात्मना। लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे॥ ७॥
विद्युन्माली हतः च अत्र सुषेणेन महात्मना। लक्ष्मणेन इन्द्रजित् च अत्र रावणिः निहतः रणे॥ ७॥
vidyunmālī hataḥ ca atra suṣeṇena mahātmanā. lakṣmaṇena indrajit ca atra rāvaṇiḥ nihataḥ raṇe.. 7..
अङ्गदेनात्र निहतो विकटो नाम राक्षसः। विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ॥ ८॥
अङ्गदेन अत्र निहतः विकटः नाम राक्षसः। विरूपाक्षः च दुष्प्रेक्षः महापार्श्व-महोदरौ॥ ८॥
aṅgadena atra nihataḥ vikaṭaḥ nāma rākṣasaḥ. virūpākṣaḥ ca duṣprekṣaḥ mahāpārśva-mahodarau.. 8..
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः। त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ॥ ९॥
अकम्पनः च निहतः बलिनः अन्ये च राक्षसाः। त्रिशिराः च अतिकायः च देवान्तक-नरान्तकौ॥ ९॥
akampanaḥ ca nihataḥ balinaḥ anye ca rākṣasāḥ. triśirāḥ ca atikāyaḥ ca devāntaka-narāntakau.. 9..
युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ। निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली॥ १०॥
युद्धोन्मत्तः च मत्तः च राक्षस-प्रवरौ उभौ। निकुम्भः च एव कुम्भः च कुम्भकर्ण-आत्मजौ बली॥ १०॥
yuddhonmattaḥ ca mattaḥ ca rākṣasa-pravarau ubhau. nikumbhaḥ ca eva kumbhaḥ ca kumbhakarṇa-ātmajau balī.. 10..
वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः। मकराक्षश्च दुर्धर्षो मया युधि निपातितः॥ ११॥
वज्रदंष्ट्रः च दंष्ट्रः च बहवः राक्षसाः हताः। मकराक्षः च दुर्धर्षः मया युधि निपातितः॥ ११॥
vajradaṃṣṭraḥ ca daṃṣṭraḥ ca bahavaḥ rākṣasāḥ hatāḥ. makarākṣaḥ ca durdharṣaḥ mayā yudhi nipātitaḥ.. 11..
अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान्। यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे॥ १२॥
अकम्पनः च निहतः शोणिताक्षः च वीर्यवान्। यूपाक्षः च प्रजङ्घः च निहतौ तु महा-आहवे॥ १२॥
akampanaḥ ca nihataḥ śoṇitākṣaḥ ca vīryavān. yūpākṣaḥ ca prajaṅghaḥ ca nihatau tu mahā-āhave.. 12..
विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः। यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः॥ १३॥
विद्युज्जिह्वः अत्र निहतः राक्षसः भीम-दर्शनः। यज्ञशत्रुः च निहतः सुप्तघ्नः च महा-बलः॥ १३॥
vidyujjihvaḥ atra nihataḥ rākṣasaḥ bhīma-darśanaḥ. yajñaśatruḥ ca nihataḥ suptaghnaḥ ca mahā-balaḥ.. 13..
सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः। अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्॥ १४॥
सूर्यशत्रुः च निहतः ब्रह्मशत्रुः तथा अपरः। अत्र मन्दोदरी नाम भार्या तम् पर्यदेवयत्॥ १४॥
sūryaśatruḥ ca nihataḥ brahmaśatruḥ tathā aparaḥ. atra mandodarī nāma bhāryā tam paryadevayat.. 14..
सपत्नीनां सहस्रेण साग्रेण परिवारिता। एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने॥ १५॥
सपत्नीनाम् सहस्रेण साग्रेण परिवारिता। एतत् तु दृश्यते तीर्थम् समुद्रस्य वरानने॥ १५॥
sapatnīnām sahasreṇa sāgreṇa parivāritā. etat tu dṛśyate tīrtham samudrasya varānane.. 15..
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्। एष सेतुर्मया बद्धः सागरे लवणार्णवे॥ १६॥
यत्र सागरम् उत्तीर्य ताम् रात्रिम् उषिताः वयम्। एष सेतुः मया बद्धः सागरे लवणार्णवे॥ १६॥
yatra sāgaram uttīrya tām rātrim uṣitāḥ vayam. eṣa setuḥ mayā baddhaḥ sāgare lavaṇārṇave.. 16..
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः। पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्॥ १७॥
तव हेतोः विशाल-अक्षि नलसेतुः सु दुष्करः। पश्य सागरम् अक्षोभ्यम् वैदेहि वरुणालयम्॥ १७॥
tava hetoḥ viśāla-akṣi nalasetuḥ su duṣkaraḥ. paśya sāgaram akṣobhyam vaidehi varuṇālayam.. 17..
अपारमिव गर्जन्तं शङ्खशुक्तिसमाकुलम्। हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि॥ १८॥
अपारम् इव गर्जन्तम् शङ्ख-शुक्ति-समाकुलम्। हिरण्यनाभम् शैल-इन्द्रम् काञ्चनम् पश्य मैथिलि॥ १८॥
apāram iva garjantam śaṅkha-śukti-samākulam. hiraṇyanābham śaila-indram kāñcanam paśya maithili.. 18..
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्। एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम्॥ १९॥
विश्रम-अर्थम् हनुमतः भित्त्वा सागरम् उत्थितम्। एतत् कुक्षौ समुद्रस्य स्कन्धावार-निवेशनम्॥ १९॥
viśrama-artham hanumataḥ bhittvā sāgaram utthitam. etat kukṣau samudrasya skandhāvāra-niveśanam.. 19..
अत्र पूर्वं महादेवः प्रसादमकरोद् विभुः। एतत् तु दृश्यते तीर्थं सागरस्य महात्मनः॥ २०॥
अत्र पूर्वम् महादेवः प्रसादम् अकरोत् विभुः। एतत् तु दृश्यते तीर्थम् सागरस्य महात्मनः॥ २०॥
atra pūrvam mahādevaḥ prasādam akarot vibhuḥ. etat tu dṛśyate tīrtham sāgarasya mahātmanaḥ.. 20..
सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम्। एतत् पवित्रं परमं महापातकनाशनम्॥ २१॥
सेतुबन्धः इति ख्यातम् त्रैलोक्येन च पूजितम्। एतत् पवित्रम् परमम् महापातक-नाशनम्॥ २१॥
setubandhaḥ iti khyātam trailokyena ca pūjitam. etat pavitram paramam mahāpātaka-nāśanam.. 21..
अत्र राक्षसराजोऽयमाजगाम विभीषणः। एषा सा दृश्यते सीते किष्किन्धा चित्रकानना॥ २२॥
अत्र राक्षस-राजः अयम् आजगाम विभीषणः। एषा सा दृश्यते सीते किष्किन्धा चित्र-कानना॥ २२॥
atra rākṣasa-rājaḥ ayam ājagāma vibhīṣaṇaḥ. eṣā sā dṛśyate sīte kiṣkindhā citra-kānanā.. 22..
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः। अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम्॥ २३॥
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः। अथ दृष्ट्वा पुरीम् सीता किष्किन्धाम् वालि-पालिताम्॥ २३॥
sugrīvasya purī ramyā yatra vālī mayā hataḥ. atha dṛṣṭvā purīm sītā kiṣkindhām vāli-pālitām.. 23..
अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा। सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप॥ २४॥
अब्रवीत् प्रश्रितम् वाक्यम् रामम् प्रणय-साध्वसा। सुग्रीव-प्रिय-भार्याभिः तारा-प्रमुखतः नृप॥ २४॥
abravīt praśritam vākyam rāmam praṇaya-sādhvasā. sugrīva-priya-bhāryābhiḥ tārā-pramukhataḥ nṛpa.. 24..
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्। गन्तुमिच्छे सहायोध्यां राजधानीं त्वया सह॥ २५॥
अन्येषाम् वानर-इन्द्राणाम् स्त्रीभिः परिवृता हि अहम्। गन्तुम् इच्छे सह अयोध्याम् राजधानीम् त्वया सह॥ २५॥
anyeṣām vānara-indrāṇām strībhiḥ parivṛtā hi aham. gantum icche saha ayodhyām rājadhānīm tvayā saha.. 25..
एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम्। एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः॥ २६॥
एवम् उक्तः अथ वैदेह्याः राघवः प्रत्युवाच ताम्। एवम् अस्तु इति किष्किन्धाम् प्राप्य संस्थाप्य राघवः॥ २६॥
evam uktaḥ atha vaidehyāḥ rāghavaḥ pratyuvāca tām. evam astu iti kiṣkindhām prāpya saṃsthāpya rāghavaḥ.. 26..
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह। ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान्॥ २७॥
विमानम् प्रेक्ष्य सुग्रीवम् वाक्यम् एतत् उवाच ह। ब्रूहि वानर-शार्दूल सर्वान् वानर-पुङ्गवान्॥ २७॥
vimānam prekṣya sugrīvam vākyam etat uvāca ha. brūhi vānara-śārdūla sarvān vānara-puṅgavān.. 27..
स्त्रीभिः परिवृताः सर्वे ह्ययोध्यां यान्तु सीतया। तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल॥ २८॥
स्त्रीभिः परिवृताः सर्वे हि अयोध्याम् यान्तु सीतया। तथा त्वम् अपि सर्वाभिः स्त्रीभिः सह महा-बल॥ २८॥
strībhiḥ parivṛtāḥ sarve hi ayodhyām yāntu sītayā. tathā tvam api sarvābhiḥ strībhiḥ saha mahā-bala.. 28..
अभित्वरय सुग्रीव गच्छामः प्लवगाधिप। एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा॥ २९॥
अभित्वरय सुग्रीव गच्छामः प्लवग-अधिप। एवम् उक्तः तु सुग्रीवः रामेण अमित-तेजसा॥ २९॥
abhitvaraya sugrīva gacchāmaḥ plavaga-adhipa. evam uktaḥ tu sugrīvaḥ rāmeṇa amita-tejasā.. 29..
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः। प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत्॥ ३०॥
वानर-अधिपतिः श्रीमान् तैः च सर्वैः समावृतः। प्रविश्य अन्तःपुरम् शीघ्रम् ताराम् उद्वीक्ष्य सः अब्रवीत्॥ ३०॥
vānara-adhipatiḥ śrīmān taiḥ ca sarvaiḥ samāvṛtaḥ. praviśya antaḥpuram śīghram tārām udvīkṣya saḥ abravīt.. 30..
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम्। राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया॥ ३१॥
प्रिये त्वम् सह नारीभिः वानराणाम् महात्मनाम्। राघवेण अभ्यनुज्ञाता मैथिली-प्रिय-काम्यया॥ ३१॥
priye tvam saha nārībhiḥ vānarāṇām mahātmanām. rāghaveṇa abhyanujñātā maithilī-priya-kāmyayā.. 31..
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः॥ ३२॥
त्वर त्वम् अभिगच्छामः गृह्य वानर-योषितः। अयोध्याम् दर्शयिष्यामः सर्वाः दशरथ-स्त्रियः॥ ३२॥
tvara tvam abhigacchāmaḥ gṛhya vānara-yoṣitaḥ. ayodhyām darśayiṣyāmaḥ sarvāḥ daśaratha-striyaḥ.. 32..
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत् सर्वा वानराणां तु योषितः॥ ३३॥
सुग्रीवस्य वचः श्रुत्वा तारा सर्व-अङ्ग-शोभना। आहूय च अब्रवीत् सर्वाः वानराणाम् तु योषितः॥ ३३॥
sugrīvasya vacaḥ śrutvā tārā sarva-aṅga-śobhanā. āhūya ca abravīt sarvāḥ vānarāṇām tu yoṣitaḥ.. 33..
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः। मम चापि प्रियं कार्यमयोध्यादर्शनेन च॥ ३४॥
सुग्रीवेण अभ्यनुज्ञाता गन्तुम् सर्वैः च वानरैः। मम च अपि प्रियम् कार्यम् अयोध्या-दर्शनेन च॥ ३४॥
sugrīveṇa abhyanujñātā gantum sarvaiḥ ca vānaraiḥ. mama ca api priyam kāryam ayodhyā-darśanena ca.. 34..
प्रवेशं चैव रामस्य पौरजानपदैः सह। विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च॥ ३५॥
प्रवेशम् च एव रामस्य पौर-जानपदैः सह। विभूतिम् च एव सर्वासाम् स्त्रीणाम् दशरथस्य च॥ ३५॥
praveśam ca eva rāmasya paura-jānapadaiḥ saha. vibhūtim ca eva sarvāsām strīṇām daśarathasya ca.. 35..
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम्॥ ३६॥
तारया च अभ्यनुज्ञाताः सर्वाः वानर-योषितः। नेपथ्य-विधि-पूर्वम् तु कृत्वा च अपि प्रदक्षिणम्॥ ३६॥
tārayā ca abhyanujñātāḥ sarvāḥ vānara-yoṣitaḥ. nepathya-vidhi-pūrvam tu kṛtvā ca api pradakṣiṇam.. 36..
अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया। ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः॥ ३७॥
अध्यारोहन् विमानम् तत् सीता-दर्शन-काङ्क्षया। ताभिः सह उत्थितम् शीघ्रम् विमानम् प्रेक्ष्य राघवः॥ ३७॥
adhyārohan vimānam tat sītā-darśana-kāṅkṣayā. tābhiḥ saha utthitam śīghram vimānam prekṣya rāghavaḥ.. 37..
ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत्। दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः॥ ३८॥
ऋष्यमूक-समीपे तु वैदेहीम् पुनर् अब्रवीत्। दृश्यते असौ महान् सीते स विद्युत् इव तोयदः॥ ३८॥
ṛṣyamūka-samīpe tu vaidehīm punar abravīt. dṛśyate asau mahān sīte sa vidyut iva toyadaḥ.. 38..
ऋष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः। अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः॥ ३९॥
ऋष्यमूकः गिरि-वरः काञ्चनैः धातुभिः वृतः। अत्र अहम् वानर-इन्द्रेण सुग्रीवेण समागतः॥ ३९॥
ṛṣyamūkaḥ giri-varaḥ kāñcanaiḥ dhātubhiḥ vṛtaḥ. atra aham vānara-indreṇa sugrīveṇa samāgataḥ.. 39..
समयश्च कृतः सीते वधार्थं वालिनो मया। एषा सा दृश्यते पम्पा नलिनी चित्रकानना॥ ४०॥
समयः च कृतः सीते वध-अर्थम् वालिनः मया। एषा सा दृश्यते पम्पा नलिनी चित्र-कानना॥ ४०॥
samayaḥ ca kṛtaḥ sīte vadha-artham vālinaḥ mayā. eṣā sā dṛśyate pampā nalinī citra-kānanā.. 40..
त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी॥ ४१॥
त्वया विहीनः यत्र अहम् विललाप सु दुःखितः। अस्याः तीरे मया दृष्टा शबरी धर्म-चारिणी॥ ४१॥
tvayā vihīnaḥ yatra aham vilalāpa su duḥkhitaḥ. asyāḥ tīre mayā dṛṣṭā śabarī dharma-cāriṇī.. 41..
अत्र योजनबाहुश्च कबन्धो निहतो मया। दृश्यतेऽसौ जनस्थाने श्रीमान् सीते वनस्पतिः॥ ४२॥
अत्र योजन-बाहुः च कबन्धः निहतः मया। दृश्यते असौ जनस्थाने श्रीमान् सीते वनस्पतिः॥ ४२॥
atra yojana-bāhuḥ ca kabandhaḥ nihataḥ mayā. dṛśyate asau janasthāne śrīmān sīte vanaspatiḥ.. 42..
जटायुश्च महातेजास्तव हेतोर्विलासिनि। रावणेन हतो यत्र पक्षिणां प्रवरो बली॥ ४३॥
जटायुः च महा-तेजाः तव हेतोः विलासिनि। रावणेन हतः यत्र पक्षिणाम् प्रवरः बली॥ ४३॥
jaṭāyuḥ ca mahā-tejāḥ tava hetoḥ vilāsini. rāvaṇena hataḥ yatra pakṣiṇām pravaraḥ balī.. 43..
खरश्च निहतो यत्र दूषणश्च निपातितः। त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः॥ ४४॥
खरः च निहतः यत्र दूषणः च निपातितः। त्रिशिराः च महा-वीर्यः मया बाणैः अजिह्मगैः॥ ४४॥
kharaḥ ca nihataḥ yatra dūṣaṇaḥ ca nipātitaḥ. triśirāḥ ca mahā-vīryaḥ mayā bāṇaiḥ ajihmagaiḥ.. 44..
एतत् तदाश्रमपदमस्माकं वरवर्णिनि। पर्णशाला तथा चित्रा दृश्यते शुभदर्शने॥ ४५॥
एतत् तद्-आश्रम-पदम् अस्माकम् वरवर्णिनि। पर्ण-शाला तथा चित्रा दृश्यते शुभ-दर्शने॥ ४५॥
etat tad-āśrama-padam asmākam varavarṇini. parṇa-śālā tathā citrā dṛśyate śubha-darśane.. 45..
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्नसलिला शुभा॥ ४६॥
यत्र त्वम् राक्षस-इन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्न-सलिला शुभा॥ ४६॥
yatra tvam rākṣasa-indreṇa rāvaṇena hṛtā balāt. eṣā godāvarī ramyā prasanna-salilā śubhā.. 46..
अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः। दीप्तश्चैवाश्रमे ह्येष सुतीक्ष्णस्य महात्मनः॥ ४७॥
अगस्त्यस्य आश्रमः च एव दृश्यते कदली-वृतः। दीप्तः च एव आश्रमे हि एष सु तीक्ष्णस्य महात्मनः॥ ४७॥
agastyasya āśramaḥ ca eva dṛśyate kadalī-vṛtaḥ. dīptaḥ ca eva āśrame hi eṣa su tīkṣṇasya mahātmanaḥ.. 47..
दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान्। उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः॥ ४८॥
दृश्यते च एव वैदेहि शरभङ्ग-आश्रमः महान्। उपयातः सहस्राक्षः यत्र शक्रः पुरंदरः॥ ४८॥
dṛśyate ca eva vaidehi śarabhaṅga-āśramaḥ mahān. upayātaḥ sahasrākṣaḥ yatra śakraḥ puraṃdaraḥ.. 48..
अस्मिन् देशे महाकायो विराधो निहतो मया। एते ते तापसा देवि दृश्यन्ते तनुमध्यमे॥ ४९॥
अस्मिन् देशे महा-कायः विराधः निहतः मया। एते ते तापसाः देवि दृश्यन्ते तनु-मध्यमे॥ ४९॥
asmin deśe mahā-kāyaḥ virādhaḥ nihataḥ mayā. ete te tāpasāḥ devi dṛśyante tanu-madhyame.. 49..
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः। अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी॥ ५०॥
अत्रिः कुल-पतिः यत्र सूर्य-वैश्वानर-उपमः। अत्र सीते त्वया दृष्टा तापसी धर्म-चारिणी॥ ५०॥
atriḥ kula-patiḥ yatra sūrya-vaiśvānara-upamaḥ. atra sīte tvayā dṛṣṭā tāpasī dharma-cāriṇī.. 50..
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते। अत्र मां कैकयीपुत्रः प्रसादयितुमागतः॥ ५१॥
असौ सु तनु शैल-इन्द्रः चित्रकूटः प्रकाशते। अत्र माम् कैकयी-पुत्रः प्रसादयितुम् आगतः॥ ५१॥
asau su tanu śaila-indraḥ citrakūṭaḥ prakāśate. atra mām kaikayī-putraḥ prasādayitum āgataḥ.. 51..
एषा सा यमुना रम्या दृश्यते चित्रकानना। भरद्वाजाश्रमः श्रीमान् दृश्यते चैष मैथिलि॥ ५२॥
एषा सा यमुना रम्या दृश्यते चित्र-कानना। भरद्वाज-आश्रमः श्रीमान् दृश्यते च एष मैथिलि॥ ५२॥
eṣā sā yamunā ramyā dṛśyate citra-kānanā. bharadvāja-āśramaḥ śrīmān dṛśyate ca eṣa maithili.. 52..
इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी। नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना॥ ५३॥
इयम् च दृश्यते गङ्गा पुण्या त्रिपथगा नदी। नाना द्विज-गण-आकीर्णा सम्प्रपुष्पित-कानना॥ ५३॥
iyam ca dṛśyate gaṅgā puṇyā tripathagā nadī. nānā dvija-gaṇa-ākīrṇā samprapuṣpita-kānanā.. 53..
शृङ्गवेरपुरं चैतद् गुहो यत्र सखा मम। एषा सा दृश्यते सीते सरयूर्यूपमालिनी॥ ५४॥
शृङ्गवेर-पुरम् च एतत् गुहः यत्र सखा मम। एषा सा दृश्यते सीते सरयूः यूप-मालिनी॥ ५४॥
śṛṅgavera-puram ca etat guhaḥ yatra sakhā mama. eṣā sā dṛśyate sīte sarayūḥ yūpa-mālinī.. 54..
एषा सा दृश्यते सीते राजधानी पितुर्मम। अयोध्यां कुरु वैदेहि प्रणामं पुनरागता॥ ५५॥
एषा सा दृश्यते सीते राजधानी पितुः मम। अयोध्याम् कुरु वैदेहि प्रणामम् पुनर् आगता॥ ५५॥
eṣā sā dṛśyate sīte rājadhānī pituḥ mama. ayodhyām kuru vaidehi praṇāmam punar āgatā.. 55..
ततस्ते वानराः सर्वे राक्षसाः सविभीषणाः। उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा॥ ५६॥
ततस् ते वानराः सर्वे राक्षसाः स विभीषणाः। उत्पत्य उत्पत्य संहृष्टाः ताम् पुरीम् ददृशुः तदा॥ ५६॥
tatas te vānarāḥ sarve rākṣasāḥ sa vibhīṣaṇāḥ. utpatya utpatya saṃhṛṣṭāḥ tām purīm dadṛśuḥ tadā.. 56..
ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिभिर्वृताम्। पुरीमपश्यन् प्लवगाः सराक्षसाः पुरीं महेन्द्रस्य यथामरावतीम्॥ ५७॥
ततस् तु ताम् पाण्डुर-हर्म्य-मालिनीम् विशाल-कक्ष्याम् गज-वाजिभिः वृताम्। पुरीम् अपश्यन् प्लवगाः सराक्षसाः पुरीम् महा-इन्द्रस्य यथा अमरावतीम्॥ ५७॥
tatas tu tām pāṇḍura-harmya-mālinīm viśāla-kakṣyām gaja-vājibhiḥ vṛtām. purīm apaśyan plavagāḥ sarākṣasāḥ purīm mahā-indrasya yathā amarāvatīm.. 57..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In