This overlay will guide you through the buttons:

| |
|
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः। भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्॥ १॥
पूर्णे चतुर्दशे वर्षे पञ्चम्याम् लक्ष्मण-अग्रजः। भरद्वाज-आश्रमम् प्राप्य ववन्दे नियतः मुनिम्॥ १॥
pūrṇe caturdaśe varṣe pañcamyām lakṣmaṇa-agrajaḥ. bharadvāja-āśramam prāpya vavande niyataḥ munim.. 1..
सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्। शृणोषि कच्चिद् भगवन् सुभिक्षानामयं पुरे। कच्चित् स युक्तो भरतो जीवन्त्यपि च मातरः॥ २॥
सः अपृच्छत् अभिवाद्य एनम् भरद्वाजम् तपोधनम्। शृणोषि कच्चित् भगवन् सुभिक्ष-अनामयम् पुरे। कच्चित् स युक्तः भरतः जीवन्ति अपि च मातरः॥ २॥
saḥ apṛcchat abhivādya enam bharadvājam tapodhanam. śṛṇoṣi kaccit bhagavan subhikṣa-anāmayam pure. kaccit sa yuktaḥ bharataḥ jīvanti api ca mātaraḥ.. 2..
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः। प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्॥ ३॥
एवम् उक्तः तु रामेण भरद्वाजः महा-मुनिः। प्रत्युवाच रघु-श्रेष्ठम् स्मित-पूर्वम् प्रहृष्ट-वत्॥ ३॥
evam uktaḥ tu rāmeṇa bharadvājaḥ mahā-muniḥ. pratyuvāca raghu-śreṣṭham smita-pūrvam prahṛṣṭa-vat.. 3..
आज्ञावशत्वे भरतो जटिलस्त्वां प्रतीक्षते। पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे॥ ४॥
आज्ञा-वश-त्वे भरतः जटिलः त्वाम् प्रतीक्षते। पादुके ते पुरस्कृत्य सर्वम् च कुशलम् गृहे॥ ४॥
ājñā-vaśa-tve bharataḥ jaṭilaḥ tvām pratīkṣate. pāduke te puraskṛtya sarvam ca kuśalam gṛhe.. 4..
त्वां पुरा चीरवसनं प्रविशन्तं महावनम्। स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम्॥ ५॥
त्वाम् पुरा चीर-वसनम् प्रविशन्तम् महा-वनम्। स्त्री-तृतीयम् च्युतम् राज्यात् धर्म-कामम् च केवलम्॥ ५॥
tvām purā cīra-vasanam praviśantam mahā-vanam. strī-tṛtīyam cyutam rājyāt dharma-kāmam ca kevalam.. 5..
पदातिं त्यक्तसर्वस्वं पितृनिर्देशकारिणम्। सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम्॥ ६॥
पदातिम् त्यक्त-सर्वस्वम् पितृ-निर्देश-कारिणम्। सर्व-भोगैः परित्यक्तम् स्वर्ग-च्युतम् इव अमरम्॥ ६॥
padātim tyakta-sarvasvam pitṛ-nirdeśa-kāriṇam. sarva-bhogaiḥ parityaktam svarga-cyutam iva amaram.. 6..
दृष्ट्वा तु करुणापूर्वं ममासीत् समितिंजय। कैकेयीवचने युक्तं वन्यमूलफलाशिनम्॥ ७॥
दृष्ट्वा तु करुणा-पूर्वम् मम आसीत् समितिंजय। कैकेयी-वचने युक्तम् वन्य-मूल-फल-आशिनम्॥ ७॥
dṛṣṭvā tu karuṇā-pūrvam mama āsīt samitiṃjaya. kaikeyī-vacane yuktam vanya-mūla-phala-āśinam.. 7..
साम्प्रतं तु समृद्धार्थं समित्रगणबान्धवम्। समीक्ष्य विजितारिं च ममाभूत् प्रीतिरुत्तमा॥ ८॥
साम्प्रतम् तु समृद्ध-अर्थम् स मित्र-गण-बान्धवम्। समीक्ष्य विजित-अरिम् च मम अभूत् प्रीतिः उत्तमा॥ ८॥
sāmpratam tu samṛddha-artham sa mitra-gaṇa-bāndhavam. samīkṣya vijita-arim ca mama abhūt prītiḥ uttamā.. 8..
सर्वं च सुखदुःखं ते विदितं मम राघव। यत् त्वया विपुलं प्राप्तं जनस्थाननिवासिना॥ ९॥
सर्वम् च सुख-दुःखम् ते विदितम् मम राघव। यत् त्वया विपुलम् प्राप्तम् जनस्थान-निवासिना॥ ९॥
sarvam ca sukha-duḥkham te viditam mama rāghava. yat tvayā vipulam prāptam janasthāna-nivāsinā.. 9..
ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान्। रावणेन हृता भार्या बभूवेयमनिन्दिता॥ १०॥
ब्राह्मण-अर्थे नियुक्तस्य रक्षतः सर्व-तापसान्। रावणेन हृता भार्या बभूव इयम् अनिन्दिता॥ १०॥
brāhmaṇa-arthe niyuktasya rakṣataḥ sarva-tāpasān. rāvaṇena hṛtā bhāryā babhūva iyam aninditā.. 10..
मारीचदर्शनं चैव सीतोन्मथनमेव च। कबन्धदर्शनं चैव पम्पाभिगमनं तथा॥ ११॥
मारीच-दर्शनम् च एव सीता-उन्मथनम् एव च। कबन्ध-दर्शनम् च एव पम्पा-अभिगमनम् तथा॥ ११॥
mārīca-darśanam ca eva sītā-unmathanam eva ca. kabandha-darśanam ca eva pampā-abhigamanam tathā.. 11..
सुग्रीवेण च ते सख्यं यत्र वाली हतस्त्वया। मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च॥ १२॥
सुग्रीवेण च ते सख्यम् यत्र वाली हतः त्वया। मार्गणम् च एव वैदेह्याः कर्म वातात्मजस्य च॥ १२॥
sugrīveṇa ca te sakhyam yatra vālī hataḥ tvayā. mārgaṇam ca eva vaidehyāḥ karma vātātmajasya ca.. 12..
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः। यथा चादीपिता लङ्का प्रहृष्टैर्हरियूथपैः॥ १३॥
विदितायाम् च वैदेह्याम् नलसेतुः यथा कृतः। यथा च आदीपिता लङ्का प्रहृष्टैः हरि-यूथपैः॥ १३॥
viditāyām ca vaidehyām nalasetuḥ yathā kṛtaḥ. yathā ca ādīpitā laṅkā prahṛṣṭaiḥ hari-yūthapaiḥ.. 13..
सपुत्रबान्धवामात्यः सबलः सहवाहनः। यथा च निहतः संख्ये रावणो बलदर्पितः॥ १४॥
स पुत्र-बान्धव-अमात्यः स बलः सह वाहनः। यथा च निहतः संख्ये रावणः बल-दर्पितः॥ १४॥
sa putra-bāndhava-amātyaḥ sa balaḥ saha vāhanaḥ. yathā ca nihataḥ saṃkhye rāvaṇaḥ bala-darpitaḥ.. 14..
यथा च निहते तस्मिन् रावणे देवकण्टके। समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः॥ १५॥
यथा च निहते तस्मिन् रावणे देव-कण्टके। समागमः च त्रिदशैः यथा दत्तः च ते वरः॥ १५॥
yathā ca nihate tasmin rāvaṇe deva-kaṇṭake. samāgamaḥ ca tridaśaiḥ yathā dattaḥ ca te varaḥ.. 15..
सर्वं ममैतद् विदितं तपसा धर्मवत्सल। सम्पतन्ति च मे शिष्याः प्रवृत्त्याख्याः पुरीमितः॥ १६॥
सर्वम् मम एतत् विदितम् तपसा धर्म-वत्सल। सम्पतन्ति च मे शिष्याः प्रवृत्ति-आख्याः पुरीम् इतस्॥ १६॥
sarvam mama etat viditam tapasā dharma-vatsala. sampatanti ca me śiṣyāḥ pravṛtti-ākhyāḥ purīm itas.. 16..
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर। अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि॥ १७॥
अहम् अपि अत्र ते दद्मि वरम् शस्त्रभृताम् वर। अर्घ्यम् प्रतिगृहाण इदम् अयोध्याम् श्वस् गमिष्यसि॥ १७॥
aham api atra te dadmi varam śastrabhṛtām vara. arghyam pratigṛhāṇa idam ayodhyām śvas gamiṣyasi.. 17..
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः। बाढमित्येव संहृष्टः श्रीमान् वरमयाचत॥ १८॥
तस्य तत् शिरसा वाक्यम् प्रतिगृह्य नृप-आत्मजः। बाढम् इति एव संहृष्टः श्रीमान् वरम् अयाचत॥ १८॥
tasya tat śirasā vākyam pratigṛhya nṛpa-ātmajaḥ. bāḍham iti eva saṃhṛṣṭaḥ śrīmān varam ayācata.. 18..
अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः। फलान्यमृतगन्धीनि बहूनि विविधानि च॥ १९॥
अकाल-फलिनः वृक्षाः सर्वे च अपि मधु-स्रवाः। फलानि अमृत-गन्धीनि बहूनि विविधानि च॥ १९॥
akāla-phalinaḥ vṛkṣāḥ sarve ca api madhu-sravāḥ. phalāni amṛta-gandhīni bahūni vividhāni ca.. 19..
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः। तथेति च प्रतिज्ञाते वचनात् समनन्तरम्॥ २०॥
भवन्तु मार्गे भगवन् अयोध्याम् प्रति गच्छतः। तथा इति च प्रतिज्ञाते वचनात् समनन्तरम्॥ २०॥
bhavantu mārge bhagavan ayodhyām prati gacchataḥ. tathā iti ca pratijñāte vacanāt samanantaram.. 20..
अभवन् पादपास्तत्र स्वर्गपादपसंनिभाः। निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः॥ २१॥
अभवन् पादपाः तत्र स्वर्ग-पादप-संनिभाः। निष्फलाः फलिनः च आसन् विपुष्पाः पुष्प-शालिनः॥ २१॥
abhavan pādapāḥ tatra svarga-pādapa-saṃnibhāḥ. niṣphalāḥ phalinaḥ ca āsan vipuṣpāḥ puṣpa-śālinaḥ.. 21..
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः। सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा॥ २२॥
शुष्काः समग्र-पत्राः ते नगाः च एव मधु-स्रवाः। सर्वतस् योजनाः तिस्रः गच्छताम् अभवन् तदा॥ २२॥
śuṣkāḥ samagra-patrāḥ te nagāḥ ca eva madhu-sravāḥ. sarvatas yojanāḥ tisraḥ gacchatām abhavan tadā.. 22..
ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव। कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव॥ २३॥
ततस् प्रहृष्टाः प्लवग-ऋषभाः ते बहूनि दिव्यानि फलानि च एव। कामात् उपाश्नन्ति सहस्रशस् ते मुदा अन्विताः स्वर्ग-जितः यथा एव॥ २३॥
tatas prahṛṣṭāḥ plavaga-ṛṣabhāḥ te bahūni divyāni phalāni ca eva. kāmāt upāśnanti sahasraśas te mudā anvitāḥ svarga-jitaḥ yathā eva.. 23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In