This overlay will guide you through the buttons:

| |
|
अयोध्यां तु समालोक्य चिन्तयामास राघवः। प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः॥ १॥
अयोध्याम् तु समालोक्य चिन्तयामास राघवः। प्रिय-कामः प्रियम् रामः ततस् त्वरित-विक्रमः॥ १॥
ayodhyām tu samālokya cintayāmāsa rāghavaḥ. priya-kāmaḥ priyam rāmaḥ tatas tvarita-vikramaḥ.. 1..
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्। उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्॥ २॥
चिन्तयित्वा ततस् दृष्टिम् वानरेषु न्यपातयत्। उवाच धीमान् तेजस्वी हनूमन्तम् प्लवंगमम्॥ २॥
cintayitvā tatas dṛṣṭim vānareṣu nyapātayat. uvāca dhīmān tejasvī hanūmantam plavaṃgamam.. 2..
अयोध्यां त्वरितो गत्वा शीघ्रं प्लवगसत्तम। जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे॥ ३॥
अयोध्याम् त्वरितः गत्वा शीघ्रम् प्लवग-सत्तम। जानीहि कच्चित् कुशली जनः नृपति-मन्दिरे॥ ३॥
ayodhyām tvaritaḥ gatvā śīghram plavaga-sattama. jānīhi kaccit kuśalī janaḥ nṛpati-mandire.. 3..
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्। निषादाधिपतिं ब्रूहि कुशलं वचनान्मम॥ ४॥
शृङ्गवेर-पुरम् प्राप्य गुहम् गहन-गोचरम्। निषाद-अधिपतिम् ब्रूहि कुशलम् वचनात् मम॥ ४॥
śṛṅgavera-puram prāpya guham gahana-gocaram. niṣāda-adhipatim brūhi kuśalam vacanāt mama.. 4..
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्। भविष्यति गुहः प्रीतः स ममात्मसमः सखा॥ ५॥
श्रुत्वा तु माम् कुशलिनम् अरोगम् विगत-ज्वरम्। भविष्यति गुहः प्रीतः स मम आत्म-समः सखा॥ ५॥
śrutvā tu mām kuśalinam arogam vigata-jvaram. bhaviṣyati guhaḥ prītaḥ sa mama ātma-samaḥ sakhā.. 5..
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च। निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः॥ ६॥
अयोध्यायाः च ते मार्गम् प्रवृत्तिम् भरतस्य च। निवेदयिष्यति प्रीतः निषाद-अधिपतिः गुहः॥ ६॥
ayodhyāyāḥ ca te mārgam pravṛttim bharatasya ca. nivedayiṣyati prītaḥ niṣāda-adhipatiḥ guhaḥ.. 6..
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम। सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्॥ ७॥
भरतः तु त्वया वाच्यः कुशलम् वचनात् मम। सिद्धार्थम् शंस माम् तस्मै स भार्यम् सहलक्ष्मणम्॥ ७॥
bharataḥ tu tvayā vācyaḥ kuśalam vacanāt mama. siddhārtham śaṃsa mām tasmai sa bhāryam sahalakṣmaṇam.. 7..
हरणं चापि वैदेह्या रावणेन बलीयसा। सुग्रीवेण च संवादं वालिनश्च वधं रणे॥ ८॥
हरणम् च अपि वैदेह्याः रावणेन बलीयसा। सुग्रीवेण च संवादम् वालिनः च वधम् रणे॥ ८॥
haraṇam ca api vaidehyāḥ rāvaṇena balīyasā. sugrīveṇa ca saṃvādam vālinaḥ ca vadham raṇe.. 8..
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया। लङ्घयित्वा महातोयमापगापतिमव्ययम्॥ ९॥
मैथिली-अन्वेषणम् च एव यथा च अधिगता त्वया। लङ्घयित्वा महा-तोयम् आपगापतिम् अव्ययम्॥ ९॥
maithilī-anveṣaṇam ca eva yathā ca adhigatā tvayā. laṅghayitvā mahā-toyam āpagāpatim avyayam.. 9..
उपयानं समुद्रस्य सागरस्य च दर्शनम्। यथा च कारितः सेतू रावणश्च यथा हतः॥ १०॥
उपयानम् समुद्रस्य सागरस्य च दर्शनम्। यथा च कारितः सेतुः रावणः च यथा हतः॥ १०॥
upayānam samudrasya sāgarasya ca darśanam. yathā ca kāritaḥ setuḥ rāvaṇaḥ ca yathā hataḥ.. 10..
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च। महादेवप्रसादाच्च पित्रा मम समागमम्॥ ११॥
वर-दानम् महा-इन्द्रेण ब्रह्मणा वरुणेन च। महादेव-प्रसादात् च पित्रा मम समागमम्॥ ११॥
vara-dānam mahā-indreṇa brahmaṇā varuṇena ca. mahādeva-prasādāt ca pitrā mama samāgamam.. 11..
उपयातं च मां सौम्य भरताय निवेदय। सह राक्षसराजेन हरीणामीश्वरेण च॥ १२॥
उपयातम् च माम् सौम्य भरताय निवेदय। सह राक्षस-राजेन हरीणाम् ईश्वरेण च॥ १२॥
upayātam ca mām saumya bharatāya nivedaya. saha rākṣasa-rājena harīṇām īśvareṇa ca.. 12..
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः। उपायाति समृद्धार्थः सह मित्रैर्महाबलैः॥ १३॥
जित्वा शत्रु-गणान् रामः प्राप्य च अनुत्तमम् यशः। उपायाति समृद्ध-अर्थः सह मित्रैः महा-बलैः॥ १३॥
jitvā śatru-gaṇān rāmaḥ prāpya ca anuttamam yaśaḥ. upāyāti samṛddha-arthaḥ saha mitraiḥ mahā-balaiḥ.. 13..
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः। स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति॥ १४॥
एतत् श्रुत्वा यम-आकारम् भजते भरतः ततस्। स च ते वेदितव्यः स्यात् सर्वम् यत् च अपि माम् प्रति॥ १४॥
etat śrutvā yama-ākāram bhajate bharataḥ tatas. sa ca te veditavyaḥ syāt sarvam yat ca api mām prati.. 14..
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च। तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च॥ १५॥
ज्ञेयाः सर्वे च वृत्तान्ताः भरतस्य इङ्गितानि च। तत्त्वेन मुख-वर्णेन दृष्ट्या व्याभाषितेन च॥ १५॥
jñeyāḥ sarve ca vṛttāntāḥ bharatasya iṅgitāni ca. tattvena mukha-varṇena dṛṣṭyā vyābhāṣitena ca.. 15..
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्। पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः॥ १६॥
सर्व-काम-समृद्धम् हि हस्ति-अश्व-रथ-संकुलम्। पितृपैतामहम् राज्यम् कस्य ना आवर्तयेत् मनः॥ १६॥
sarva-kāma-samṛddham hi hasti-aśva-ratha-saṃkulam. pitṛpaitāmaham rājyam kasya nā āvartayet manaḥ.. 16..
संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत्। प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः॥ १७॥
संगत्या भरतः श्रीमान् राज्येन अर्थी स्वयम् भवेत्। प्रशास्तु वसुधाम् सर्वाम् अखिलाम् रघुनन्दनः॥ १७॥
saṃgatyā bharataḥ śrīmān rājyena arthī svayam bhavet. praśāstu vasudhām sarvām akhilām raghunandanaḥ.. 17..
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर। यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि॥ १८॥
तस्य बुद्धिम् च विज्ञाय व्यवसायम् च वानर। यावत् न दूरम् याताः स्मः क्षिप्रम् आगन्तुम् अर्हसि॥ १८॥
tasya buddhim ca vijñāya vyavasāyam ca vānara. yāvat na dūram yātāḥ smaḥ kṣipram āgantum arhasi.. 18..
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः। मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ॥ १९॥
इति प्रतिसमादिष्टः हनूमान् मारुतात्मजः। मानुषम् धारयन् रूपम् अयोध्याम् त्वरितः ययौ॥ १९॥
iti pratisamādiṣṭaḥ hanūmān mārutātmajaḥ. mānuṣam dhārayan rūpam ayodhyām tvaritaḥ yayau.. 19..
अथोत्पपात वेगेन हनूमान् मारुतात्मजः। गरुत्मानिव वेगेन जिघृक्षन्नुरगोत्तमम्॥ २०॥
अथा उत्पपात वेगेन हनूमान् मारुतात्मजः। गरुत्मान् इव वेगेन जिघृक्षन् उरग-उत्तमम्॥ २०॥
athā utpapāta vegena hanūmān mārutātmajaḥ. garutmān iva vegena jighṛkṣan uraga-uttamam.. 20..
लङ्घयित्वा पितृपथं विहगेन्द्रालयं शुभम्। गङ्गायमुनयोर्भीमं समतीत्य समागमम्॥ २१॥
लङ्घयित्वा पितृपथम् विहग-इन्द्र-आलयम् शुभम्। गङ्गा-यमुनयोः भीमम् समतीत्य समागमम्॥ २१॥
laṅghayitvā pitṛpatham vihaga-indra-ālayam śubham. gaṅgā-yamunayoḥ bhīmam samatītya samāgamam.. 21..
शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान्। स वाचा शुभया हृष्टो हनूमानिदमब्रवीत्॥ २२॥
शृङ्गवेर-पुरम् प्राप्य गुहम् आसाद्य वीर्यवान्। स वाचा शुभया हृष्टः हनूमान् इदम् अब्रवीत्॥ २२॥
śṛṅgavera-puram prāpya guham āsādya vīryavān. sa vācā śubhayā hṛṣṭaḥ hanūmān idam abravīt.. 22..
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः। ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत्॥ २३॥
सखा तु तव काकुत्स्थः रामः सत्य-पराक्रमः। स सीतः सह सौमित्रिः स त्वाम् कुशलम् अब्रवीत्॥ २३॥
sakhā tu tava kākutsthaḥ rāmaḥ satya-parākramaḥ. sa sītaḥ saha saumitriḥ sa tvām kuśalam abravīt.. 23..
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः। भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यत्रैव राघवम्॥ २४॥
पञ्चमीम् अद्य रजनीम् उषित्वा वचनात् मुनेः। भरद्वाज-अभ्यनुज्ञातम् द्रक्ष्यसि अत्रा एव राघवम्॥ २४॥
pañcamīm adya rajanīm uṣitvā vacanāt muneḥ. bharadvāja-abhyanujñātam drakṣyasi atrā eva rāghavam.. 24..
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः। उत्पपात महावेगाद् वेगवानविचारयन्॥ २५॥
एवम् उक्त्वा महा-तेजाः सम्प्रहृष्ट-तनूरुहः। उत्पपात महा-वेगात् वेगवान् अ विचारयन्॥ २५॥
evam uktvā mahā-tejāḥ samprahṛṣṭa-tanūruhaḥ. utpapāta mahā-vegāt vegavān a vicārayan.. 25..
सोऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा। वरूथीं गोमतीं चैव भीमं शालवनं तथा॥ २६॥
सः अपश्यत् रामतीर्थम् च नदीम् वालुकिनीम् तथा। वरूथीम् गोमतीम् च एव भीमम् शाल-वनम् तथा॥ २६॥
saḥ apaśyat rāmatīrtham ca nadīm vālukinīm tathā. varūthīm gomatīm ca eva bhīmam śāla-vanam tathā.. 26..
प्रजाश्च बहुसाहस्रीः स्फीताञ्जनपदानपि। स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः॥ २७॥
प्रजाः च बहु-साहस्रीः स्फीतान् जनपदान् अपि। स गत्वा दूरम् अध्वानम् त्वरितः कपि-कुञ्जरः॥ २७॥
prajāḥ ca bahu-sāhasrīḥ sphītān janapadān api. sa gatvā dūram adhvānam tvaritaḥ kapi-kuñjaraḥ.. 27..
आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान्। सुराधिपस्योपवने यथा चैत्ररथे द्रुमान्॥ २८॥
आससाद द्रुमान् फुल्लान् नन्दिग्राम-समीप-गान्। सुराधिपस्य उपवने यथा चैत्ररथे द्रुमान्॥ २८॥
āsasāda drumān phullān nandigrāma-samīpa-gān. surādhipasya upavane yathā caitrarathe drumān.. 28..
स्त्रीभिः सपुत्रैः पौत्रैश्च रममाणैः स्वलंकृतैः। क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्॥ २९॥
स्त्रीभिः स पुत्रैः पौत्रैः च रममाणैः सु अलंकृतैः। क्रोश-मात्रे तु अयोध्यायाः चीर-कृष्ण-अजिन-अम्बरम्॥ २९॥
strībhiḥ sa putraiḥ pautraiḥ ca ramamāṇaiḥ su alaṃkṛtaiḥ. krośa-mātre tu ayodhyāyāḥ cīra-kṛṣṇa-ajina-ambaram.. 29..
ददर्श भरतं दीनं कृशमाश्रमवासिनम्। जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्॥ ३०॥
ददर्श भरतम् दीनम् कृशम् आश्रम-वासिनम्। जटिलम् मल-दिग्ध-अङ्गम् भ्रातृ-व्यसन-कर्शितम्॥ ३०॥
dadarśa bharatam dīnam kṛśam āśrama-vāsinam. jaṭilam mala-digdha-aṅgam bhrātṛ-vyasana-karśitam.. 30..
फलमूलाशिनं दान्तं तापसं धर्मचारिणम्। समुन्नतजटाभारं वल्कलाजिनवाससम्॥ ३१॥
फल-मूल-आशिनम् दान्तम् तापसम् धर्म-चारिणम्। समुन्नत-जटा-भारम् वल्कल-अजिन-वाससम्॥ ३१॥
phala-mūla-āśinam dāntam tāpasam dharma-cāriṇam. samunnata-jaṭā-bhāram valkala-ajina-vāsasam.. 31..
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम्। पादुके ते पुरस्कृत्य प्रशासन्तं वसुंधराम्॥ ३२॥
नियतम् भावितात्मानम् ब्रह्मर्षि-सम-तेजसम्। पादुके ते पुरस्कृत्य प्रशासन्तम् वसुंधराम्॥ ३२॥
niyatam bhāvitātmānam brahmarṣi-sama-tejasam. pāduke te puraskṛtya praśāsantam vasuṃdharām.. 32..
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्। उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः॥ ३३॥
चातुर्वर्ण्यस्य लोकस्य त्रातारम् सर्वतस् भयात्। उपस्थितम् अमात्यैः च शुचिभिः च पुरोहितैः॥ ३३॥
cāturvarṇyasya lokasya trātāram sarvatas bhayāt. upasthitam amātyaiḥ ca śucibhiḥ ca purohitaiḥ.. 33..
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः। नहि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्॥ ३४॥
बल-मुख्यैः च युक्तैः च काषाय-अम्बर-धारिभिः। नहि ते राज-पुत्रम् तम् चीर-कृष्ण-अजिन-अम्बरम्॥ ३४॥
bala-mukhyaiḥ ca yuktaiḥ ca kāṣāya-ambara-dhāribhiḥ. nahi te rāja-putram tam cīra-kṛṣṇa-ajina-ambaram.. 34..
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः। तं धर्ममिव धर्मज्ञं देहबन्धमिवापरम्॥ ३५॥
परिभोक्तुम् व्यवस्यन्ति पौराः वै धर्म-वत्सलाः। तम् धर्मम् इव धर्म-ज्ञम् देह-बन्धम् इव अपरम्॥ ३५॥
paribhoktum vyavasyanti paurāḥ vai dharma-vatsalāḥ. tam dharmam iva dharma-jñam deha-bandham iva aparam.. 35..
उवाच प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः। वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्॥ ३६॥
उवाच प्राञ्जलिः वाक्यम् हनूमान् मारुतात्मजः। वसन्तम् दण्डक-अरण्ये यम् त्वम् चीर-जटा-धरम्॥ ३६॥
uvāca prāñjaliḥ vākyam hanūmān mārutātmajaḥ. vasantam daṇḍaka-araṇye yam tvam cīra-jaṭā-dharam.. 36..
अनुशोचसि काकुत्स्थं स त्वां कौशलमब्रवीत्। प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्॥ ३७॥
अनुशोचसि काकुत्स्थम् स त्वाम् कौशलम् अब्रवीत्। प्रियम् आख्यामि ते देव शोकम् त्यज सु दारुणम्॥ ३७॥
anuśocasi kākutstham sa tvām kauśalam abravīt. priyam ākhyāmi te deva śokam tyaja su dāruṇam.. 37..
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः। निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्॥ ३८॥
अस्मिन् मुहूर्ते भ्रात्रा त्वम् रामेण सह संगतः। निहत्य रावणम् रामः प्रतिलभ्य च मैथिलीम्॥ ३८॥
asmin muhūrte bhrātrā tvam rāmeṇa saha saṃgataḥ. nihatya rāvaṇam rāmaḥ pratilabhya ca maithilīm.. 38..
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी। सीता समग्रा रामेण महेन्द्रेण शची यथा॥ ३९॥
लक्ष्मणः च महा-तेजाः वैदेही च यशस्विनी। सीता समग्रा रामेण महा-इन्द्रेण शची यथा॥ ३९॥
lakṣmaṇaḥ ca mahā-tejāḥ vaidehī ca yaśasvinī. sītā samagrā rāmeṇa mahā-indreṇa śacī yathā.. 39..
एवमुक्तो हनुमता भरतः कैकयीसुतः। पपात सहसा हृष्टो हर्षान्मोहमुपागमत्॥ ४०॥
एवम् उक्तः हनुमता भरतः कैकयी-सुतः। पपात सहसा हृष्टः हर्षात् मोहम् उपागमत्॥ ४०॥
evam uktaḥ hanumatā bharataḥ kaikayī-sutaḥ. papāta sahasā hṛṣṭaḥ harṣāt moham upāgamat.. 40..
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः। हनूमन्तमुवाचेदं भरतः प्रियवादिनम्॥ ४१॥
ततस् मुहूर्तात् उत्थाय प्रत्याश्वस्य च राघवः। हनूमन्तम् उवाच इदम् भरतः प्रिय-वादिनम्॥ ४१॥
tatas muhūrtāt utthāya pratyāśvasya ca rāghavaḥ. hanūmantam uvāca idam bharataḥ priya-vādinam.. 41..
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात्। सिषेच भरतः श्रीमान् विपुलैरश्रुबिन्दुभिः॥ ४२॥
अशोक-जैः प्रीति-मयैः कपिम् आलिङ्ग्य सम्भ्रमात्। सिषेच भरतः श्रीमान् विपुलैः अश्रु-बिन्दुभिः॥ ४२॥
aśoka-jaiḥ prīti-mayaiḥ kapim āliṅgya sambhramāt. siṣeca bharataḥ śrīmān vipulaiḥ aśru-bindubhiḥ.. 42..
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः। प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्॥ ४३॥
देवः वा मानुषः वा त्वम् अनुक्रोशात् इह आगतः। प्रिय-आख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्॥ ४३॥
devaḥ vā mānuṣaḥ vā tvam anukrośāt iha āgataḥ. priya-ākhyānasya te saumya dadāmi bruvataḥ priyam.. 43..
गवां शतसहस्रं च ग्रामाणां च शतं परम्। सकुण्डलाः शुभाचारा भार्याः कन्यास्तु षोडश॥ ४४॥
गवाम् शत-सहस्रम् च ग्रामाणाम् च शतम् परम्। स कुण्डलाः शुभ-आचाराः भार्याः कन्याः तु षोडश॥ ४४॥
gavām śata-sahasram ca grāmāṇām ca śatam param. sa kuṇḍalāḥ śubha-ācārāḥ bhāryāḥ kanyāḥ tu ṣoḍaśa.. 44..
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः। सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः॥ ४५॥
हेम-वर्णाः सु नासा-ऊरूः शशि-सौम्य-आननाः स्त्रियः। सर्व-आभरण-सम्पन्नाः सम्पन्नाः कुल-जातिभिः॥ ४५॥
hema-varṇāḥ su nāsā-ūrūḥ śaśi-saumya-ānanāḥ striyaḥ. sarva-ābharaṇa-sampannāḥ sampannāḥ kula-jātibhiḥ.. 45..
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम्। प्रहर्षितो रामदिदृक्षयाभवत् पुनश्च हर्षादिदमब्रवीद् वचः॥ ४६॥
निशम्य राम-आगमनम् नृप-आत्मजः कपि-प्रवीरस्य तदा अद्भुत-उपमम्। प्रहर्षितः राम-दिदृक्षया अभवत् पुनर् च हर्षात् इदम् अब्रवीत् वचः॥ ४६॥
niśamya rāma-āgamanam nṛpa-ātmajaḥ kapi-pravīrasya tadā adbhuta-upamam. praharṣitaḥ rāma-didṛkṣayā abhavat punar ca harṣāt idam abravīt vacaḥ.. 46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In