This overlay will guide you through the buttons:

| |
|
श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः। हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा॥ १॥
श्रुत्वा तु परम-आनन्दम् भरतः सत्य-विक्रमः। हृष्टम् आज्ञापयामास शत्रुघ्नम् पर-वीर-हा॥ १॥
śrutvā tu parama-ānandam bharataḥ satya-vikramaḥ. hṛṣṭam ājñāpayāmāsa śatrughnam para-vīra-hā.. 1..
दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः॥ २॥
दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सु गन्ध-माल्यैः वादित्रैः अर्चन्तु शुचयः नराः॥ २॥
daivatāni ca sarvāṇi caityāni nagarasya ca. su gandha-mālyaiḥ vāditraiḥ arcantu śucayaḥ narāḥ.. 2..
सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा। सर्वे वादित्रकुशला गणिकाश्चैव सर्वशः॥ ३॥
सूताः स्तुति-पुराण-ज्ञाः सर्वे वैतालिकाः तथा। सर्वे वादित्र-कुशलाः गणिकाः च एव सर्वशस्॥ ३॥
sūtāḥ stuti-purāṇa-jñāḥ sarve vaitālikāḥ tathā. sarve vāditra-kuśalāḥ gaṇikāḥ ca eva sarvaśas.. 3..
राजदारास्तथामात्याः सैन्याः सेनाङ्गनागणाः। ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः॥ ४॥
राज-दाराः तथा अमात्याः सैन्याः सेना-अङ्गना-गणाः। ब्राह्मणाः च स राजन्याः श्रेणी-मुख्याः तथा गणाः॥ ४॥
rāja-dārāḥ tathā amātyāḥ sainyāḥ senā-aṅganā-gaṇāḥ. brāhmaṇāḥ ca sa rājanyāḥ śreṇī-mukhyāḥ tathā gaṇāḥ.. 4..
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्। भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा॥ ५॥
अभिनिर्यान्तु रामस्य द्रष्टुम् शशि-निभम् मुखम्। भरतस्य वचः श्रुत्वा शत्रुघ्नः पर-वीर-हा॥ ५॥
abhiniryāntu rāmasya draṣṭum śaśi-nibham mukham. bharatasya vacaḥ śrutvā śatrughnaḥ para-vīra-hā.. 5..
विष्टीरनेकसाहस्रीश्चोदयामास भागशः। समीकुरुत निम्नानि विषमाणि समानि च॥ ६॥
विष्टीः अनेक-साहस्रीः चोदयामास भागशस्। समीकुरुत निम्नानि विषमाणि समानि च॥ ६॥
viṣṭīḥ aneka-sāhasrīḥ codayāmāsa bhāgaśas. samīkuruta nimnāni viṣamāṇi samāni ca.. 6..
स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम्। सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा॥ ७॥
स्थानानि च निरस्यन्ताम् नन्दिग्राम-आदितस् परम्। सिञ्चन्तु पृथिवीम् कृत्स्नाम् हिम-शीतेन वारिणा॥ ७॥
sthānāni ca nirasyantām nandigrāma-āditas param. siñcantu pṛthivīm kṛtsnām hima-śītena vāriṇā.. 7..
ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वतः। समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे॥ ८॥
ततस् अभ्यवकिरन्तु अन्ये लाजैः पुष्पैः च सर्वतस्। समुच्छ्रित-पताकाः तु रथ्याः पुरवर-उत्तमे॥ ८॥
tatas abhyavakirantu anye lājaiḥ puṣpaiḥ ca sarvatas. samucchrita-patākāḥ tu rathyāḥ puravara-uttame.. 8..
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति। स्रग्दाममुक्तपुष्पैश्च सुवर्णैः पञ्चवर्णकैः॥ ९॥
शोभयन्तु च वेश्मानि सूर्यस्य उदयनम् प्रति। स्रज्-दाम-मुक्त-पुष्पैः च सुवर्णैः पञ्च-वर्णकैः॥ ९॥
śobhayantu ca veśmāni sūryasya udayanam prati. sraj-dāma-mukta-puṣpaiḥ ca suvarṇaiḥ pañca-varṇakaiḥ.. 9..
राजमार्गमसम्बाधं किरन्तु शतशो नराः। ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः॥ १०॥
राजमार्गम् असंबाधम् किरन्तु शतशस् नराः। ततस् तत् शासनम् श्रुत्वा शत्रुघ्नस्य मुदा अन्विताः॥ १०॥
rājamārgam asaṃbādham kirantu śataśas narāḥ. tatas tat śāsanam śrutvā śatrughnasya mudā anvitāḥ.. 10..
धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः। अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः॥ ११॥
धृष्टिः जयन्तः विजयः सिद्धार्थः च अर्थसाधकः। अशोकः मन्त्रपालः च सुमन्त्रः च अपि निर्ययुः॥ ११॥
dhṛṣṭiḥ jayantaḥ vijayaḥ siddhārthaḥ ca arthasādhakaḥ. aśokaḥ mantrapālaḥ ca sumantraḥ ca api niryayuḥ.. 11..
मत्तैर्नागसहस्रैश्च सध्वजैः सुविभूषितैः। अपरे हेमकक्षाभिः सगजाभिः करेणुभिः॥ १२॥
मत्तैः नाग-सहस्रैः च स ध्वजैः सु विभूषितैः। अपरे हेम-कक्षाभिः स गजाभिः करेणुभिः॥ १२॥
mattaiḥ nāga-sahasraiḥ ca sa dhvajaiḥ su vibhūṣitaiḥ. apare hema-kakṣābhiḥ sa gajābhiḥ kareṇubhiḥ.. 12..
निर्ययुस्तुरगाक्रान्ता रथैश्च सुमहारथाः। शक्त्यृष्टिपाशहस्तानां सध्वजानां पताकिनाम्॥ १३॥
निर्ययुः तुरग-आक्रान्ताः रथैः च सु महा-रथाः। शक्ति-ऋष्टि-पाश-हस्तानाम् स ध्वजानाम् पताकिनाम्॥ १३॥
niryayuḥ turaga-ākrāntāḥ rathaiḥ ca su mahā-rathāḥ. śakti-ṛṣṭi-pāśa-hastānām sa dhvajānām patākinām.. 13..
तुरगाणां सहस्रैश्च मुख्यैर्मुख्यतरान्वितैः। पदातीनां सहस्रैश्च वीराः परिवृता ययुः॥ १४॥
तुरगाणाम् सहस्रैः च मुख्यैः मुख्यतर-अन्वितैः। पदातीनाम् सहस्रैः च वीराः परिवृताः ययुः॥ १४॥
turagāṇām sahasraiḥ ca mukhyaiḥ mukhyatara-anvitaiḥ. padātīnām sahasraiḥ ca vīrāḥ parivṛtāḥ yayuḥ.. 14..
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः। कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः॥ १५॥
ततस् यानानि उपारूढाः सर्वाः दशरथ-स्त्रियः। कौसल्याम् प्रमुखे कृत्वा सुमित्राम् च अपि निर्ययुः॥ १५॥
tatas yānāni upārūḍhāḥ sarvāḥ daśaratha-striyaḥ. kausalyām pramukhe kṛtvā sumitrām ca api niryayuḥ.. 15..
कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन्॥ १६॥
कैकेय्या सहिताः सर्वाः नन्दिग्रामम् उपागमन्॥ १६॥
kaikeyyā sahitāḥ sarvāḥ nandigrāmam upāgaman.. 16..
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः। माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः॥ १७॥
द्विजाति-मुख्यैः धर्म-आत्मा श्रेणी-मुख्यैः स नैगमैः। माल्य-मोदक-हस्तैः च मन्त्रिभिः भरतः वृतः॥ १७॥
dvijāti-mukhyaiḥ dharma-ātmā śreṇī-mukhyaiḥ sa naigamaiḥ. mālya-modaka-hastaiḥ ca mantribhiḥ bharataḥ vṛtaḥ.. 17..
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः। आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः॥ १८॥
शङ्ख-भेरी-निनादैः च बन्दिभिः च अभिनन्दितः। आर्य-पादौ गृहीत्वा तु शिरसा धर्म-कोविदः॥ १८॥
śaṅkha-bherī-ninādaiḥ ca bandibhiḥ ca abhinanditaḥ. ārya-pādau gṛhītvā tu śirasā dharma-kovidaḥ.. 18..
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्। शुक्ले च वालव्यजने राजार्हे हेमभूषिते॥ १९॥
पाण्डुरम् छत्रम् आदाय शुक्ल-माल्य-उपशोभितम्। शुक्ले च वाल-व्यजने राज-अर्हे हेम-भूषिते॥ १९॥
pāṇḍuram chatram ādāya śukla-mālya-upaśobhitam. śukle ca vāla-vyajane rāja-arhe hema-bhūṣite.. 19..
उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः। भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः॥ २०॥
उपवास-कृशः दीनः चीर-कृष्ण-अजिन-अम्बरः। भ्रातुः आगमनम् श्रुत्वा तद्-पूर्वम् हर्षम् आगतः॥ २०॥
upavāsa-kṛśaḥ dīnaḥ cīra-kṛṣṇa-ajina-ambaraḥ. bhrātuḥ āgamanam śrutvā tad-pūrvam harṣam āgataḥ.. 20..
प्रत्युद्ययौ यदा रामं महात्मा सचिवैः सह। अश्वानां खुरशब्दैश्च रथनेमिस्वनेन च॥ २१॥
प्रत्युद्ययौ यदा रामम् महात्मा सचिवैः सह। अश्वानाम् खुर-शब्दैः च रथ-नेमि-स्वनेन च॥ २१॥
pratyudyayau yadā rāmam mahātmā sacivaiḥ saha. aśvānām khura-śabdaiḥ ca ratha-nemi-svanena ca.. 21..
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी। गजानां बृंहितैश्चापि शङ्खदुन्दुभिनिःस्वनैः॥ २२॥
शङ्ख-दुन्दुभि-नादेन संचचाल इव मेदिनी। गजानाम् बृंहितैः च अपि शङ्ख-दुन्दुभि-निःस्वनैः॥ २२॥
śaṅkha-dundubhi-nādena saṃcacāla iva medinī. gajānām bṛṃhitaiḥ ca api śaṅkha-dundubhi-niḥsvanaiḥ.. 22..
कृत्स्नं तु नगरं तत् तु नन्दिग्राममुपागमत्। समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्॥ २३॥
कृत्स्नम् तु नगरम् तत् तु नन्दिग्रामम् उपागमत्। समीक्ष्य भरतः वाक्यम् उवाच पवनात्मजम्॥ २३॥
kṛtsnam tu nagaram tat tu nandigrāmam upāgamat. samīkṣya bharataḥ vākyam uvāca pavanātmajam.. 23..
कच्चिन्न खलु कापेयी सेव्यते चलचित्तता। नहि पश्यामि काकुत्स्थं राममार्यं परंतपम्॥ २४॥
कच्चित् न खलु कापेयी सेव्यते चल-चित्त-ता। नहि पश्यामि काकुत्स्थम् रामम् आर्यम् परंतपम्॥ २४॥
kaccit na khalu kāpeyī sevyate cala-citta-tā. nahi paśyāmi kākutstham rāmam āryam paraṃtapam.. 24..
कच्चिन्न चानुदृश्यन्ते कपयः कामरूपिणः। अथैवमुक्ते वचने हनूमानिदमब्रवीत्॥ २५॥
कच्चित् न च अनुदृश्यन्ते कपयः कामरूपिणः। अथ एवम् उक्ते वचने हनूमान् इदम् अब्रवीत्॥ २५॥
kaccit na ca anudṛśyante kapayaḥ kāmarūpiṇaḥ. atha evam ukte vacane hanūmān idam abravīt.. 25..
अर्थ्यं विज्ञापयन्नेव भरतं सत्यविक्रमम्। सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान्॥ २६॥
अर्थ्यम् विज्ञापयन् एव भरतम् सत्य-विक्रमम्। सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधु-स्रवान्॥ २६॥
arthyam vijñāpayan eva bharatam satya-vikramam. sadāphalān kusumitān vṛkṣān prāpya madhu-sravān.. 26..
भरद्वाजप्रसादेन मत्तभ्रमरनादितान्। तस्य चैव वरो दत्तो वासवेन परंतप॥ २७॥
भरद्वाज-प्रसादेन मत्त-भ्रमर-नादितान्। तस्य च एव वरः दत्तः वासवेन परंतप॥ २७॥
bharadvāja-prasādena matta-bhramara-nāditān. tasya ca eva varaḥ dattaḥ vāsavena paraṃtapa.. 27..
ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्। निःस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्॥ २८॥
स सैन्यस्य तदा आतिथ्यम् कृतम् सर्व-गुण-अन्वितम्। निःस्वनः श्रूयते भीमः प्रहृष्टानाम् वनौकसाम्॥ २८॥
sa sainyasya tadā ātithyam kṛtam sarva-guṇa-anvitam. niḥsvanaḥ śrūyate bhīmaḥ prahṛṣṭānām vanaukasām.. 28..
मन्ये वानरसेना सा नदीं तरति गोमतीम्। रजोवर्षं समुद्भूतं पश्य सालवनं प्रति॥ २९॥
मन्ये वानर-सेना सा नदीम् तरति गोमतीम्। रजः-वर्षम् समुद्भूतम् पश्य साल-वनम् प्रति॥ २९॥
manye vānara-senā sā nadīm tarati gomatīm. rajaḥ-varṣam samudbhūtam paśya sāla-vanam prati.. 29..
मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः। तदेतद् दृश्यते दूराद् विमानं चन्द्रसंनिभम्॥ ३०॥
मन्ये साल-वनम् रम्यम् लोलयन्ति प्लवंगमाः। तत् एतत् दृश्यते दूरात् विमानम् चन्द्र-संनिभम्॥ ३०॥
manye sāla-vanam ramyam lolayanti plavaṃgamāḥ. tat etat dṛśyate dūrāt vimānam candra-saṃnibham.. 30..
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्। रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना॥ ३१॥
विमानम् पुष्पकम् दिव्यम् मनसा ब्रह्म-निर्मितम्। रावणम् बान्धवैः सार्धम् हत्वा लब्धम् महात्मना॥ ३१॥
vimānam puṣpakam divyam manasā brahma-nirmitam. rāvaṇam bāndhavaiḥ sārdham hatvā labdham mahātmanā.. 31..
तरुणादित्यसंकाशं विमानं रामवाहनम्। धनदस्य प्रसादेन दिव्यमेतन्मनोजवम्॥ ३२॥
तरुण-आदित्य-संकाशम् विमानम् राम-वाहनम्। धनदस्य प्रसादेन दिव्यम् एतत् मनोजवम्॥ ३२॥
taruṇa-āditya-saṃkāśam vimānam rāma-vāhanam. dhanadasya prasādena divyam etat manojavam.. 32..
एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ। सुग्रीवश्च महातेजा राक्षसश्च विभीषणः॥ ३३॥
एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ। सुग्रीवः च महा-तेजाः राक्षसः च विभीषणः॥ ३३॥
etasmin bhrātarau vīrau vaidehyā saha rāghavau. sugrīvaḥ ca mahā-tejāḥ rākṣasaḥ ca vibhīṣaṇaḥ.. 33..
ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्। स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते॥ ३४॥
ततस् हर्ष-समुद्भूतः निःस्वनः दिवम् अस्पृशत्। स्त्री-बाल-युव-वृद्धानाम् रामः अयम् इति कीर्तिते॥ ३४॥
tatas harṣa-samudbhūtaḥ niḥsvanaḥ divam aspṛśat. strī-bāla-yuva-vṛddhānām rāmaḥ ayam iti kīrtite.. 34..
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः। ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे॥ ३५॥
रथ-कुञ्जर-वाजिभ्यः ते अवतीर्य महीम् गताः। ददृशुः तम् विमान-स्थम् नराः सोमम् इव अम्बरे॥ ३५॥
ratha-kuñjara-vājibhyaḥ te avatīrya mahīm gatāḥ. dadṛśuḥ tam vimāna-stham narāḥ somam iva ambare.. 35..
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः। यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत्॥ ३६॥
प्राञ्जलिः भरतः भूत्वा प्रहृष्टः राघव-उन्मुखः। यथार्थेन अर्घ्य-पाद्य-आद्यैः ततस् रामम् अपूजयत्॥ ३६॥
prāñjaliḥ bharataḥ bhūtvā prahṛṣṭaḥ rāghava-unmukhaḥ. yathārthena arghya-pādya-ādyaiḥ tatas rāmam apūjayat.. 36..
मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः। रराज पृथुदीर्घाक्षो वज्रपाणिरिवामरः॥ ३७॥
मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः। रराज पृथु-दीर्घ-अक्षः वज्रपाणिः इव अमरः॥ ३७॥
manasā brahmaṇā sṛṣṭe vimāne bharatāgrajaḥ. rarāja pṛthu-dīrgha-akṣaḥ vajrapāṇiḥ iva amaraḥ.. 37..
ततो विमानाग्रगतं भरतो भ्रातरं तदा। ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्॥ ३८॥
ततस् विमान-अग्र-गतम् भरतः भ्रातरम् तदा। ववन्दे प्रणतः रामम् मेरु-स्थम् इव भास्करम्॥ ३८॥
tatas vimāna-agra-gatam bharataḥ bhrātaram tadā. vavande praṇataḥ rāmam meru-stham iva bhāskaram.. 38..
ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। हंसयुक्तं महावेगं निपपात महीतलम्॥ ३९॥
ततस् राम-अभ्यनुज्ञातम् तत् विमानम् अनुत्तमम्। हंस-युक्तम् महा-वेगम् निपपात मही-तलम्॥ ३९॥
tatas rāma-abhyanujñātam tat vimānam anuttamam. haṃsa-yuktam mahā-vegam nipapāta mahī-talam.. 39..
आरोपितो विमानं तद् भरतः सत्यविक्रमः। राममासाद्य मुदितः पुनरेवाभ्यवादयत्॥ ४०॥
आरोपितः विमानम् तत् भरतः सत्य-विक्रमः। रामम् आसाद्य मुदितः पुनर् एव अभ्यवादयत्॥ ४०॥
āropitaḥ vimānam tat bharataḥ satya-vikramaḥ. rāmam āsādya muditaḥ punar eva abhyavādayat.. 40..
तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम्। अङ्के भरतमारोप्य मुदितः परिषस्वजे॥ ४१॥
तम् समुत्थाय काकुत्स्थः चिरस्य अक्षि-पथम् गतम्। अङ्के भरतम् आरोप्य मुदितः परिषस्वजे॥ ४१॥
tam samutthāya kākutsthaḥ cirasya akṣi-patham gatam. aṅke bharatam āropya muditaḥ pariṣasvaje.. 41..
ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः। अथाभ्यवादयत् प्रीतो भरतो नाम चाब्रवीत्॥ ४२॥
ततस् लक्ष्मणम् आसाद्य वैदेहीम् च परंतपः। अथा अभ्यवादयत् प्रीतः भरतः नाम च अब्रवीत्॥ ४२॥
tatas lakṣmaṇam āsādya vaidehīm ca paraṃtapaḥ. athā abhyavādayat prītaḥ bharataḥ nāma ca abravīt.. 42..
सुग्रीवं केकयीपुत्रो जाम्बवन्तमथाङ्गदम्। मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे॥ ४३॥
सुग्रीवम् केकयी-पुत्रः जाम्बवन्तम् अथ अङ्गदम्। मैन्दम् च द्विविदम् नीलम् ऋषभम् च एव सस्वजे॥ ४३॥
sugrīvam kekayī-putraḥ jāmbavantam atha aṅgadam. maindam ca dvividam nīlam ṛṣabham ca eva sasvaje.. 43..
सुषेणं च नलं चैव गवाक्षं गन्धमादनम्। शरभं पनसं चैव परितः परिषस्वजे॥ ४४॥
सुषेणम् च नलम् च एव गवाक्षम् गन्धमादनम्। शरभम् पनसम् च एव परितस् परिषस्वजे॥ ४४॥
suṣeṇam ca nalam ca eva gavākṣam gandhamādanam. śarabham panasam ca eva paritas pariṣasvaje.. 44..
ते कृत्वा मानुषं रूपं वानराः कामरूपिणः। कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा॥ ४५॥
ते कृत्वा मानुषम् रूपम् वानराः कामरूपिणः। कुशलम् पर्यपृच्छन् ते प्रहृष्टाः भरतम् तदा॥ ४५॥
te kṛtvā mānuṣam rūpam vānarāḥ kāmarūpiṇaḥ. kuśalam paryapṛcchan te prahṛṣṭāḥ bharatam tadā.. 45..
अथाब्रवीद् राजपुत्रः सुग्रीवं वानरर्षभम्। परिष्वज्य महातेजा भरतो धर्मिणां वरः॥ ४६॥
अथा अब्रवीत् राज-पुत्रः सुग्रीवम् वानर-ऋषभम्। परिष्वज्य महा-तेजाः भरतः धर्मिणाम् वरः॥ ४६॥
athā abravīt rāja-putraḥ sugrīvam vānara-ṛṣabham. pariṣvajya mahā-tejāḥ bharataḥ dharmiṇām varaḥ.. 46..
त्वमस्माकं चतुर्णां वै भ्राता सुग्रीव पञ्चमः। सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम्॥ ४७॥
त्वम् अस्माकम् चतुर्णाम् वै भ्राता सुग्रीव पञ्चमः। सौहृदात् जायते मित्रम् अपकारः अरि-लक्षणम्॥ ४७॥
tvam asmākam caturṇām vai bhrātā sugrīva pañcamaḥ. sauhṛdāt jāyate mitram apakāraḥ ari-lakṣaṇam.. 47..
विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत्। दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्॥ ४८॥
विभीषणम् च भरतः सान्त्व-वाक्यम् अथ अब्रवीत्। दिष्ट्या त्वया सहायेन कृतम् कर्म सु दुष्करम्॥ ४८॥
vibhīṣaṇam ca bharataḥ sāntva-vākyam atha abravīt. diṣṭyā tvayā sahāyena kṛtam karma su duṣkaram.. 48..
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्। सीतायाश्चरणौ वीरो विनयादभ्यवादयत्॥ ४९॥
शत्रुघ्नः च तदा रामम् अभिवाद्य स लक्ष्मणम्। सीतायाः चरणौ वीरः विनयात् अभ्यवादयत्॥ ४९॥
śatrughnaḥ ca tadā rāmam abhivādya sa lakṣmaṇam. sītāyāḥ caraṇau vīraḥ vinayāt abhyavādayat.. 49..
रामो मातरमासाद्य विवर्णां शोककर्शिताम्। जग्राह प्रणतः पादौ मनो मातुः प्रहर्षयन्॥ ५०॥
रामः मातरम् आसाद्य विवर्णाम् शोक-कर्शिताम्। जग्राह प्रणतः पादौ मनः मातुः प्रहर्षयन्॥ ५०॥
rāmaḥ mātaram āsādya vivarṇām śoka-karśitām. jagrāha praṇataḥ pādau manaḥ mātuḥ praharṣayan.. 50..
अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्। स मातॄश्च ततः सर्वाः पुरोहितमुपागमत्॥ ५१॥
अभिवाद्य सुमित्राम् च कैकेयीम् च यशस्विनीम्। स मातॄः च ततस् सर्वाः पुरोहितम् उपागमत्॥ ५१॥
abhivādya sumitrām ca kaikeyīm ca yaśasvinīm. sa mātṝḥ ca tatas sarvāḥ purohitam upāgamat.. 51..
स्वागतं ते महाबाहो कौसल्यानन्दवर्धन। इति प्राञ्जलयः सर्वे नागरा राममब्रुवन्॥ ५२॥
स्वागतम् ते महा-बाहो कौसल्या-आनन्द-वर्धन। इति प्राञ्जलयः सर्वे नागराः रामम् अब्रुवन्॥ ५२॥
svāgatam te mahā-bāho kausalyā-ānanda-vardhana. iti prāñjalayaḥ sarve nāgarāḥ rāmam abruvan.. 52..
तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः। व्याकोशानीव पद्मानि ददर्श भरताग्रजः॥ ५३॥
तानि अञ्जलि-सहस्राणि प्रगृहीतानि नागरैः। व्याकोशानि इव पद्मानि ददर्श भरताग्रजः॥ ५३॥
tāni añjali-sahasrāṇi pragṛhītāni nāgaraiḥ. vyākośāni iva padmāni dadarśa bharatāgrajaḥ.. 53..
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्। चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्॥ ५४॥
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्। चरणाभ्याम् नरेन्द्रस्य योजयामास धर्म-विद्॥ ५४॥
pāduke te tu rāmasya gṛhītvā bharataḥ svayam. caraṇābhyām narendrasya yojayāmāsa dharma-vid.. 54..
अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः। एतत् ते सकलं राज्यं न्यासं निर्यातितं मया॥ ५५॥
अब्रवीत् च तदा रामम् भरतः स कृताञ्जलिः। एतत् ते सकलम् राज्यम् न्यासम् निर्यातितम् मया॥ ५५॥
abravīt ca tadā rāmam bharataḥ sa kṛtāñjaliḥ. etat te sakalam rājyam nyāsam niryātitam mayā.. 55..
अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः। यत् त्वां पश्यामि राजानमयोध्यां पुनरागतम्॥ ५६॥
अद्य जन्म कृतार्थम् मे संवृत्तः च मनोरथः। यत् त्वाम् पश्यामि राजानम् अयोध्याम् पुनर् आगतम्॥ ५६॥
adya janma kṛtārtham me saṃvṛttaḥ ca manorathaḥ. yat tvām paśyāmi rājānam ayodhyām punar āgatam.. 56..
अवेक्षतां भवान् कोशं कोष्ठागारं गृहं बलम्। भवतस्तेजसा सर्वं कृतं दशगुणं मया॥ ५७॥
अवेक्षताम् भवान् कोशम् कोष्ठागारम् गृहम् बलम्। भवतः तेजसा सर्वम् कृतम् दशगुणम् मया॥ ५७॥
avekṣatām bhavān kośam koṣṭhāgāram gṛham balam. bhavataḥ tejasā sarvam kṛtam daśaguṇam mayā.. 57..
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्। मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः॥ ५८॥
तथा ब्रुवाणम् भरतम् दृष्ट्वा तम् भ्रातृ-वत्सलम्। मुमुचुः वानराः बाष्पम् राक्षसः च विभीषणः॥ ५८॥
tathā bruvāṇam bharatam dṛṣṭvā tam bhrātṛ-vatsalam. mumucuḥ vānarāḥ bāṣpam rākṣasaḥ ca vibhīṣaṇaḥ.. 58..
ततः प्रहर्षाद् भरतमङ्कमारोप्य राघवः। ययौ तेन विमानेन ससैन्यो भरताश्रमम्॥ ५९॥
ततस् प्रहर्षात् भरतम् अङ्कम् आरोप्य राघवः। ययौ तेन विमानेन स सैन्यः भरत-आश्रमम्॥ ५९॥
tatas praharṣāt bharatam aṅkam āropya rāghavaḥ. yayau tena vimānena sa sainyaḥ bharata-āśramam.. 59..
भरताश्रममासाद्य ससैन्यो राघवस्तदा। अवतीर्य विमानाग्रादवतस्थे महीतले॥ ६०॥
भरत-आश्रमम् आसाद्य स सैन्यः राघवः तदा। अवतीर्य विमान-अग्रात् अवतस्थे मही-तले॥ ६०॥
bharata-āśramam āsādya sa sainyaḥ rāghavaḥ tadā. avatīrya vimāna-agrāt avatasthe mahī-tale.. 60..
अब्रवीत् तु तदा रामस्तद् विमानमनुत्तमम्। वह वैश्रवणं देवमनुजानामि गम्यताम्॥ ६१॥
अब्रवीत् तु तदा रामः तत् विमानम् अनुत्तमम्। वह वैश्रवणम् देवम् अनुजानामि गम्यताम्॥ ६१॥
abravīt tu tadā rāmaḥ tat vimānam anuttamam. vaha vaiśravaṇam devam anujānāmi gamyatām.. 61..
ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। उत्तरां दिशमुद्दिश्य जगाम धनदालयम्॥ ६२॥
ततस् राम-अभ्यनुज्ञातम् तत् विमानम् अनुत्तमम्। उत्तराम् दिशम् उद्दिश्य जगाम धनद-आलयम्॥ ६२॥
tatas rāma-abhyanujñātam tat vimānam anuttamam. uttarām diśam uddiśya jagāma dhanada-ālayam.. 62..
विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा। अगमद् धनदं वेगाद् रामवाक्यप्रचोदितम्॥ ६३॥
विमानम् पुष्पकम् दिव्यम् संगृहीतम् तु रक्षसा। अगमत् धनदम् वेगात् राम-वाक्य-प्रचोदितम्॥ ६३॥
vimānam puṣpakam divyam saṃgṛhītam tu rakṣasā. agamat dhanadam vegāt rāma-vākya-pracoditam.. 63..
पुरोहितस्यात्मसखस्य राघवो बृहस्पतेः शक्र इवामराधिपः। निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश वीर्यवान्॥ ६४॥
पुरोहितस्य आत्म-सखस्य राघवः बृहस्पतेः शक्रः इव अमर-अधिपः। निपीड्य पादौ पृथक् आसने शुभे सह एव तेन उपविवेश वीर्यवान्॥ ६४॥
purohitasya ātma-sakhasya rāghavaḥ bṛhaspateḥ śakraḥ iva amara-adhipaḥ. nipīḍya pādau pṛthak āsane śubhe saha eva tena upaviveśa vīryavān.. 64..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In