This overlay will guide you through the buttons:

| |
|
शिरस्यञ्जलिमाधाय कैकेयीनन्दिवर्धनः। बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्॥ १॥
शिरसि अञ्जलिम् आधाय कैकेयी-नन्दिवर्धनः। बभाषे भरतः ज्येष्ठम् रामम् सत्य-पराक्रमम्॥ १॥
śirasi añjalim ādhāya kaikeyī-nandivardhanaḥ. babhāṣe bharataḥ jyeṣṭham rāmam satya-parākramam.. 1..
पूजिता मामिका माता दत्तं राज्यमिदं मम। तद् ददामि पुनस्तुभ्यं यथा त्वमददा मम॥ २॥
पूजिता मामिका माता दत्तम् राज्यम् इदम् मम। तत् ददामि पुनर् तुभ्यम् यथा त्वम् अददाः मम॥ २॥
pūjitā māmikā mātā dattam rājyam idam mama. tat dadāmi punar tubhyam yathā tvam adadāḥ mama.. 2..
धुरमेकाकिना न्यस्तां वृषभेण बलीयसा। किशोरवद् गुरुं भारं न वोढुमहमुत्सहे॥ ३॥
धुरम् एकाकिना न्यस्ताम् वृषभेण बलीयसा। किशोर-वत् गुरुम् भारम् न वोढुम् अहम् उत्सहे॥ ३॥
dhuram ekākinā nyastām vṛṣabheṇa balīyasā. kiśora-vat gurum bhāram na voḍhum aham utsahe.. 3..
वारिवेगेन महता भिन्नः सेतुरिव क्षरन्। दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्॥ ४॥
वारि-वेगेन महता भिन्नः सेतुः इव क्षरन्। दुर्बन्धनम् इदम् मन्ये राज्य-छिद्रम् असंवृतम्॥ ४॥
vāri-vegena mahatā bhinnaḥ setuḥ iva kṣaran. durbandhanam idam manye rājya-chidram asaṃvṛtam.. 4..
गतिं खर इवाश्वस्य हंसस्येव च वायसः। नान्वेतुमुत्सहे वीर तव मार्गमरिंदम॥ ५॥
गतिम् खरः इव अश्वस्य हंसस्य इव च वायसः। न अन्वेतुम् उत्सहे वीर तव मार्गम् अरिंदम॥ ५॥
gatim kharaḥ iva aśvasya haṃsasya iva ca vāyasaḥ. na anvetum utsahe vīra tava mārgam ariṃdama.. 5..
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने। महानपि दुरारोहो महास्कन्धः प्रशाखवान्॥ ६॥
यथा च आरोपितः वृक्षः जातः च अन्तर् निवेशने। महान् अपि दुरारोहः महा-स्कन्धः प्रशाखवान्॥ ६॥
yathā ca āropitaḥ vṛkṣaḥ jātaḥ ca antar niveśane. mahān api durārohaḥ mahā-skandhaḥ praśākhavān.. 6..
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्। तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः॥ ७॥
शीर्येत पुष्पितः भूत्वा न फलानि प्रदर्शयन्। तस्य न अनुभवेत् अर्थम् यस्य हेतोः स रोपितः॥ ७॥
śīryeta puṣpitaḥ bhūtvā na phalāni pradarśayan. tasya na anubhavet artham yasya hetoḥ sa ropitaḥ.. 7..
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि। यद्यस्मान् मनुजेन्द्र त्वं भर्ता भृत्यान् न शाधि हि॥ ८॥
एषा उपमा महा-बाहो त्वम् अर्थम् वेत्तुम् अर्हसि। यदि अस्मात् मनुज-इन्द्र त्वम् भर्ता भृत्यान् न शाधि हि॥ ८॥
eṣā upamā mahā-bāho tvam artham vettum arhasi. yadi asmāt manuja-indra tvam bhartā bhṛtyān na śādhi hi.. 8..
जगदद्याभिषिक्तं त्वामनुपश्यतु राघव। प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्॥ ९॥
जगत् अद्य अभिषिक्तम् त्वाम् अनुपश्यतु राघव। प्रतपन्तम् इव आदित्यम् मध्याह्ने दीप्त-तेजसम्॥ ९॥
jagat adya abhiṣiktam tvām anupaśyatu rāghava. pratapantam iva ādityam madhyāhne dīpta-tejasam.. 9..
तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः। मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च॥ १०॥
तूर्य-संघात-निर्घोषैः काञ्ची-नूपुर-निःस्वनैः। मधुरैः गीत-शब्दैः च प्रतिबुध्यस्व शेष्व च॥ १०॥
tūrya-saṃghāta-nirghoṣaiḥ kāñcī-nūpura-niḥsvanaiḥ. madhuraiḥ gīta-śabdaiḥ ca pratibudhyasva śeṣva ca.. 10..
यावदावर्तते चक्रं यावती च वसुंधरा। तावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय॥ ११॥
यावत् आवर्तते चक्रम् यावती च वसुंधरा। तावत् त्वम् इह लोकस्य स्वामि-त्वम् अनुवर्तय॥ ११॥
yāvat āvartate cakram yāvatī ca vasuṃdharā. tāvat tvam iha lokasya svāmi-tvam anuvartaya.. 11..
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः। तथेति प्रतिजग्राह निषसादासने शुभे॥ १२॥
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः। तथा इति प्रतिजग्राह निषसाद आसने शुभे॥ १२॥
bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ. tathā iti pratijagrāha niṣasāda āsane śubhe.. 12..
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः। सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन्॥ १३॥
ततस् शत्रुघ्न-वचनात् निपुणाः श्मश्रु-वर्धनाः। सुख-हस्ताः सु शीघ्राः च राघवम् पर्यवारयन्॥ १३॥
tatas śatrughna-vacanāt nipuṇāḥ śmaśru-vardhanāḥ. sukha-hastāḥ su śīghrāḥ ca rāghavam paryavārayan.. 13..
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे॥ १४॥
पूर्वम् तु भरते स्नाते लक्ष्मणे च महा-बले। सुग्रीवे वानर-इन्द्रे च राक्षस-इन्द्रे विभीषणे॥ १४॥
pūrvam tu bharate snāte lakṣmaṇe ca mahā-bale. sugrīve vānara-indre ca rākṣasa-indre vibhīṣaṇe.. 14..
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः। महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्॥ १५॥
विशोधित-जटः स्नातः चित्र-माल्य-अनुलेपनः। महार्ह-वसन-उपेतः तस्थौ तत्र श्रिया ज्वलन्॥ १५॥
viśodhita-jaṭaḥ snātaḥ citra-mālya-anulepanaḥ. mahārha-vasana-upetaḥ tasthau tatra śriyā jvalan.. 15..
प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः॥ १६॥
प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवान् इक्ष्वाकु-कुल-वर्धनः॥ १६॥
pratikarma ca rāmasya kārayāmāsa vīryavān. lakṣmaṇasya ca lakṣmīvān ikṣvāku-kula-vardhanaḥ.. 16..
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्॥ १७॥
प्रतिकर्म च सीतायाः सर्वाः दशरथ-स्त्रियः। आत्मना एव तदा चक्रुः मनस्विन्यः मनोहरम्॥ १७॥
pratikarma ca sītāyāḥ sarvāḥ daśaratha-striyaḥ. ātmanā eva tadā cakruḥ manasvinyaḥ manoharam.. 17..
ततो वानरपत्नीनां सर्वासामेव शोभनम्। चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला॥ १८॥
ततस् वानर-पत्नीनाम् सर्वासाम् एव शोभनम्। चकार यत्नात् कौसल्या प्रहृष्टा पुत्र-वत्सला॥ १८॥
tatas vānara-patnīnām sarvāsām eva śobhanam. cakāra yatnāt kausalyā prahṛṣṭā putra-vatsalā.. 18..
ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः। योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्॥ १९॥
ततस् शत्रुघ्न-वचनात् सुमन्त्रः नाम सारथिः। योजयित्वा अभिचक्राम रथम् सर्व-अङ्ग-शोभनम्॥ १९॥
tatas śatrughna-vacanāt sumantraḥ nāma sārathiḥ. yojayitvā abhicakrāma ratham sarva-aṅga-śobhanam.. 19..
अग्न्यर्कामलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्। आरुरोह महाबाहू रामः परपुरंजयः॥ २०॥
अग्नि-अर्क-अमल-संकाशम् दिव्यम् दृष्ट्वा रथम् स्थितम्। आरुरोह महा-बाहुः रामः परपुरंजयः॥ २०॥
agni-arka-amala-saṃkāśam divyam dṛṣṭvā ratham sthitam. āruroha mahā-bāhuḥ rāmaḥ parapuraṃjayaḥ.. 20..
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ॥ २१॥
सुग्रीवः हनुमान् च एव महा-इन्द्र-सदृश-द्युती। स्नातौ दिव्य-निभैः वस्त्रैः जग्मतुः शुभ-कुण्डलौ॥ २१॥
sugrīvaḥ hanumān ca eva mahā-indra-sadṛśa-dyutī. snātau divya-nibhaiḥ vastraiḥ jagmatuḥ śubha-kuṇḍalau.. 21..
सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः। सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः॥ २२॥
सर्व-आभरण-जुष्टाः च ययुः ताः शुभ-कुण्डलाः। सुग्रीव-पत्न्यः सीता च द्रष्टुम् नगरम् उत्सुकाः॥ २२॥
sarva-ābharaṇa-juṣṭāḥ ca yayuḥ tāḥ śubha-kuṇḍalāḥ. sugrīva-patnyaḥ sītā ca draṣṭum nagaram utsukāḥ.. 22..
अयोध्यायां च सचिवा राज्ञो दशरथस्य च। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्॥ २३॥
अयोध्यायाम् च सचिवाः राज्ञः दशरथस्य च। पुरोहितम् पुरस्कृत्य मन्त्रयामासुः अर्थ-वत्॥ २३॥
ayodhyāyām ca sacivāḥ rājñaḥ daśarathasya ca. purohitam puraskṛtya mantrayāmāsuḥ artha-vat.. 23..
अशोको विजयश्चैव सिद्धार्थश्च समाहिताः। मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च॥ २४॥
अशोकः विजयः च एव सिद्धार्थः च समाहिताः। मन्त्रयन् राम-वृद्धि-अर्थम् ऋद्धि-अर्थम् नगरस्य च॥ २४॥
aśokaḥ vijayaḥ ca eva siddhārthaḥ ca samāhitāḥ. mantrayan rāma-vṛddhi-artham ṛddhi-artham nagarasya ca.. 24..
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः। कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम्॥ २५॥
सर्वम् एव अभिषेक-अर्थम् जय-अर्हस्य महात्मनः। कर्तुम् अर्हथ रामस्य यत् यत् मङ्गल-पूर्वकम्॥ २५॥
sarvam eva abhiṣeka-artham jaya-arhasya mahātmanaḥ. kartum arhatha rāmasya yat yat maṅgala-pūrvakam.. 25..
इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः। नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः॥ २६॥
इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः। नगरात् निर्ययुः तूर्णम् राम-दर्शन-बुद्धयः॥ २६॥
iti te mantriṇaḥ sarve saṃdiśya ca purohitaḥ. nagarāt niryayuḥ tūrṇam rāma-darśana-buddhayaḥ.. 26..
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। प्रययौ रथमास्थाय रामो नगरमुत्तमम्॥ २७॥
हरि-युक्तम् सहस्र-अक्षः रथम् इन्द्रः इव अनघः। प्रययौ रथम् आस्थाय रामः नगरम् उत्तमम्॥ २७॥
hari-yuktam sahasra-akṣaḥ ratham indraḥ iva anaghaḥ. prayayau ratham āsthāya rāmaḥ nagaram uttamam.. 27..
जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे। लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा॥ २८॥
जग्राह भरतः रश्मीन् शत्रुघ्नः छत्रम् आददे। लक्ष्मणः व्यजनम् तस्य मूर्ध्नि संवीजयन् तदा॥ २८॥
jagrāha bharataḥ raśmīn śatrughnaḥ chatram ādade. lakṣmaṇaḥ vyajanam tasya mūrdhni saṃvījayan tadā.. 28..
श्वेतं च वालव्यजनं जगृहे परितः स्थितः। अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः॥ २९॥
श्वेतम् च वाल-व्यजनम् जगृहे परितस् स्थितः। अपरम् चन्द्र-संकाशम् राक्षस-इन्द्रः विभीषणः॥ २९॥
śvetam ca vāla-vyajanam jagṛhe paritas sthitaḥ. aparam candra-saṃkāśam rākṣasa-indraḥ vibhīṣaṇaḥ.. 29..
ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः। स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः॥ ३०॥
ऋषि-सङ्घैः तदा आकाशे देवैः च स मरुत्-गणैः। स्तूयमानस्य रामस्य शुश्रुवे मधुर-ध्वनिः॥ ३०॥
ṛṣi-saṅghaiḥ tadā ākāśe devaiḥ ca sa marut-gaṇaiḥ. stūyamānasya rāmasya śuśruve madhura-dhvaniḥ.. 30..
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्। आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः॥ ३१॥
ततस् शत्रुञ्जयम् नाम कुञ्जरम् पर्वत-उपमम्। आरुरोह महा-तेजाः सुग्रीवः प्लवग-ऋषभः॥ ३१॥
tatas śatruñjayam nāma kuñjaram parvata-upamam. āruroha mahā-tejāḥ sugrīvaḥ plavaga-ṛṣabhaḥ.. 31..
नव नागसहस्राणि ययुरास्थाय वानराः। मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः॥ ३२॥
नव नाग-सहस्राणि ययुः आस्थाय वानराः। मानुषम् विग्रहम् कृत्वा सर्व-आभरण-भूषिताः॥ ३२॥
nava nāga-sahasrāṇi yayuḥ āsthāya vānarāḥ. mānuṣam vigraham kṛtvā sarva-ābharaṇa-bhūṣitāḥ.. 32..
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः। प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम्॥ ३३॥
शङ्ख-शब्द-प्रणादैः च दुन्दुभीनाम् च निःस्वनैः। प्रययौ पुरुष-व्याघ्रः ताम् पुरीम् हर्म्य-मालिनीम्॥ ३३॥
śaṅkha-śabda-praṇādaiḥ ca dundubhīnām ca niḥsvanaiḥ. prayayau puruṣa-vyāghraḥ tām purīm harmya-mālinīm.. 33..
ददृशुस्ते समायान्तं राघवं सपुरःसरम्। विराजमानं वपुषा रथेनातिरथं तदा॥ ३४॥
ददृशुः ते समायान्तम् राघवम् स पुरःसरम्। विराजमानम् वपुषा रथेन अतिरथम् तदा॥ ३४॥
dadṛśuḥ te samāyāntam rāghavam sa puraḥsaram. virājamānam vapuṣā rathena atiratham tadā.. 34..
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः। अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्॥ ३५॥
ते वर्धयित्वा काकुत्स्थम् रामेण प्रतिनन्दिताः। अनुजग्मुः महात्मानम् भ्रातृभिः परिवारितम्॥ ३५॥
te vardhayitvā kākutstham rāmeṇa pratinanditāḥ. anujagmuḥ mahātmānam bhrātṛbhiḥ parivāritam.. 35..
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः। श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः॥ ३६॥
अमात्यैः ब्राह्मणैः च एव तथा प्रकृतिभिः वृतः। श्रिया विरुरुचे रामः नक्षत्रैः इव चन्द्रमाः॥ ३६॥
amātyaiḥ brāhmaṇaiḥ ca eva tathā prakṛtibhiḥ vṛtaḥ. śriyā viruruce rāmaḥ nakṣatraiḥ iva candramāḥ.. 36..
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः। प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ॥ ३७॥
स पुरोगामिभिः तूर्यैः ताल-स्वस्तिक-पाणिभिः। प्रव्याहरद्भिः मुदितैः मङ्गलानि वृतः ययौ॥ ३७॥
sa purogāmibhiḥ tūryaiḥ tāla-svastika-pāṇibhiḥ. pravyāharadbhiḥ muditaiḥ maṅgalāni vṛtaḥ yayau.. 37..
अक्षतं जातरूपं च गावः कन्याः सहद्विजाः। नरा मोदकहस्ताश्च रामस्य पुरतो ययुः॥ ३८॥
अक्षतम् जातरूपम् च गावः कन्याः सह द्विजाः। नराः मोदक-हस्ताः च रामस्य पुरतस् ययुः॥ ३८॥
akṣatam jātarūpam ca gāvaḥ kanyāḥ saha dvijāḥ. narāḥ modaka-hastāḥ ca rāmasya puratas yayuḥ.. 38..
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे। वानराणां च तत् कर्म ह्याचचक्षेऽथ मन्त्रिणाम्॥ ३९॥
सख्यम् च रामः सुग्रीवे प्रभावम् च अनिलात्मजे। वानराणाम् च तत् कर्म हि आचचक्षे अथ मन्त्रिणाम्॥ ३९॥
sakhyam ca rāmaḥ sugrīve prabhāvam ca anilātmaje. vānarāṇām ca tat karma hi ācacakṣe atha mantriṇām.. 39..
वानराणां च तत् कर्म राक्षसानां च तद् बलम्। विभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम्॥ ४०॥
वानराणाम् च तत् कर्म राक्षसानाम् च तत् बलम्। विभीषणस्य संयोगम् आचचक्षे अथ मन्त्रिणाम्॥ ४०॥
vānarāṇām ca tat karma rākṣasānām ca tat balam. vibhīṣaṇasya saṃyogam ācacakṣe atha mantriṇām.. 40..
द्युतिमानेतदाख्याय रामो वानरसंयुतः। हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः॥ ४१॥
द्युतिमान् एतत् आख्याय रामः वानर-संयुतः। हृष्ट-पुष्ट-जन-आकीर्णाम् अयोध्याम् प्रविवेश सः॥ ४१॥
dyutimān etat ākhyāya rāmaḥ vānara-saṃyutaḥ. hṛṣṭa-puṣṭa-jana-ākīrṇām ayodhyām praviveśa saḥ.. 41..
ततो ह्यभ्युच्छ्रयन् पौराः पताकाश्च गृहे गृहे। ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम्॥ ४२॥
ततस् हि अभ्युच्छ्रयन् पौराः पताकाः च गृहे गृहे। ऐक्ष्वाक-अध्युषितम् रम्यम् आससाद पितुः गृहम्॥ ४२॥
tatas hi abhyucchrayan paurāḥ patākāḥ ca gṛhe gṛhe. aikṣvāka-adhyuṣitam ramyam āsasāda pituḥ gṛham.. 42..
अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम्। अर्थोपहितया वाचा मधुरं रघुनन्दनः॥ ४३॥
अथा अब्रवीत् राज-पुत्रः भरतम् धर्मिणाम् वरम्। अर्थ-उपहितया वाचा मधुरम् रघुनन्दनः॥ ४३॥
athā abravīt rāja-putraḥ bharatam dharmiṇām varam. artha-upahitayā vācā madhuram raghunandanaḥ.. 43..
पितुर्भवनमासाद्य प्रविश्य च महात्मनः। कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च॥ ४४॥
पितुः भवनम् आसाद्य प्रविश्य च महात्मनः। कौसल्याम् च सुमित्राम् च कैकेयीम् अभिवाद्य च॥ ४४॥
pituḥ bhavanam āsādya praviśya ca mahātmanaḥ. kausalyām ca sumitrām ca kaikeyīm abhivādya ca.. 44..
तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्। मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय॥ ४५॥
तत् च मद्-भवनम् श्रेष्ठम् स अशोक-वनिकम् महत्। मुक्ता-वैदूर्य-संकीर्णम् सुग्रीवाय निवेदय॥ ४५॥
tat ca mad-bhavanam śreṣṭham sa aśoka-vanikam mahat. muktā-vaidūrya-saṃkīrṇam sugrīvāya nivedaya.. 45..
तस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः। हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम्॥ ४६॥
तस्य तत् वचनम् श्रुत्वा भरतः सत्य-विक्रमः। हस्ते गृहीत्वा सुग्रीवम् प्रविवेश तम् आलयम्॥ ४६॥
tasya tat vacanam śrutvā bharataḥ satya-vikramaḥ. haste gṛhītvā sugrīvam praviveśa tam ālayam.. 46..
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च। गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः॥ ४७॥
ततस् तैल-प्रदीपान् च पर्यङ्क-आस्तरणानि च। गृहीत्वा विविशुः क्षिप्रम् शत्रुघ्नेन प्रचोदिताः॥ ४७॥
tatas taila-pradīpān ca paryaṅka-āstaraṇāni ca. gṛhītvā viviśuḥ kṣipram śatrughnena pracoditāḥ.. 47..
उवाच च महातेजाः सुग्रीवं राघवानुजः। अभिषेकाय रामस्य दूतानाज्ञापय प्रभो॥ ४८॥
उवाच च महा-तेजाः सुग्रीवम् राघव-अनुजः। अभिषेकाय रामस्य दूतान् आज्ञापय प्रभो॥ ४८॥
uvāca ca mahā-tejāḥ sugrīvam rāghava-anujaḥ. abhiṣekāya rāmasya dūtān ājñāpaya prabho.. 48..
सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्। ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान्॥ ४९॥
सौवर्णान् वानर-इन्द्राणाम् चतुर्णाम् चतुरः घटान्। ददौ क्षिप्रम् स सुग्रीवः सर्व-रत्न-विभूषितान्॥ ४९॥
sauvarṇān vānara-indrāṇām caturṇām caturaḥ ghaṭān. dadau kṣipram sa sugrīvaḥ sarva-ratna-vibhūṣitān.. 49..
तथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्। पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः॥ ५०॥
तथा प्रत्यूष-समये चतुर्णाम् सागर-अम्भसाम्। पूर्णैः घटैः प्रतीक्षध्वम् तथा कुरुत वानराः॥ ५०॥
tathā pratyūṣa-samaye caturṇām sāgara-ambhasām. pūrṇaiḥ ghaṭaiḥ pratīkṣadhvam tathā kuruta vānarāḥ.. 50..
एवमुक्ता महात्मानो वानरा वारणोपमाः। उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः॥ ५१॥
एवम् उक्ताः महात्मानः वानराः वारण-उपमाः। उत्पेतुः गगनम् शीघ्रम् गरुडाः इव शीघ्र-गाः॥ ५१॥
evam uktāḥ mahātmānaḥ vānarāḥ vāraṇa-upamāḥ. utpetuḥ gaganam śīghram garuḍāḥ iva śīghra-gāḥ.. 51..
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः। ऋषभश्चैव कलशाञ्जलपूर्णानथानयन्॥ ५२॥
जाम्बवान् च हनूमान् च वेगदर्शी च वानरः। ऋषभः च एव कलशान् जल-पूर्णान् अथ अनयन्॥ ५२॥
jāmbavān ca hanūmān ca vegadarśī ca vānaraḥ. ṛṣabhaḥ ca eva kalaśān jala-pūrṇān atha anayan.. 52..
नदीशतानां पञ्चानां जलं कुम्भैरुपाहरन्। पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत्॥ ५३॥
नदी-शतानाम् पञ्चानाम् जलम् कुम्भैः उपाहरन्। पूर्वात् समुद्रात् कलशम् जल-पूर्णम् अथ अनयत्॥ ५३॥
nadī-śatānām pañcānām jalam kumbhaiḥ upāharan. pūrvāt samudrāt kalaśam jala-pūrṇam atha anayat.. 53..
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम्। ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमानयत्॥ ५४॥
सुषेणः सत्त्व-सम्पन्नः सर्व-रत्न-विभूषितम्। ऋषभः दक्षिणात् तूर्णम् समुद्रात् जलम् आनयत्॥ ५४॥
suṣeṇaḥ sattva-sampannaḥ sarva-ratna-vibhūṣitam. ṛṣabhaḥ dakṣiṇāt tūrṇam samudrāt jalam ānayat.. 54..
रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम्। गवयः पश्चिमात् तोयमाजहार महार्णवात्॥ ५५॥
रक्तचन्दन-कर्पूरैः संवृतम् काञ्चनम् घटम्। गवयः पश्चिमात् तोयम् आजहार महा-अर्णवात्॥ ५५॥
raktacandana-karpūraiḥ saṃvṛtam kāñcanam ghaṭam. gavayaḥ paścimāt toyam ājahāra mahā-arṇavāt.. 55..
रत्नकुम्भेन महता शीतं मारुतविक्रमः। उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः॥ ५६॥
रत्न-कुम्भेन महता शीतम् मारुत-विक्रमः। उत्तरात् च जलम् शीघ्रम् गरुड-अनिल-विक्रमः॥ ५६॥
ratna-kumbhena mahatā śītam māruta-vikramaḥ. uttarāt ca jalam śīghram garuḍa-anila-vikramaḥ.. 56..
आजहार स धर्मात्मानिलः सर्वगुणान्वितः। ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम्॥ ५७॥
आजहार स धर्म-आत्मा अनिलः सर्व-गुण-अन्वितः। ततस् तैः वानर-श्रेष्ठैः आनीतम् प्रेक्ष्य तत् जलम्॥ ५७॥
ājahāra sa dharma-ātmā anilaḥ sarva-guṇa-anvitaḥ. tatas taiḥ vānara-śreṣṭhaiḥ ānītam prekṣya tat jalam.. 57..
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह। पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत्॥ ५८॥
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह। पुरोहिताय श्रेष्ठाय सुहृद्भ्यः च न्यवेदयत्॥ ५८॥
abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha. purohitāya śreṣṭhāya suhṛdbhyaḥ ca nyavedayat.. 58..
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह। रामं रत्नमये पीठे ससीतं संन्यवेशयत्॥ ५९॥
ततस् स प्रयतः वृद्धः वसिष्ठः ब्राह्मणैः सह। रामम् रत्न-मये पीठे स सीतम् संन्यवेशयत्॥ ५९॥
tatas sa prayataḥ vṛddhaḥ vasiṣṭhaḥ brāhmaṇaiḥ saha. rāmam ratna-maye pīṭhe sa sītam saṃnyaveśayat.. 59..
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः। कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा॥ ६०॥
वसिष्ठः वामदेवः च जाबालिः अथ काश्यपः। कात्यायनः सुयज्ञः च गौतमः विजयः तथा॥ ६०॥
vasiṣṭhaḥ vāmadevaḥ ca jābāliḥ atha kāśyapaḥ. kātyāyanaḥ suyajñaḥ ca gautamaḥ vijayaḥ tathā.. 60..
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा॥ ६१॥
अभ्यषिञ्चत् नर-व्याघ्रम् प्रसन्नेन सुगन्धिना। सलिलेन सहस्र-अक्षम् वसवः वासवम् यथा॥ ६१॥
abhyaṣiñcat nara-vyāghram prasannena sugandhinā. salilena sahasra-akṣam vasavaḥ vāsavam yathā.. 61..
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा। योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः॥ ६२॥
ऋत्विग्भिः ब्राह्मणैः पूर्वम् कन्याभिः मन्त्रिभिः तथा। योधैः च एव अभ्यषिञ्चः ते सम्प्रहृष्टैः स नैगमैः॥ ६२॥
ṛtvigbhiḥ brāhmaṇaiḥ pūrvam kanyābhiḥ mantribhiḥ tathā. yodhaiḥ ca eva abhyaṣiñcaḥ te samprahṛṣṭaiḥ sa naigamaiḥ.. 62..
सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः। चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः॥ ६३॥
सर्व-ओषधि-रसैः च अपि दैवतैः नभसि स्थितैः। चतुर्भिः लोकपालैः च सर्वैः देवैः च संगतैः॥ ६३॥
sarva-oṣadhi-rasaiḥ ca api daivataiḥ nabhasi sthitaiḥ. caturbhiḥ lokapālaiḥ ca sarvaiḥ devaiḥ ca saṃgataiḥ.. 63..
ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम्। अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम्॥ ६४॥
ब्रह्मणा निर्मितम् पूर्वम् किरीटम् रत्न-शोभितम्। अभिषिक्तः पुरा येन मनुः तम् दीप्त-तेजसम्॥ ६४॥
brahmaṇā nirmitam pūrvam kirīṭam ratna-śobhitam. abhiṣiktaḥ purā yena manuḥ tam dīpta-tejasam.. 64..
तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः। सभायां हेमक्लृप्तायां शोभितायां महाधनैः॥ ६५॥
तस्य अन्ववाये राजानः क्रमात् येन अभिषेचिताः। सभायाम् हेम-क्लृप्तायाम् शोभितायाम् महाधनैः॥ ६५॥
tasya anvavāye rājānaḥ kramāt yena abhiṣecitāḥ. sabhāyām hema-klṛptāyām śobhitāyām mahādhanaiḥ.. 65..
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः। नानारत्नमये पीठे कल्पयित्वा यथाविधि॥ ६६॥
रत्नैः नानाविधैः च एव चित्रितायाम् सु शोभनैः। नाना रत्न-मये पीठे कल्पयित्वा यथाविधि॥ ६६॥
ratnaiḥ nānāvidhaiḥ ca eva citritāyām su śobhanaiḥ. nānā ratna-maye pīṭhe kalpayitvā yathāvidhi.. 66..
किरीटेन ततः पश्चाद् वसिष्ठेन महात्मना। ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः॥ ६७॥
किरीटेन ततस् पश्चात् वसिष्ठेन महात्मना। ऋत्विग्भिः भूषणैः च एव समयोक्ष्यत राघवः॥ ६७॥
kirīṭena tatas paścāt vasiṣṭhena mahātmanā. ṛtvigbhiḥ bhūṣaṇaiḥ ca eva samayokṣyata rāghavaḥ.. 67..
छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम्। श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः॥ ६८॥
छत्रम् तस्य च जग्राह शत्रुघ्नः पाण्डुरम् शुभम्। श्वेतम् च वाल-व्यजनम् सुग्रीवः वानर-ईश्वरः॥ ६८॥
chatram tasya ca jagrāha śatrughnaḥ pāṇḍuram śubham. śvetam ca vāla-vyajanam sugrīvaḥ vānara-īśvaraḥ.. 68..
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः। मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्॥ ६९॥
अपरम् चन्द्र-संकाशम् राक्षस-इन्द्रः विभीषणः। मालाम् ज्वलन्तीम् वपुषा काञ्चनीम् शत-पुष्कराम्॥ ६९॥
aparam candra-saṃkāśam rākṣasa-indraḥ vibhīṣaṇaḥ. mālām jvalantīm vapuṣā kāñcanīm śata-puṣkarām.. 69..
राघवाय ददौ वायुर्वासवेन प्रचोदितः। सर्वरत्नसमायुक्तं मणिभिश्च विभूषितम्॥ ७०॥
राघवाय ददौ वायुः वासवेन प्रचोदितः। सर्व-रत्न-समायुक्तम् मणिभिः च विभूषितम्॥ ७०॥
rāghavāya dadau vāyuḥ vāsavena pracoditaḥ. sarva-ratna-samāyuktam maṇibhiḥ ca vibhūṣitam.. 70..
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः। प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥ ७१॥
मुक्ता-हारम् नरेन्द्राय ददौ शक्र-प्रचोदितः। प्रजगुः देव-गन्धर्वाः ननृतुः च अप्सरः-गणाः॥ ७१॥
muktā-hāram narendrāya dadau śakra-pracoditaḥ. prajaguḥ deva-gandharvāḥ nanṛtuḥ ca apsaraḥ-gaṇāḥ.. 71..
अभिषेके तदर्हस्य तदा रामस्य धीमतः। भूमिः सस्यवती चैव फलवन्तश्च पादपाः॥ ७२॥
अभिषेके तद्-अर्हस्य तदा रामस्य धीमतः। भूमिः सस्यवती च एव फलवन्तः च पादपाः॥ ७२॥
abhiṣeke tad-arhasya tadā rāmasya dhīmataḥ. bhūmiḥ sasyavatī ca eva phalavantaḥ ca pādapāḥ.. 72..
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे। सहस्रशतमश्वानां धेनूनां च गवां तथा॥ ७३॥
गन्धवन्ति च पुष्पाणि बभूवुः राघव-उत्सवे। सहस्र-शतम् अश्वानाम् धेनूनाम् च गवाम् तथा॥ ७३॥
gandhavanti ca puṣpāṇi babhūvuḥ rāghava-utsave. sahasra-śatam aśvānām dhenūnām ca gavām tathā.. 73..
ददौ शतवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः। त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः॥ ७४॥
ददौ शत-वृषान् पूर्वम् द्विजेभ्यः मनुज-ऋषभः। त्रिंशत्-कोटीः हिरण्यस्य ब्राह्मणेभ्यः ददौ पुनर्॥ ७४॥
dadau śata-vṛṣān pūrvam dvijebhyaḥ manuja-ṛṣabhaḥ. triṃśat-koṭīḥ hiraṇyasya brāhmaṇebhyaḥ dadau punar.. 74..
नानाभरणवस्त्राणि महार्हाणि च राघवः। अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्॥ ७५॥
नाना आभरण-वस्त्राणि महार्हाणि च राघवः। अर्क-रश्मि-प्रतीकाशाम् काञ्चनीम् मणि-विग्रहाम्॥ ७५॥
nānā ābharaṇa-vastrāṇi mahārhāṇi ca rāghavaḥ. arka-raśmi-pratīkāśām kāñcanīm maṇi-vigrahām.. 75..
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजाधिपः। वैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते॥ ७६॥
सुग्रीवाय स्रजम् दिव्याम् प्रायच्छत् मनुज-अधिपः। वैदूर्य-मय-चित्रे च चन्द्र-रश्मि-विभूषिते॥ ७६॥
sugrīvāya srajam divyām prāyacchat manuja-adhipaḥ. vaidūrya-maya-citre ca candra-raśmi-vibhūṣite.. 76..
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ। मणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम्॥ ७७॥
वालि-पुत्राय धृतिमान् अङ्गदाय अङ्गदे ददौ। मणि-प्रवर-जुष्टम् तम् मुक्ता-हारम् अनुत्तमम्॥ ७७॥
vāli-putrāya dhṛtimān aṅgadāya aṅgade dadau. maṇi-pravara-juṣṭam tam muktā-hāram anuttamam.. 77..
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम्। अरजे वाससी दिव्ये शुभान्याभरणानि च॥ ७८॥
सीतायै प्रददौ रामः चन्द्र-रश्मि-सम-प्रभम्। अरजे वाससी दिव्ये शुभानि आभरणानि च॥ ७८॥
sītāyai pradadau rāmaḥ candra-raśmi-sama-prabham. araje vāsasī divye śubhāni ābharaṇāni ca.. 78..
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे। अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी॥ ७९॥
अवेक्षमाणा वैदेही प्रददौ वायु-सूनवे। अवमुच्य आत्मनः कण्ठात् हारम् जनकनन्दिनी॥ ७९॥
avekṣamāṇā vaidehī pradadau vāyu-sūnave. avamucya ātmanaḥ kaṇṭhāt hāram janakanandinī.. 79..
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः। तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम्॥ ८०॥
अवैक्षत हरीन् सर्वान् भर्तारम् च मुहुर् मुहुर्। ताम् इङ्गित-ज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम्॥ ८०॥
avaikṣata harīn sarvān bhartāram ca muhur muhur. tām iṅgita-jñaḥ samprekṣya babhāṣe janakātmajām.. 80..
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि। अथ सा वायुपुत्राय तं हारमसितेक्षणा॥ ८१॥
प्रदेहि सुभगे हारम् यस्य तुष्टा असि भामिनि। अथ सा वायुपुत्राय तम् हारम् असित-ईक्षणा॥ ८१॥
pradehi subhage hāram yasya tuṣṭā asi bhāmini. atha sā vāyuputrāya tam hāram asita-īkṣaṇā.. 81..
तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः। पौरुषं विक्रमो बुद्धिर्यस्मिन् नेतानि नित्यदा॥ ८२॥
तेजः धृतिः यशः दाक्ष्यम् सामर्थ्यम् विनयः नयः। पौरुषम् विक्रमः बुद्धिः यस्मिन् न इतानि नित्यदा॥ ८२॥
tejaḥ dhṛtiḥ yaśaḥ dākṣyam sāmarthyam vinayaḥ nayaḥ. pauruṣam vikramaḥ buddhiḥ yasmin na itāni nityadā.. 82..
हनूमांस्तेन हारेण शुशुभे वानरर्षभः। चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः॥ ८३॥
हनूमान् तेन हारेण शुशुभे वानर-ऋषभः। चन्द्र-अंशु-चय-गौरेण श्वेत-अभ्रेण यथा अचलः॥ ८३॥
hanūmān tena hāreṇa śuśubhe vānara-ṛṣabhaḥ. candra-aṃśu-caya-gaureṇa śveta-abhreṇa yathā acalaḥ.. 83..
सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः। वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः॥ ८४॥
सर्वे वानर-वृद्धाः च ये च अन्ये वानर-उत्तमाः। वासोभिः भूषणैः च एव यथार्हम् प्रतिपूजिताः॥ ८४॥
sarve vānara-vṛddhāḥ ca ye ca anye vānara-uttamāḥ. vāsobhiḥ bhūṣaṇaiḥ ca eva yathārham pratipūjitāḥ.. 84..
विभीषणोऽथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा। सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा॥ ८५॥
विभीषणः अथ सुग्रीवः हनूमान् जाम्बवान् तथा। सर्वे वानर-मुख्याः च रामेण अक्लिष्ट-कर्मणा॥ ८५॥
vibhīṣaṇaḥ atha sugrīvaḥ hanūmān jāmbavān tathā. sarve vānara-mukhyāḥ ca rāmeṇa akliṣṭa-karmaṇā.. 85..
यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः। प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम्॥ ८६॥
यथार्हम् पूजिताः सर्वे कामैः रत्नैः च पुष्कलैः। प्रहृष्ट-मनसः सर्वे जग्मुः एव यथागतम्॥ ८६॥
yathārham pūjitāḥ sarve kāmaiḥ ratnaiḥ ca puṣkalaiḥ. prahṛṣṭa-manasaḥ sarve jagmuḥ eva yathāgatam.. 86..
ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः। सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः॥ ८७॥
ततस् द्विविद-मैन्दाभ्याम् नीलाय च परंतपः। सर्वान् काम-गुणान् वीक्ष्य प्रददौ वसुधाधिपः॥ ८७॥
tatas dvivida-maindābhyām nīlāya ca paraṃtapaḥ. sarvān kāma-guṇān vīkṣya pradadau vasudhādhipaḥ.. 87..
दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः। विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन्॥ ८८॥
दृष्ट्वा सर्वे महात्मानः ततस् ते वानर-ऋषभाः। विसृष्टाः पार्थिव-इन्द्रेण किष्किन्धाम् समुपागमन्॥ ८८॥
dṛṣṭvā sarve mahātmānaḥ tatas te vānara-ṛṣabhāḥ. visṛṣṭāḥ pārthiva-indreṇa kiṣkindhām samupāgaman.. 88..
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम्। पूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम्॥ ८९॥
सुग्रीवः वानर-श्रेष्ठः दृष्ट्वा राम-अभिषेचनम्। पूजितः च एव रामेण किष्किन्धाम् प्राविशत् पुरीम्॥ ८९॥
sugrīvaḥ vānara-śreṣṭhaḥ dṛṣṭvā rāma-abhiṣecanam. pūjitaḥ ca eva rāmeṇa kiṣkindhām prāviśat purīm.. 89..
विभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः। लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः॥ ९०॥
विभीषणः अपि धर्म-आत्मा सह तैः नैरृत-ऋषभैः। लब्ध्वा कुल-धनम् राजा लङ्काम् प्रायात् महा-यशाः॥ ९०॥
vibhīṣaṇaḥ api dharma-ātmā saha taiḥ nairṛta-ṛṣabhaiḥ. labdhvā kula-dhanam rājā laṅkām prāyāt mahā-yaśāḥ.. 90..
राघवः परमोदारः शशास परया मुदा। उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः॥ ९१॥
राघवः परम-उदारः शशास परया मुदा। उवाच लक्ष्मणम् रामः धर्म-ज्ञम् धर्म-वत्सलः॥ ९१॥
rāghavaḥ parama-udāraḥ śaśāsa parayā mudā. uvāca lakṣmaṇam rāmaḥ dharma-jñam dharma-vatsalaḥ.. 91..
आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन। तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व॥ ९२॥
आतिष्ठ धर्म-ज्ञ मया सह इमाम् गाम् पूर्व-राज-अध्युषिताम् बलेन। तुल्यम् मया त्वम् पितृभिः धृता या ताम् यौवराज्ये धुरम् उद्वहस्व॥ ९२॥
ātiṣṭha dharma-jña mayā saha imām gām pūrva-rāja-adhyuṣitām balena. tulyam mayā tvam pitṛbhiḥ dhṛtā yā tām yauvarājye dhuram udvahasva.. 92..
सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्। नियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद् भरतं महात्मा॥ ९३॥
सर्व-आत्मना पर्यनुनीयमानः यदा न सौमित्रिः उपैति योगम्। नियुज्यमानः भुवि यौवराज्ये ततस् अभ्यषिञ्चत् भरतम् महात्मा॥ ९३॥
sarva-ātmanā paryanunīyamānaḥ yadā na saumitriḥ upaiti yogam. niyujyamānaḥ bhuvi yauvarājye tatas abhyaṣiñcat bharatam mahātmā.. 93..
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्। अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः॥ ९४॥
पौण्डरीक-अश्वमेधाभ्याम् वाजपेयेन च असकृत्। अन्यैः च विविधैः यज्ञैः अयजत् पार्थिव-आत्मजः॥ ९४॥
pauṇḍarīka-aśvamedhābhyām vājapeyena ca asakṛt. anyaiḥ ca vividhaiḥ yajñaiḥ ayajat pārthiva-ātmajaḥ.. 94..
राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः। शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान्॥ ९५॥
राज्यम् दश-सहस्राणि प्राप्य वर्षाणि राघवः। शत-अश्वमेधान् आजह्रे सत्-अश्वान् भूरि-दक्षिणान्॥ ९५॥
rājyam daśa-sahasrāṇi prāpya varṣāṇi rāghavaḥ. śata-aśvamedhān ājahre sat-aśvān bhūri-dakṣiṇān.. 95..
आजानुलम्बिबाहुः स महावक्षाः प्रतापवान्। लक्ष्मणानुचरो रामः शशास पृथिवीमिमाम्॥ ९६॥
आजानु लम्बि-बाहुः स महा-वक्षाः प्रतापवान्। लक्ष्मण-अनुचरः रामः शशास पृथिवीम् इमाम्॥ ९६॥
ājānu lambi-bāhuḥ sa mahā-vakṣāḥ pratāpavān. lakṣmaṇa-anucaraḥ rāmaḥ śaśāsa pṛthivīm imām.. 96..
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्। ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः॥ ९७॥
राघवः च अपि धर्म-आत्मा प्राप्य राज्यम् अनुत्तमम्। ईजे बहुविधैः यज्ञैः स सुहृद्-ज्ञाति-बान्धवः॥ ९७॥
rāghavaḥ ca api dharma-ātmā prāpya rājyam anuttamam. īje bahuvidhaiḥ yajñaiḥ sa suhṛd-jñāti-bāndhavaḥ.. 97..
न पर्यदेवन् विधवा न च व्यालकृतं भयम्। न व्याधिजं भयं चासीद् रामे राज्यं प्रशासति॥ ९८॥
न पर्यदेवन् विधवाः न च व्याल-कृतम् भयम्। न व्याधि-जम् भयम् च आसीत् रामे राज्यम् प्रशासति॥ ९८॥
na paryadevan vidhavāḥ na ca vyāla-kṛtam bhayam. na vyādhi-jam bhayam ca āsīt rāme rājyam praśāsati.. 98..
निर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत्। न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते॥ ९९॥
निर्दस्युः अभवत् लोकः न अनर्थम् कश्चिद् अस्पृशत्। न च स्म वृद्धाः बालानाम् प्रेतकार्याणि कुर्वते॥ ९९॥
nirdasyuḥ abhavat lokaḥ na anartham kaścid aspṛśat. na ca sma vṛddhāḥ bālānām pretakāryāṇi kurvate.. 99..
सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्। राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्॥ १००॥
सर्वम् मुदितम् एव आसीत् सर्वः धर्म-परः अभवत्। रामम् एव अनुपश्यन्तः न अभ्यहिंसन् परस्परम्॥ १००॥
sarvam muditam eva āsīt sarvaḥ dharma-paraḥ abhavat. rāmam eva anupaśyantaḥ na abhyahiṃsan parasparam.. 100..
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः। निरामया विशोकाश्च रामे राज्यं प्रशासति॥ १०१॥
आसन् वर्ष-सहस्राणि तथा पुत्र-सहस्रिणः। निरामयाः विशोकाः च रामे राज्यम् प्रशासति॥ १०१॥
āsan varṣa-sahasrāṇi tathā putra-sahasriṇaḥ. nirāmayāḥ viśokāḥ ca rāme rājyam praśāsati.. 101..
रामो रामो राम इति प्रजानामभवन् कथाः। रामभूतं जगदभूद् रामे राज्यं प्रशासति॥ १०२॥
रामः रामः रामः इति प्रजानाम् अभवन् कथाः। राम-भूतम् जगत् अभूत् रामे राज्यम् प्रशासति॥ १०२॥
rāmaḥ rāmaḥ rāmaḥ iti prajānām abhavan kathāḥ. rāma-bhūtam jagat abhūt rāme rājyam praśāsati.. 102..
नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः। कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः॥ १०३॥
नित्य-मूलाः नित्य-फलाः तरवः तत्र पुष्पिताः। काम-वर्षी च पर्जन्यः सुख-स्पर्शः च मारुतः॥ १०३॥
nitya-mūlāḥ nitya-phalāḥ taravaḥ tatra puṣpitāḥ. kāma-varṣī ca parjanyaḥ sukha-sparśaḥ ca mārutaḥ.. 103..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः। स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः॥ १०४॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः लोभ-विवर्जिताः। स्व-कर्मसु प्रवर्तन्ते तुष्टाः स्वैः एव कर्मभिः॥ १०४॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ lobha-vivarjitāḥ. sva-karmasu pravartante tuṣṭāḥ svaiḥ eva karmabhiḥ.. 104..
आसन् प्रजा धर्मपरा रामे शासति नानृताः। सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः॥ १०५॥
आसन् प्रजाः धर्म-पराः रामे शासति न अनृताः। सर्वे लक्षण-सम्पन्नाः सर्वे धर्म-परायणाः॥ १०५॥
āsan prajāḥ dharma-parāḥ rāme śāsati na anṛtāḥ. sarve lakṣaṇa-sampannāḥ sarve dharma-parāyaṇāḥ.. 105..
दशवर्षसहस्राणि दशवर्षशतानि च। भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत्॥ १०६॥
दश-वर्ष-सहस्राणि दश-वर्ष-शतानि च। भ्रातृभिः सहितः श्रीमान् रामः राज्यम् अकारयत्॥ १०६॥
daśa-varṣa-sahasrāṇi daśa-varṣa-śatāni ca. bhrātṛbhiḥ sahitaḥ śrīmān rāmaḥ rājyam akārayat.. 106..
धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम्। आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम्॥ १०७॥
धर्म्यम् यशस्यम् आयुष्यम् राज्ञाम् च विजय-आवहम्। आदिकाव्यम् इदम् च आर्षम् पुरा वाल्मीकिना कृतम्॥ १०७॥
dharmyam yaśasyam āyuṣyam rājñām ca vijaya-āvaham. ādikāvyam idam ca ārṣam purā vālmīkinā kṛtam.. 107..
यः शृणोति सदा लोके नरः पापात् प्रमुच्यते। पुत्रकामश्च पुत्रान् वै धनकामो धनानि च॥ १०८॥
यः शृणोति सदा लोके नरः पापात् प्रमुच्यते। पुत्र-कामः च पुत्रान् वै धन-कामः धनानि च॥ १०८॥
yaḥ śṛṇoti sadā loke naraḥ pāpāt pramucyate. putra-kāmaḥ ca putrān vai dhana-kāmaḥ dhanāni ca.. 108..
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम्। महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति॥ १०९॥
लभते मनुजः लोके श्रुत्वा राम-अभिषेचनम्। महीम् विजयते राजा रिपून् च अपि अधितिष्ठति॥ १०९॥
labhate manujaḥ loke śrutvā rāma-abhiṣecanam. mahīm vijayate rājā ripūn ca api adhitiṣṭhati.. 109..
राघवेण यथा माता सुमित्रा लक्ष्मणेन च। भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः॥ ११०॥
राघवेण यथा माता सुमित्रा लक्ष्मणेन च। भरतेन च कैकेयी जीव-पुत्राः तथा स्त्रियः॥ ११०॥
rāghaveṇa yathā mātā sumitrā lakṣmaṇena ca. bharatena ca kaikeyī jīva-putrāḥ tathā striyaḥ.. 110..
भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः। श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति॥ १११॥
भविष्यन्ति सत्-आनन्दाः पुत्र-पौत्र-समन्विताः। श्रुत्वा रामायणम् इदम् दीर्घम् आयुः च विन्दति॥ १११॥
bhaviṣyanti sat-ānandāḥ putra-pautra-samanvitāḥ. śrutvā rāmāyaṇam idam dīrgham āyuḥ ca vindati.. 111..
रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः। शृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम्॥ ११२॥
रामस्य विजयम् च इमम् सर्वम् अक्लिष्ट-कर्मणः। शृणोति यः इदम् काव्यम् पुरा वाल्मीकिना कृतम्॥ ११२॥
rāmasya vijayam ca imam sarvam akliṣṭa-karmaṇaḥ. śṛṇoti yaḥ idam kāvyam purā vālmīkinā kṛtam.. 112..
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ। समागम्य प्रवासान्ते रमन्ते सह बान्धवैः॥ ११३॥
श्रद्दधानः जित-क्रोधः दुर्गाणि अतितरति असौ। समागम्य प्रवास-अन्ते रमन्ते सह बान्धवैः॥ ११३॥
śraddadhānaḥ jita-krodhaḥ durgāṇi atitarati asau. samāgamya pravāsa-ante ramante saha bāndhavaiḥ.. 113..
शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम्। ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्तीह राघवात्॥ ११४॥
शृण्वन्ति ये इदम् काव्यम् पुरा वाल्मीकिना कृतम्। ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्ति इह राघवात्॥ ११४॥
śṛṇvanti ye idam kāvyam purā vālmīkinā kṛtam. te prārthitān varān sarvān prāpnuvanti iha rāghavāt.. 114..
श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्। विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै॥ ११५॥
श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्। विनायकाः च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै॥ ११५॥
śravaṇena surāḥ sarve prīyante sampraśṛṇvatām. vināyakāḥ ca śāmyanti gṛhe tiṣṭhanti yasya vai.. 115..
विजयेत महीं राजा प्रवासी स्वस्तिमान् भवेत्। स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान्॥ ११६॥
विजयेत महीम् राजा प्रवासी स्वस्तिमान् भवेत्। स्त्रियः रजस्वलाः श्रुत्वा पुत्रान् सूयुः अनुत्तमान्॥ ११६॥
vijayeta mahīm rājā pravāsī svastimān bhavet. striyaḥ rajasvalāḥ śrutvā putrān sūyuḥ anuttamān.. 116..
पूजयंश्च पठंश्चैनमितिहासं पुरातनम्। सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात्॥ ११७॥
पूजयन् च पठन् च एनम् इतिहासम् पुरातनम्। सर्व-पापैः प्रमुच्येत दीर्घम् आयुः अवाप्नुयात्॥ ११७॥
pūjayan ca paṭhan ca enam itihāsam purātanam. sarva-pāpaiḥ pramucyeta dīrgham āyuḥ avāpnuyāt.. 117..
प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात्। ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः॥ ११८॥
प्रणम्य शिरसा नित्यम् श्रोतव्यम् क्षत्रियैः द्विजात्। ऐश्वर्यम् पुत्र-लाभः च भविष्यति न संशयः॥ ११८॥
praṇamya śirasā nityam śrotavyam kṣatriyaiḥ dvijāt. aiśvaryam putra-lābhaḥ ca bhaviṣyati na saṃśayaḥ.. 118..
रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा। प्रीयते सततं रामः स हि विष्णुः सनातनः॥ ११९॥
रामायणम् इदम् कृत्स्नम् शृण्वतः पठतः सदा। प्रीयते सततम् रामः स हि विष्णुः सनातनः॥ ११९॥
rāmāyaṇam idam kṛtsnam śṛṇvataḥ paṭhataḥ sadā. prīyate satatam rāmaḥ sa hi viṣṇuḥ sanātanaḥ.. 119..
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः। साक्षाद् रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते॥ १२०॥
आदिदेवः महा-बाहुः हरिः नारायणः प्रभुः। साक्षात् रामः रघु-श्रेष्ठः शेषः लक्ष्मणः उच्यते॥ १२०॥
ādidevaḥ mahā-bāhuḥ hariḥ nārāyaṇaḥ prabhuḥ. sākṣāt rāmaḥ raghu-śreṣṭhaḥ śeṣaḥ lakṣmaṇaḥ ucyate.. 120..
एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः। प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्॥ १२१॥
एवम् एतत् पुरावृत्तम् आख्यानम् भद्रम् अस्तु वः। प्रव्याहरत विस्रब्धम् बलम् विष्णोः प्रवर्धताम्॥ १२१॥
evam etat purāvṛttam ākhyānam bhadram astu vaḥ. pravyāharata visrabdham balam viṣṇoḥ pravardhatām.. 121..
देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा। रामायणस्य श्रवणे तृप्यन्ति पितरः सदा॥ १२२॥
देवाः च सर्वे तुष्यन्ति ग्रहणात् श्रवणात् तथा। रामायणस्य श्रवणे तृप्यन्ति पितरः सदा॥ १२२॥
devāḥ ca sarve tuṣyanti grahaṇāt śravaṇāt tathā. rāmāyaṇasya śravaṇe tṛpyanti pitaraḥ sadā.. 122..
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम्। ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे॥ १२३॥
भक्त्या रामस्य ये च इमाम् संहिताम् ऋषिणा कृताम्। ये लिखन्ति इह च नराः तेषाम् वासः त्रिविष्टपे॥ १२३॥
bhaktyā rāmasya ye ca imām saṃhitām ṛṣiṇā kṛtām. ye likhanti iha ca narāḥ teṣām vāsaḥ triviṣṭape.. 123..
कुटुम्बवृद्धिं धनधान्यवृद्धिंस्त्रियश्च मुख्याः सुखमुत्तमं च। श्रुत्वा शुभं काव्यमिदं महार्थंप्राप्नोति सर्वां भुवि चार्थसिद्धिम्॥ १२४॥
कुटुम्ब-वृद्धिम् धन-धान्य-वृद्धिम् स्त्रियः च मुख्याः सुखम् उत्तमम् च। श्रुत्वा शुभम् काव्यम् इदम् महा-अर्थम् प्राप्नोति सर्वाम् भुवि च अर्थ-सिद्धिम्॥ १२४॥
kuṭumba-vṛddhim dhana-dhānya-vṛddhim striyaḥ ca mukhyāḥ sukham uttamam ca. śrutvā śubham kāvyam idam mahā-artham prāpnoti sarvām bhuvi ca artha-siddhim.. 124..
आयुष्यमारोग्यकरं यशस्यंसौभ्रातृकं बुद्धिकरं शुभं च। श्रोतव्यमेतन्नियमेन सद्भि-राख्यानमोजस्करमृद्धिकामैः॥ १२५॥
आयुष्यम् आरोग्य-करम् यशस्यम् सौभ्रातृकम् बुद्धि-करम् शुभम् च। श्रोतव्यम् एतत् नियमेन सद्भिः आख्यानम् ओजस्करम् ऋद्धि-कामैः॥ १२५॥
āyuṣyam ārogya-karam yaśasyam saubhrātṛkam buddhi-karam śubham ca. śrotavyam etat niyamena sadbhiḥ ākhyānam ojaskaram ṛddhi-kāmaiḥ.. 125..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In