This overlay will guide you through the buttons:

| |
|
निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि । विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थयुक्तम् ॥ 1 ॥
निशाचर-इन्द्रस्य निशम्य वाक्यम् स कुम्भकर्णस्य च गर्जितानि । विभीषणः राक्षस-राज-मुख्यम् उवाच वाक्यम् हितम् अर्थ-युक्तम् ॥ १ ॥
niśācara-indrasya niśamya vākyam sa kumbhakarṇasya ca garjitāni . vibhīṣaṇaḥ rākṣasa-rāja-mukhyam uvāca vākyam hitam artha-yuktam .. 1 ..
वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविष सुस्मिततीक्ष्णदंष्ट्रः । पञ्चाङ्गुलीपञ्चशिरोऽतिकाय सीतामहाहिस्तव केन राजन् ॥ 2 ॥
वृतः हि बाहु-अन्तर-भोग-राशिः चिन्ता-विष सु स्मित-तीक्ष्ण-दंष्ट्रः । पञ्च-अङ्गुली-पञ्च-शिरः-अतिकाय सीता-महा-अहिः तव केन राजन् ॥ २ ॥
vṛtaḥ hi bāhu-antara-bhoga-rāśiḥ cintā-viṣa su smita-tīkṣṇa-daṃṣṭraḥ . pañca-aṅgulī-pañca-śiraḥ-atikāya sītā-mahā-ahiḥ tava kena rājan .. 2 ..
यावन्न लङ्कां समभिद्रवन्ति बलीमुखाः पर्वतकूटमात्राः । दष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ॥ 3 ॥
यावत् न लङ्काम् समभिद्रवन्ति बलीमुखाः पर्वत-कूट-मात्राः । दष्ट्र-आयुधाः च एव नख-आयुधाः च प्रदीयताम् दाशरथाय मैथिली ॥ ३ ॥
yāvat na laṅkām samabhidravanti balīmukhāḥ parvata-kūṭa-mātrāḥ . daṣṭra-āyudhāḥ ca eva nakha-āyudhāḥ ca pradīyatām dāśarathāya maithilī .. 3 ..
यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुङ्गवानाम् । वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली ॥ 4 ॥
यावत् न गृह्णन्ति शिरांसि बाणाः राम-ईरिताः राक्षस-पुङ्गवानाम् । वज्र-उपमाः वायु-समान-वेगाः प्रदीयताम् दाशरथाय मैथिली ॥ ४ ॥
yāvat na gṛhṇanti śirāṃsi bāṇāḥ rāma-īritāḥ rākṣasa-puṅgavānām . vajra-upamāḥ vāyu-samāna-vegāḥ pradīyatām dāśarathāya maithilī .. 4 ..
न कुम्भकर्णेन्द्रजितौ च राजंस्तथा महापार्श्वमहोदरौ वा । निकुम्भकुम्भौ च तथाऽतिकायः स्थातुं समर्था शक्ता युधि राघवस्य ॥ 5 ॥
न कुम्भकर्ण-इन्द्रजितौ च राजन् तथा महापार्श्व-महोदरौ वा । निकुम्भ-कुम्भौ च तथा अतिकायः स्थातुम् समर्था शक्ता युधि राघवस्य ॥ ५ ॥
na kumbhakarṇa-indrajitau ca rājan tathā mahāpārśva-mahodarau vā . nikumbha-kumbhau ca tathā atikāyaḥ sthātum samarthā śaktā yudhi rāghavasya .. 5 ..
जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्त सवित्राप्यथवा मरुद्भि: । न वासवस्याङ्कगतो न मृत्योर्नभो न पाताळमनुप्रविष्टः ॥ 6 ॥
जीवन् तु रामस्य न मोक्ष्यसे त्वम् गुप्त सवित्रा अपि अथवा मरुद्भिः । न वासवस्य अङ्क-गतः न मृत्योः नभः न पाताळम् अनुप्रविष्टः ॥ ६ ॥
jīvan tu rāmasya na mokṣyase tvam gupta savitrā api athavā marudbhiḥ . na vāsavasya aṅka-gataḥ na mṛtyoḥ nabhaḥ na pātāl̤am anupraviṣṭaḥ .. 6 ..
निशम्य वाक्यं तु विभीषणस्यततः प्रहस्तो वचनं बभाषे । न नो भयं विद्म न दैवतेभ्यो न दानवेभ्योऽप्यथवा कदाचित् ॥ 7 ॥
निशम्य वाक्यम् तु विभीषणस्य अततः प्रहस्तः वचनम् बभाषे । न नः भयम् विद्म न दैवतेभ्यः न दानवेभ्यः अपि अथवा कदाचिद् ॥ ७ ॥
niśamya vākyam tu vibhīṣaṇasya atataḥ prahastaḥ vacanam babhāṣe . na naḥ bhayam vidma na daivatebhyaḥ na dānavebhyaḥ api athavā kadācid .. 7 ..
न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोरगेभ्यः । कथं नु रामद् भविता भयं नो नरेन्द्रपुत्रा समरे कदाचित् ॥ 8 ॥
न यक्ष-गन्धर्व-महा-उरगेभ्यः भयम् न संख्ये पतग-उरगेभ्यः । कथम् नु रामत् भविता भयम् नः नरेन्द्र-पुत्रा समरे कदाचिद् ॥ ८ ॥
na yakṣa-gandharva-mahā-uragebhyaḥ bhayam na saṃkhye pataga-uragebhyaḥ . katham nu rāmat bhavitā bhayam naḥ narendra-putrā samare kadācid .. 8 ..
प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी । ततो महार्थं वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धि ॥ 9 ॥
प्रहस्त-वाक्यम् तु अहितम् निशम्य विभीषणः राज-हित-अनुकाङ्क्षी । ततस् महार्थम् वचनम् बभाषे धर्म-अर्थ-कामेषु निविष्ट-बुद्धि ॥ ९ ॥
prahasta-vākyam tu ahitam niśamya vibhīṣaṇaḥ rāja-hita-anukāṅkṣī . tatas mahārtham vacanam babhāṣe dharma-artha-kāmeṣu niviṣṭa-buddhi .. 9 ..
प्रहस्त: राजा च महोदरश्च त्वं कुम्भकर्णश्च यथाऽर्थजातम् । ब्रवीत रामं प्रति तन्न शक्यं यथा गति स्वर्गमधर्मबुद्धेः ॥ 10 ॥
प्रहस्तः राजा च महोदरः च त्वम् कुम्भकर्णः च यथा अर्थ-जातम् । ब्रवीत रामम् प्रति तत् न शक्यम् यथा गति स्वर्गम् अधर्म-बुद्धेः ॥ १० ॥
prahastaḥ rājā ca mahodaraḥ ca tvam kumbhakarṇaḥ ca yathā artha-jātam . bravīta rāmam prati tat na śakyam yathā gati svargam adharma-buddheḥ .. 10 ..
वधस्तु रामस्य मया त्वया च प्रहस्त सर्वैरपि राक्षसैर्वा । कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य ॥ 11 ॥
वधः तु रामस्य मया त्वया च प्रहस्त सर्वैः अपि राक्षसैः वा । कथम् भवेत् अर्थ-विशारदस्य महा-अर्णवम् तर्तुम् इव आप्लवस्य ॥ ११ ॥
vadhaḥ tu rāmasya mayā tvayā ca prahasta sarvaiḥ api rākṣasaiḥ vā . katham bhavet artha-viśāradasya mahā-arṇavam tartum iva āplavasya .. 11 ..
धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः । पुरोस्य देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्तिमूढा ॥ 12 ॥
धर्म-प्रधानस्य महा-रथस्य इक्ष्वाकु-वंश-प्रभवस्य राज्ञः । पुरा उस्य देवाः च तथाविधस्य कृत्येषु शक्तस्य ॥ १२ ॥
dharma-pradhānasya mahā-rathasya ikṣvāku-vaṃśa-prabhavasya rājñaḥ . purā usya devāḥ ca tathāvidhasya kṛtyeṣu śaktasya .. 12 ..
तीक्ष्णा न तावत् तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः । भित्वा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम् ॥ 13 ॥
तीक्ष्णाः न तावत् तव कङ्क-पत्राः दुरासदाः राघव-विप्रमुक्ताः । भित्वा शरीरम् प्रविशन्ति बाणाः प्रहस्त तेन एव विकत्थसे त्वम् ॥ १३ ॥
tīkṣṇāḥ na tāvat tava kaṅka-patrāḥ durāsadāḥ rāghava-vipramuktāḥ . bhitvā śarīram praviśanti bāṇāḥ prahasta tena eva vikatthase tvam .. 13 ..
भित्त्वा न तावत् प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः । शिताः शरा राघवविप्रमुक्ताः प्रहस्त तेनैव विकत्थसे त्वम् ॥ 14 ॥
भित्त्वा न तावत् प्रविशन्ति कायम् प्राणान्तिकाः ते अशनि-तुल्य-वेगाः । शिताः शराः राघव-विप्रमुक्ताः प्रहस्त तेन एव विकत्थसे त्वम् ॥ १४ ॥
bhittvā na tāvat praviśanti kāyam prāṇāntikāḥ te aśani-tulya-vegāḥ . śitāḥ śarāḥ rāghava-vipramuktāḥ prahasta tena eva vikatthase tvam .. 14 ..
न रावणो नातिबलस्त्रिशीर्षो न कुम्भकर्णोऽस्य सुतो निकुम्भः । न चेन्द्रजिद् दाशरधिं प्रवोढुं त्वं वा रणे शक्रसमं समर्थ: ॥ 15 ॥
न रावणः न अतिबलः त्रिशीर्षः न कुम्भकर्णः अस्य सुतः निकुम्भः । न च इन्द्रजित् दाशरधिम् प्रवोढुम् त्वम् वा रणे शक्र-समम् समर्थ ॥ १५ ॥
na rāvaṇaḥ na atibalaḥ triśīrṣaḥ na kumbhakarṇaḥ asya sutaḥ nikumbhaḥ . na ca indrajit dāśaradhim pravoḍhum tvam vā raṇe śakra-samam samartha .. 15 ..
देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा । आकम्पनश्चाद्रिसमानसारः स्थातुं न शक्ता युधि राघवस्य ॥ 16 ॥
देवान्तकः वा अपि नरान्तकः वा तथा अतिकायः अतिरथः महात्मा । आकम्पनः च अद्रि-समान-सारः स्थातुम् न शक्ताः युधि राघवस्य ॥ १६ ॥
devāntakaḥ vā api narāntakaḥ vā tathā atikāyaḥ atirathaḥ mahātmā . ākampanaḥ ca adri-samāna-sāraḥ sthātum na śaktāḥ yudhi rāghavasya .. 16 ..
अयं च राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भि: । अन्वास्यते राक्षसनाशनार्थे तीक्ष्णः प्रकृत्या ह्यसीक्षयकारी ॥ 17 ॥
अयम् च राजा व्यसन-अभिभूतः मित्रैः अमित्र-प्रतिमैः भवद्भिः । अन्वास्यते राक्षस-नाशन-अर्थे तीक्ष्णः प्रकृत्याः हि असि क्षय-कारी ॥ १७ ॥
ayam ca rājā vyasana-abhibhūtaḥ mitraiḥ amitra-pratimaiḥ bhavadbhiḥ . anvāsyate rākṣasa-nāśana-arthe tīkṣṇaḥ prakṛtyāḥ hi asi kṣaya-kārī .. 17 ..
अनन्तभोगेन सहस्रमूर्थ्ना नागेन भीमेन महाबलेव । बलात् परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु ॥ 18 ॥
अनन्त-भोगेन सहस्र-मूर्थ्ना नागेन भीमेन महा-बला इव । बलात् परिक्षिप्तम् इमम् भवन्तः राजानम् उत्क्षिप्य विमोचयन्तु ॥ १८ ॥
ananta-bhogena sahasra-mūrthnā nāgena bhīmena mahā-balā iva . balāt parikṣiptam imam bhavantaḥ rājānam utkṣipya vimocayantu .. 18 ..
यावद्धि केशग्रहणात सुहृद्भि: समेत्य सर्वैः परिपूर्णकामैः । निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैर्गृहीतः ॥ 19 ॥
यावत् हि सुहृद्भिः समेत्य सर्वैः परिपूर्ण-कामैः । निगृह्य राजा परिरक्षितव्यः भूतैः यथा भीम-बलैः गृहीतः ॥ १९ ॥
yāvat hi suhṛdbhiḥ sametya sarvaiḥ paripūrṇa-kāmaiḥ . nigṛhya rājā parirakṣitavyaḥ bhūtaiḥ yathā bhīma-balaiḥ gṛhītaḥ .. 19 ..
सुवारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भि: । युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन् सः ॥ 20 ॥
सु वारिणा राघव-सागरेण प्रच्छाद्यमानः तरसा भवद्भिः । युक्तः तु अयम् तारयितुम् समेत्य काकुत्स्थ-पाताल-मुखे पतन् सः ॥ २० ॥
su vāriṇā rāghava-sāgareṇa pracchādyamānaḥ tarasā bhavadbhiḥ . yuktaḥ tu ayam tārayitum sametya kākutstha-pātāla-mukhe patan saḥ .. 20 ..
इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृज्जनस्य । सम्यग्घि वाक्यं स्वमतं ब्रवीमि नरेन्द्रपुत्राय ददातु मैथिलीम् ॥ 21 ॥
इदम् पुरस्य अस्य स राक्षसस्य राज्ञः च पथ्यम् स सुहृद्-जनस्य । सम्यक् हि वाक्यम् स्व-मतम् ब्रवीमि नरेन्द्र-पुत्राय ददातु मैथिलीम् ॥ २१ ॥
idam purasya asya sa rākṣasasya rājñaḥ ca pathyam sa suhṛd-janasya . samyak hi vākyam sva-matam bravīmi narendra-putrāya dadātu maithilīm .. 21 ..
परस्य वीर्यं स्वबलं च बुध्वा स्थानं क्षयं चैव तथैव वृद्धिम् । तथा स्वपक्षेप्यनुमृश्य बुध्वा वदेत् क्षमं स्वामिहितं स मन्त्री ॥ 22 ॥
परस्य वीर्यम् स्व-बलम् च बुध्वा स्थानम् क्षयम् च एव तथा एव वृद्धिम् । तथा स्व-पक्षे अपि अनुमृश्य बुध्वा वदेत् क्षमम् स्वामि-हितम् स मन्त्री ॥ २२ ॥
parasya vīryam sva-balam ca budhvā sthānam kṣayam ca eva tathā eva vṛddhim . tathā sva-pakṣe api anumṛśya budhvā vadet kṣamam svāmi-hitam sa mantrī .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In