This overlay will guide you through the buttons:

| |
|
सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् । अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ॥ 1 ॥
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् । अब्रवीत् परुषम् वाक्यम् रावणः काल-चोदितः ॥ १ ॥
suniviṣṭam hitam vākyam uktavantam vibhīṣaṇam . abravīt paruṣam vākyam rāvaṇaḥ kāla-coditaḥ .. 1 ..
वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा । न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥ 2 ॥
वसेत् सह सपत्नेन क्रुद्धेन आशीविषेण वा । न तु मित्र-प्रवादेन संवसेत् शत्रु-सेविना ॥ २ ॥
vaset saha sapatnena kruddhena āśīviṣeṇa vā . na tu mitra-pravādena saṃvaset śatru-sevinā .. 2 ..
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस । हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ 3 ॥
जानामि शीलम् ज्ञातीनाम् सर्व-लोकेषु राक्षस । हृष्यन्ति व्यसनेषु एते ज्ञातीनाम् ज्ञातयः सदा ॥ ३ ॥
jānāmi śīlam jñātīnām sarva-lokeṣu rākṣasa . hṛṣyanti vyasaneṣu ete jñātīnām jñātayaḥ sadā .. 3 ..
प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस । ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ॥ 4 ॥
प्रधानम् साधकम् वैद्यम् धर्म-शीलम् च राक्षस । ज्ञातयः हि अवमन्यन्ते शूरम् परिभवन्ति च ॥ ४ ॥
pradhānam sādhakam vaidyam dharma-śīlam ca rākṣasa . jñātayaḥ hi avamanyante śūram paribhavanti ca .. 4 ..
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः । प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥ 5 ॥
नित्यम् अन्योन्य-संहृष्टाः व्यसनेषु आततायिनः । प्रच्छन्न-हृदयाः घोराः ज्ञातयः तु भय-आवहाः ॥ ५ ॥
nityam anyonya-saṃhṛṣṭāḥ vyasaneṣu ātatāyinaḥ . pracchanna-hṛdayāḥ ghorāḥ jñātayaḥ tu bhaya-āvahāḥ .. 5 ..
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्व चित् । पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ॥ 6 ॥
श्रूयन्ते हस्तिभिः गीताः श्लोकाः पद्म-वने क्व चित् । पाश-हस्तान् नरान् दृष्ट्वा शृणु तान् गदतः मम ॥ ६ ॥
śrūyante hastibhiḥ gītāḥ ślokāḥ padma-vane kva cit . pāśa-hastān narān dṛṣṭvā śṛṇu tān gadataḥ mama .. 6 ..
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः । घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ 7 ॥
न अग्निः न अन्यानि शस्त्राणि न नः पाशाः भय-आवहाः । घोराः स्व-अर्थ-प्रयुक्ताः तु ज्ञातयः नः भय-आवहाः ॥ ७ ॥
na agniḥ na anyāni śastrāṇi na naḥ pāśāḥ bhaya-āvahāḥ . ghorāḥ sva-artha-prayuktāḥ tu jñātayaḥ naḥ bhaya-āvahāḥ .. 7 ..
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः । कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ॥ 8 ॥
उपायम् एते वक्ष्यन्ति ग्रहणे न अत्र संशयः । कृत्स्नात् भयात् ज्ञाति-भयम् सु कष्टम् विदितम् च नः ॥ ८ ॥
upāyam ete vakṣyanti grahaṇe na atra saṃśayaḥ . kṛtsnāt bhayāt jñāti-bhayam su kaṣṭam viditam ca naḥ .. 8 ..
विद्यते गोषु सम्पन्नं विद्यते ब्राह्मणे दमः । विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥ 9 ॥
विद्यते गोषु सम्पन्नम् विद्यते ब्राह्मणे दमः । विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितः भयम् ॥ ९ ॥
vidyate goṣu sampannam vidyate brāhmaṇe damaḥ . vidyate strīṣu cāpalyam vidyate jñātitaḥ bhayam .. 9 ..
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः । ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः ॥ 10 ॥
ततस् न इष्टम् इदम् सौम्य यत् अहम् लोक-सत्कृतः । ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥ १० ॥
tatas na iṣṭam idam saumya yat aham loka-satkṛtaḥ . aiśvaryam abhijātaḥ ca ripūṇām mūrdhni ca sthitaḥ .. 10 ..
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः । न श्लेषमभिगच्छन्ति तथाऽनार्येषु सौह्यतम् ॥ 11 ॥
यथा पुष्कर-पत्रेषु पतिताः तोय-बिन्दवः । न श्लेषम् अभिगच्छन्ति तथा अनार्येषु सौह्यतम् ॥ ११ ॥
yathā puṣkara-patreṣu patitāḥ toya-bindavaḥ . na śleṣam abhigacchanti tathā anāryeṣu sauhyatam .. 11 ..
यथा शरदि मेघानां सिञ्चतामपि गर्जताम् । न भवत्यम्बुसंक्लेदस्तथाऽनार्येषु सौहृदम् ॥ 12 ॥
यथा शरदि मेघानाम् सिञ्चताम् अपि गर्जताम् । न भवति अम्बु-संक्लेदः तथा अनार्येषु सौहृदम् ॥ १२ ॥
yathā śaradi meghānām siñcatām api garjatām . na bhavati ambu-saṃkledaḥ tathā anāryeṣu sauhṛdam .. 12 ..
यथा मधुकरस्तर्षाद रसं विन्दन्न तिष्ठति । तथा त्वमपि तत्रैव तथानार्येषु सौहृदम्॥ 13 ॥
यथा मधुकरः तर्षाद रसम् विन्दन् न तिष्ठति । तथा त्वम् अपि तत्र एव तथा अनार्येषु सौहृदम्॥ १३ ॥
yathā madhukaraḥ tarṣāda rasam vindan na tiṣṭhati . tathā tvam api tatra eva tathā anāryeṣu sauhṛdam.. 13 ..
यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि । रसमत्र न विन्देत तथानार्वेषु सौहृदम् ॥ 14 ॥
यथा मधुकरः तर्षात् काश-पुष्पम् पिबन् अपि । रसम् अत्र न विन्देत सौहृदम् ॥ १४ ॥
yathā madhukaraḥ tarṣāt kāśa-puṣpam piban api . rasam atra na vindeta sauhṛdam .. 14 ..
यथा पूर्वं गजः स्स्नात्वा गृह्य हस्तेन वै रजः । दूषयत्यात्मनो देहं तथानार्येषु सौह्यदम् ॥ 15 ॥
यथा पूर्वम् गजः स्स्नात्वा गृह्य हस्तेन वै रजः । दूषयति आत्मनः देहम् तथा अनार्येषु सौह्य-दम् ॥ १५ ॥
yathā pūrvam gajaḥ ssnātvā gṛhya hastena vai rajaḥ . dūṣayati ātmanaḥ deham tathā anāryeṣu sauhya-dam .. 15 ..
योऽन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर । अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् ॥ 16 ॥
यः अन्यः तु एवंविधम् ब्रूयात् वाक्यम् एतत् निशाचर । अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुल-पांसनम् ॥ १६ ॥
yaḥ anyaḥ tu evaṃvidham brūyāt vākyam etat niśācara . asmin muhūrte na bhavet tvām tu dhik kula-pāṃsanam .. 16 ..
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः । उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ॥ 17 ॥
इति उक्तः परुषम् वाक्यम् न्याय-वादी विभीषणः । उत्पपात गदा-पाणिः चतुर्भिः सह राक्षसैः ॥ १७ ॥
iti uktaḥ paruṣam vākyam nyāya-vādī vibhīṣaṇaḥ . utpapāta gadā-pāṇiḥ caturbhiḥ saha rākṣasaiḥ .. 17 ..
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः । अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् ॥ 18 ॥
अब्रवीत् च तदा वाक्यम् जात-क्रोधः विभीषणः । अन्तरिक्ष-गतः श्रीमान् भ्रातरम् राक्षस-अधिपम् ॥ १८ ॥
abravīt ca tadā vākyam jāta-krodhaḥ vibhīṣaṇaḥ . antarikṣa-gataḥ śrīmān bhrātaram rākṣasa-adhipam .. 18 ..
स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि । ज्येष्ठो मान्यःपितृसमो न चधर्मपथे स्थितः । इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ॥ 19 ॥
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यत् यत् इच्छसि । ज्येष्ठः मान्यः पितृ-समः न च धर्म-पथे स्थितः । इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ॥ १९ ॥
sa tvam bhrātā asi me rājan brūhi mām yat yat icchasi . jyeṣṭhaḥ mānyaḥ pitṛ-samaḥ na ca dharma-pathe sthitaḥ . idam tu paruṣam vākyam na kṣamāmi anṛtam tava .. 19 ..
सुनीतं हितकामेन वाक्यमुक्तं दशानन । न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ॥ 20 ॥
सु नीतम् हित-कामेन वाक्यम् उक्तम् दशानन । न गृह्णन्ति अकृतात्मानः कालस्य वशम् आगताः ॥ २० ॥
su nītam hita-kāmena vākyam uktam daśānana . na gṛhṇanti akṛtātmānaḥ kālasya vaśam āgatāḥ .. 20 ..
सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 21 ॥
सुलभाः पुरुषाः राजन् सततम् प्रिय-वादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २१ ॥
sulabhāḥ puruṣāḥ rājan satatam priya-vādinaḥ . apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ .. 21 ..
बद्धं कालस्य पाशेन सर्वभूतापहारिणा । न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा ॥ 22 ॥
बद्धम् कालस्य पाशेन सर्व-भूत-अपहारिणा । न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ॥ २२ ॥
baddham kālasya pāśena sarva-bhūta-apahāriṇā . na naśyantam upekṣeyam pradīptam śaraṇam yathā .. 22 ..
दीप्तपावकसङ्काशैः शितैः काञ्चनभूषणैः । न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥ 23 ॥
दीप्त-पावक-सङ्काशैः शितैः काञ्चन-भूषणैः । न त्वाम् इच्छामि अहम् द्रष्टुम् रामेण निहतम् शरैः ॥ २३ ॥
dīpta-pāvaka-saṅkāśaiḥ śitaiḥ kāñcana-bhūṣaṇaiḥ . na tvām icchāmi aham draṣṭum rāmeṇa nihatam śaraiḥ .. 23 ..
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्ना सीदन्ति यथा वालुकसेतवः ॥ 24 ॥
शूराः च बलवन्तः च कृतास्त्राः च रण-अजिरे । काल-अभिपन्ना सीदन्ति यथा वालुक-सेतवः ॥ २४ ॥
śūrāḥ ca balavantaḥ ca kṛtāstrāḥ ca raṇa-ajire . kāla-abhipannā sīdanti yathā vāluka-setavaḥ .. 24 ..
तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता । आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् । स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ 25 ॥
तत् मर्षयतु यत् च उक्तम् गुरु-त्वात् हितम् इच्छता । आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् । स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥ २५ ॥
tat marṣayatu yat ca uktam guru-tvāt hitam icchatā . ātmānam sarvathā rakṣa purīm ca imām sarākṣasām . svasti te astu gamiṣyāmi sukhī bhava mayā vinā .. 25 ..
निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर । परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ 26 ॥
निवार्यमाणस्य मया हित-एषिणा न रोचते ते वचनम् निशाचर । परीत-कालाः हि गत-आयुषः नराः हितम् न गृह्णन्ति सुहृद्भिः ईरितम् ॥ २६ ॥
nivāryamāṇasya mayā hita-eṣiṇā na rocate te vacanam niśācara . parīta-kālāḥ hi gata-āyuṣaḥ narāḥ hitam na gṛhṇanti suhṛdbhiḥ īritam .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In