This overlay will guide you through the buttons:

| |
|
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ 1 ॥
इति उक्त्वा परुषम् वाक्यम् रावणम् रावण-अनुजः । आजगाम मुहूर्तेन यत्र रामः स लक्ष्मणः ॥ १ ॥
iti uktvā paruṣam vākyam rāvaṇam rāvaṇa-anujaḥ . ājagāma muhūrtena yatra rāmaḥ sa lakṣmaṇaḥ .. 1 ..
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् । गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥ 2 ॥
तम् मेरु-शिखर-आकारम् दीप्ताम् इव शतह्रदाम् । गगन-स्थम् मही-स्थाः ते ददृशुः वानर-अधिपाः ॥ २ ॥
tam meru-śikhara-ākāram dīptām iva śatahradām . gagana-stham mahī-sthāḥ te dadṛśuḥ vānara-adhipāḥ .. 2 ..
येचाप्यनुचरास्तस्य चत्वारो भीमविक्रमा: । तेsपि सर्वायुधोपेता भूषणैश्चापि भूषिता ॥ 3 ॥
ये च अपि अनुचराः तस्य चत्वारः भीम-विक्रमाः । सर्व-आयुध-उपेता भूषणैः च अपि भूषिता ॥ ३ ॥
ye ca api anucarāḥ tasya catvāraḥ bhīma-vikramāḥ . sarva-āyudha-upetā bhūṣaṇaiḥ ca api bhūṣitā .. 3 ..
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः । वरायुधधरो वीरो दिव्याभरणभूषितः ॥ 4 ॥
स च मेघ-अचल-प्रख्यः वज्र-आयुध-सम-प्रभः । वर-आयुध-धरः वीरः दिव्य-आभरण-भूषितः ॥ ४ ॥
sa ca megha-acala-prakhyaḥ vajra-āyudha-sama-prabhaḥ . vara-āyudha-dharaḥ vīraḥ divya-ābharaṇa-bhūṣitaḥ .. 4 ..
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः । वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥ 5 ॥
तम् आत्म-पञ्चमम् दृष्ट्वा सुग्रीवः वानर-अधिपः । वानरैः सह दुर्धर्षः चिन्तयामास बुद्धिमान् ॥ ५ ॥
tam ātma-pañcamam dṛṣṭvā sugrīvaḥ vānara-adhipaḥ . vānaraiḥ saha durdharṣaḥ cintayāmāsa buddhimān .. 5 ..
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह । हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम् ॥ 6 ॥
चिन्तयित्वा मुहूर्तम् तु वानरान् तान् उवाच ह । हनूमत् प्रमुखान् सर्वान् इदम् वचनम् उत्तमम् ॥ ६ ॥
cintayitvā muhūrtam tu vānarān tān uvāca ha . hanūmat pramukhān sarvān idam vacanam uttamam .. 6 ..
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः । राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः ॥ 7 ॥
एष सर्व-आयुध-उपेतः चतुर्भिः सह राक्षसैः । राक्षसः अभ्येति पश्यध्वम् अस्मान् हन्तुम् न संशयः ॥ ७ ॥
eṣa sarva-āyudha-upetaḥ caturbhiḥ saha rākṣasaiḥ . rākṣasaḥ abhyeti paśyadhvam asmān hantum na saṃśayaḥ .. 7 ..
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः । सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥ 8 ॥
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर-उत्तमाः । सालान् उद्यम्य शैलान् च इदम् वचनम् अब्रुवन् ॥ ८ ॥
sugrīvasya vacaḥ śrutvā sarve te vānara-uttamāḥ . sālān udyamya śailān ca idam vacanam abruvan .. 8 ..
शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् । निपतन्तु हताश्चैते धरण्यामल्पजीविताः ॥ 9 ॥
शीघ्रम् व्यादिश नः राजन् वधाय एषाम् दुरात्मनाम् । निपतन्तु हताः च एते धरण्याम् अल्प-जीविताः ॥ ९ ॥
śīghram vyādiśa naḥ rājan vadhāya eṣām durātmanām . nipatantu hatāḥ ca ete dharaṇyām alpa-jīvitāḥ .. 9 ..
तेषां सम्भाषमाणानामन्योन्यं स विभीषणः । उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ 10 ॥
तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः । उत्तरम् तीरम् आसाद्य ख-स्थः एव व्यतिष्ठत ॥ १० ॥
teṣām sambhāṣamāṇānām anyonyam sa vibhīṣaṇaḥ . uttaram tīram āsādya kha-sthaḥ eva vyatiṣṭhata .. 10 ..
स उवाच महाप्राज्ञः स्वरेण महता महान् । सुग्रीवं तांश्च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥ 11 ॥
सः उवाच महा-प्राज्ञः स्वरेण महता महान् । सुग्रीवम् तान् च सम्प्रेक्ष्य ख-स्थः एव विभीषणः ॥ ११ ॥
saḥ uvāca mahā-prājñaḥ svareṇa mahatā mahān . sugrīvam tān ca samprekṣya kha-sthaḥ eva vibhīṣaṇaḥ .. 11 ..
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः । तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥ 12 ॥
रावणः नाम दुर्वृत्तः राक्षसः राक्षसेश्वरः । तस्य अहम् अनुजः भ्राता विभीषणः इति श्रुतः ॥ १२ ॥
rāvaṇaḥ nāma durvṛttaḥ rākṣasaḥ rākṣaseśvaraḥ . tasya aham anujaḥ bhrātā vibhīṣaṇaḥ iti śrutaḥ .. 12 ..
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् । रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥ 13 ॥
तेन सीता जनस्थानात् हृता हत्वा जटायुषम् । रुद्ध्वा च विवशा दीना राक्षसीभिः सु रक्षिता ॥ १३ ॥
tena sītā janasthānāt hṛtā hatvā jaṭāyuṣam . ruddhvā ca vivaśā dīnā rākṣasībhiḥ su rakṣitā .. 13 ..
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् । साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥ 14 ॥
तम् अहम् हेतुभिः वाक्यैः विविधैः च न्यदर्शयम् । साधु निर्यात्यताम् सीता रामाय इति पुनर् पुनर् ॥ १४ ॥
tam aham hetubhiḥ vākyaiḥ vividhaiḥ ca nyadarśayam . sādhu niryātyatām sītā rāmāya iti punar punar .. 14 ..
स च न प्रतिजग्राह रावणः कालचोदितः । उच्यमानो हितं वाक्यं विपरीत इवौषधम् ॥ 15 ॥
स च न प्रतिजग्राह रावणः काल-चोदितः । उच्यमानः हितम् वाक्यम् विपरीतः इव औषधम् ॥ १५ ॥
sa ca na pratijagrāha rāvaṇaḥ kāla-coditaḥ . ucyamānaḥ hitam vākyam viparītaḥ iva auṣadham .. 15 ..
सोऽहं परुषितस्तेन दासवच्चावमानितः । त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ 16 ॥
सः अहम् परुषितः तेन दास-वत् च अवमानितः । त्यक्त्वा पुत्रान् च दारान् च राघवम् शरणम् गतः ॥ १६ ॥
saḥ aham paruṣitaḥ tena dāsa-vat ca avamānitaḥ . tyaktvā putrān ca dārān ca rāghavam śaraṇam gataḥ .. 16 ..
निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् । सर्वलोकशरण्याय राघवाय महात्मने ॥ 17 ॥
निवेदयत माम् क्षिप्रम् विभीषणम् उपस्थितम् । सर्व-लोक-शरण्याय राघवाय महात्मने ॥ १७ ॥
nivedayata mām kṣipram vibhīṣaṇam upasthitam . sarva-loka-śaraṇyāya rāghavāya mahātmane .. 17 ..
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः । लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥ 18 ॥
एतत् तु वचनम् श्रुत्वा सुग्रीवः लघु-विक्रमः । लक्ष्मणस्य अग्रतस् रामम् संरब्धम् इदम् अब्रवीत् ॥ १८ ॥
etat tu vacanam śrutvā sugrīvaḥ laghu-vikramaḥ . lakṣmaṇasya agratas rāmam saṃrabdham idam abravīt .. 18 ..
प्रविष्टः शत्रुसैन्यं हि प्राप्तः शत्रुरतर्कितः । निहन्यदन्तरं लब्धवा उलूको वायसनिव ॥ 19 ॥
प्रविष्टः शत्रु-सैन्यम् हि प्राप्तः शत्रुः अतर्कितः । निहन्यत्-अन्तरम् लब्धवः उलूकः ॥ १९ ॥
praviṣṭaḥ śatru-sainyam hi prāptaḥ śatruḥ atarkitaḥ . nihanyat-antaram labdhavaḥ ulūkaḥ .. 19 ..
मन्त्रेव्यूहेनयेचारेयुक्तोभवितुमर्हसि । वानराणांचभद्रंतेपरेषांचपरन्तप ॥ 20 ॥
मन्त्रे व्यूहेन ये चारे युक्तः भवितुम् अर्हसि । वानराणाम् च भद्रम् ते परेषाम् च परन्तप ॥ २० ॥
mantre vyūhena ye cāre yuktaḥ bhavitum arhasi . vānarāṇām ca bhadram te pareṣām ca parantapa .. 20 ..
अन्तर्धानगताह्येतेराक्षसाःकामरूपिणः । शूराश्चनिकृतिज्ञाश्चतेषांजातुनविश्वसेत् ॥ 21 ॥
अन्तर्धान-गताः हि एते राक्षसाः कामरूपिणः । शूराः च निकृति-ज्ञाः च तेषाम् जातु न विश्वसेत् ॥ २१ ॥
antardhāna-gatāḥ hi ete rākṣasāḥ kāmarūpiṇaḥ . śūrāḥ ca nikṛti-jñāḥ ca teṣām jātu na viśvaset .. 21 ..
प्रणिधीराक्षसेन्द्रस्यरावणस्यभवेदयम् । अनुप्रविश्यसोऽस्मासुभेदंकुर्यान्नसंशयः ॥ 22 ॥
प्रणिधिः राक्षस-इन्द्रस्य रावणस्य भवेत् अयम् । अनुप्रविश्य सः अस्मासु भेदम् कुर्यात् न संशयः ॥ २२ ॥
praṇidhiḥ rākṣasa-indrasya rāvaṇasya bhavet ayam . anupraviśya saḥ asmāsu bhedam kuryāt na saṃśayaḥ .. 22 ..
अथवास्वयमेवैषछिद्रमासाद्यबुद्धिमान् । अनुप्रविश्यविश्वस्तेकदाचित्प्रहरेदपि ॥ 23 ॥
अथवा अ स्वयम् एव एष छिद्रम् आसाद्य बुद्धिमान् । अनुप्रविश्य विश्वस्ते कदाचिद् प्रहरेत् अपि ॥ २३ ॥
athavā a svayam eva eṣa chidram āsādya buddhimān . anupraviśya viśvaste kadācid praharet api .. 23 ..
मित्राटवीबलंचैवमौलभृत्यबलंतथा । सर्वमेतद्बलंग्राह्यंवर्जयित्वाद्विषद्बलम् ॥ 24 ॥
मित्र-अटवी-बलम् च एव मौल-भृत्य-बलम् तथा । सर्वम् एतत् बलम् ग्राह्यम् वर्जयित्वा द्विषत्-बलम् ॥ २४ ॥
mitra-aṭavī-balam ca eva maula-bhṛtya-balam tathā . sarvam etat balam grāhyam varjayitvā dviṣat-balam .. 24 ..
प्रकृत्याराक्षसेन्द्रस्यभ्राताऽमित्रस्यतेप्रभो: । आगतश्चरिपोस्साक्षात्कथमस्मिन्हिविश्वसेत् ॥ 25 ॥
प्रकृत्या अराक्षस-इन्द्रस्य भ्राता अमित्रस्य ते प्रभो । आगतः चरिपोः साक्षात् कथम् अस्मिन् हि विश्वसेत् ॥ २५ ॥
prakṛtyā arākṣasa-indrasya bhrātā amitrasya te prabho . āgataḥ caripoḥ sākṣāt katham asmin hi viśvaset .. 25 ..
रावणस्यानुजो भ्राता विभीषण इति श्रुतः । चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥ 26 ॥
रावणस्य अनुजः भ्राता विभीषणः इति श्रुतः । चतुर्भिः सह रक्षोभिः भवन्तम् शरणम् गतः ॥ २६ ॥
rāvaṇasya anujaḥ bhrātā vibhīṣaṇaḥ iti śrutaḥ . caturbhiḥ saha rakṣobhiḥ bhavantam śaraṇam gataḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In