This overlay will guide you through the buttons:

| |
|
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् 1
अथ रामः प्रसन्न-आत्मा श्रुत्वा वायुसुतस्य ह प्रत्यभाषत दुर्धर्षः श्रुतवान् आत्मनि स्थितम्
atha rāmaḥ prasanna-ātmā śrutvā vāyusutasya ha pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam
ममापि तु विवक्षास्ति का चित्प्रति विभीषणम् श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः 2
मम अपि तु विवक्षा अस्ति का चित् प्रति विभीषणम् श्रुतम् इच्छामि तत् सर्वम् भवद्भिः श्रेयसि स्थितैः
mama api tu vivakṣā asti kā cit prati vibhīṣaṇam śrutam icchāmi tat sarvam bhavadbhiḥ śreyasi sthitaiḥ
मित्रभावेन सम्प्राप्तं न त्यजेयं कथं चन दोषो यद्यपि तस्य स्यात्सताम् एतदगर्हितम् 3
मित्र-भावेन सम्प्राप्तम् न त्यजेयम् कथम् चन दोषः यदि अपि तस्य स्यात् सताम् एतत् अगर्हितम्
mitra-bhāvena samprāptam na tyajeyam katham cana doṣaḥ yadi api tasya syāt satām etat agarhitam
सुग्रीस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च तत श्शुभतरं वाक्यमुवाच हरिपुङ्गवः4
सुग्रीः तु अथ तद्-वाक्यम् आभाष्य च विमृश्य च तत शुभतरम् वाक्यम् उवाच हरि-पुङ्गवः
sugrīḥ tu atha tad-vākyam ābhāṣya ca vimṛśya ca tata śubhataram vākyam uvāca hari-puṅgavaḥ
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ईदृशं व्यसनं प्राप्तं भ्रातरं यःपरित्यजेत्5
स दुष्टः वा अपि अदुष्टः वा किम् एष रजनीचरः ईदृशम् व्यसनम् प्राप्तम् भ्रातरम् यः परित्यजेत्
sa duṣṭaḥ vā api aduṣṭaḥ vā kim eṣa rajanīcaraḥ īdṛśam vyasanam prāptam bhrātaram yaḥ parityajet
को नाम स भवेत् तस्य यमेष न परित्यजेत् वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्यच तु6
कः नाम स भवेत् तस्य यम् एष न परित्यजेत् वानर-अधिपतेः वाक्यम् श्रुत्वा सर्वान् उदीक्ष्य च तु
kaḥ nāma sa bhavet tasya yam eṣa na parityajet vānara-adhipateḥ vākyam śrutvā sarvān udīkṣya ca tu
ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः7
ईषत् उत्स्मयमानः तु लक्ष्मणम् पुण्य-लक्षणम् इति ह उवाच काकुत्स्थः वाक्यम् सत्य-पराक्रमः
īṣat utsmayamānaḥ tu lakṣmaṇam puṇya-lakṣaṇam iti ha uvāca kākutsthaḥ vākyam satya-parākramaḥ
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः8
अन् अधीत्य च शास्त्राणि वृद्धान् अन् उपसेव्य च न शक्यम् ईदृशम् वक्तुम् यत् उवाच हरि-ईश्वरः
an adhītya ca śāstrāṇi vṛddhān an upasevya ca na śakyam īdṛśam vaktum yat uvāca hari-īśvaraḥ
अस्ति सूक्ष्मतरं किंचिद् प्रतिभाति माप्रत्यक्षं लौकिकं चापि वर्तते सर्वराजसु9
अस्ति सूक्ष्मतरम् किंचिद् प्रतिभाति मा अप्रत्यक्षम् लौकिकम् च अपि वर्तते सर्व-राजसु
asti sūkṣmataram kiṃcid pratibhāti mā apratyakṣam laukikam ca api vartate sarva-rājasu
अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः10
अमित्राः तद्-कुलीनाः च प्रातिदेश्याः च कीर्तिताः व्यसनेषु प्रहर्तारः तस्मात् अयम् इह आगतः
amitrāḥ tad-kulīnāḥ ca prātideśyāḥ ca kīrtitāḥ vyasaneṣu prahartāraḥ tasmāt ayam iha āgataḥ
अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान् एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः11
अपापाः तद्-कुलीनाः च मानयन्ति स्वकान् हितान् एष प्रायस् नरेन्द्राणाम् शङ्कनीयः तु शोभनः
apāpāḥ tad-kulīnāḥ ca mānayanti svakān hitān eṣa prāyas narendrāṇām śaṅkanīyaḥ tu śobhanaḥ
यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु12
यः तु दोषः त्वया प्रोक्तः हि आदाने अरि-बलस्य च तत्र ते कीर्तयिष्यामि यथाशास्त्रम् इदम् शृणु
yaḥ tu doṣaḥ tvayā proktaḥ hi ādāne ari-balasya ca tatra te kīrtayiṣyāmi yathāśāstram idam śṛṇu
न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः पण्डिता हि भविष्यन्ति तस्माद् ग्राह्यो विभीषणः 13
न वयम् तद्-कुलीनाः च राज्य-काङ्क्षी च राक्षसः पण्डिताः हि भविष्यन्ति तस्मात् ग्राह्यः विभीषणः
na vayam tad-kulīnāḥ ca rājya-kāṅkṣī ca rākṣasaḥ paṇḍitāḥ hi bhaviṣyanti tasmāt grāhyaḥ vibhīṣaṇaḥ
अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति सङ्गता । प्रणादश्च महानेषततोऽस्य भयमागतम् इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः14
अव्यग्राः च प्रहृष्टाः च ते भविष्यन्ति सङ्ग-ता । प्रणादः च महान् एष ततस् अस्य भयम् आगतम् इति भेदम् गमिष्यन्ति तस्मात् ग्राह्यः विभीषणः
avyagrāḥ ca prahṛṣṭāḥ ca te bhaviṣyanti saṅga-tā . praṇādaḥ ca mahān eṣa tatas asya bhayam āgatam iti bhedam gamiṣyanti tasmāt grāhyaḥ vibhīṣaṇaḥ
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः मद्विथा वा पितुः पुत्राः सुहृदो वा भवद्विथाः 15
न सर्वे भ्रातरः तात भवन्ति भरत-उपमाः मद्विथाः वा पितुः पुत्राः सुहृदः वा भवद्विथाः
na sarve bhrātaraḥ tāta bhavanti bharata-upamāḥ madvithāḥ vā pituḥ putrāḥ suhṛdaḥ vā bhavadvithāḥ
एवमुक्तस्तु रामेण सुग्रीव सहलक्ष्मणः उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत्16
एवम् उक्तः तु रामेण सुग्रीव सहलक्ष्मणः उत्थाय इदम् महा-प्राज्ञः प्रणतः वाक्यम् अब्रवीत्
evam uktaḥ tu rāmeṇa sugrīva sahalakṣmaṇaḥ utthāya idam mahā-prājñaḥ praṇataḥ vākyam abravīt
रावणेन प्रणिहितं तमवेहि विभीषणम् तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर17
रावणेन प्रणिहितम् तम् अवेहि विभीषणम् तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर
rāvaṇena praṇihitam tam avehi vibhīṣaṇam tasya aham nigraham manye kṣamam kṣamavatām vara
राक्षसो जिह्मया बुध्या सन्दिष्टोऽयमिहागतः प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयिवानघ18
राक्षसः जिह्मया बुध्या सन्दिष्टः अयम् इह आगतः प्रहर्तुम् त्वयि विश्वस्ते विश्वस्ते मयि इव अनघ
rākṣasaḥ jihmayā budhyā sandiṣṭaḥ ayam iha āgataḥ prahartum tvayi viśvaste viśvaste mayi iva anagha
लक्ष्मणे वा महाबाहो स वध्य सचिवै सहा रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः 19
लक्ष्मणे वा महा-बाहो स रावणस्य नृशंसस्य भ्राता हि एष विभीषणः
lakṣmaṇe vā mahā-bāho sa rāvaṇasya nṛśaṃsasya bhrātā hi eṣa vibhīṣaṇaḥ
एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्20
एवम् उक्त्वा रघु-श्रेष्ठम् सुग्रीवः वाहिनीपतिः वाक्य-ज्ञः वाक्य-कुशलम् ततस् मौनम् उपागमत्
evam uktvā raghu-śreṣṭham sugrīvaḥ vāhinīpatiḥ vākya-jñaḥ vākya-kuśalam tatas maunam upāgamat
स सुग्रीवस्य तद्वाक्यय्ं रामः श्रुत्वा विमृश्य च ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् 21
स सुग्रीवस्य तत् वाक्यया रामः श्रुत्वा विमृश्य च ततस् शुभतरम् वाक्यम् उवाच हरि-पुङ्गवम्
sa sugrīvasya tat vākyayā rāmaḥ śrutvā vimṛśya ca tatas śubhataram vākyam uvāca hari-puṅgavam
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथं चन 22
सुदुष्टः वा अपि अदुष्टः वा किम् एष रजनीचरः सूक्ष्मम् अपि अहितम् कर्तुम् मम अशक्तः कथम् चन
suduṣṭaḥ vā api aduṣṭaḥ vā kim eṣa rajanīcaraḥ sūkṣmam api ahitam kartum mama aśaktaḥ katham cana
पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान् अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर 23
पिशाचान् दानवान् यक्षान् पृथिव्याम् च एव राक्षसान् अङ्गुलि-अग्रेण तान् हन्याम् इच्छन् हरि-गण-ईश्वर
piśācān dānavān yakṣān pṛthivyām ca eva rākṣasān aṅguli-agreṇa tān hanyām icchan hari-gaṇa-īśvara
श्रूयते हि कपोतेन शत्रुः शरणमागतः अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः 24
श्रूयते हि कपोतेन शत्रुः शरणम् आगतः अर्चितः च यथान्यायम् स्वैः च मांसैः निमन्त्रितः
śrūyate hi kapotena śatruḥ śaraṇam āgataḥ arcitaḥ ca yathānyāyam svaiḥ ca māṃsaiḥ nimantritaḥ
स हि तं प्रतिजग्राह भार्या हर्तारमागतम् कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः 25
स हि तम् प्रतिजग्राह भार्या हर्तारम् आगतम् कपोतः वानर-श्रेष्ठ किम् पुनर् मद्विधः जनः
sa hi tam pratijagrāha bhāryā hartāram āgatam kapotaḥ vānara-śreṣṭha kim punar madvidhaḥ janaḥ
ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना 26
ऋषेः कण्वस्य पुत्रेण कण्डुना परम-ऋषिणा शृणु गाथाम् पुरा गीताम् धर्मिष्ठाम् सत्य-वादिना
ṛṣeḥ kaṇvasya putreṇa kaṇḍunā parama-ṛṣiṇā śṛṇu gāthām purā gītām dharmiṣṭhām satya-vādinā
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् न हन्यादानृशंस्यार्थमपि शत्रुं परं पत 27
बद्धाञ्जलि-पुटम् दीनम् याचन्तम् शरण-आगतम् न हन्यात् आनृशंस्य-अर्थम् अपि शत्रुम् परम् पत
baddhāñjali-puṭam dīnam yācantam śaraṇa-āgatam na hanyāt ānṛśaṃsya-artham api śatrum param pata
आर्तो वा यदि वा दृप्तः परेषां शरणं गतः अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना 28
आर्तः वा यदि वा दृप्तः परेषाम् शरणम् गतः अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना
ārtaḥ vā yadi vā dṛptaḥ pareṣām śaraṇam gataḥ ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā
स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम् 29
स चेद् भयात् वा मोहात् वा कामात् वा अपि न रक्षति स्वया शक्त्या यथातत्त्वम् तत् पापम् लोक-गर्हितम्
sa ced bhayāt vā mohāt vā kāmāt vā api na rakṣati svayā śaktyā yathātattvam tat pāpam loka-garhitam
विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः 30
विनष्टः पश्यतः तस्य रक्षिणः शरण-आगतः आदाय सुकृतम् तस्य सर्वम् गच्छेत् अरक्षितः
vinaṣṭaḥ paśyataḥ tasya rakṣiṇaḥ śaraṇa-āgataḥ ādāya sukṛtam tasya sarvam gacchet arakṣitaḥ
एवं दोषो महानत्र प्रपन्नानामरक्षणे अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् 31
एवम् दोषः महान् अत्र प्रपन्नानाम् अरक्षणे अस्वर्ग्यम् च अयशस्यम् च बल-वीर्य-विनाशनम्
evam doṣaḥ mahān atra prapannānām arakṣaṇe asvargyam ca ayaśasyam ca bala-vīrya-vināśanam
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये 32
करिष्यामि यथार्थम् तु कण्डोः वचनम् उत्तमम् धर्मिष्ठम् च यशस्यम् च स्वर्ग्यम् स्यात् तु फल-उदये
kariṣyāmi yathārtham tu kaṇḍoḥ vacanam uttamam dharmiṣṭham ca yaśasyam ca svargyam syāt tu phala-udaye
सकृदेव प्रपन्नाय तवास्मीति च याचते अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम 33
सकृत् एव प्रपन्नाय तव अस्मि इति च याचते अभयम् सर्व-भूतेभ्यः ददामि एतत् व्रतम् मम
sakṛt eva prapannāya tava asmi iti ca yācate abhayam sarva-bhūtebhyaḥ dadāmi etat vratam mama
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् 34
आनय एनम् हरि-श्रेष्ठ दत्तम् अस्य अभयम् मया विभीषणः वा सुग्रीव यदि वा रावणः स्वयम्
ānaya enam hari-śreṣṭha dattam asya abhayam mayā vibhīṣaṇaḥ vā sugrīva yadi vā rāvaṇaḥ svayam
रामस्यतुवच्शुत्वासुग्रीवःप्लवगेश्वरः प्रत्यभाषतकाकुत्स्थंसौहार्देनप्रचोदितः35
रामस्य तुवत् शुत्वा सुग्रीवः प्लवग-ईश्वरः प्रत्यभाषत काकुत्स्थम् सौहार्देन प्रचोदितः
rāmasya tuvat śutvā sugrīvaḥ plavaga-īśvaraḥ pratyabhāṣata kākutstham sauhārdena pracoditaḥ
किमत्रचित्रंधर्मज्ञ: लोकनाथ: सुखावहा: यत्त्वमार्यंप्रभाषेथास्सत्त्ववान् सत्पथेस्थितः36
किम् अत्र चित्रम् धर्म-ज्ञ लोकनाथ सुख-आवहाः यत् त्वम् आर्यम् प्रभाषेथाः सत्त्ववान् सत्-पथे स्थितः
kim atra citram dharma-jña lokanātha sukha-āvahāḥ yat tvam āryam prabhāṣethāḥ sattvavān sat-pathe sthitaḥ
मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम् अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः37
मम च अपि अन्तरात्मा अयम् शुद्धम् वेत्ति विभीषणम् अनुमानात् च भावात् च सर्वतस् सु परीक्षितः
mama ca api antarātmā ayam śuddham vetti vibhīṣaṇam anumānāt ca bhāvāt ca sarvatas su parīkṣitaḥ
तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव: विभीषणो महाप्राज्ञ सखित्वं चाभ्युपैतु नः38
तस्मात् क्षिप्रम् सह अस्माभिः तुल्यः भवतु राघव विभीषणः महा-प्राज्ञ सखित्वम् च अभ्युपैतु नः
tasmāt kṣipram saha asmābhiḥ tulyaḥ bhavatu rāghava vibhīṣaṇaḥ mahā-prājña sakhitvam ca abhyupaitu naḥ
ततस्तु सुग्रीववचो निशम्य तद् धरीश्वरेणाभिहितं नरेश्वरः विभीषणेनाशु जगाम सङ्गमं पतत्रिराजेन यथा पुरन्दरः 39
ततस् तु सुग्रीव-वचः निशम्य तत् हरि-ईश्वरेण अभिहितम् नरेश्वरः विभीषणेन आशु जगाम सङ्गमम् पतत्रि-राजेन यथा पुरन्दरः
tatas tu sugrīva-vacaḥ niśamya tat hari-īśvareṇa abhihitam nareśvaraḥ vibhīṣaṇena āśu jagāma saṅgamam patatri-rājena yathā purandaraḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In