This overlay will guide you through the buttons:

| |
|
तं तु शोकपरिद्यूनं रामं दशरथात्मजम् । उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् ॥ 1 ॥
तम् तु शोक-परिद्यूनम् रामम् दशरथ-आत्मजम् । उवाच वचनम् श्रीमान् सुग्रीवः शोक-नाशनम् ॥ १ ॥
tam tu śoka-paridyūnam rāmam daśaratha-ātmajam . uvāca vacanam śrīmān sugrīvaḥ śoka-nāśanam .. 1 ..
किं त्वं सन्तप्यसे वीर यथान्यः प्राकृतस्तथा । मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम् ॥ 2 ॥
किम् त्वम् सन्तप्यसे वीर यथा अन्यः प्राकृतः तथा । मा एवम् भूः त्यज सन्तापम् कृतघ्नः इव सौहृदम् ॥ २ ॥
kim tvam santapyase vīra yathā anyaḥ prākṛtaḥ tathā . mā evam bhūḥ tyaja santāpam kṛtaghnaḥ iva sauhṛdam .. 2 ..
सन्तापस्य च ते स्थानं न हि पश्यामि राघव । प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ॥ 3 ॥
सन्तापस्य च ते स्थानम् न हि पश्यामि राघव । प्रवृत्तौ उपलब्धायाम् ज्ञाते च निलये रिपोः ॥ ३ ॥
santāpasya ca te sthānam na hi paśyāmi rāghava . pravṛttau upalabdhāyām jñāte ca nilaye ripoḥ .. 3 ..
मतिमाञ्शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव । त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् ॥ 4 ॥
मतिमान् शास्त्र-विद् प्राज्ञः पण्डितः च असि राघव । त्यज इमाम् पापिकाम् बुद्धिम् कृत्वा आत्मा इव अर्थ-दूषणीम् ॥ ४ ॥
matimān śāstra-vid prājñaḥ paṇḍitaḥ ca asi rāghava . tyaja imām pāpikām buddhim kṛtvā ātmā iva artha-dūṣaṇīm .. 4 ..
समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् । लङ्कामारोहयिष्यामो हनिष्यामश् च ते रिपुम् ॥ 5 ॥
समुद्रम् लङ्घयित्वा तु महा-नक्र-समाकुलम् । लङ्काम् आरोहयिष्यामः हनिष्यामः च ते रिपुम् ॥ ५ ॥
samudram laṅghayitvā tu mahā-nakra-samākulam . laṅkām ārohayiṣyāmaḥ haniṣyāmaḥ ca te ripum .. 5 ..
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः । सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ॥ 6 ॥
निरुत्साहस्य दीनस्य शोक-पर्याकुल-आत्मनः । सर्व-अर्थाः व्यवसीदन्ति व्यसनम् च अधिगच्छति ॥ ६ ॥
nirutsāhasya dīnasya śoka-paryākula-ātmanaḥ . sarva-arthāḥ vyavasīdanti vyasanam ca adhigacchati .. 6 ..
इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः । त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् । एषां हर्षेण जानामि तर्कश्चास्मिन्दृढो मम ॥ 7 ॥
इमे शूराः समर्थाः च सर्वे नः हरि-यूथपाः । त्वद्-प्रिय-अर्थम् कृत-उत्साहाः प्रवेष्टुम् अपि पावकम् । एषाम् हर्षेण जानामि तर्कः च अस्मिन् दृढः मम ॥ ७ ॥
ime śūrāḥ samarthāḥ ca sarve naḥ hari-yūthapāḥ . tvad-priya-artham kṛta-utsāhāḥ praveṣṭum api pāvakam . eṣām harṣeṇa jānāmi tarkaḥ ca asmin dṛḍhaḥ mama .. 7 ..
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् । रावणंपापकर्माणंतथात्वंकर्तुमर्हसि ॥ 8 ॥
विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् । रावणम् पाप-कर्माणम् तथा त्वम् कर्तुम् अर्हसि ॥ ८ ॥
vikrameṇa samāneṣye sītām hatvā yathā ripum . rāvaṇam pāpa-karmāṇam tathā tvam kartum arhasi .. 8 ..
सेतुरत्र यथा वध्येद्यथा पश्येम तां पुरीम् । तस्य राक्षसराजस्य तथा त्वं कुरु राघव ॥ 9 ॥
सेतुः अत्र यथा वध्येत् यथा पश्येम ताम् पुरीम् । तस्य राक्षस-राजस्य तथा त्वम् कुरु राघव ॥ ९ ॥
setuḥ atra yathā vadhyet yathā paśyema tām purīm . tasya rākṣasa-rājasya tathā tvam kuru rāghava .. 9 ..
दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् । हतं च रावणं युद्धे दर्शनादुपधारय ॥ 10 ॥
दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूट-शिखरे स्थिताम् । हतम् च रावणम् युद्धे दर्शनात् उपधारय ॥ १० ॥
dṛṣṭvā tām hi purīm laṅkām trikūṭa-śikhare sthitām . hatam ca rāvaṇam yuddhe darśanāt upadhāraya .. 10 ..
अबध्वासागरेसेतुंघोरेचतुवरुणालये । लङ्कांनमर्दितुंशक्यासेन्द्रैरपिसुरासुरैः ॥ 11 ॥
अ बध्वा सागरे सेतुम् घोरे चतु-वरुण-आलये । लङ्काम् न मर्दितुम् शक्या आसीत् इन्द्रैः अपि सुर-असुरैः ॥ ११ ॥
a badhvā sāgare setum ghore catu-varuṇa-ālaye . laṅkām na marditum śakyā āsīt indraiḥ api sura-asuraiḥ .. 11 ..
सेतुबद्धः समुद्रे च यावल्लङ्का समीपतः । सर्वं तीर्णं च वै सैन्यं जितमित्युपधार्यताम् । इमे हि समरे शूरा हरयः कामरूपिणः ॥ 12 ॥
सेतु-बद्धः समुद्रे च यावत् लङ्का समीपतस् । सर्वम् तीर्णम् च वै सैन्यम् जितम् इति उपधार्यताम् । इमे हि समरे शूराः हरयः कामरूपिणः ॥ १२ ॥
setu-baddhaḥ samudre ca yāvat laṅkā samīpatas . sarvam tīrṇam ca vai sainyam jitam iti upadhāryatām . ime hi samare śūrāḥ harayaḥ kāmarūpiṇaḥ .. 12 ..
तदलं विक्लवा बुद्धी राजन्सर्वार्थनाशनी । पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः ॥ 13 ॥
तत् अलम् विक्लवा बुद्धी राजन् सर्व-अर्थ-नाशनी । पुरुषस्य हि लोके अस्मिन् शोकः शौर्य-अपकर्षणः ॥ १३ ॥
tat alam viklavā buddhī rājan sarva-artha-nāśanī . puruṣasya hi loke asmin śokaḥ śaurya-apakarṣaṇaḥ .. 13 ..
यत् तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता । तदलंकपणायैव कर्तुर्भवति सत्वरम् ॥ 14 ॥
यत् तु कार्यम् मनुष्येण शौण्डीर्यम् अवलम्बता । तत् अलंकपणाय एव कर्तुः भवति सत्वरम् ॥ १४ ॥
yat tu kāryam manuṣyeṇa śauṇḍīryam avalambatā . tat alaṃkapaṇāya eva kartuḥ bhavati satvaram .. 14 ..
अस्मिन् कालेमहाप्राज्ञसत्त्वमातिष्ठतेजसा । शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् । विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ॥ 15 ॥
अस्मिन् काले महा-प्राज्ञ-सत्त्वम् आतिष्ठ तेजसा । शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् । विनष्टे वा प्रनष्टे वा शोकः सर्व-अर्थ-नाशनः ॥ १५ ॥
asmin kāle mahā-prājña-sattvam ātiṣṭha tejasā . śūrāṇām hi manuṣyāṇām tvadvidhānām mahātmanām . vinaṣṭe vā pranaṣṭe vā śokaḥ sarva-artha-nāśanaḥ .. 15 ..
तत् त्वं बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः । मद्विधैः सचिवैः सार्थमरिं जेतुमिहार्हसि ॥ 16 ॥
तत् त्वम् बुद्धिमताम् श्रेष्ठः सर्व-शास्त्र-अर्थ-कोविदः । मद्विधैः सचिवैः सार्थम् अरिम् जेतुम् इह अर्हसि ॥ १६ ॥
tat tvam buddhimatām śreṣṭhaḥ sarva-śāstra-artha-kovidaḥ . madvidhaiḥ sacivaiḥ sārtham arim jetum iha arhasi .. 16 ..
न हि पश्याम्यहं कं चित्त्रिषु लोकेषु राघव । गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥ 17 ॥
न हि पश्यामि अहम् कम् चित् त्रिषु लोकेषु राघव । गृहीत-धनुषः यः ते तिष्ठेत् अभिमुखः रणे ॥ १७ ॥
na hi paśyāmi aham kam cit triṣu lokeṣu rāghava . gṛhīta-dhanuṣaḥ yaḥ te tiṣṭhet abhimukhaḥ raṇe .. 17 ..
वानरेषु समासक्तं न ते कार्यं विपत्स्यते । अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ॥ 18 ॥
वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते । अचिरात् द्रक्ष्यसे सीताम् तीर्त्वा सागरम् अक्षयम् ॥ १८ ॥
vānareṣu samāsaktam na te kāryam vipatsyate . acirāt drakṣyase sītām tīrtvā sāgaram akṣayam .. 18 ..
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते । निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥ 19 ॥
तत् अलम् शोकम् आलम्ब्य क्रोधम् आलम्ब भूपते । निश्चेष्टाः क्षत्रियाः मन्दाः सर्वे चण्डस्य बिभ्यति ॥ १९ ॥
tat alam śokam ālambya krodham ālamba bhūpate . niśceṣṭāḥ kṣatriyāḥ mandāḥ sarve caṇḍasya bibhyati .. 19 ..
लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः । सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥ 20 ॥
लङ्गन-अर्थम् च घोरस्य समुद्रस्य नदीपतेः । सह अस्माभिः इह उपेतः सूक्ष्म-बुद्धिः विचारय ॥ २० ॥
laṅgana-artham ca ghorasya samudrasya nadīpateḥ . saha asmābhiḥ iha upetaḥ sūkṣma-buddhiḥ vicāraya .. 20 ..
लङ्घितेतस्यतैस्सैन्यंजितमित्युपधारय । सर्वंतीर्णंचमेसैन्यंजितमित्यवधार्यताम् ॥ 21 ॥
लङ्घिता इतस्य तैः सैन्यम् जितम् इति उपधारय । सर्वम् तीर्णम् चमे-सैन्यम् जितम् इति अवधार्यताम् ॥ २१ ॥
laṅghitā itasya taiḥ sainyam jitam iti upadhāraya . sarvam tīrṇam came-sainyam jitam iti avadhāryatām .. 21 ..
इमे हि समरे शूरा हरयः कामरूपिणः । तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ॥ 22 ॥
इमे हि समरे शूराः हरयः कामरूपिणः । तान् अरीन् विधमिष्यन्ति शिला-पादप-वृष्टिभिः ॥ २२ ॥
ime hi samare śūrāḥ harayaḥ kāmarūpiṇaḥ . tān arīn vidhamiṣyanti śilā-pādapa-vṛṣṭibhiḥ .. 22 ..
कथं चित्परिपश्यामस्ते वयं वरुणालयम् । हतमित्येवतंमन्येयुद्धेशत्रुनिबर्हण ॥ 23 ॥
कथम् चित् परिपश्यामः ते वयम् वरुणालयम् । हतम् इति एव तम् मन्ये युद्धे शत्रु-निबर्हण ॥ २३ ॥
katham cit paripaśyāmaḥ te vayam varuṇālayam . hatam iti eva tam manye yuddhe śatru-nibarhaṇa .. 23 ..
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् । निमित्तानिचपश्यामिमनोमेसम्प्रहृष्यति ॥ 24 ॥
किम् उक्त्वा बहुधा च अपि सर्वथा विजयी भवान् । निमित्तानि च पश्यामि मनः मे सम्प्रहृष्यति ॥ २४ ॥
kim uktvā bahudhā ca api sarvathā vijayī bhavān . nimittāni ca paśyāmi manaḥ me samprahṛṣyati .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In