This overlay will guide you through the buttons:

| |
|
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् । ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥ 1 ॥
ततस् निविष्टाम् ध्वजिनीम् सुग्रीवेण अभिपालिताम् । ददर्श राक्षसः अभ्येत्य शार्दूलः नाम वीर्यवान् ॥ १ ॥
tatas niviṣṭām dhvajinīm sugrīveṇa abhipālitām . dadarśa rākṣasaḥ abhyetya śārdūlaḥ nāma vīryavān .. 1 ..
चारो राक्षसराजस्य रावणस्य दुरात्मनः । तां दृष्ट्वा सर्वतोव्यग्रं प्रतिगम्य स राक्षसः ॥ 2 ॥
चारः राक्षस-राजस्य रावणस्य दुरात्मनः । ताम् दृष्ट्वा सर्वतस् व्यग्रम् प्रतिगम्य स राक्षसः ॥ २ ॥
cāraḥ rākṣasa-rājasya rāvaṇasya durātmanaḥ . tām dṛṣṭvā sarvatas vyagram pratigamya sa rākṣasaḥ .. 2 ..
आविश्य लङ्कां वेगेन रावणंवाक्यमब्रवीत् । एष वै वानरक्षौघो लङ्कां समभिवर्तते ॥ 3 ॥
आविश्य लङ्काम् वेगेन रावणम् वाक्यम् अब्रवीत् । एष वै वानर-क्षौघः लङ्काम् समभिवर्तते ॥ ३ ॥
āviśya laṅkām vegena rāvaṇam vākyam abravīt . eṣa vai vānara-kṣaughaḥ laṅkām samabhivartate .. 3 ..
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः । पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥ 4 ॥
अगाधः च अप्रमेयः च द्वितीयः इव सागरः । पुत्रौ दशरथस्य इमौ भ्रातरौ राम-लक्ष्मणौ ॥ ४ ॥
agādhaḥ ca aprameyaḥ ca dvitīyaḥ iva sāgaraḥ . putrau daśarathasya imau bhrātarau rāma-lakṣmaṇau .. 4 ..
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ । एतौ सागरमासाद्य सन्निविष्टौ महाद्युती ॥ 5 ॥
उत्तमौ रूप-सम्पन्नौ सीतायाः पदम् आगतौ । एतौ सागरम् आसाद्य सन्निविष्टौ महा-द्युती ॥ ५ ॥
uttamau rūpa-sampannau sītāyāḥ padam āgatau . etau sāgaram āsādya sanniviṣṭau mahā-dyutī .. 5 ..
बलं चामाकाशमावृत्य सर्वतो दशयोजनम् । तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि ॥ 6 ॥
बलम् च आम् आकाशम् आवृत्य सर्वतस् दश-योजनम् । तत्त्व-भूतम् महा-राज क्षिप्रम् वेदितुम् अर्हसि ॥ ६ ॥
balam ca ām ākāśam āvṛtya sarvatas daśa-yojanam . tattva-bhūtam mahā-rāja kṣipram veditum arhasi .. 6 ..
तव दूता महाराज क्षिप्रमर्हन्त्य वेक्षितुम् । उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥ 7 ॥
तव दूताः महा-राज क्षिप्रम् अर्हन्ति अ वेक्षितुम् । उपप्रदानम् सान्त्वम् वा भेदः वा अत्र प्रयुज्यताम् ॥ ७ ॥
tava dūtāḥ mahā-rāja kṣipram arhanti a vekṣitum . upapradānam sāntvam vā bhedaḥ vā atra prayujyatām .. 7 ..
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । उवाच सहसा व्यग्र सम्प्रधार्यार्थमात्मनः । शुकं साधु तदा रक्षो वाक्यमर्थविदां वरम् ॥ 8 ॥
शार्दूलस्य वचः श्रुत्वा रावणः राक्षसेश्वरः । उवाच सहसा व्यग्र सम्प्रधार्य अर्थम् आत्मनः । शुकम् साधु तदा रक्षः वाक्यम् अर्थ-विदाम् वरम् ॥ ८ ॥
śārdūlasya vacaḥ śrutvā rāvaṇaḥ rākṣaseśvaraḥ . uvāca sahasā vyagra sampradhārya artham ātmanaḥ . śukam sādhu tadā rakṣaḥ vākyam artha-vidām varam .. 8 ..
सुग्रीवं ब्रूहि गत्वाशु राजानं वचनान्मम । यथासन्देशमक्लीबं श्लक्ष्णया परया गिरा ॥ 9 ॥
सुग्रीवम् ब्रूहि गत्वा आशु राजानम् वचनात् मम । यथासन्देशम् अक्लीबम् श्लक्ष्णया परया गिरा ॥ ९ ॥
sugrīvam brūhi gatvā āśu rājānam vacanāt mama . yathāsandeśam aklībam ślakṣṇayā parayā girā .. 9 ..
त्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजस्सुतश्च । न कश्चिदार्थस्तव नास्त्यनर्थस्तथाहि मे भ्रातृसमो हरीश ॥ 10 ॥
त्वम् वै महा-राज-कुल-प्रसूतः महा-बलः च ऋक्षरजः-सुतः च । न कश्चिद् आर्थः तव ना अस्ति अनर्थः तथा हि मे भ्रातृ-समः हरि-ईश ॥ १० ॥
tvam vai mahā-rāja-kula-prasūtaḥ mahā-balaḥ ca ṛkṣarajaḥ-sutaḥ ca . na kaścid ārthaḥ tava nā asti anarthaḥ tathā hi me bhrātṛ-samaḥ hari-īśa .. 10 ..
अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः । किं तत्र तव सुग्रीव: किष्किन्धां प्रति गम्यताम् ॥ 11 ॥
अहम् यदि अहरम् भार्याम् राज-पुत्रस्य धीमतः । किम् तत्र तव सुग्रीव किष्किन्धाम् प्रति गम्यताम् ॥ ११ ॥
aham yadi aharam bhāryām rāja-putrasya dhīmataḥ . kim tatra tava sugrīva kiṣkindhām prati gamyatām .. 11 ..
नहीयं हरिभिर्लङ्का प्राप्तुं शाक्य कथञ्चन । देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ 12 ॥
नहि इयम् हरिभिः लङ्का प्राप्तुम् शाक्य कथञ्चन । देवैः अपि स गन्धर्वैः किम् पुनर् नर-वानरैः ॥ १२ ॥
nahi iyam haribhiḥ laṅkā prāptum śākya kathañcana . devaiḥ api sa gandharvaiḥ kim punar nara-vānaraiḥ .. 12 ..
स तदा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः । शुको विहगमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ 13 ॥
स तदा राक्षस-इन्द्रेण सन्दिष्टः रजनीचरः । शुकः विहगमः भूत्वा तूर्णम् आप्लुत्य च अम्बरम् ॥ १३ ॥
sa tadā rākṣasa-indreṇa sandiṣṭaḥ rajanīcaraḥ . śukaḥ vihagamaḥ bhūtvā tūrṇam āplutya ca ambaram .. 13 ..
स गत्वा दूरमध्वानमुपर्युपरि सागरम् । संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ॥ 14 ॥
स गत्वा दूरम् अध्वानम् उपरि उपरि सागरम् । संस्थितः हि अम्बरे वाक्यम् सुग्रीवम् इदम् अब्रवीत् ॥ १४ ॥
sa gatvā dūram adhvānam upari upari sāgaram . saṃsthitaḥ hi ambare vākyam sugrīvam idam abravīt .. 14 ..
सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना । तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः ॥ 15 ॥
सर्वम् उक्तम् यथा आदिष्टम् रावणेन दुरात्मना । तम् प्रापयन्तम् वचनम् तूर्णम् आप्लुत्य वानराः ॥ १५ ॥
sarvam uktam yathā ādiṣṭam rāvaṇena durātmanā . tam prāpayantam vacanam tūrṇam āplutya vānarāḥ .. 15 ..
प्रापद्यन्त तदा क्षिप्रं लोप्तुं हन्तुं च मुष्टिभि: । सर्वैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः ॥ 16 ॥
प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः । सर्वैः प्लवङ्गैः प्रसभम् निगृहीतः निशाचरः ॥ १६ ॥
prāpadyanta tadā kṣipram loptum hantum ca muṣṭibhiḥ . sarvaiḥ plavaṅgaiḥ prasabham nigṛhītaḥ niśācaraḥ .. 16 ..
गगनाद् भूतले चाशु प्रतिगृह्यवतारितः । वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥ 17 ॥
गगनात् भू-तले च आशु प्रतिगृह्य अवतारितः । वानरैः पीड्यमानः तु शुकः वचनम् अब्रवीत् ॥ १७ ॥
gaganāt bhū-tale ca āśu pratigṛhya avatāritaḥ . vānaraiḥ pīḍyamānaḥ tu śukaḥ vacanam abravīt .. 17 ..
न दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः । यस्तु हित्वा मतं भर्तु स्वमतं सम्प्रभाषते । अनुक्तवादी दूत सन् स दूतो वधमर्हति ॥ 18 ॥
न दूतान् घ्नन्ति काकुत्स्थ वार्यन्ताम् साधु वानराः । यः तु हित्वा मतम् स्व-मतम् सम्प्रभाषते । अनुक्त-वादी दूत सन् स दूतः वधम् अर्हति ॥ १८ ॥
na dūtān ghnanti kākutstha vāryantām sādhu vānarāḥ . yaḥ tu hitvā matam sva-matam samprabhāṣate . anukta-vādī dūta san sa dūtaḥ vadham arhati .. 18 ..
शुकस्य वचनं रामः श्रुत्वा तु परिदेवितम् । उवाच मावधिष्टेति घ्नत शाखामृगर्षभान् ॥ 19 ॥
शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् । उवाच मा अवधिष्ट इति घ्नत शाखामृग-ऋषभान् ॥ १९ ॥
śukasya vacanam rāmaḥ śrutvā tu paridevitam . uvāca mā avadhiṣṭa iti ghnata śākhāmṛga-ṛṣabhān .. 19 ..
स च पत्रलघुर्भूत्वा हरिभिर्दर्शितेभये । अन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत् ॥ 20 ॥
स च पत्र-लघुः भूत्वा हरिभिः दर्शित-इभये । अन्तरिक्षे स्थितः भूत्वा पुनर्वचनम् अब्रवीत् ॥ २० ॥
sa ca patra-laghuḥ bhūtvā haribhiḥ darśita-ibhaye . antarikṣe sthitaḥ bhūtvā punarvacanam abravīt .. 20 ..
सुग्रीव :सत्त्वसम्पन्न: महाबलपराक्रम: । किं मया खलु वक्तव्यो रावणो लोकरावणः ॥ 21 ॥
सुग्रीव सत्त्व-सम्पन्न महा-बल-पराक्रम । किम् मया खलु वक्तव्यः रावणः लोक-रावणः ॥ २१ ॥
sugrīva sattva-sampanna mahā-bala-parākrama . kim mayā khalu vaktavyaḥ rāvaṇaḥ loka-rāvaṇaḥ .. 21 ..
स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः । उवाच वाक्यं रजनीचरस्य चारं शुकं शुध्दमदीनसत्त्वः ॥ 22 ॥
सः एवम् उक्तः प्लवग-अधिपः तदा प्लवङ्गमानाम् ऋषभः महा-बलः । उवाच वाक्यम् रजनीचरस्य चारम् शुकम् ॥ २२ ॥
saḥ evam uktaḥ plavaga-adhipaḥ tadā plavaṅgamānām ṛṣabhaḥ mahā-balaḥ . uvāca vākyam rajanīcarasya cāram śukam .. 22 ..
नमे ऽसि मित्रं न तथानुकम्प्यो न चोपकर्तापि न मे प्रियोऽसि । अरिश्च रामस्य सहानुबन्धस्ततोऽसि वालीव वधार्ह वध्यः ॥ 23 ॥
नमे असि मित्रम् न तथा अनुकम्प्यः न च उपकर्ता अपि न मे प्रियः असि । अरिः च रामस्य सह अनुबन्धः ततस् असि वाली इव वध-अर्ह वध्यः ॥ २३ ॥
name asi mitram na tathā anukampyaḥ na ca upakartā api na me priyaḥ asi . ariḥ ca rāmasya saha anubandhaḥ tatas asi vālī iva vadha-arha vadhyaḥ .. 23 ..
निह्नन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्ग रजनीचरेश । लङ्का च सर्वां महता बलेन सर्वैः करिष्यामि समेत्य भस्म ॥ 24 ॥
निह्नन्मि अहम् त्वाम् स सुतम् स बन्धुम् स ज्ञाति-वर्ग रजनीचर-ईश । लङ्का च सर्वाम् महता बलेन सर्वैः करिष्यामि समेत्य भस्म ॥ २४ ॥
nihnanmi aham tvām sa sutam sa bandhum sa jñāti-varga rajanīcara-īśa . laṅkā ca sarvām mahatā balena sarvaiḥ kariṣyāmi sametya bhasma .. 24 ..
न मोक्षयसे रावण: राघवस्य सुरै सहेन्द्रैदपि मूढ गुप्तः । अन्तर्हित सूर्यपथं गतोऽपि तथैव पातालमनुप्रविष्टः ॥ 25 ॥
न मोक्षयसे रावण राघवस्य सुरैः सह इन्द्रैः अपि मूढ गुप्तः । अन्तर्हित-सूर्य-पथम् गतः अपि तथा एव पातालम् अनुप्रविष्टः ॥ २५ ॥
na mokṣayase rāvaṇa rāghavasya suraiḥ saha indraiḥ api mūḍha guptaḥ . antarhita-sūrya-patham gataḥ api tathā eva pātālam anupraviṣṭaḥ .. 25 ..
गिरीशपादम्बुजसङ्गतो वा हतोऽसि रामेण सहानुजस्त्वम् ॥ 26 ॥
गिरीश-पाद-अम्बुज-सङ्गतः वा हतः असि रामेण सह अनुजः त्वम् ॥ २६ ॥
girīśa-pāda-ambuja-saṅgataḥ vā hataḥ asi rāmeṇa saha anujaḥ tvam .. 26 ..
तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् । त्रातारम नुपश्यामि न गन्धर्वंन चासुरम् । अवधीर्य जरावृद्दं गृध्रराजं जटायुषम् ॥ 27 ॥
तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् । त्रातारम् अ नुपश्यामि न गन्धर्वम् न च असुरम् । जरा-वृद्दम् गृध्र-राजम् जटायुषम् ॥ २७ ॥
tasya te triṣu lokeṣu na piśācam na rākṣasam . trātāram a nupaśyāmi na gandharvam na ca asuram . jarā-vṛddam gṛdhra-rājam jaṭāyuṣam .. 27 ..
किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य च। हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे ॥ 28 ॥
किम् नु ते राम-सान्निध्ये सकाशे लक्ष्मणस्य च। हृता सीता विशाल-अक्षी याम् त्वम् गृह्य न बुध्यसे ॥ २८ ॥
kim nu te rāma-sānnidhye sakāśe lakṣmaṇasya ca. hṛtā sītā viśāla-akṣī yām tvam gṛhya na budhyase .. 28 ..
महाबलं महात्मानं दुरार्धर्ष सुरैरपि । न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति ॥ 29 ॥
महा-बलम् महात्मानम् दुरार्ध-ऋष सुरैः अपि । न बुध्यसे रघु-श्रेष्ठम् यः ते प्राणान् हरिष्यति ॥ २९ ॥
mahā-balam mahātmānam durārdha-ṛṣa suraiḥ api . na budhyase raghu-śreṣṭham yaḥ te prāṇān hariṣyati .. 29 ..
ततोऽब्रवीद् वालिसुतस्त्वङ्गदो हरिसत्तमः । नायं दूतो महाराज चारिकः प्रतिभाति मे ॥ 30 ॥
ततस् अब्रवीत् वालि-सुतः तु अङ्गदः हरि-सत्तमः । न अयम् दूतः महा-राज चारिकः प्रतिभाति मे ॥ ३० ॥
tatas abravīt vāli-sutaḥ tu aṅgadaḥ hari-sattamaḥ . na ayam dūtaḥ mahā-rāja cārikaḥ pratibhāti me .. 30 ..
तुलितं हि बलं सर्वमनेना तव तिष्ठता । गृह्यतां मागमल्लङ्कामेतद्दि मम रोचते ॥ 31 ॥
तुलितम् हि बलम् सर्वम् अनेन तव तिष्ठता । गृह्यताम् मा अगमत् लङ्काम् एतत् दि मम रोचते ॥ ३१ ॥
tulitam hi balam sarvam anena tava tiṣṭhatā . gṛhyatām mā agamat laṅkām etat di mama rocate .. 31 ..
ततो राज्ञा समादिष्टा समुत्पत्य वलीमुखाः । जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ॥ 32 ॥
ततस् राज्ञा समादिष्टा समुत्पत्य वलीमुखाः । जगृहुः च बबन्धुः च विलपन्तम् अनाथ-वत् ॥ ३२ ॥
tatas rājñā samādiṣṭā samutpatya valīmukhāḥ . jagṛhuḥ ca babandhuḥ ca vilapantam anātha-vat .. 32 ..
शुकस्तु वानरैश्चण्डैस्तत्र तै सम्प्रपीडितः । व्याचुक्रोश महात्मानं रामं दशरथात्मजम् । लुप्येते मे बलात् पक्षौ भिद्येते मे तथाऽक्षिणी ॥ 33 ॥
शुकः तु वानरैः चण्डैः तत्र तैः सम्प्रपीडितः । व्याचुक्रोश महात्मानम् रामम् दशरथ-आत्मजम् । लुप्येते मे बलात् पक्षौ भिद्येते मे तथा अक्षिणी ॥ ३३ ॥
śukaḥ tu vānaraiḥ caṇḍaiḥ tatra taiḥ samprapīḍitaḥ . vyācukrośa mahātmānam rāmam daśaratha-ātmajam . lupyete me balāt pakṣau bhidyete me tathā akṣiṇī .. 33 ..
यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम् । एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् । सर्वं तदुपपद्येधा जह्यां चेद् यदि जीवितम् ॥ 34 ॥
याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च याम् अहम् । एतस्मिन् अन्तरे काले यत् मया हि अशुभम् कृतम् । सर्वम् तत् उपपद्येधाः जह्याम् चेद् यदि जीवितम् ॥ ३४ ॥
yām ca rātrim mariṣyāmi jāye rātrim ca yām aham . etasmin antare kāle yat mayā hi aśubham kṛtam . sarvam tat upapadyedhāḥ jahyām ced yadi jīvitam .. 34 ..
नाघातयत् तदा राम श्रुत्वा तत्परिदेवनम् । वानरानब्रवीद् रामो मुच्यतां दूत आगतः ॥ 35 ॥
न अघातयत् तदा राम श्रुत्वा तद्-परिदेवनम् । वानरान् अब्रवीत् रामः मुच्यताम् दूतः आगतः ॥ ३५ ॥
na aghātayat tadā rāma śrutvā tad-paridevanam . vānarān abravīt rāmaḥ mucyatām dūtaḥ āgataḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In