This overlay will guide you through the buttons:

| |
|
तत सागरवेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥ 1 ॥
तत सागर-वेलायाम् दर्भान् आस्तीर्य राघवः । अञ्जलिम् प्राच्-मुखः कृत्वा प्रतिशिश्ये महा-उदधेः ॥ १ ॥
tata sāgara-velāyām darbhān āstīrya rāghavaḥ . añjalim prāc-mukhaḥ kṛtvā pratiśiśye mahā-udadheḥ .. 1 ..
बाहुं भुजगभोगाभमुपधायारिसूदनः । जातरूपमयैश्चैव भूषणैर्भषितं पुरा ॥ 2 ॥
बाहुम् भुजग-भोग-आभम् उपधाय अरि-सूदनः । जातरूप-मयैः च एव भूषणैः भषितम् पुरा ॥ २ ॥
bāhum bhujaga-bhoga-ābham upadhāya ari-sūdanaḥ . jātarūpa-mayaiḥ ca eva bhūṣaṇaiḥ bhaṣitam purā .. 2 ..
मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः । भुजैः परमनारीणामभिमृष्टमनेकदा ॥ 3 ॥
मणि-काञ्चन-केयूर-मुक्ता-प्रवर-भूषणैः । भुजैः परम-नारीणाम् अभिमृष्टम् अनेकदा ॥ ३ ॥
maṇi-kāñcana-keyūra-muktā-pravara-bhūṣaṇaiḥ . bhujaiḥ parama-nārīṇām abhimṛṣṭam anekadā .. 3 ..
चन्दनागुरुभिश्चैव पुरस्तादधिवासितम् । बालसूर्यप्रकाशैश् चन्दनैरुपशोभितम् ॥ 4 ॥
चन्दन-अगुरुभिः च एव पुरस्तात् अधिवासितम् । बाल-सूर्य-प्रकाशैः चन्दनैः उपशोभितम् ॥ ४ ॥
candana-agurubhiḥ ca eva purastāt adhivāsitam . bāla-sūrya-prakāśaiḥ candanaiḥ upaśobhitam .. 4 ..
शयने चोत्तमाङ्गेन सीताया शोभितं पुरा । तक्षकस्येव सम्भोगं गङ्गाजलनिषेचितम् ॥ 5 ॥
शयने च उत्तमाङ्गेन सीताया शोभितम् पुरा । तक्षकस्य इव सम्भोगम् गङ्गा-जल-निषेचितम् ॥ ५ ॥
śayane ca uttamāṅgena sītāyā śobhitam purā . takṣakasya iva sambhogam gaṅgā-jala-niṣecitam .. 5 ..
संयुगे युगसङ्काशं शत्रूणां शोकवर्धनम् । सुहृदां नन्दनं दीर्घं सागरान्तव्यपाश्रयम् ॥ 6 ॥
संयुगे युग-सङ्काशम् शत्रूणाम् शोक-वर्धनम् । सुहृदाम् नन्दनम् दीर्घम् सागर-अन्त-व्यपाश्रयम् ॥ ६ ॥
saṃyuge yuga-saṅkāśam śatrūṇām śoka-vardhanam . suhṛdām nandanam dīrgham sāgara-anta-vyapāśrayam .. 6 ..
असत्या च पुनः सव्यं ज्याघातविगतत्वचम् । दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ॥ 7 ॥
असत्या च पुनर् सव्यम् ज्या-घात-विगत-त्वचम् । दक्षिणः दक्षिणम् बाहुम् महा-परिघ-सन्निभम् ॥ ७ ॥
asatyā ca punar savyam jyā-ghāta-vigata-tvacam . dakṣiṇaḥ dakṣiṇam bāhum mahā-parigha-sannibham .. 7 ..
गोसहस्रप्रदारं ह्युपधाय भुजम् महच् । अद्य मे तरणं वाद मरणं सागरस्य वा ॥ 8 ॥
गो-सहस्र-प्रदारम् हि उपधाय भुजम् महत् । अद्य मे तरणम् वा अदः मरणम् सागरस्य वा ॥ ८ ॥
go-sahasra-pradāram hi upadhāya bhujam mahat . adya me taraṇam vā adaḥ maraṇam sāgarasya vā .. 8 ..
इति रामो धृतिं कृत्वा महाबाहुर्महोदधिम् । अधिशिष्ये च विधिवत् प्रयतो नियतो मुनिः ॥ 9 ॥
इति रामः धृतिम् कृत्वा महा-बाहुः महोदधिम् । अधिशिष्ये च विधिवत् प्रयतः नियतः मुनिः ॥ ९ ॥
iti rāmaḥ dhṛtim kṛtvā mahā-bāhuḥ mahodadhim . adhiśiṣye ca vidhivat prayataḥ niyataḥ muniḥ .. 9 ..
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले । नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ॥ 10 ॥
तस्य रामस्य सुप्तस्य कुश-आस्तीर्णे मही-तले । नियमात् अप्रमत्तस्य निशाः तिस्रः अतिचक्रमुः ॥ १० ॥
tasya rāmasya suptasya kuśa-āstīrṇe mahī-tale . niyamāt apramattasya niśāḥ tisraḥ aticakramuḥ .. 10 ..
सत्रिरात्रोषितस्तत्रनयज्ञोधर्मवत्सलः । उपासततदारामस्सागरंसरितांपतिम् ॥ 11 ॥
स त्रि-रात्र-उषितः तत्र नय-ज्ञः धर्म-वत्सलः । उपासत तदा आरामः सागरम् सरिताम् पतिम् ॥ ११ ॥
sa tri-rātra-uṣitaḥ tatra naya-jñaḥ dharma-vatsalaḥ . upāsata tadā ārāmaḥ sāgaram saritām patim .. 11 ..
न च दर्शयते मन्दस्तदा रामस्य सागरः । प्रयतेनापि रामेण यथार्हमभिपूजितः ॥ 12 ॥
न च दर्शयते मन्दः तदा रामस्य सागरः । प्रयतेन अपि रामेण यथार्हम् अभिपूजितः ॥ १२ ॥
na ca darśayate mandaḥ tadā rāmasya sāgaraḥ . prayatena api rāmeṇa yathārham abhipūjitaḥ .. 12 ..
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः । समीपस्थमुवाचेदं लक्ष्मणं शुभलक्ष्मणम् ॥ 13 ॥
समुद्रस्य ततस् क्रुद्धः रामः रक्त-अन्त-लोचनः । समीप-स्थम् उवाच इदम् लक्ष्मणम् शुभ-लक्ष्मणम् ॥ १३ ॥
samudrasya tatas kruddhaḥ rāmaḥ rakta-anta-locanaḥ . samīpa-stham uvāca idam lakṣmaṇam śubha-lakṣmaṇam .. 13 ..
अवलेपं समुद्रस्य न दर्शयति यत्स्वयम् । प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ॥ 14 ॥
अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् । प्रशमः च क्षमा च एव आर्जवम् प्रिय-वादि-ता ॥ १४ ॥
avalepam samudrasya na darśayati yat svayam . praśamaḥ ca kṣamā ca eva ārjavam priya-vādi-tā .. 14 ..
असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः । आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ॥ 15 ॥
असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः । आत्म-प्रशंसिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥ १५ ॥
asāmarthyam phalanti ete nirguṇeṣu satām guṇāḥ . ātma-praśaṃsinam duṣṭam dhṛṣṭam viparidhāvakam .. 15 ..
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् । न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ॥ 16 ॥
सर्वत्र उत्सृष्ट-दण्डम् च लोकः सत्कुरुते नरम् । न साम्ना शक्यते कीर्तिः न साम्ना शक्यते यशः ॥ १६ ॥
sarvatra utsṛṣṭa-daṇḍam ca lokaḥ satkurute naram . na sāmnā śakyate kīrtiḥ na sāmnā śakyate yaśaḥ .. 16 ..
प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूधनि । अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् ॥ 17 ॥
प्राप्तुम् लक्ष्मण लोके अस्मिन् जयः वा रण-मूधनि । अद्य मद्-बाण-निर्भिन्नैः मकरैः मकर-आलयम् ॥ १७ ॥
prāptum lakṣmaṇa loke asmin jayaḥ vā raṇa-mūdhani . adya mad-bāṇa-nirbhinnaiḥ makaraiḥ makara-ālayam .. 17 ..
निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः । महाभोगानि मत्स्यानां करिणां च करानिह ॥ 18 ॥
निरुद्ध-तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतस् । महा-भोगानि मत्स्यानाम् करिणाम् च करान् इह ॥ १८ ॥
niruddha-toyam saumitre plavadbhiḥ paśya sarvatas . mahā-bhogāni matsyānām kariṇām ca karān iha .. 18 ..
भोगांश्च पश्य नागानां मया भिन्नानि लक्ष्मण । सशङ्खशुक्तिका जालं समीनमकरं शरैः ॥ 19 ॥
भोगान् च पश्य नागानाम् मया भिन्नानि लक्ष्मण । स शङ्ख-शुक्तिकाः जालम् स मीन-मकरम् शरैः ॥ १९ ॥
bhogān ca paśya nāgānām mayā bhinnāni lakṣmaṇa . sa śaṅkha-śuktikāḥ jālam sa mīna-makaram śaraiḥ .. 19 ..
अद्य युद्धेन महता समुद्रं परिशोषये । क्षमया हि समायुक्तं मामयं मकरालयः ॥ 20 ॥
अद्य युद्धेन महता समुद्रम् परिशोषये । क्षमया हि समायुक्तम् माम् अयम् मकर-आलयः ॥ २० ॥
adya yuddhena mahatā samudram pariśoṣaye . kṣamayā hi samāyuktam mām ayam makara-ālayaḥ .. 20 ..
असमर्थं विजानाति धिक्क्षमामीदृशे जने । नदर्शयतिसाम्नामेसागरोरूपमात्मनः ॥ 21 ॥
असमर्थम् विजानाति धिक् क्षमामि ईदृशे जने । न दर्शयति साम्ना एसागरः रूपम् आत्मनः ॥ २१ ॥
asamartham vijānāti dhik kṣamāmi īdṛśe jane . na darśayati sāmnā esāgaraḥ rūpam ātmanaḥ .. 21 ..
चापमानय सौमित्रे शरांश्चाशीविषोपमान् । सागरंशोषयिष्यामिपद् भ्यांयान्तुप्लवङ्गमाः ॥ 22 ॥
चापम् आनय सौमित्रे शरान् च आशीविष-उपमान् । सागरम् शोषयिष्यामि पद् भ्याम् यान्तु प्लवङ्गमाः ॥ २२ ॥
cāpam ānaya saumitre śarān ca āśīviṣa-upamān . sāgaram śoṣayiṣyāmi pad bhyām yāntu plavaṅgamāḥ .. 22 ..
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् । वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् ॥ 23 ॥
अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् । वेलासु कृत-मर्यादम् सहसा ऊर्मि-समाकुलम् ॥ २३ ॥
adya akṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram . velāsu kṛta-maryādam sahasā ūrmi-samākulam .. 23 ..
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् । महार्णवंक्षोभयिष्येमहादानवसङ्कुलम् ॥ 24 ॥
निर्मर्यादम् करिष्यामि सायकैः वरुणालयम् । महा-अर्णवम् क्षोभयिष्ये महा-दानव-सङ्कुलम् ॥ २४ ॥
nirmaryādam kariṣyāmi sāyakaiḥ varuṇālayam . mahā-arṇavam kṣobhayiṣye mahā-dānava-saṅkulam .. 24 ..
एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः । बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ॥ 25 ॥
एवम् उक्त्वा धनुष्पाणिः क्रोध-विस्फारित-ईक्षणः । बभूव रामः दुर्धर्षः युगान्त-अग्निः इव ज्वलन् ॥ २५ ॥
evam uktvā dhanuṣpāṇiḥ krodha-visphārita-īkṣaṇaḥ . babhūva rāmaḥ durdharṣaḥ yugānta-agniḥ iva jvalan .. 25 ..
सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् । मुमोच विशिखानुग्रान्वज्राणीव शतक्रतुः ॥ 26 ॥
सम्पीड्य च धनुः घोरम् कम्पयित्वा शरैः जगत् । मुमोच विशिखान् उग्रान् वज्राणि इव शतक्रतुः ॥ २६ ॥
sampīḍya ca dhanuḥ ghoram kampayitvā śaraiḥ jagat . mumoca viśikhān ugrān vajrāṇi iva śatakratuḥ .. 26 ..
ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः । प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ॥ 27 ॥
ते ज्वलन्तः महा-वेगाः तेजसा सायक-उत्तमाः । प्रविशन्ति समुद्रस्य सलिलम् त्रस्त-पन्नगम् ॥ २७ ॥
te jvalantaḥ mahā-vegāḥ tejasā sāyaka-uttamāḥ . praviśanti samudrasya salilam trasta-pannagam .. 27 ..
तोयवेगः समुद्रस्य समीनमकरो महान् । स बभूव महाघोरः समारुतरवस्तदा ॥ 28 ॥
तोय-वेगः समुद्रस्य स मीन-मकरः महान् । स बभूव महा-घोरः स मारुत-रवः तदा ॥ २८ ॥
toya-vegaḥ samudrasya sa mīna-makaraḥ mahān . sa babhūva mahā-ghoraḥ sa māruta-ravaḥ tadā .. 28 ..
महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः । सधूमपरिवृत्तोर्मिः सहसाभून्महोदधिः ॥ 29 ॥
महा-ऊर्मि-माला-विततः शङ्ख-शुक्ति-समाकुलः । स धूम-परिवृत्त-ऊर्मिः सहसा अभूत् महोदधिः ॥ २९ ॥
mahā-ūrmi-mālā-vitataḥ śaṅkha-śukti-samākulaḥ . sa dhūma-parivṛtta-ūrmiḥ sahasā abhūt mahodadhiḥ .. 29 ..
व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः । दानवाश्च महावीर्याः पातालतलवासिनः ॥ 30 ॥
व्यथिताः पन्नगाः च आसन् दीप्त-आस्याः दीप्त-लोचनाः । दानवाः च महा-वीर्याः पाताल-तल-वासिनः ॥ ३० ॥
vyathitāḥ pannagāḥ ca āsan dīpta-āsyāḥ dīpta-locanāḥ . dānavāḥ ca mahā-vīryāḥ pātāla-tala-vāsinaḥ .. 30 ..
ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा । विन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः ॥ 31 ॥
ऊर्मयः सिन्धुराजस्य स नक्र-मकराः तदा । विन्ध्य-मन्दर-सङ्काशाः समुत्पेतुः सहस्रशस् ॥ ३१ ॥
ūrmayaḥ sindhurājasya sa nakra-makarāḥ tadā . vindhya-mandara-saṅkāśāḥ samutpetuḥ sahasraśas .. 31 ..
आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः । उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः ॥ 32 ॥
आघूर्णित-तरङ्ग-ओघः सम्भ्रान्त-उरग-राक्षसः । उद्वर्तित-महा-ग्राहः संवृत्तः सलिलाशयः ॥ ३२ ॥
āghūrṇita-taraṅga-oghaḥ sambhrānta-uraga-rākṣasaḥ . udvartita-mahā-grāhaḥ saṃvṛttaḥ salilāśayaḥ .. 32 ..
ततस्तुतंराघवमुग्रवेगं - प्रकर्षमाणंधनुरप्रमेयम् । सौमित्रिरुत्पत्यसमुच्छवसन्तंमामेति - चोक्त्वादनुराललम्बे ॥ 33 ॥
ततस् तु तम् राघवम् उग्र-वेगम् प्रकर्षमाणम् धनुः अप्रमेयम् । सौमित्रिः उत्पत्य समुच्छवसन्तम् माम् एति च उक्त्वा अ दनुः आललम्बे ॥ ३३ ॥
tatas tu tam rāghavam ugra-vegam prakarṣamāṇam dhanuḥ aprameyam . saumitriḥ utpatya samucchavasantam mām eti ca uktvā a danuḥ ālalambe .. 33 ..
एतिद्विनापि ह्युदधेस्तवाद्य सम्पत्स्यते वीरतमस्य कार्यम । भवद्विधाः क्रोधवशं न यान्ति दार्घ भवान् पश्यतु साधुवृत्तम् ॥ 34 ॥
एति द्विना अपि हि उदधेः तव अद्य सम्पत्स्यते वीरतमस्य कार्यम् । भवद्विधाः क्रोध-वशम् न यान्ति दार्घ भवान् पश्यतु साधु-वृत्तम् ॥ ३४ ॥
eti dvinā api hi udadheḥ tava adya sampatsyate vīratamasya kāryam . bhavadvidhāḥ krodha-vaśam na yānti dārgha bhavān paśyatu sādhu-vṛttam .. 34 ..
अन्तर्हितैश्चापि तथान्तरिक्षो ब्रह्यार्षिभिश्चैव सुरर्षिभिश्च । शब्दः कृत कष्टमिति ब्रुवद्भिर्मोमेति चोक्तवा महता स्वरेण ॥ 35 ॥
अन्तर्हितैः च अपि तथा अन्तरिक्षः ब्रह्य-आर्षिभिः च एव सुर-ऋषिभिः च । शब्दः कृत कष्टम् इति ब्रुवद्भिः मोम इति च उक्तवा महता स्वरेण ॥ ३५ ॥
antarhitaiḥ ca api tathā antarikṣaḥ brahya-ārṣibhiḥ ca eva sura-ṛṣibhiḥ ca . śabdaḥ kṛta kaṣṭam iti bruvadbhiḥ moma iti ca uktavā mahatā svareṇa .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In