This overlay will guide you through the buttons:

| |
|
अथोवाचरघु श्रेष्ठ सागरं दारुणं वचः । अद्य त्वां शोषयिष्यामि सपाताळं महार्णव: ॥1 ॥
अथा उवाच अरघु श्रेष्ठ सागरम् दारुणम् वचः । अद्य त्वाम् शोषयिष्यामि स पाताळम् महा-अर्णव ॥१ ॥
athā uvāca araghu śreṣṭha sāgaram dāruṇam vacaḥ . adya tvām śoṣayiṣyāmi sa pātāl̤am mahā-arṇava ..1 ..
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर: । मया निहतसत्त्वस्य पांसुरुत्पद्यते महान् ॥2 ॥
शर-निर्दग्ध-तोयस्य परिशुष्कस्य सागरः । मया निहत-सत्त्वस्य पांसुः उत्पद्यते महान् ॥२ ॥
śara-nirdagdha-toyasya pariśuṣkasya sāgaraḥ . mayā nihata-sattvasya pāṃsuḥ utpadyate mahān ..2 ..
मत्कार्मुकविसृष्टेव शरवर्षेण सागर । पारं तेऽद्य गमिष्यन्ति पदभिरेव प्लवङ्गमाः ॥3 ॥
मद्-कार्मुक-विसृष्टा इव शर-वर्षेण सागर । पारम् ते अद्य गमिष्यन्ति पदभिः एव प्लवङ्गमाः ॥३ ॥
mad-kārmuka-visṛṣṭā iva śara-varṣeṇa sāgara . pāram te adya gamiṣyanti padabhiḥ eva plavaṅgamāḥ ..3 ..
विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम् । दानवालय सन्तापं मत्तो नाम गमिष्यसि ॥4 ॥
विचिन्वन् न अभिजानासि पौरुषम् ना अपि विक्रमम् । दानव-आलय सन्तापम् मत्तः नाम गमिष्यसि ॥४ ॥
vicinvan na abhijānāsi pauruṣam nā api vikramam . dānava-ālaya santāpam mattaḥ nāma gamiṣyasi ..4 ..
ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभम् शरम् । संयोज्य धनुषि श्रेष्ठ विचकर्ष महाबलः ॥5 ॥
ब्राह्मेण अस्त्रेण संयोज्य ब्रह्मदण्ड-निभम् शरम् । संयोज्य धनुषि श्रेष्ठ विचकर्ष महा-बलः ॥५ ॥
brāhmeṇa astreṇa saṃyojya brahmadaṇḍa-nibham śaram . saṃyojya dhanuṣi śreṣṭha vicakarṣa mahā-balaḥ ..5 ..
तस्मिन्वि विकृष्टे सहसा राघवेण शरासने । रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥6 ॥
तस्मिन् वि विकृष्टे सहसा राघवेण शरासने । रोदसी सम्पफाल इव पर्वताः च चकम्पिरे ॥६ ॥
tasmin vi vikṛṣṭe sahasā rāghaveṇa śarāsane . rodasī sampaphāla iva parvatāḥ ca cakampire ..6 ..
तमश्च लोकमाव्रवे दिशश्च न चकाशिरे । प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तथा ॥7 ॥
तमः च लोकम् आव्रवे दिशः च न चकाशिरे । प्रतिचुक्षुभिरे च आशु सरांसि सरितः तथा ॥७ ॥
tamaḥ ca lokam āvrave diśaḥ ca na cakāśire . praticukṣubhire ca āśu sarāṃsi saritaḥ tathā ..7 ..
तिर्यक् च सहा नक्षत्रै सङ्गतौ चन्द्रभास्करौ । भास्करांशुभिरादीप्तं तमसा च समावृतम् ॥8 ॥
तिर्यक् च सहा नक्षत्रैः सङ्गतौ चन्द्र-भास्करौ । भास्कर-अंशुभिः आदीप्तम् तमसा च समावृतम् ॥८ ॥
tiryak ca sahā nakṣatraiḥ saṅgatau candra-bhāskarau . bhāskara-aṃśubhiḥ ādīptam tamasā ca samāvṛtam ..8 ..
प्रचकाशे तदाकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥9 ॥
प्रचकाशे तत् आकाशम् उल्का-शत-विदीपितम् । अन्तरिक्षात् च निर्घाताः निर्जग्मुः अतुल-स्वनाः ॥९ ॥
pracakāśe tat ākāśam ulkā-śata-vidīpitam . antarikṣāt ca nirghātāḥ nirjagmuḥ atula-svanāḥ ..9 ..
वपुःप्रकर्षंण् ववुर्दिव्यामारुतपङ्त्कयः । बभञ्ज च तदा वृक्षान्जलदानुद्वहन्मुहु ॥10 ॥
वपुः-प्रकर्षन् ववुः दिव्या-मारुत-पङ्त्कयः । बभञ्ज च तदा वृक्षान् जलदान् उद्वहन् मुहु ॥१० ॥
vapuḥ-prakarṣan vavuḥ divyā-māruta-paṅtkayaḥ . babhañja ca tadā vṛkṣān jaladān udvahan muhu ..10 ..
अरुजंश्चैव शैलाग्राञ्शिखराणि बभञ्ज च । दिवि च स्म महवेगाः संहताः समहास्वनाः ॥11 ॥
अरुजन् च एव शैल-अग्रान् शिखराणि बभञ्ज च । दिवि च स्म महा-वेगाः संहताः स महा-स्वनाः ॥११ ॥
arujan ca eva śaila-agrān śikharāṇi babhañja ca . divi ca sma mahā-vegāḥ saṃhatāḥ sa mahā-svanāḥ ..11 ..
मुमुचुर्वैद्युताननगींस्ते महाशनयस्तदा । यानि भूतानि दृश्यानि चुक्रुशुश्चाशने समम् ॥12 ॥
मुमुचुः वैद्युतान् अनगीन् ते महा-अशनयः तदा । यानि भूतानि दृश्यानि चुक्रुशुः च अशने समम् ॥१२ ॥
mumucuḥ vaidyutān anagīn te mahā-aśanayaḥ tadā . yāni bhūtāni dṛśyāni cukruśuḥ ca aśane samam ..12 ..
अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् । शिशियरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च ॥13 ॥
अदृश्यानि च भूतानि मुमुचुः भैरव-स्वनम् । शिशियरे च अभिभूतानि संत्रस्तानि उद्विजन्ति च ॥१३ ॥
adṛśyāni ca bhūtāni mumucuḥ bhairava-svanam . śiśiyare ca abhibhūtāni saṃtrastāni udvijanti ca ..13 ..
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् । सह भूतैः सतोयोर्मिः सनागः सहराक्षसः ॥14 ॥
सम्प्रविव्यथिरे च अपि न च पस्पन्दिरे भयात् । सह भूतैः स तोय-ऊर्मिः स नागः सह राक्षसः ॥१४ ॥
sampravivyathire ca api na ca paspandire bhayāt . saha bhūtaiḥ sa toya-ūrmiḥ sa nāgaḥ saha rākṣasaḥ ..14 ..
सहसाऽभूत् ततो वेगाद् भीमवेगो महोदधिः । योजनं व्यतिचक्राम वेलामन्यत्र सम्ल्पवात् ॥15 ॥
सहसा अभूत् ततस् वेगात् भीम-वेगः महोदधिः । योजनम् व्यतिचक्राम वेलाम् अन्यत्र ॥१५ ॥
sahasā abhūt tatas vegāt bhīma-vegaḥ mahodadhiḥ . yojanam vyaticakrāma velām anyatra ..15 ..
तं तथा समतिक्रान्तं नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥16 ॥
तम् तथा समतिक्रान्तम् न अतिचक्राम राघवः । समुद्धतम् अमित्र-घ्नः रामः नदनदीपतिम् ॥१६ ॥
tam tathā samatikrāntam na aticakrāma rāghavaḥ . samuddhatam amitra-ghnaḥ rāmaḥ nadanadīpatim ..16 ..
ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः । उदयन्हि महाशैलान्मेरोरिव दिवाकरः ॥17 ॥
ततस् मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः । उदयन् हि महा-शैलात् मेरोः इव दिवाकरः ॥१७ ॥
tatas madhyāt samudrasya sāgaraḥ svayam utthitaḥ . udayan hi mahā-śailāt meroḥ iva divākaraḥ ..17 ..
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत । स्निग्धवैदूर्यसङ्काशो जाम्बूनदविभूषितः ॥18 ॥
पन्नगैः सह दीप्त-आस्यैः समुद्रः प्रत्यदृश्यत । स्निग्ध-वैदूर्य-सङ्काशः जाम्बूनद-विभूषितः ॥१८ ॥
pannagaiḥ saha dīpta-āsyaiḥ samudraḥ pratyadṛśyata . snigdha-vaidūrya-saṅkāśaḥ jāmbūnada-vibhūṣitaḥ ..18 ..
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः । सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् ॥19 ॥
रक्त-माल्य-अम्बर-धरः पद्म-पत्र-निभ-ईक्षणः । सर्व-पुष्प-मयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥१९ ॥
rakta-mālya-ambara-dharaḥ padma-patra-nibha-īkṣaṇaḥ . sarva-puṣpa-mayīm divyām śirasā dhārayan srajam ..19 ..
जातरूपमयैश्चैव तपनीयविभूषितैः । आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ॥20 ॥
जातरूप-मयैः च एव तपनीय-विभूषितैः । आत्मजानाम् च रत्नानाम् भूषितः भूषण-उत्तमैः ॥२० ॥
jātarūpa-mayaiḥ ca eva tapanīya-vibhūṣitaiḥ . ātmajānām ca ratnānām bhūṣitaḥ bhūṣaṇa-uttamaiḥ ..20 ..
धातुभिर्मण्डित शैलो विविधैर्हिमवानिव । एकावलीमध्यगतं तरलं पाटलप्रभम् ॥21 ॥
धातुभिः मण्डित शैलः विविधैः हिमवान् इव । एक-आवली-मध्य-गतम् तरलम् पाटल-प्रभम् ॥२१ ॥
dhātubhiḥ maṇḍita śailaḥ vividhaiḥ himavān iva . eka-āvalī-madhya-gatam taralam pāṭala-prabham ..21 ..
विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् । अघूर्णिततरङ्गौघः कालिकानिलसङ्गुलः ॥22 ॥
विपुलेन उरसा बिभ्रत् कौस्तुभस्य सहोदरम् । ॥२२ ॥
vipulena urasā bibhrat kaustubhasya sahodaram . ..22 ..
गङ्गासिन्दुप्रधाननाभिरापगाभि समावृतः । उद्वर्तितमहाग्राहः स्मभ्रान्तोरगराक्षसः ॥23 ॥
गङ्गा-सिन्दु-प्रधान-नाभिः आपगा अभि समावृतः । उद्वर्तित-महा-ग्राहः स्म भ्रान्त-उरग-राक्षसः ॥२३ ॥
gaṅgā-sindu-pradhāna-nābhiḥ āpagā abhi samāvṛtaḥ . udvartita-mahā-grāhaḥ sma bhrānta-uraga-rākṣasaḥ ..23 ..
देवतानां सरूपाभिर्नानारूपाभिरीश्वरः । सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान् ॥24 ॥
देवतानाम् सरूपाभिः नाना रूपाभिः ईश्वरः । सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् ॥२४ ॥
devatānām sarūpābhiḥ nānā rūpābhiḥ īśvaraḥ . sāgaraḥ samatikramya pūrvam āmantrya vīryavān ..24 ..
अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् । ॥25 ॥
अब्रवीत् प्राञ्जलिः वाक्यम् राघवम् शर-पाणिनम् । ॥२५ ॥
abravīt prāñjaliḥ vākyam rāghavam śara-pāṇinam . ..25 ..
पृथिवी वायुराकाशमापो ज्योतिश्च राघवः । स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥26 ॥
पृथिवी वायुः आकाशम् आपः ज्योतिः च राघवः । स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥२६ ॥
pṛthivī vāyuḥ ākāśam āpaḥ jyotiḥ ca rāghavaḥ . svabhāve saumya tiṣṭhanti śāśvatam mārgam āśritāḥ ..26 ..
तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः । विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम् ॥27 ॥
तद्-स्वभावः मम अपि एष यत् अगाधः अहम् अप्लवः । विकारः तु भवेत् राधः एतत् ते प्रवदामि अहम् ॥२७ ॥
tad-svabhāvaḥ mama api eṣa yat agādhaḥ aham aplavaḥ . vikāraḥ tu bhavet rādhaḥ etat te pravadāmi aham ..27 ..
न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज । ग्राहनक्राकुलजलं स्तम्भयेयं कथं चन ॥28 ॥
न कामात् न च लोभात् वा न भयात् पार्थिव-आत्मज । ग्राह-नक्र-आकुल-जलम् स्तम्भयेयम् कथम् चन ॥२८ ॥
na kāmāt na ca lobhāt vā na bhayāt pārthiva-ātmaja . grāha-nakra-ākula-jalam stambhayeyam katham cana ..28 ..
विधास्ये राम येनापि विषहिष्येऽप्ह्यहं तथा । न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति । हरीणां तरणे राम करिष्यामि यथा स्थलम् ॥29 ॥
विधास्ये राम येन अपि विषहिष्ये अफि अहम् तथा । न ग्राहाः विधमिष्यन्ति यावत् सेना तरिष्यति । हरीणाम् तरणे राम करिष्यामि यथा स्थलम् ॥२९ ॥
vidhāsye rāma yena api viṣahiṣye aphi aham tathā . na grāhāḥ vidhamiṣyanti yāvat senā tariṣyati . harīṇām taraṇe rāma kariṣyāmi yathā sthalam ..29 ..
तमब्रवी तदा रामः श्रृणु मे वरूणालय । अमोघोऽयंमहाबाणः कस्मिन् देशे निपात्यताम् ॥30 ॥
तम् अब्रवीत् तदा रामः श्रृणु मे वरूणालय । अमोघः अयम् महा-बाणः कस्मिन् देशे निपात्यताम् ॥३० ॥
tam abravīt tadā rāmaḥ śrṛṇu me varūṇālaya . amoghaḥ ayam mahā-bāṇaḥ kasmin deśe nipātyatām ..30 ..
रामस्य वचनं श्रुत्वा तं च दृष्टवा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥31 ॥
रामस्य वचनम् श्रुत्वा तम् च दृष्टवा महा-शरम् । महोदधिः महा-तेजाः राघवम् वाक्यम् अब्रवीत् ॥३१ ॥
rāmasya vacanam śrutvā tam ca dṛṣṭavā mahā-śaram . mahodadhiḥ mahā-tejāḥ rāghavam vākyam abravīt ..31 ..
उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतमो मम । द्रुमकुल्य इति ख्यातो लोके खयातो यथा भवान् ॥32 ॥
उत्तरेण अवकाशः अस्ति कश्चिद् पुण्यतमः मम । द्रुमकुल्यः इति ख्यातः लोके खयातः यथा भवान् ॥३२ ॥
uttareṇa avakāśaḥ asti kaścid puṇyatamaḥ mama . drumakulyaḥ iti khyātaḥ loke khayātaḥ yathā bhavān ..32 ..
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः । आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ॥33 ॥
उग्र-दर्शन-कर्माणः बहवः तत्र दस्यवः । आभीर-प्रमुखाः पापाः पिबन्ति सलिलम् मम ॥३३ ॥
ugra-darśana-karmāṇaḥ bahavaḥ tatra dasyavaḥ . ābhīra-pramukhāḥ pāpāḥ pibanti salilam mama ..33 ..
तैनु तुत्संस्पर्शनं पापं सहेयं पापकर्मभिः । अमोघः क्रियतां राम: अयं तत्र शरोत्तमः ॥34 ॥
तैः नु तुद्-संस्पर्शनम् पापम् सहेयम् पाप-कर्मभिः । अमोघः क्रियताम् राम अयम् तत्र शर-उत्तमः ॥३४ ॥
taiḥ nu tud-saṃsparśanam pāpam saheyam pāpa-karmabhiḥ . amoghaḥ kriyatām rāma ayam tatra śara-uttamaḥ ..34 ..
तस्य तद् वचनं श्रुत्वा सागरस्य राघवः । मुमोच तं शरं दीप्तं परम सागरदर्शनात् ॥35 ॥
तस्य तत् वचनम् श्रुत्वा सागरस्य राघवः । मुमोच तम् शरम् दीप्तम् परम सागर-दर्शनात् ॥३५ ॥
tasya tat vacanam śrutvā sāgarasya rāghavaḥ . mumoca tam śaram dīptam parama sāgara-darśanāt ..35 ..
तेन तन्मरुकान्तारं पृथिव्यां किलु विश्रुतम् । निपातितः शरो यत्र वज्राशनिसमप्रभः ॥36 ॥
तेन तत् मरु-कान्तारम् पृथिव्याम् किलु विश्रुतम् । निपातितः शरः यत्र वज्र-अशनि-सम-प्रभः ॥३६ ॥
tena tat maru-kāntāram pṛthivyām kilu viśrutam . nipātitaḥ śaraḥ yatra vajra-aśani-sama-prabhaḥ ..36 ..
ननाद च तदा तत्र वसुधा शल्यपीडिता । तस्माद् व्रणमुखात् तोयमुत्पपात रसातलात् ॥37 ॥
ननाद च तदा तत्र वसुधा शल्य-पीडिता । तस्मात् व्रण-मुखात् तोयम् उत्पपात रसातलात् ॥३७ ॥
nanāda ca tadā tatra vasudhā śalya-pīḍitā . tasmāt vraṇa-mukhāt toyam utpapāta rasātalāt ..37 ..
स बभूव तदा कूपो व्रण इत्येव विश्रुतः । सततं चोत्थितं तोयं समुद्रस्येन दृश्यते ॥38 ॥
स बभूव तदा कूपः व्रणः इति एव विश्रुतः । सततम् च उत्थितम् तोयम् दृश्यते ॥३८ ॥
sa babhūva tadā kūpaḥ vraṇaḥ iti eva viśrutaḥ . satatam ca utthitam toyam dṛśyate ..38 ..
अवदारणशब्दश्च दारुण समपद्यत । तस्मात् तद्बाणनिपातेन अपः कुक्षिष्वशोषयत् ॥39 ॥
अवदारण-शब्दः च दारुण समपद्यत । तस्मात् तद्-बाण-निपातेन अपः कुक्षिषु अशोषयत् ॥३९ ॥
avadāraṇa-śabdaḥ ca dāruṇa samapadyata . tasmāt tad-bāṇa-nipātena apaḥ kukṣiṣu aśoṣayat ..39 ..
विख्यातं त्रिषु लोकेषु मरूकान्तारमेव च । शोषयित्वा तु तं कुक्षिंष्वशोषयत् ॥40 ॥
विख्यातम् त्रिषु लोकेषु मरू-कान्तारम् एव च । शोषयित्वा तु तम् कुक्षिंषु अशोषयत् ॥४० ॥
vikhyātam triṣu lokeṣu marū-kāntāram eva ca . śoṣayitvā tu tam kukṣiṃṣu aśoṣayat ..40 ..
वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः । ॥41 ॥
वरम् तस्मै ददौ विद्वान् मरवे अमर-विक्रमः । ॥४१ ॥
varam tasmai dadau vidvān marave amara-vikramaḥ . ..41 ..
पशव्यश्चाल्परोगश्च फलमूलरसायुतः । बहुस्नेहो बहुक्षीर सुगधनिर्विविधौषधः ॥42 ॥
पशव्यः च अल्प-रोगः च फल-मूल-रस-आयुतः । बहु-स्नेहः ॥४२ ॥
paśavyaḥ ca alpa-rogaḥ ca phala-mūla-rasa-āyutaḥ . bahu-snehaḥ ..42 ..
एवमेतैश्च सयुक्त्तो बहुभिः संयुतोमरुः । रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥43 ॥
एवम् एतैः च सयुक्त्तः बहुभिः संयुतः मरुः । रामस्य वर-दानात् च शिवः पन्थाः बभूव ह ॥४३ ॥
evam etaiḥ ca sayukttaḥ bahubhiḥ saṃyutaḥ maruḥ . rāmasya vara-dānāt ca śivaḥ panthāḥ babhūva ha ..43 ..
तस्मिन् दग्धे तदा कुक्षौ समुद्र सरितां पतिः । राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ॥44 ॥
तस्मिन् दग्धे तदा कुक्षौ समुद्र सरिताम् पतिः । राघवम् सर्व-शास्त्र-ज्ञम् इदम् वचनम् अब्रवीत् ॥४४ ॥
tasmin dagdhe tadā kukṣau samudra saritām patiḥ . rāghavam sarva-śāstra-jñam idam vacanam abravīt ..44 ..
अयं सौम्य नलो नाम तनुजो विश्वकर्मणः । पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः ॥45 ॥
अयम् सौम्य नलः नाम तनुजः विश्वकर्मणः । पित्रा दत्त-वरः श्रीमान् प्रतिमः विश्वकर्मणः ॥४५ ॥
ayam saumya nalaḥ nāma tanujaḥ viśvakarmaṇaḥ . pitrā datta-varaḥ śrīmān pratimaḥ viśvakarmaṇaḥ ..45 ..
एष सेतुं महोत्साहः करोतु मयि वानरः । तमहं धारयिष्यामि तथा ह्येष यथा पिता ॥46 ॥
एष सेतुम् महा-उत्साहः करोतु मयि वानरः । तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥४६ ॥
eṣa setum mahā-utsāhaḥ karotu mayi vānaraḥ . tam aham dhārayiṣyāmi tathā hi eṣa yathā pitā ..46 ..
एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः । अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ॥47 ॥
एवम् उक्त्वा उदधिः नष्टः समुत्थाय नलः ततस् । अब्रवीत् वानर-श्रेष्ठः वाक्यम् रामम् महा-बलः ॥४७ ॥
evam uktvā udadhiḥ naṣṭaḥ samutthāya nalaḥ tatas . abravīt vānara-śreṣṭhaḥ vākyam rāmam mahā-balaḥ ..47 ..
अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये । पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः ॥48 ॥
अहम् सेतुम् करिष्यामि विस्तीर्णे वरुणालये । पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महोदधिः ॥४८ ॥
aham setum kariṣyāmi vistīrṇe varuṇālaye . pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ ..48 ..
दण्ड एव परो लोके पुरूषस्येति मे मतिः । धिक् सामर्थ्यमासाद्य तत्तवमाह महोदधिः ॥49 ॥
दण्डः एव परः लोके पुरूषस्य इति मे मतिः । धिक् सामर्थ्यम् आसाद्य तत्तवम् आह महा-उदधिः ॥४९ ॥
daṇḍaḥ eva paraḥ loke purūṣasya iti me matiḥ . dhik sāmarthyam āsādya tattavam āha mahā-udadhiḥ ..49 ..
अयंहिसागरोभीमस्सेतुकर्मदिदृक्ष्याः । । ददौदण्डभयाद्गाधंराघवायमहोदधिः ॥50 ॥
अयम् हि सागरः भीमः सेतु-कर्म-दिदृक्ष्याः । । ददौ दण्ड-भयात् गाधम् राघवाय महा-उदधिः ॥५० ॥
ayam hi sāgaraḥ bhīmaḥ setu-karma-didṛkṣyāḥ . . dadau daṇḍa-bhayāt gādham rāghavāya mahā-udadhiḥ ..50 ..
मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा । मया तु सदृशः पुत्रस्तव देवि भविष्यति । औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा । ॥51 ॥
मम मातुः वरः दत्तः मन्दरे विश्वकर्मणा । मया तु सदृशः पुत्रः तव देवि भविष्यति । औरसः तस्य पुत्रः अहम् सदृशः विश्वकर्मणा । ॥५१ ॥
mama mātuḥ varaḥ dattaḥ mandare viśvakarmaṇā . mayā tu sadṛśaḥ putraḥ tava devi bhaviṣyati . aurasaḥ tasya putraḥ aham sadṛśaḥ viśvakarmaṇā . ..51 ..
स्मारितोऽस्म्यहमेतेन तत्त्वमहा महोदधिः । न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ॥52 ॥
स्मारितः अस्मि अहम् एतेन तत्त्व-महा महा-उदधिः । न च अपि अहम् अनुक्तः वै प्रब्रूयाम् आत्मनः गुणान् ॥५२ ॥
smāritaḥ asmi aham etena tattva-mahā mahā-udadhiḥ . na ca api aham anuktaḥ vai prabrūyām ātmanaḥ guṇān ..52 ..
समर्थश्चाप्यहं सेतु कर्तुं वै वरूणालये । तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः ॥53 ॥
समर्थः च अपि अहम् सेतु कर्तुम् वै वरूण-आलये । तस्मात् अद्य एव बध्नन्तु सेतुम् वानर-पुङ्गवाः ॥५३ ॥
samarthaḥ ca api aham setu kartum vai varūṇa-ālaye . tasmāt adya eva badhnantu setum vānara-puṅgavāḥ ..53 ..
ततो निसृष्टरामेण सर्वतो हरियूथपाः । उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः ॥54 ॥
ततस् निसृष्ट-रामेण सर्वतस् हरि-यूथपाः । उत्पेततुः महा-अरण्यम् हृष्टाः शत-सहस्रशस् ॥५४ ॥
tatas nisṛṣṭa-rāmeṇa sarvatas hari-yūthapāḥ . utpetatuḥ mahā-araṇyam hṛṣṭāḥ śata-sahasraśas ..54 ..
ते नगान्नगसङ्काशाः शाखामृगगणर्षभाः । बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् ॥55 ॥
ते नगान् नग-सङ्काशाः शाखामृग-गण-ऋषभाः । बभञ्जुः वानराः तत्र प्रचकर्षुः च सागरम् ॥५५ ॥
te nagān naga-saṅkāśāḥ śākhāmṛga-gaṇa-ṛṣabhāḥ . babhañjuḥ vānarāḥ tatra pracakarṣuḥ ca sāgaram ..55 ..
ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः । कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि ॥56 ॥
ते सालैः च अश्वकर्णैः च धवैः वंशैः च वानराः । कुटजैः अर्जुनैः तालैः तिकलैः तिमिशैः अपि ॥५६ ॥
te sālaiḥ ca aśvakarṇaiḥ ca dhavaiḥ vaṃśaiḥ ca vānarāḥ . kuṭajaiḥ arjunaiḥ tālaiḥ tikalaiḥ timiśaiḥ api ..56 ..
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः । चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥57 ॥
बिल्वकैः सप्तपर्णैः च कर्णिकारैः च पुष्पितैः । चूतैः च अशोक-वृक्षैः च सागरम् समपूरयन् ॥५७ ॥
bilvakaiḥ saptaparṇaiḥ ca karṇikāraiḥ ca puṣpitaiḥ . cūtaiḥ ca aśoka-vṛkṣaiḥ ca sāgaram samapūrayan ..57 ..
समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः । इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ॥58 ॥
समूलान् च विमूलान् च पादपान् हरि-सत्तमाः । इन्द्र-केतून् इव उद्यम्य प्रजह्रुः हरयः तरून् ॥५८ ॥
samūlān ca vimūlān ca pādapān hari-sattamāḥ . indra-ketūn iva udyamya prajahruḥ harayaḥ tarūn ..58 ..
ताळान दाडिमगुल्मांश्च नारिकेळन्विभीतकान् । करीरान् बकुलान् निम्बान् समाजह्रुरितस्ततः ॥59 ॥
दाडिम-गुल्मान् च दाडिम-गुल्मान् च । करीरान् बकुलान् निम्बान् समाजह्रुः इतस् ततस् ॥५९ ॥
dāḍima-gulmān ca dāḍima-gulmān ca . karīrān bakulān nimbān samājahruḥ itas tatas ..59 ..
हस्तिमतान् महाकायाः पाषाणांश्च महाबलाः । पर्वतांश्च समुत्पाट्य यत्रै परिवहन्ति च ॥60 ॥
महा-कायाः पाषाणान् च महा-बलाः । पर्वतान् च समुत्पाट्य परिवहन्ति च ॥६० ॥
mahā-kāyāḥ pāṣāṇān ca mahā-balāḥ . parvatān ca samutpāṭya parivahanti ca ..60 ..
प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् । समुत्ससर्प चाकाशमवासर्पत् तत पुनः ॥61 ॥
प्रक्षिप्यमाणैः अचलैः सहसा जलम् उद्धतम् । समुत्ससर्प च आकाशम् अवासर्पत् तत पुनर् ॥६१ ॥
prakṣipyamāṇaiḥ acalaiḥ sahasā jalam uddhatam . samutsasarpa ca ākāśam avāsarpat tata punar ..61 ..
समुद्रं क्षोभयामासुर्वानराश्च समन्ततः । सूत्राण्यन्ये प्रगृह्णान्ति ह्यायतं शतयोजनम् ॥62 ॥
समुद्रम् क्षोभयामासुः वानराः च समन्ततः । सूत्राणि अन्ये प्रगृह्णान्ति हि आयतम् शत-योजनम् ॥६२ ॥
samudram kṣobhayāmāsuḥ vānarāḥ ca samantataḥ . sūtrāṇi anye pragṛhṇānti hi āyatam śata-yojanam ..62 ..
नलश्चक्रे महासेतुं मध्ये नदनदीपतेः । स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः ॥63 ॥
नलः चक्रे महा-सेतुम् मध्ये नदनदीपतेः । स तदा क्रियते सेतुः वानरैः घोर-कर्मभिः ॥६३ ॥
nalaḥ cakre mahā-setum madhye nadanadīpateḥ . sa tadā kriyate setuḥ vānaraiḥ ghora-karmabhiḥ ..63 ..
दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे । वानरैः शतशस्तत्र रामस्याज्ञापुरस्सराः ॥64 ॥
दण्डान् अन्ये प्रगृह्णन्ति विचिन्वन्ति तथा अपरे । वानरैः शतशस् तत्र रामस्य आज्ञा-पुरस्सराः ॥६४ ॥
daṇḍān anye pragṛhṇanti vicinvanti tathā apare . vānaraiḥ śataśas tatra rāmasya ājñā-purassarāḥ ..64 ..
मेघाभैः पर्वताग्रैश्च तृणैः काष्ठैर्बबन्धिरे । पुष्रिताग्रैश्च तरूभि सेतु बध्नन्ति वानराः ॥65 ॥
मेघ-आभैः पर्वत-अग्रैः च तृणैः काष्ठैः बबन्धिरे । पुष्रित-अग्रैः च सेतु बध्नन्ति वानराः ॥६५ ॥
megha-ābhaiḥ parvata-agraiḥ ca tṛṇaiḥ kāṣṭhaiḥ babandhire . puṣrita-agraiḥ ca setu badhnanti vānarāḥ ..65 ..
पाषाणांश्च गिरिप्रख्यान गिरीणां शिखराणि च । दृश्यन्ते परिधावन्तो गृह्य दानवसन्निभाः ॥66 ॥
पाषाणान् च गिरि-प्रख्यान गिरीणाम् शिखराणि च । दृश्यन्ते परिधावन्तः गृह्य दानव-सन्निभाः ॥६६ ॥
pāṣāṇān ca giri-prakhyāna girīṇām śikharāṇi ca . dṛśyante paridhāvantaḥ gṛhya dānava-sannibhāḥ ..66 ..
शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् । बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ॥67 ॥
शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् । बभूव तुमुलः शब्दः तदा तस्मिन् महा-उदधौ ॥६७ ॥
śilānām kṣipyamāṇānām śailānām tatra pātyatām . babhūva tumulaḥ śabdaḥ tadā tasmin mahā-udadhau ..67 ..
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश । प्रहृष्टैर्गजसङ्काश्चैस्त्वरमाणैः प्लवङ्गमैः ॥68 ॥
कृतानि प्रथमेन अह्ना योजनानि चतुर्दश । प्रहृष्टैः गज-सङ्काश्चैः त्वरमाणैः प्लवङ्गमैः ॥६८ ॥
kṛtāni prathamena ahnā yojanāni caturdaśa . prahṛṣṭaiḥ gaja-saṅkāścaiḥ tvaramāṇaiḥ plavaṅgamaiḥ ..68 ..
द्वितीयेन तथैचाह्ना योजनानि तु विंशतिः । कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः ॥69 ॥
द्वितीयेन योजनानि तु विंशतिः । कृतानि प्लवगैः तूर्णम् भीम-कायैः महा-बलैः ॥६९ ॥
dvitīyena yojanāni tu viṃśatiḥ . kṛtāni plavagaiḥ tūrṇam bhīma-kāyaiḥ mahā-balaiḥ ..69 ..
अह्ना तृतयेन तथा योजनानि तु सागरे । त्वरमाणैर्महाकायैरेकविंशतिरेव च ॥70 ॥
अह्ना तृतयेन तथा योजनानि तु सागरे । त्वरमाणैः महा-कायैः एकविंशतिः एव च ॥७० ॥
ahnā tṛtayena tathā yojanāni tu sāgare . tvaramāṇaiḥ mahā-kāyaiḥ ekaviṃśatiḥ eva ca ..70 ..
चतुर्थेन तथा चाह्ना द्वाविंशतिरथासि वा । योजनानि महावेगैः कृतानि त्वरितस्तुतैः ॥71 ॥
चतुर्थेन तथा च अह्ना द्वाविंशतिः अथ असि वा । योजनानि महा-वेगैः कृतानि त्वरित-स्तुतैः ॥७१ ॥
caturthena tathā ca ahnā dvāviṃśatiḥ atha asi vā . yojanāni mahā-vegaiḥ kṛtāni tvarita-stutaiḥ ..71 ..
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः । योजनानि त्रयोविंशता सुवेलमधिकृत्य वै ॥72 ॥
पञ्चमेन तथा च अह्ना प्लवगैः क्षिप्रकारिभिः । योजनानि त्रयोविंशता सुवेलम् अधिकृत्य वै ॥७२ ॥
pañcamena tathā ca ahnā plavagaiḥ kṣiprakāribhiḥ . yojanāni trayoviṃśatā suvelam adhikṛtya vai ..72 ..
स वानरवरः श्रीमान् विश्वकर्मात्माजो बली । बबन्ध सागरे सेतुं यथा चास्य पिता तथा ॥73 ॥
स वानर-वरः श्रीमान् विश्वकर्म-आत्मा अजः बली । बबन्ध सागरे सेतुम् यथा च अस्य पिता तथा ॥७३ ॥
sa vānara-varaḥ śrīmān viśvakarma-ātmā ajaḥ balī . babandha sāgare setum yathā ca asya pitā tathā ..73 ..
स नलेन कृतः सेतुः सागरे मकरालये । शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे ॥74 ॥
स नलेन कृतः सेतुः सागरे मकर-आलये । शुशुभे सुभगः श्रीमान् स्वाती-पथः इव अम्बरे ॥७४ ॥
sa nalena kṛtaḥ setuḥ sāgare makara-ālaye . śuśubhe subhagaḥ śrīmān svātī-pathaḥ iva ambare ..74 ..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्बुतम् ॥75 ॥
ततस् देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः । आगम्य गगने तस्थुः द्रष्टु-कामाः तत् अद्बुतम् ॥७५ ॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ . āgamya gagane tasthuḥ draṣṭu-kāmāḥ tat adbutam ..75 ..
दशयोजनविस्तीर्णं शतयोजनमायतम् । ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥76 ॥
दश-योजन-विस्तीर्णम् शत-योजनम् आयतम् । ददृशुः देव-गन्धर्वाः नलसेतुम् सु दुष्करम् ॥७६ ॥
daśa-yojana-vistīrṇam śata-yojanam āyatam . dadṛśuḥ deva-gandharvāḥ nalasetum su duṣkaram ..76 ..
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम् ॥77 ॥
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवङ्गमाः । तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम-हर्षणम् ॥७७ ॥
āplavantaḥ plavantaḥ ca garjantaḥ ca plavaṅgamāḥ . tam acintyam asahyam ca adbhutam loma-harṣaṇam ..77 ..
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् । तानि कोटिसहस्राणि वानराणां महौजसाम् ॥78 ॥
ददृशुः सर्व-भूतानि सागरे सेतु-बन्धनम् । तानि कोटि-सहस्राणि वानराणाम् महा-ओजसाम् ॥७८ ॥
dadṛśuḥ sarva-bhūtāni sāgare setu-bandhanam . tāni koṭi-sahasrāṇi vānarāṇām mahā-ojasām ..78 ..
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः । विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः ॥79 ॥
बध्नन्तः सागरे सेतुम् जग्मुः पारम् महा-उदधेः । विशालः सु कृतः श्रीमान् सु भूमिः सु समाहितः ॥७९ ॥
badhnantaḥ sāgare setum jagmuḥ pāram mahā-udadheḥ . viśālaḥ su kṛtaḥ śrīmān su bhūmiḥ su samāhitaḥ ..79 ..
अशोभत महासेतुः सीमन्त इव सागरे । ततः परे समुद्रस्य गदापाणिर्विभीषणः ॥80 ॥
अशोभत महा-सेतुः सीमन्तः इव सागरे । ततस् परे समुद्रस्य गदा-पाणिः विभीषणः ॥८० ॥
aśobhata mahā-setuḥ sīmantaḥ iva sāgare . tatas pare samudrasya gadā-pāṇiḥ vibhīṣaṇaḥ ..80 ..
परेषामभिघतार्थमतिष्ठत् सचिवैः सह । सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् ॥81 ॥
परेषाम् अभिघत-अर्थम् अतिष्ठत् सचिवैः सह । सुग्रीवः तु ततस् प्राह रामम् सत्य-पराक्रमम् ॥८१ ॥
pareṣām abhighata-artham atiṣṭhat sacivaiḥ saha . sugrīvaḥ tu tatas prāha rāmam satya-parākramam ..81 ..
हनूमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः । अयं हि विपुलो वीर सागरो मकरालयः ॥82 ॥
हनूमन्तम् त्वम् आरोह अङ्गदम् तु अथ लक्ष्मणः । अयम् हि विपुलः वीर सागरः मकर-आलयः ॥८२ ॥
hanūmantam tvam āroha aṅgadam tu atha lakṣmaṇaḥ . ayam hi vipulaḥ vīra sāgaraḥ makara-ālayaḥ ..82 ..
वैहायसौ युवामेतौ वानरौ धारयिष्यतः । अग्रतस्तस्य सैन्यस्य श्रीमान रामः सलक्ष्मणः ॥83 ॥
वैहायसौ युवाम् एतौ वानरौ धारयिष्यतः । अग्रतस् तस्य सैन्यस्य रामः स लक्ष्मणः ॥८३ ॥
vaihāyasau yuvām etau vānarau dhārayiṣyataḥ . agratas tasya sainyasya rāmaḥ sa lakṣmaṇaḥ ..83 ..
जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः । अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः ॥84 ॥
जगाम धन्वी धर्म-आत्मा सुग्रीवेण समन्वितः । अन्ये मध्येन गच्छन्ति पार्श्वतस् अन्ये प्लवङ्गमाः ॥८४ ॥
jagāma dhanvī dharma-ātmā sugrīveṇa samanvitaḥ . anye madhyena gacchanti pārśvatas anye plavaṅgamāḥ ..84 ..
सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे । केचिद् वैहायसगता सुपर्णा इव पुप्लुवुः ॥85 ॥
सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे । केचिद् वैहायस-गता सुपर्णाः इव पुप्लुवुः ॥८५ ॥
salile prapatanti anye mārgam anye na lebhire . kecid vaihāyasa-gatā suparṇāḥ iva pupluvuḥ ..85 ..
घोषेण महता घोषं सागरस्य समुच्छ्रितम् । भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥86 ॥
घोषेण महता घोषम् सागरस्य समुच्छ्रितम् । भीमम् अन्तर्दधे भीमा तरन्ती हरि-वाहिनी ॥८६ ॥
ghoṣeṇa mahatā ghoṣam sāgarasya samucchritam . bhīmam antardadhe bhīmā tarantī hari-vāhinī ..86 ..
वानराणां हि सा तीर्णा वाहिनी नल सेतुना । तीरे निविविशे राज्ञा बहुमूलफलोदके ॥87 ॥
वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना । तीरे निविविशे राज्ञा बहु-मूल-फल-उदके ॥८७ ॥
vānarāṇām hi sā tīrṇā vāhinī nala setunā . tīre niviviśe rājñā bahu-mūla-phala-udake ..87 ..
तदद्भुतं राघव कर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः । उपेत्य रामं सहिता महर्षिभिः समभ्यषिञ्चन्सुशुभैर्जलैः पृथक् ॥88 ॥
तत् अद्भुतम् राघव कर्म दुष्करम् समीक्ष्य देवाः सह सिद्ध-चारणैः । उपेत्य रामम् सहिताः महा-ऋषिभिः समभ्यषिञ्चन् सु शुभैः जलैः पृथक् ॥८८ ॥
tat adbhutam rāghava karma duṣkaram samīkṣya devāḥ saha siddha-cāraṇaiḥ . upetya rāmam sahitāḥ mahā-ṛṣibhiḥ samabhyaṣiñcan su śubhaiḥ jalaiḥ pṛthak ..88 ..
जयस्व शत्रून्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः । इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥89 ॥
जयस्व शत्रून् नरदेव मेदिनीम् स सागराम् पालय शाश्वतीः समाः । इति इव रामम् नरदेव-सत्कृतम् शुभैः वचोभिः विविधैः अपूजयन् ॥८९ ॥
jayasva śatrūn naradeva medinīm sa sāgarām pālaya śāśvatīḥ samāḥ . iti iva rāmam naradeva-satkṛtam śubhaiḥ vacobhiḥ vividhaiḥ apūjayan ..89 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In