This overlay will guide you through the buttons:

| |
|
सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥
सा वीर-समितिः राज्ञा विरराज व्यवस्थिता । शशिना शुभ-नक्षत्रा पौर्णमासी इव शारदी ॥ १ ॥
sā vīra-samitiḥ rājñā virarāja vyavasthitā . śaśinā śubha-nakṣatrā paurṇamāsī iva śāradī .. 1 ..
प्रचचाल च वेगेन त्रस्ता चैव वसुंन्धरा । पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ २ ॥
प्रचचाल च वेगेन त्रस्ता च एव वसुंन्धरा । पीड्यमानाः बल-ओघेन तेन सागर-वर्चसा ॥ २ ॥
pracacāla ca vegena trastā ca eva vasuṃndharā . pīḍyamānāḥ bala-oghena tena sāgara-varcasā .. 2 ..
ततःशुश्रुवुराक्रुष्टं लङ्कायां काननौकसः । भेरीमृदङ्गसङ्घुष्टं तुमुलं लोमहर्षणम् ॥ ३ ॥
ततस् शुश्रुवुः आक्रुष्टम् लङ्कायाम् काननौकसः । भेरी-मृदङ्ग-सङ्घुष्टम् तुमुलम् लोम-हर्षणम् ॥ ३ ॥
tatas śuśruvuḥ ākruṣṭam laṅkāyām kānanaukasaḥ . bherī-mṛdaṅga-saṅghuṣṭam tumulam loma-harṣaṇam .. 3 ..
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः । अमृष्यमाणास्तं घोषं विनेदुर्घोषवत्तरम् ॥ ४ ॥
बभूवुः तेन घोषेण संहृष्टाः हरि-यूथपाः । अमृष्यमाणाः तम् घोषम् विनेदुः घोषवत्तरम् ॥ ४ ॥
babhūvuḥ tena ghoṣeṇa saṃhṛṣṭāḥ hari-yūthapāḥ . amṛṣyamāṇāḥ tam ghoṣam vineduḥ ghoṣavattaram .. 4 ..
राक्षसास्तत् प्लवङ्गानां शुश्रुवुश्चाऽपि गर्जितम् । नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम् ॥ ५ ॥
राक्षसाः तत् प्लवङ्गानाम् शुश्रुवुः च अ अपि गर्जितम् । नर्दताम् इव दृप्तानाम् मेघानाम् अम्बरे स्वनम् ॥ ५ ॥
rākṣasāḥ tat plavaṅgānām śuśruvuḥ ca a api garjitam . nardatām iva dṛptānām meghānām ambare svanam .. 5 ..
दृष्टवा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम मनसा सीतां दूयमानेन चेतसा ॥ ६ ॥
दृष्टवा दाशरथिः लङ्काम् चित्र-ध्वज-पताकिनीम् । जगाम मनसा सीताम् दूयमानेन चेतसा ॥ ६ ॥
dṛṣṭavā dāśarathiḥ laṅkām citra-dhvaja-patākinīm . jagāma manasā sītām dūyamānena cetasā .. 6 ..
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते । अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥ ७ ॥
अत्र सा मृगशाबाक्षी रावणेन उपरुध्यते । अभिभूता ग्रहेण इव लोहित-अङ्गेन रोहिणी ॥ ७ ॥
atra sā mṛgaśābākṣī rāvaṇena uparudhyate . abhibhūtā graheṇa iva lohita-aṅgena rohiṇī .. 7 ..
दीर्घमुष्णं च निश्वस्य समुद्वीक्ष्य च लक्ष्मणम् । उवाच वचनं वीरस्तत्कालहितमात्मनः ॥ ८ ॥
दीर्घम् उष्णम् च निश्वस्य समुद्वीक्ष्य च लक्ष्मणम् । उवाच वचनम् वीरः तद्-काल-हितम् आत्मनः ॥ ८ ॥
dīrgham uṣṇam ca niśvasya samudvīkṣya ca lakṣmaṇam . uvāca vacanam vīraḥ tad-kāla-hitam ātmanaḥ .. 8 ..
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण । मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ॥ ९ ॥
आलिखन्तीम् इव आकाशम् उत्थिताम् पश्य लक्ष्मण । मनसा इव कृताम् लङ्काम् नग-अग्रे विश्वकर्मणा ॥ ९ ॥
ālikhantīm iva ākāśam utthitām paśya lakṣmaṇa . manasā iva kṛtām laṅkām naga-agre viśvakarmaṇā .. 9 ..
विमानैर्बहुभिर्लङ्का संकीर्णा राचित पुरा । विष्णोः पदमिवाकाशं छादितं पाण्डुभिर्घनैः ॥ १० ॥
विमानैः बहुभिः लङ्का संकीर्णा राचित पुरा । विष्णोः पदम् इव आकाशम् छादितम् पाण्डुभिः घनैः ॥ १० ॥
vimānaiḥ bahubhiḥ laṅkā saṃkīrṇā rācita purā . viṣṇoḥ padam iva ākāśam chāditam pāṇḍubhiḥ ghanaiḥ .. 10 ..
पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः । नानापतगसङ्घुष्टैफलपुष्पोपगै शुभैः ॥ ११ ॥
पुष्पितैः शोभिता लङ्का वनैः चत्र-रथ-उपमैः । शुभैः ॥ ११ ॥
puṣpitaiḥ śobhitā laṅkā vanaiḥ catra-ratha-upamaiḥ . śubhaiḥ .. 11 ..
पश्य मत्तविहाङ्गानि प्रलीनभ्रमराणि च । कोकिलाकुलषण्डानिदोधवीतिशिवोऽनिलः ॥ १२ ॥
पश्य मत्त-विहा-अङ्गानि प्रलीन-भ्रमराणि च । कोकिल-आकुल-षण्ड-अनि-दोधवीति-शिवः अनिलः ॥ १२ ॥
paśya matta-vihā-aṅgāni pralīna-bhramarāṇi ca . kokila-ākula-ṣaṇḍa-ani-dodhavīti-śivaḥ anilaḥ .. 12 ..
इति दाशरथी रामो लक्ष्मणं समभाषत । बलं च तत्र विभजच्छास्त्रदृष्टेन कर्मणा ॥ १३ ॥
इति दाशरथिः रामः लक्ष्मणम् समभाषत । बलम् च तत्र विभजत् शास्त्र-दृष्टेन कर्मणा ॥ १३ ॥
iti dāśarathiḥ rāmaḥ lakṣmaṇam samabhāṣata . balam ca tatra vibhajat śāstra-dṛṣṭena karmaṇā .. 13 ..
शशास कपिसेना तां बलदादाय वीर्यवान् । अङ्गद सह नीलेन तिष्ठेदुरसि दुर्जयः ॥ १४ ॥
शशास कपि-सेना ताम् बलदा आदाय वीर्यवान् । अङ्गद सह नीलेन तिष्ठेत् उरसि दुर्जयः ॥ १४ ॥
śaśāsa kapi-senā tām baladā ādāya vīryavān . aṅgada saha nīlena tiṣṭhet urasi durjayaḥ .. 14 ..
तिष्ठेद् वानरवाहिन्या वानरौघसमावृतः । आश्रितो दक्षिणं पार्श्वमृषभो नाम वानर: ॥ १५ ॥
तिष्ठेत् वानर-वाहिन्या वानर-ओघ-समावृतः । आश्रितः दक्षिणम् पार्श्वम् ऋषभः नाम वानरः ॥ १५ ॥
tiṣṭhet vānara-vāhinyā vānara-ogha-samāvṛtaḥ . āśritaḥ dakṣiṇam pārśvam ṛṣabhaḥ nāma vānaraḥ .. 15 ..
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । तिष्ठेद् वानरवाहिन्या सव्यं पार्श्ववधिष्ठितः ॥ १६ ॥
गन्धहस्ती इव दुर्धर्षः तरस्वी गन्धमादनः । तिष्ठेत् वानर-वाहिन्या सव्यम् पार्श्व-वत् अधिष्ठितः ॥ १६ ॥
gandhahastī iva durdharṣaḥ tarasvī gandhamādanaḥ . tiṣṭhet vānara-vāhinyā savyam pārśva-vat adhiṣṭhitaḥ .. 16 ..
मूर्ध्नि स्थास्याम्यहं यु त्तोलक्ष्मणेन समन्वितः । जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः ॥ १७ ॥
मूर्ध्नि स्थास्यामि अहम् समन्वितः । जाम्बवान् च सुषेणः च वेगदर्शी च वानरः । ऋक्ष-मुख्याः महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ॥ १७ ॥
mūrdhni sthāsyāmi aham samanvitaḥ . jāmbavān ca suṣeṇaḥ ca vegadarśī ca vānaraḥ . ṛkṣa-mukhyāḥ mahātmānaḥ kukṣim rakṣantu te trayaḥ .. 17 ..
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु । पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ॥ १८ ॥
जघनम् कपि-सेनायाः कपि-राजः अभिरक्षतु । पश्च-अर्धम् इव लोकस्य प्रचेताः तेजसा वृतः ॥ १८ ॥
jaghanam kapi-senāyāḥ kapi-rājaḥ abhirakṣatu . paśca-ardham iva lokasya pracetāḥ tejasā vṛtaḥ .. 18 ..
सुविभक्तमहाव्यूहा महावानररक्षिता । अनीकिनी सा विबभौ यथा द्यौः साभ्रसम्प्लवा ॥ १९ ॥
। अनीकिनी सा विबभौ यथा द्यौः स अभ्र-सम्प्लवा ॥ १९ ॥
. anīkinī sā vibabhau yathā dyauḥ sa abhra-samplavā .. 19 ..
प्रगृह्य गिरिशृङ्गाणि महातश्च महीरुहन् । आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे ॥ २० ॥
प्रगृह्य गिरि-शृङ्गाणि महातस् च । आसेदुः वानराः लङ्काम् मिमर्दयिषवः रणे ॥ २० ॥
pragṛhya giri-śṛṅgāṇi mahātas ca . āseduḥ vānarāḥ laṅkām mimardayiṣavaḥ raṇe .. 20 ..
शिखरैर्विकिरामैनां लङ्कां मुष्टभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरिपुङ्गवाः ॥ २१ ॥
शिखरैः विकिराम एनाम् लङ्काम् मुष्टभिः एव वा । इति स्म दधिरे सर्वे मनांसि हरि-पुङ्गवाः ॥ २१ ॥
śikharaiḥ vikirāma enām laṅkām muṣṭabhiḥ eva vā . iti sma dadhire sarve manāṃsi hari-puṅgavāḥ .. 21 ..
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् । सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ॥ २२ ॥
ततस् रामः महा-तेजाः सुग्रीवम् इदम् अब्रवीत् । सु विभक्तानि सैन्यानि शुकः एष विमुच्यताम् ॥ २२ ॥
tatas rāmaḥ mahā-tejāḥ sugrīvam idam abravīt . su vibhaktāni sainyāni śukaḥ eṣa vimucyatām .. 22 ..
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः । मोचयामास तं दूतं शुकं रामस्य शासनात् ॥२३ ॥
रामस्य तु वचः श्रुत्वा वानर-इन्द्रः महा-बलः । मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ॥२३ ॥
rāmasya tu vacaḥ śrutvā vānara-indraḥ mahā-balaḥ . mocayāmāsa tam dūtam śukam rāmasya śāsanāt ..23 ..
मोचितो रामवाक्येन वानरैश्च निपीडितः । शुकः परमसन्त्रस्तो रक्षोधिपमुपागमत् ॥ २४ ॥
मोचितः राम-वाक्येन वानरैः च निपीडितः । शुकः परम-सन्त्रस्तः रक्षः-धिपम् उपागमत् ॥ २४ ॥
mocitaḥ rāma-vākyena vānaraiḥ ca nipīḍitaḥ . śukaḥ parama-santrastaḥ rakṣaḥ-dhipam upāgamat .. 24 ..
रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह । किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे । कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ॥ २५ ॥
रावणः प्रहसन् एव शुकम् वाक्यम् उवाच ह । किम् इमौ ते सितौ पक्षौ लून-पक्षः च दृश्यसे । कच्चित् न अनेक-चित्तानाम् तेषाम् त्वम् वशम् आगतः ॥ २५ ॥
rāvaṇaḥ prahasan eva śukam vākyam uvāca ha . kim imau te sitau pakṣau lūna-pakṣaḥ ca dṛśyase . kaccit na aneka-cittānām teṣām tvam vaśam āgataḥ .. 25 ..
ततः स भयसंविग्नस्तदा राज्ञाभिचोदितः । वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ॥ २६ ॥
ततस् स भय-संविग्नः तदा राज्ञा अभिचोदितः । वचनम् प्रत्युवाच इदम् राक्षस-अधिपम् उत्तमम् ॥ २६ ॥
tatas sa bhaya-saṃvignaḥ tadā rājñā abhicoditaḥ . vacanam pratyuvāca idam rākṣasa-adhipam uttamam .. 26 ..
सागरस्योत्तरे तीरेऽब्रवं ते वचनं तथा । यथा सन्धेशमक्लिष्टं सान्त्वयन्श्लक्ष्णया गिरा ॥ २७ ॥
सागरस्य उत्तरे तीरे अब्रवम् ते वचनम् तथा । यथा सन्धेशम् अक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥ २७ ॥
sāgarasya uttare tīre abravam te vacanam tathā . yathā sandheśam akliṣṭam sāntvayan ślakṣṇayā girā .. 27 ..
क्रुद्धैस्सैरहमुत्प्लुत दृष्टमात्रः प्लवङ्गमैः । गृहीतोऽस्म्यपि चारब्दो हन्तुं लोप्तुं च मुष्टिभि ॥ २८ ॥
क्रुद्धैः सैः अहम् उत्प्लुत दृष्ट-मात्रः प्लवङ्गमैः । गृहीतः अस्मि अपि च आरब्दः हन्तुम् च मुष्टिभिः ॥ २८ ॥
kruddhaiḥ saiḥ aham utpluta dṛṣṭa-mātraḥ plavaṅgamaiḥ . gṛhītaḥ asmi api ca ārabdaḥ hantum ca muṣṭibhiḥ .. 28 ..
न ते सम्भाषितुं शक्या सम्प्रश्नोऽत्र न विद्यते । प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिपः ॥ २९ ॥
न ते सम्भाषितुम् शक्या सम्प्रश्नः अत्र न विद्यते । प्रकृत्या कोपनाः तीक्ष्णाः वानराः राक्षस-अधिपः ॥ २९ ॥
na te sambhāṣitum śakyā sampraśnaḥ atra na vidyate . prakṛtyā kopanāḥ tīkṣṇāḥ vānarāḥ rākṣasa-adhipaḥ .. 29 ..
स च हन्ता विराधस्य कबन्धस्य खरस्य च । सुग्रीवसहितो राम सीताया: पदमागतः ॥ ३० ॥
स च हन्ता विराधस्य कबन्धस्य खरस्य च । सुग्रीव-सहितः राम सीतायाः पदम् आगतः ॥ ३० ॥
sa ca hantā virādhasya kabandhasya kharasya ca . sugrīva-sahitaḥ rāma sītāyāḥ padam āgataḥ .. 30 ..
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम् । एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥ ३१ ॥
स कृत्वा सागरे सेतुम् तीर्त्वा च लवण-उदधिम् । एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥ ३१ ॥
sa kṛtvā sāgare setum tīrtvā ca lavaṇa-udadhim . eṣa rakṣāṃsi nirdhūya dhanvī tiṣṭhati rāghavaḥ .. 31 ..
ऋक्षवानरसङ्घानामनीकानि सहस्रशः । गिरिमेघनिकाशानां छादयन्ति वसुन्धराम् ॥ ३२ ॥
ऋक्ष-वानर-सङ्घानाम् अनीकानि सहस्रशस् । गिरि-मेघ-निकाशानाम् छादयन्ति वसुन्धराम् ॥ ३२ ॥
ṛkṣa-vānara-saṅghānām anīkāni sahasraśas . giri-megha-nikāśānām chādayanti vasundharām .. 32 ..
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च । नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ ३३ ॥
राक्षसानाम् बल-ओघस्य वानर-इन्द्र-बलस्य च । न एतयोः विद्यते सन्धिः देव-दानवयोः इव ॥ ३३ ॥
rākṣasānām bala-oghasya vānara-indra-balasya ca . na etayoḥ vidyate sandhiḥ deva-dānavayoḥ iva .. 33 ..
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु । सीतां चास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम् ॥ ३४ ॥
पुरा प्राकारम् आयान्ति क्षिप्रम् एकतरम् कुरु । सीताम् च अस्मै प्रयच्छ आशु युद्धम् वा अपि प्रदीयताम् ॥ ३४ ॥
purā prākāram āyānti kṣipram ekataram kuru . sītām ca asmai prayaccha āśu yuddham vā api pradīyatām .. 34 ..
शुकस्यव चनं श्रुत्वा रावणो वाक्यमब्रवीत् । रोषसंरक्तनयनो निर्दहन्निन चक्षुषा ॥ ३५ ॥
शुकस्य व चनम् श्रुत्वा रावणः वाक्यम् अब्रवीत् । रोष-संरक्त-नयनः चक्षुषा ॥ ३५ ॥
śukasya va canam śrutvā rāvaṇaḥ vākyam abravīt . roṣa-saṃrakta-nayanaḥ cakṣuṣā .. 35 ..
यदि मां प्रति युध्येरन् देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ ३६ ॥
यदि माम् प्रति युध्येरन् देव-गन्धर्व-दानवाः । न एव सीताम् प्रदास्यामि सर्व-लोक-भयात् अपि ॥ ३६ ॥
yadi mām prati yudhyeran deva-gandharva-dānavāḥ . na eva sītām pradāsyāmi sarva-loka-bhayāt api .. 36 ..
कदा समभिधावन्ति मामका राघवं शराः । वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ॥ ३7 ॥
कदा समभिधावन्ति मामकाः राघवम् शराः । वसन्ते पुष्पितम् मत्ताः भ्रमराः इव पादपम् ॥ ३७ ॥
kadā samabhidhāvanti māmakāḥ rāghavam śarāḥ . vasante puṣpitam mattāḥ bhramarāḥ iva pādapam .. 37 ..
कदा शोणीतदिग्धाङ्गं र्दीप्तै: कार्मुकच्युतैः । शरैरादीपयाम्येनम उल्काभिरिव कुञ्जरम् ॥ ३८ ॥
कदा शोणीत-दिग्ध-अङ्गम् कार्मुक-च्युतैः । शरैः आदीपयामि एनमः उल्काभिः इव कुञ्जरम् ॥ ३८ ॥
kadā śoṇīta-digdha-aṅgam kārmuka-cyutaiḥ . śaraiḥ ādīpayāmi enamaḥ ulkābhiḥ iva kuñjaram .. 38 ..
तच्चास्य बलमादास्ये बलेन महता वृतः । ज्योतिषामिव सर्वेषां प्रभामुद्यन् दिवाकरः ॥ ३९ ॥
तत् च अस्य बलम् आदास्ये बलेन महता वृतः । ज्योतिषाम् इव सर्वेषाम् प्रभाम् उद्यन् दिवाकरः ॥ ३९ ॥
tat ca asya balam ādāsye balena mahatā vṛtaḥ . jyotiṣām iva sarveṣām prabhām udyan divākaraḥ .. 39 ..
सागरस्येव मे वेगो मारुतस्येव मे बलम: । न च दाशरथिर्वेद तेन मां योद्धुमिच्छति ॥ ४० ॥
सागरस्य इव मे वेगः मारुतस्य इव मे बलमः । न च दाशरथिः वेद तेन माम् योद्धुम् इच्छति ॥ ४० ॥
sāgarasya iva me vegaḥ mārutasya iva me balamaḥ . na ca dāśarathiḥ veda tena mām yoddhum icchati .. 40 ..
न मे तूणीशयान् बाणान् सविषानिव पन्नगान् । रामः पश्यति संग्रामे तेन मां योध्दुमिच्छति॥ ४१ ॥
न मे तूणी-शयान् बाणान् स विषान् इव पन्नगान् । रामः पश्यति संग्रामे तेन माम् योध्दुम् इच्छति॥ ४१ ॥
na me tūṇī-śayān bāṇān sa viṣān iva pannagān . rāmaḥ paśyati saṃgrāme tena mām yodhdum icchati.. 41 ..
न जानाति पुरा वीर्य मम युद्धे स राघवः । मम चापमयीं वीणां शरकोणैः प्रवादिताम् ॥ ४२ ॥
न जानाति पुरा वीर्य मम युद्धे स राघवः । मम चाप-मयीम् वीणाम् शर-कोणैः प्रवादिताम् ॥ ४२ ॥
na jānāti purā vīrya mama yuddhe sa rāghavaḥ . mama cāpa-mayīm vīṇām śara-koṇaiḥ pravāditām .. 42 ..
ज्याशब्दतुमुलां घोरामार्तभीतमहास्वनाम् । नाराचतलसंनादा नदीमहितवाहिनीम् । अवगाह्य महारङ्गं वादयिष्याम्यहं रणे ॥ ४३ ॥
ज्या-शब्द-तुमुलाम् घोराम् आर्त-भीत-महा-स्वनाम् । नाराच-तल-संनादाः नदीम् अहित-वाहिनीम् । अवगाह्य महा-रङ्गम् वादयिष्यामि अहम् रणे ॥ ४३ ॥
jyā-śabda-tumulām ghorām ārta-bhīta-mahā-svanām . nārāca-tala-saṃnādāḥ nadīm ahita-vāhinīm . avagāhya mahā-raṅgam vādayiṣyāmi aham raṇe .. 43 ..
न वासवेनापि सहस्रचक्षुषा यथास्मि शक्यो वरुणेन वा स्वयम् । यमेन वा धर्षयितुं शराग्निना महाहवे वैश्रवणेन वा पुन: ॥ ४३ ॥
न वासवेन अपि सहस्रचक्षुषा यथा अस्मि शक्यः वरुणेन वा स्वयम् । यमेन वा धर्षयितुम् शर-अग्निना महा-आहवे वैश्रवणेन वा पुनर् ॥ ४३ ॥
na vāsavena api sahasracakṣuṣā yathā asmi śakyaḥ varuṇena vā svayam . yamena vā dharṣayitum śara-agninā mahā-āhave vaiśravaṇena vā punar .. 43 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In