This overlay will guide you through the buttons:

| |
|
सबले सागरं तीर्णे रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ॥ 1 ॥
सबले सागरम् तीर्णे रामे दशरथ-आत्मजे । अमात्यौ रावणः श्रीमान् अब्रवीत् शुक-सारणौ ॥ १ ॥
sabale sāgaram tīrṇe rāme daśaratha-ātmaje . amātyau rāvaṇaḥ śrīmān abravīt śuka-sāraṇau .. 1 ..
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् । अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ॥ 2 ॥
समग्रम् सागरम् तीर्णम् दुस्तरम् वानरम् बलम् । अभूत-पूर्वम् रामेण सागरे सेतु-बन्धनम् ॥ २ ॥
samagram sāgaram tīrṇam dustaram vānaram balam . abhūta-pūrvam rāmeṇa sāgare setu-bandhanam .. 2 ..
सागरे सेतुबन्धं तु न श्रद्दध्यां कथं चन । अवश्यं चापि सङ्ख्येयं तन्मया वानरं बलम् ॥ 3 ॥
सागरे सेतु-बन्धम् तु न श्रद्दध्याम् कथम् चन । अवश्यम् च अपि सङ्ख्येयम् तत् मया वानरम् बलम् ॥ ३ ॥
sāgare setu-bandham tu na śraddadhyām katham cana . avaśyam ca api saṅkhyeyam tat mayā vānaram balam .. 3 ..
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ । परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ॥ 4 ॥
भवन्तौ वानरम् सैन्यम् प्रविश्य अनुपलक्षितौ । परिमाणम् च वीर्यम् च ये च मुख्याः प्लवङ्गमाः ॥ ४ ॥
bhavantau vānaram sainyam praviśya anupalakṣitau . parimāṇam ca vīryam ca ye ca mukhyāḥ plavaṅgamāḥ .. 4 ..
मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः । ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः ॥ 5 ॥
मन्त्रिणः ये च रामस्य सुग्रीवस्य च संमताः । ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवङ्गमाः ॥ ५ ॥
mantriṇaḥ ye ca rāmasya sugrīvasya ca saṃmatāḥ . ye pūrvam abhivartante ye ca śūrāḥ plavaṅgamāḥ .. 5 ..
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे । निवेशश्च यथा तेषां वानराणां महात्मनाम् ॥ 6 ॥
स च सेतुः यथा बद्धः सागरे सलिल-अर्णवे । निवेशः च यथा तेषाम् वानराणाम् महात्मनाम् ॥ ६ ॥
sa ca setuḥ yathā baddhaḥ sāgare salila-arṇave . niveśaḥ ca yathā teṣām vānarāṇām mahātmanām .. 6 ..
रामस्य व्यवसायं च वीर्यं प्रहरणानि च । लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ ॥ 7 ॥
रामस्य व्यवसायम् च वीर्यम् प्रहरणानि च । लक्ष्मणस्य च वीरस्य तत्त्वतः ज्ञातुम् अर्हथ ॥ ७ ॥
rāmasya vyavasāyam ca vīryam praharaṇāni ca . lakṣmaṇasya ca vīrasya tattvataḥ jñātum arhatha .. 7 ..
कश्च सेनापतिस्तेषां वानराणां महौजसाम् । एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः ॥ 8 ॥
कः च सेनापतिः तेषाम् वानराणाम् महा-ओजसाम् । एतत् ज्ञात्वा यथातत्त्वम् शीघ्रम् अगन्तुम् अर्हथः ॥ ८ ॥
kaḥ ca senāpatiḥ teṣām vānarāṇām mahā-ojasām . etat jñātvā yathātattvam śīghram agantum arhathaḥ .. 8 ..
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ॥ 9 ॥
इति प्रतिसमादिष्टौ राक्षसौ शुक-सारणौ । हरि-रूप-धरौ वीरौ प्रविष्टौ वानरम् बलम् ॥ ९ ॥
iti pratisamādiṣṭau rākṣasau śuka-sāraṇau . hari-rūpa-dharau vīrau praviṣṭau vānaram balam .. 9 ..
ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम् । सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ 10 ॥
ततस् तत् वानरम् सैन्यम् अचिन्त्यम् लोम-हर्षणम् । सङ्ख्यातुम् न अध्यगच्छेताम् तदा तौ शुक-सारणौ ॥ १० ॥
tatas tat vānaram sainyam acintyam loma-harṣaṇam . saṅkhyātum na adhyagacchetām tadā tau śuka-sāraṇau .. 10 ..
तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च । समुद्रस्य च तीरेषु वनेषूपवनेषु च । तरमाणं च तीर्णं च तर्तुकामं च सर्वशः ॥ 11 ॥
तत् स्थितम् पर्वत-अग्रेषु निर्दरेषु गुहासु च । समुद्रस्य च तीरेषु वनेषु उपवनेषु च । तरमाणम् च तीर्णम् च तर्तु-कामम् च सर्वशस् ॥ ११ ॥
tat sthitam parvata-agreṣu nirdareṣu guhāsu ca . samudrasya ca tīreṣu vaneṣu upavaneṣu ca . taramāṇam ca tīrṇam ca tartu-kāmam ca sarvaśas .. 11 ..
निविष्टं निविशच्चैव भीमनादं महाबलम् । तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ ॥ 12 ॥
निविष्टम् निविशत् च एव भीम-नादम् महा-बलम् । तद्-बल-अर्णवम् अक्षोभ्यम् ददृशाते निशाचरौ ॥ १२ ॥
niviṣṭam niviśat ca eva bhīma-nādam mahā-balam . tad-bala-arṇavam akṣobhyam dadṛśāte niśācarau .. 12 ..
तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः । आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ ॥ 13 ॥
तौ ददर्श महा-तेजाः प्रच्छन्नौ च विभीषणः । आचचक्षे अथ रामाय गृहीत्वा शुक-सारणौ ॥ १३ ॥
tau dadarśa mahā-tejāḥ pracchannau ca vibhīṣaṇaḥ . ācacakṣe atha rāmāya gṛhītvā śuka-sāraṇau .. 13 ..
तस्यैमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ । लङ्कायाः समनुप्राप्तौ चारौ परपुरञ्जयौ ॥ 14 ॥
तस्यै इमौ राक्षस-इन्द्रस्य मन्त्रिणौ शुक-सारणौ । लङ्कायाः समनुप्राप्तौ चारौ परपुरञ्जयौ ॥ १४ ॥
tasyai imau rākṣasa-indrasya mantriṇau śuka-sāraṇau . laṅkāyāḥ samanuprāptau cārau parapurañjayau .. 14 ..
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा । कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥ 15 ॥
तौ दृष्ट्वा व्यथितौ रामम् निराशौ जीविते तदा । कृत-अञ्जलि-पुटौ भीतौ वचनम् च इदम् ऊचतुः ॥ १५ ॥
tau dṛṣṭvā vyathitau rāmam nirāśau jīvite tadā . kṛta-añjali-puṭau bhītau vacanam ca idam ūcatuḥ .. 15 ..
आवामिहागतौ सौम्य रावणप्रहितावुभौ । परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन ॥ 16 ॥
आवाम् इह आगतौ सौम्य रावण-प्रहितौ उभौ । परिज्ञातुम् बलम् कृत्स्नम् तव इदम् रघुनन्दन ॥ १६ ॥
āvām iha āgatau saumya rāvaṇa-prahitau ubhau . parijñātum balam kṛtsnam tava idam raghunandana .. 16 ..
तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः । अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः ॥ 17 ॥
तयोः तत् वचनम् श्रुत्वा रामः दशरथ-आत्मजः । अब्रवीत् प्रहसन् वाक्यम् सर्व-भूत-हिते रतः ॥ १७ ॥
tayoḥ tat vacanam śrutvā rāmaḥ daśaratha-ātmajaḥ . abravīt prahasan vākyam sarva-bhūta-hite rataḥ .. 17 ..
यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः । यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥ 18 ॥
यदि दृष्टम् बलम् कृत्स्नम् वयम् वा सुसमीक्षिताः । यथा उक्तम् वा कृतम् कार्यम् छन्दतः प्रतिगम्यताम् ॥ १८ ॥
yadi dṛṣṭam balam kṛtsnam vayam vā susamīkṣitāḥ . yathā uktam vā kṛtam kāryam chandataḥ pratigamyatām .. 18 ..
अथ किञ्चिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः । विभीषणो वा कात्स्नर्येन पूनः सन्दर्शयिष्यति ॥ 19 ॥
अथ किञ्चिद् अदृष्टम् वा भूयस् तत् द्रष्टुम् अर्हथः । विभीषणः वा कात्स्नर्येन पूनर् सन्दर्शयिष्यति ॥ १९ ॥
atha kiñcid adṛṣṭam vā bhūyas tat draṣṭum arhathaḥ . vibhīṣaṇaḥ vā kātsnaryena pūnar sandarśayiṣyati .. 19 ..
न चेदं ग्रहणं प्राप्य भेत्तव्यं जीवितं प्रति । न्यस्तशस्त्रौ गृहतौ च न दूतौ वधमर्हतः ॥ 20 ॥
न च इदम् ग्रहणम् प्राप्य भेत्तव्यम् जीवितम् प्रति । न्यस्त-शस्त्रौ च न दूतौ वधम् अर्हतः ॥ २० ॥
na ca idam grahaṇam prāpya bhettavyam jīvitam prati . nyasta-śastrau ca na dūtau vadham arhataḥ .. 20 ..
प्रच्छन्नौ च विमुञ्चैतौ चारौ रात्रिंचरावुभौ । शत्रुपक्षस्य सततं विभीषण: विकर्षिणौ ॥ 21 ॥
प्रच्छन्नौ च विमुञ्च एतौ चारौ रात्रिंचरौ उभौ । शत्रु-पक्षस्य सततम् विभीषणः विकर्षिणौ ॥ २१ ॥
pracchannau ca vimuñca etau cārau rātriṃcarau ubhau . śatru-pakṣasya satatam vibhīṣaṇaḥ vikarṣiṇau .. 21 ..
प्रविश्य महती लङ्कां भवद्भ्यां धनदानुजः । वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ॥ 22 ॥
प्रविश्य महती लङ्काम् भवद्भ्याम् धनद-अनुजः । वक्तव्यः रक्षसाम् राजा यथा उक्तम् वचनम् मम ॥ २२ ॥
praviśya mahatī laṅkām bhavadbhyām dhanada-anujaḥ . vaktavyaḥ rakṣasām rājā yathā uktam vacanam mama .. 22 ..
यद्बलं च समाश्रित्य सीतां मे हृतवानसि । तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ॥ 23 ॥
यद्-बलम् च समाश्रित्य सीताम् मे हृतवान् असि । तत् दर्शय यथाकामम् स सैन्यः सह बान्धवः ॥ २३ ॥
yad-balam ca samāśritya sītām me hṛtavān asi . tat darśaya yathākāmam sa sainyaḥ saha bāndhavaḥ .. 23 ..
श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् । राक्षसं च बलं पश्य शरैर्विध्वंसितं मया ॥ 24 ॥
श्वःकाले नगरीम् लङ्काम् स प्राकाराम् स तोरणाम् । राक्षसम् च बलम् पश्य शरैः विध्वंसितम् मया ॥ २४ ॥
śvaḥkāle nagarīm laṅkām sa prākārām sa toraṇām . rākṣasam ca balam paśya śaraiḥ vidhvaṃsitam mayā .. 24 ..
क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण । श्वः काले वज्रवान् वज्रं दानवेष्विव वासवः ॥ 25 ॥
क्रोधम् भीमम् अहम् मोक्ष्ये स सैन्ये त्वयि रावण । श्वस् काले वज्रवान् वज्रम् दानवेषु इव वासवः ॥ २५ ॥
krodham bhīmam aham mokṣye sa sainye tvayi rāvaṇa . śvas kāle vajravān vajram dānaveṣu iva vāsavaḥ .. 25 ..
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । जयेति प्रतिनन्द्यैनं राघवं धर्मवत्सलम् ॥ 26 ॥
इति प्रतिसमादिष्टौ राक्षसौ शुक-सारणौ । जय इति प्रतिनन्द्य एनम् राघवम् धर्म-वत्सलम् ॥ २६ ॥
iti pratisamādiṣṭau rākṣasau śuka-sāraṇau . jaya iti pratinandya enam rāghavam dharma-vatsalam .. 26 ..
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् । विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर ॥ 27 ॥
आगम्य नगरीम् लङ्काम् अब्रूताम् राक्षस-अधिपम् । विभीषण-गृहीतौ तु वध-अर्हौ राक्षस-ईश्वर ॥ २७ ॥
āgamya nagarīm laṅkām abrūtām rākṣasa-adhipam . vibhīṣaṇa-gṛhītau tu vadha-arhau rākṣasa-īśvara .. 27 ..
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा । एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ॥ 28 ॥
दृष्ट्वा धर्म-आत्मना मुक्तौ रामेण अमित-तेजसा । एक-स्थान-गताः यत्र चत्वारः पुरुष-ऋषभाः ॥ २८ ॥
dṛṣṭvā dharma-ātmanā muktau rāmeṇa amita-tejasā . eka-sthāna-gatāḥ yatra catvāraḥ puruṣa-ṛṣabhāḥ .. 28 ..
लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः । रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः ॥ 29 ॥
लोकपाल-उपमाः शूराः कृतास्त्राः दृढ-विक्रमाः । रामः दाशरथिः श्रीमान् लक्ष्मणः च विभीषणः ॥ २९ ॥
lokapāla-upamāḥ śūrāḥ kṛtāstrāḥ dṛḍha-vikramāḥ . rāmaḥ dāśarathiḥ śrīmān lakṣmaṇaḥ ca vibhīṣaṇaḥ .. 29 ..
सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः । एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ॥ 30 ॥
सुग्रीवः च महा-तेजाः महा-इन्द्र-सम-विक्रमः । एते शक्ताः पुरीम् लङ्काम् स प्राकाराम् स तोरणाम् ॥ ३० ॥
sugrīvaḥ ca mahā-tejāḥ mahā-indra-sama-vikramaḥ . ete śaktāḥ purīm laṅkām sa prākārām sa toraṇām .. 30 ..
उत्पाट्य सङ्क्रामयितुं सर्वे तिष्ठन्तु वानराः । यादृशं तस्य रामस्य रूपं प्रहरणानि च ॥ 31 ॥
उत्पाट्य सङ्क्रामयितुम् सर्वे तिष्ठन्तु वानराः । यादृशम् तस्य रामस्य रूपम् प्रहरणानि च ॥ ३१ ॥
utpāṭya saṅkrāmayitum sarve tiṣṭhantu vānarāḥ . yādṛśam tasya rāmasya rūpam praharaṇāni ca .. 31 ..
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः । रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ 32 ॥
वधिष्यति पुरीम् लङ्काम् एकः तिष्ठन्तु ते त्रयः । राम-लक्ष्मण-गुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैः अपि सुर-असुरैः ॥ ३२ ॥
vadhiṣyati purīm laṅkām ekaḥ tiṣṭhantu te trayaḥ . rāma-lakṣmaṇa-guptā sā sugrīveṇa ca vāhinī . babhūva durdharṣatarā sarvaiḥ api sura-asuraiḥ .. 32 ..
प्रहृष्टरूपा ध्वजिनी वनौकसां महात्मनां सम्प्रति योद्धुमिच्छताम् । अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली ॥ 33 ॥
प्रहृष्ट-रूपा ध्वजिनी वनौकसाम् महात्मनाम् सम्प्रति योद्धुम् इच्छताम् । अलम् विरोधेन शमः विधीयताम् प्रदीयताम् दाशरथाय मैथिली ॥ ३३ ॥
prahṛṣṭa-rūpā dhvajinī vanaukasām mahātmanām samprati yoddhum icchatām . alam virodhena śamaḥ vidhīyatām pradīyatām dāśarathāya maithilī .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In