This overlay will guide you through the buttons:

| |
|
तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥ 1 ॥
तद्-वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् । निशम्य रावणः राजा प्रत्यभाषत सारणम् ॥ १ ॥
tad-vacaḥ pathyam aklībam sāraṇena abhibhāṣitam . niśamya rāvaṇaḥ rājā pratyabhāṣata sāraṇam .. 1 ..
यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ 2 ॥
यदि माम् अभियुञ्जीरन् देव-गन्धर्व-दानवाः । न एव सीताम् प्रदास्यामि सर्व-लोक-भयात् अपि ॥ २ ॥
yadi mām abhiyuñjīran deva-gandharva-dānavāḥ . na eva sītām pradāsyāmi sarva-loka-bhayāt api .. 2 ..
त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् । प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ॥ 3 ॥
त्वम् तु सौम्य परित्रस्तः हरिभिः निर्जितः भृशम् । प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥ ३ ॥
tvam tu saumya paritrastaḥ haribhiḥ nirjitaḥ bhṛśam . pratipradānam adya eva sītāyāḥ sādhu manyase .. 3 ..
को हि नाम सपत्नो मां समरे जेतुमर्हति । इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ॥ 4 ॥
कः हि नाम सपत्नः माम् समरे जेतुम् अर्हति । इति उक्त्वा परुषम् वाक्यम् रावणः राक्षस-अधिपः ॥ ४ ॥
kaḥ hi nāma sapatnaḥ mām samare jetum arhati . iti uktvā paruṣam vākyam rāvaṇaḥ rākṣasa-adhipaḥ .. 4 ..
आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम् । बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ॥ 5 ॥
आरुरोह ततस् श्रीमान् प्रासादम् हिम-पाण्डुरम् । बहु-ताल-समुत्सेधम् रावणः अथ दिदृक्षया ॥ ५ ॥
āruroha tatas śrīmān prāsādam hima-pāṇḍuram . bahu-tāla-samutsedham rāvaṇaḥ atha didṛkṣayā .. 5 ..
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः । पश्यमानः समुद्रं च पर्वतांश्च वनानि च ॥ 6 ॥
ताभ्याम् चराभ्याम् सहितः रावणः क्रोध-मूर्छितः । पश्यमानः समुद्रम् च पर्वतान् च वनानि च ॥ ६ ॥
tābhyām carābhyām sahitaḥ rāvaṇaḥ krodha-mūrchitaḥ . paśyamānaḥ samudram ca parvatān ca vanāni ca .. 6 ..
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः । तदपारमसङ्ख्येयं वानराणां महद्बलम् ॥ 7 ॥
ददर्श पृथिवी-देशम् सु सम्पूर्णम् प्लवङ्गमैः । तत् अपारम् असङ्ख्येयम् वानराणाम् महत् बलम् ॥ ७ ॥
dadarśa pṛthivī-deśam su sampūrṇam plavaṅgamaiḥ . tat apāram asaṅkhyeyam vānarāṇām mahat balam .. 7 ..
आलोक्य रावणो राजा परिपप्रच्छ सारणम् । एषां वानरमुख्यानां के शूराः के महाबलाः ॥ 8 ॥
आलोक्य रावणः राजा परिपप्रच्छ सारणम् । एषाम् वानर-मुख्यानाम् के शूराः के महा-बलाः ॥ ८ ॥
ālokya rāvaṇaḥ rājā paripapraccha sāraṇam . eṣām vānara-mukhyānām ke śūrāḥ ke mahā-balāḥ .. 8 ..
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः । केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ॥ 9 ॥
के पूर्वम् अभिवर्तन्ते महा-उत्साहाः समन्ततः । केषाम् शृणोति सुग्रीवः के वा यूथप-यूथपाः ॥ ९ ॥
ke pūrvam abhivartante mahā-utsāhāḥ samantataḥ . keṣām śṛṇoti sugrīvaḥ ke vā yūthapa-yūthapāḥ .. 9 ..
सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवङ्गमाः । सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ॥ 10 ॥
सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवङ्गमाः । सारणः राक्षस-इन्द्रस्य वचनम् परिपृच्छतः ॥ १० ॥
sāraṇa ācakṣva me sarvam ke pradhānāḥ plavaṅgamāḥ . sāraṇaḥ rākṣasa-indrasya vacanam paripṛcchataḥ .. 10 ..
आबभाषेऽथ मुख्यज्ञो मुख्यांस्तत्र वनौकसः । एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ॥ 11 ॥
आबभाषे अथ मुख्य-ज्ञः मुख्यान् तत्र वनौकसः । एष यः अभिमुखः लङ्काम् नर्दन् तिष्ठति वानरः ॥ ११ ॥
ābabhāṣe atha mukhya-jñaḥ mukhyān tatra vanaukasaḥ . eṣa yaḥ abhimukhaḥ laṅkām nardan tiṣṭhati vānaraḥ .. 11 ..
यूथपानां सहस्राणां शतेन परिवारितः । यस्य घोषेण महता सप्राकारा सतोरणा ॥ 12 ॥
यूथपानाम् सहस्राणाम् शतेन परिवारितः । यस्य घोषेण महता स प्राकारा स तोरणा ॥ १२ ॥
yūthapānām sahasrāṇām śatena parivāritaḥ . yasya ghoṣeṇa mahatā sa prākārā sa toraṇā .. 12 ..
लङ्का प्रवेपते सर्वा सशैलवनकानना । सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ॥ 13 ॥
लङ्का प्रवेपते सर्वा स शैल-वन-कानना । सर्व-शाखामृग-इन्द्रस्य सुग्रीवस्य महात्मनः ॥ १३ ॥
laṅkā pravepate sarvā sa śaila-vana-kānanā . sarva-śākhāmṛga-indrasya sugrīvasya mahātmanaḥ .. 13 ..
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः । बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ॥ 14 ॥
बल-अग्रे तिष्ठते वीरः नीलः नाम एष यूथपः । बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्छति वीर्यवान् ॥ १४ ॥
bala-agre tiṣṭhate vīraḥ nīlaḥ nāma eṣa yūthapaḥ . bāhū pragṛhya yaḥ padbhyām mahīm gacchati vīryavān .. 14 ..
लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते । गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः ॥ 15 ॥
लङ्काम् अभिमुखः कोपात् अभीक्ष्णम् च विजृम्भते । गिरि-शृङ्ग-प्रतीकाशः पद्म-किञ्जल्क-संनिभः ॥ १५ ॥
laṅkām abhimukhaḥ kopāt abhīkṣṇam ca vijṛmbhate . giri-śṛṅga-pratīkāśaḥ padma-kiñjalka-saṃnibhaḥ .. 15 ..
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः । यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश ॥ 16 ॥
स्फोटयति अभिसंरब्धः लाङ्गूलम् च पुनर् पुनर् । यस्य लाङ्गूल-शब्देन स्वनन्ति इव दिशः दश ॥ १६ ॥
sphoṭayati abhisaṃrabdhaḥ lāṅgūlam ca punar punar . yasya lāṅgūla-śabdena svananti iva diśaḥ daśa .. 16 ..
एष वानरराजेन सुर्ग्रीवेणाभिषेचितः । यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ॥ 17 ॥
एष वानर-राजेन सुर्ग्रीवेण अभिषेचितः । यौवराज्ये अङ्गदः नाम त्वाम् आह्वयति संयुगे ॥ १७ ॥
eṣa vānara-rājena surgrīveṇa abhiṣecitaḥ . yauvarājye aṅgadaḥ nāma tvām āhvayati saṃyuge .. 17 ..
वालिनस्सदृशःपुत्रस्सुग्रीवस्यसदाप्रियः । राघवार्थेपराक्रान्तश्शक्रार्थेवरुणोयथा ॥ 18 ॥
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः । राघव-अर्थे पराक्रान्तः शक्र-अर्थे वरुणः यथा ॥ १८ ॥
vālinaḥ sadṛśaḥ putraḥ sugrīvasya sadā priyaḥ . rāghava-arthe parākrāntaḥ śakra-arthe varuṇaḥ yathā .. 18 ..
एतस्यसा मतिः सर्वा यद् दृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हितैषिणा ॥ 19 ॥
मतिः सर्वा यत् दृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हित-एषिणा ॥ १९ ॥
matiḥ sarvā yat dṛṣṭā janakātmajā . hanūmatā vegavatā rāghavasya hita-eṣiṇā .. 19 ..
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् । परिगृह्याभियाति त्वां स्वेनानीकेन मर्दितुम् ॥ 20 ॥
बहूनि वानर-इन्द्राणाम् एष यूथानि वीर्यवान् । परिगृह्य अभियाति त्वाम् स्वेन अनीकेन मर्दितुम् ॥ २० ॥
bahūni vānara-indrāṇām eṣa yūthāni vīryavān . parigṛhya abhiyāti tvām svena anīkena marditum .. 20 ..
अनु वालिसुतस्यापि बले नमहता वृतः । वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ॥ 21 ॥
अनु वालि-सुतस्य अपि बले नमहता वृतः । वीरः तिष्ठति संग्रामे सेतु-हेतुः अयम् नलः ॥ २१ ॥
anu vāli-sutasya api bale namahatā vṛtaḥ . vīraḥ tiṣṭhati saṃgrāme setu-hetuḥ ayam nalaḥ .. 21 ..
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च । उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः ॥ 22 ॥
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च । उत्थाय च विजृम्भन्ते क्रोधेन हरि-पुङ्गवाः ॥ २२ ॥
ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca . utthāya ca vijṛmbhante krodhena hari-puṅgavāḥ .. 22 ..
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः । अष्टौ शतसहस्राणि दशकोटिशतानि च । य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ॥ 23 ॥
एते दुष्प्रसहाः घोराः चण्डाः चण्ड-पराक्रमाः । अष्टौ शत-सहस्राणि दश-कोटि-शतानि च । ये एनम् अनुगच्छन्ति वीराः चन्दन-वासिनः ॥ २३ ॥
ete duṣprasahāḥ ghorāḥ caṇḍāḥ caṇḍa-parākramāḥ . aṣṭau śata-sahasrāṇi daśa-koṭi-śatāni ca . ye enam anugacchanti vīrāḥ candana-vāsinaḥ .. 23 ..
एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् । श्वेतो रजतसङ्काशः सबलो भीमविक्रमः ॥ 24 ॥
एषः आशंसते लङ्काम् स्वेन अनीकेन मर्दितुम् । श्वेतः रजत-सङ्काशः स बलः भीम-विक्रमः ॥ २४ ॥
eṣaḥ āśaṃsate laṅkām svena anīkena marditum . śvetaḥ rajata-saṅkāśaḥ sa balaḥ bhīma-vikramaḥ .. 24 ..
बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः । तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः ॥ 25 ॥
बुद्धिमान् वानरः शूरः त्रिषु लोकेषु विश्रुतः । तूर्णम् सुग्रीवम् आगम्य पुनर् गच्छति वानरः ॥ २५ ॥
buddhimān vānaraḥ śūraḥ triṣu lokeṣu viśrutaḥ . tūrṇam sugrīvam āgamya punar gacchati vānaraḥ .. 25 ..
विभजन्वानरीं सेनामनीकानि प्रहर्षयन् । यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ॥ 26 ॥
विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् । यः पुरा गोमती-तीरे रम्यम् पर्येति पर्वतम् ॥ २६ ॥
vibhajan vānarīm senām anīkāni praharṣayan . yaḥ purā gomatī-tīre ramyam paryeti parvatam .. 26 ..
नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः । तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ॥ 27 ॥
नाम्ना सङ्कोचनः नाम नाना नग-युतः गिरिः । तत्र राज्यम् प्रशास्ति एष कुमुदः नाम यूथपः ॥ २७ ॥
nāmnā saṅkocanaḥ nāma nānā naga-yutaḥ giriḥ . tatra rājyam praśāsti eṣa kumudaḥ nāma yūthapaḥ .. 27 ..
योऽसौ शतसहस्राणां सहस्रं परिकर्षति । यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ॥ 28 ॥
यः असौ शत-सहस्राणाम् सहस्रम् परिकर्षति । यस्य वालाः बहु-व्यामाः दीर्घ-लाङ्गूलम् आश्रिताः ॥ २८ ॥
yaḥ asau śata-sahasrāṇām sahasram parikarṣati . yasya vālāḥ bahu-vyāmāḥ dīrgha-lāṅgūlam āśritāḥ .. 28 ..
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः । अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 29 ॥
ताम्राः पीताः सिताः श्वेताः प्रकीर्णाः घोर-कर्मणः । अदीनः रोषणः चण्डः सङ्ग्रामम् अभिकाङ्क्षति । एषा एव आशंसते लङ्काम् स्वेन अनीकेन मर्दितुम् ॥ २९ ॥
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇāḥ ghora-karmaṇaḥ . adīnaḥ roṣaṇaḥ caṇḍaḥ saṅgrāmam abhikāṅkṣati . eṣā eva āśaṃsate laṅkām svena anīkena marditum .. 29 ..
यस्त्वेष सिंहसङ्काशः कपिलो दीर्घकेसरः । निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥ 30 ॥
यः तु एष सिंह-सङ्काशः कपिलः दीर्घ-केसरः । निभृतः प्रेक्षते लङ्काम् दिधक्षन् इव चक्षुषा ॥ ३० ॥
yaḥ tu eṣa siṃha-saṅkāśaḥ kapilaḥ dīrgha-kesaraḥ . nibhṛtaḥ prekṣate laṅkām didhakṣan iva cakṣuṣā .. 30 ..
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् । राजन्सततमध्यास्ते रम्भो नामैष यूथपः । शतं शतसहस्राणां त्रिंशच्च हरियूथपाः ॥ 31 ॥
विन्ध्यम् कृष्णगिरिम् सह्यम् पर्वतम् च सुदर्शनम् । राजन् सततम् अध्यास्ते रम्भः नाम एष यूथपः । शतम् शत-सहस्राणाम् त्रिंशत् च हरि-यूथपाः ॥ ३१ ॥
vindhyam kṛṣṇagirim sahyam parvatam ca sudarśanam . rājan satatam adhyāste rambhaḥ nāma eṣa yūthapaḥ . śatam śata-sahasrāṇām triṃśat ca hari-yūthapāḥ .. 31 ..
यं यान्तं वानरा घोराश्चण्डाश्चण्डपराक्रमाः । परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ॥ 32 ॥
यम् यान्तम् वानराः घोराः चण्डाः चण्ड-पराक्रमाः । परिवार्य अनुगच्छन्ति लङ्काम् मर्दितुम् ओजसा ॥ ३२ ॥
yam yāntam vānarāḥ ghorāḥ caṇḍāḥ caṇḍa-parākramāḥ . parivārya anugacchanti laṅkām marditum ojasā .. 32 ..
यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः । न च संविजते मृत्योर्न च यूथाद्विधावति ॥ 33 ॥
यः तु कर्णौ विवृणुते जृम्भते च पुनर् पुनर् । न च संविजते मृत्योः न च यूथात् विधावति ॥ ३३ ॥
yaḥ tu karṇau vivṛṇute jṛmbhate ca punar punar . na ca saṃvijate mṛtyoḥ na ca yūthāt vidhāvati .. 33 ..
प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते । पश्यन् लाङ्गूलमपिच क्ष्वेळतेच महाबलः ॥ 34 ॥
प्रकम्पते च रोषेण तिर्यक् च पुनर् ईक्षते । पश्यन् लाङ्गूलम् अपिच महा-बलः ॥ ३४ ॥
prakampate ca roṣeṇa tiryak ca punar īkṣate . paśyan lāṅgūlam apica mahā-balaḥ .. 34 ..
महाजवो वीतभयो रम्यं साल्वेयपर्वतम् । राजन् सततमध्यास्ते शरभो नाम यूथपः ॥ 35 ॥
महाजवः वीत-भयः रम्यम् साल्वेय-पर्वतम् । राजन् सततम् अध्यास्ते शरभः नाम यूथपः ॥ ३५ ॥
mahājavaḥ vīta-bhayaḥ ramyam sālveya-parvatam . rājan satatam adhyāste śarabhaḥ nāma yūthapaḥ .. 35 ..
एतस्य बलिनः सर्वे विहारा नाम यूथपाः । राजञ्शतसहस्राणि चत्वारिंशत्तथैव च ॥ 36 ॥
एतस्य बलिनः सर्वे विहाराः नाम यूथपाः । राजन् शत-सहस्राणि चत्वारिंशत् तथा एव च ॥ ३६ ॥
etasya balinaḥ sarve vihārāḥ nāma yūthapāḥ . rājan śata-sahasrāṇi catvāriṃśat tathā eva ca .. 36 ..
यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति । मध्ये वानरवीराणां सुराणामिव वासवः ॥ 37 ॥
यः तु मेघः इव आकाशम् महान् आवृत्य तिष्ठति । मध्ये वानर-वीराणाम् सुराणाम् इव वासवः ॥ ३७ ॥
yaḥ tu meghaḥ iva ākāśam mahān āvṛtya tiṣṭhati . madhye vānara-vīrāṇām surāṇām iva vāsavaḥ .. 37 ..
भेरीणामिव संनादो यस्यैष श्रूयते महान् । घोरः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम् ॥ 38 ॥
भेरीणाम् इव संनादः यस्य एष श्रूयते महान् । घोरः शाखामृग-इन्द्राणाम् सङ्ग्रामम् अभिकाङ्क्षताम् ॥ ३८ ॥
bherīṇām iva saṃnādaḥ yasya eṣa śrūyate mahān . ghoraḥ śākhāmṛga-indrāṇām saṅgrāmam abhikāṅkṣatām .. 38 ..
एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् । युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ॥ 39 ॥
एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् । युद्धे दुष्प्रसहः नित्यम् पनसः नाम यूथपः ॥ ३९ ॥
eṣa parvatam adhyāste pāriyātram anuttamam . yuddhe duṣprasahaḥ nityam panasaḥ nāma yūthapaḥ .. 39 ..
एनं शतसहस्राणां शतार्धं पर्युपासते । यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ॥ 40 ॥
एनम् शत-सहस्राणाम् शत-अर्धम् पर्युपासते । यूथपाः यूथप-श्रेष्ठम् येषाम् यूथानि भागशस् ॥ ४० ॥
enam śata-sahasrāṇām śata-ardham paryupāsate . yūthapāḥ yūthapa-śreṣṭham yeṣām yūthāni bhāgaśas .. 40 ..
यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् । स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ॥ 41 ॥
यः तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् । स्थिताम् तीरे समुद्रस्य द्वितीयः इव सागरः ॥ ४१ ॥
yaḥ tu bhīmām pravalgantīm camūm tiṣṭhati śobhayan . sthitām tīre samudrasya dvitīyaḥ iva sāgaraḥ .. 41 ..
एष दर्दरसङ्काशो विनतो नाम यूथपः । पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् ॥ 42 ॥
एष दर्दर-सङ्काशः विनतः नाम यूथपः । पिबन् चरति पर्ण-आशाम् नदीनाम् उत्तमाम् नदीम् ॥ ४२ ॥
eṣa dardara-saṅkāśaḥ vinataḥ nāma yūthapaḥ . piban carati parṇa-āśām nadīnām uttamām nadīm .. 42 ..
षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः । त्वामाह्वयति युद्धाय क्रथनो नाम यूथपः ॥ 43 ॥
षष्टिः शत-सहस्राणि बलम् अस्य प्लवङ्गमाः । त्वाम् आह्वयति युद्धाय क्रथनः नाम यूथपः ॥ ४३ ॥
ṣaṣṭiḥ śata-sahasrāṇi balam asya plavaṅgamāḥ . tvām āhvayati yuddhāya krathanaḥ nāma yūthapaḥ .. 43 ..
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः । यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ॥ 44 ॥
विक्रान्ताः बलवन्तः च यथा यूथानि भागशस् । यः तु गैरिक-वर्ण-आभम् वपुः पुष्यति वानरः ॥ ४४ ॥
vikrāntāḥ balavantaḥ ca yathā yūthāni bhāgaśas . yaḥ tu gairika-varṇa-ābham vapuḥ puṣyati vānaraḥ .. 44 ..
यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः । गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते ॥ 45 ॥
यः तु गैरिक-वर्ण-आभम् वपुः पुष्यति वानरः । गवयः नाम तेजस्वी त्वाम् क्रोधात् अभिवर्तते ॥ ४५ ॥
yaḥ tu gairika-varṇa-ābham vapuḥ puṣyati vānaraḥ . gavayaḥ nāma tejasvī tvām krodhāt abhivartate .. 45 ..
एनं शतसहस्राणि सप्ततिः पर्युपासते । एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 46 ॥
एनम् शत-सहस्राणि सप्ततिः पर्युपासते । एषः आशंसते लङ्काम् स्वेन अनीकेन मर्दितुम् ॥ ४६ ॥
enam śata-sahasrāṇi saptatiḥ paryupāsate . eṣaḥ āśaṃsate laṅkām svena anīkena marditum .. 46 ..
एते दुष्प्रसहा घोरा बलिनः कामरूपिणः । यूथपा यूथपश्रेष्ठा येषां सङ्ख्या न विद्यते ॥ 47 ॥
एते दुष्प्रसहाः घोराः बलिनः कामरूपिणः । यूथपाः यूथप-श्रेष्ठाः येषाम् सङ्ख्या न विद्यते ॥ ४७ ॥
ete duṣprasahāḥ ghorāḥ balinaḥ kāmarūpiṇaḥ . yūthapāḥ yūthapa-śreṣṭhāḥ yeṣām saṅkhyā na vidyate .. 47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In