This overlay will guide you through the buttons:

| |
|
तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥ 1 ॥
तान् तु ते अहम् प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघव-अर्थे पराक्रान्ताः ये न रक्षन्ति जीवितम् ॥ १ ॥
tān tu te aham pravakṣyāmi prekṣamāṇasya yūthapān . rāghava-arthe parākrāntāḥ ye na rakṣanti jīvitam .. 1 ..
स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः । ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ 2 ॥
स्निग्धाः यस्य बहु-श्यामाः बालाः लाङ्गूलम् आश्रिताः । ताम्राः पीताः सिताः श्वेताः प्रकीर्णाः घोर-कर्मणः ॥ २ ॥
snigdhāḥ yasya bahu-śyāmāḥ bālāḥ lāṅgūlam āśritāḥ . tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇāḥ ghora-karmaṇaḥ .. 2 ..
प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः । पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ॥ 3 ॥
प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः । पृथिव्याम् च अनुकृष्यन्ते हरः नाम एष यूथपः ॥ ३ ॥
pragṛhītāḥ prakāśante sūryasya iva marīcayaḥ . pṛthivyām ca anukṛṣyante haraḥ nāma eṣa yūthapaḥ .. 3 ..
यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः । वृक्षानुद्यम्य सहिसा लङ्कारोहणतत्पराः ॥ 4 ॥
यम् पृष्ठतस् अनुगच्छन्ति शतशस् अथ सहस्रशस् । वृक्षान् उद्यम्य स हिसाः लङ्का-आरोहण-तत्पराः ॥ ४ ॥
yam pṛṣṭhatas anugacchanti śataśas atha sahasraśas . vṛkṣān udyamya sa hisāḥ laṅkā-ārohaṇa-tatparāḥ .. 4 ..
यूथपाहरिराजस्यकिङ्करास्समुपस्थिताः । नीलानिवमहामेघांस्तिष्ठतोयांस्तुपश्यसि ॥ 5 ॥
यूथपाः हरि-राजस्य-किङ्कराः समुपस्थिताः । नीलान् इव महा-मेघान् तिष्ठ-तोयान् तु पश्यसि ॥ ५ ॥
yūthapāḥ hari-rājasya-kiṅkarāḥ samupasthitāḥ . nīlān iva mahā-meghān tiṣṭha-toyān tu paśyasi .. 5 ..
असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान् । असङ्ख्येयाननिर्देश्यान्परं पारमिवोदधेः ॥ 6 ॥
असित-अञ्जन-सङ्काशान् युद्धे सत्य-पराक्रमान् । असङ्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥ ६ ॥
asita-añjana-saṅkāśān yuddhe satya-parākramān . asaṅkhyeyān anirdeśyān param pāram iva udadheḥ .. 6 ..
पर्वतेषु च ये के चिद्विषमेषु नदीषु च । एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः ॥ 7 ॥
पर्वतेषु च ये के चित् विषमेषु नदीषु च । एते त्वाम् अभिवर्तन्ते राजन् नृष्काः सु दारुणाः ॥ ७ ॥
parvateṣu ca ye ke cit viṣameṣu nadīṣu ca . ete tvām abhivartante rājan nṛṣkāḥ su dāruṇāḥ .. 7 ..
एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः । पर्जन्य इव जीमूतैः समन्तात्परिवारितः ॥ 8 ॥
एषाम् मध्ये स्थितः राजन् भीम-अक्षः भीम-दर्शनः । पर्जन्यः इव जीमूतैः समन्तात् परिवारितः ॥ ८ ॥
eṣām madhye sthitaḥ rājan bhīma-akṣaḥ bhīma-darśanaḥ . parjanyaḥ iva jīmūtaiḥ samantāt parivāritaḥ .. 8 ..
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् । सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ॥ 9 ॥
ऋक्षवन्तम् गिरि-श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् । सर्व-ऋक्षाणाम् अधिपतिः धूम्रः नाम एष यूथपः ॥ ९ ॥
ṛkṣavantam giri-śreṣṭham adhyāste narmadām piban . sarva-ṛkṣāṇām adhipatiḥ dhūmraḥ nāma eṣa yūthapaḥ .. 9 ..
यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् । भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे ॥ 10 ॥
यवीयानस्य तु भ्राता पश्य एनम् पर्वत-उपमम् । भ्रात्रा समानः रूपेण विशिष्टः तु पराक्रमे ॥ १० ॥
yavīyānasya tu bhrātā paśya enam parvata-upamam . bhrātrā samānaḥ rūpeṇa viśiṣṭaḥ tu parākrame .. 10 ..
स एष जाम्बवान्नाम महायूथपयूथपः । प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ॥ 11 ॥
सः एष जाम्बवान् नाम महा-यूथप-यूथपः । प्रशान्तः गुरु-वर्ती च सम्प्रहारेषु अमर्षणः ॥ ११ ॥
saḥ eṣa jāmbavān nāma mahā-yūthapa-yūthapaḥ . praśāntaḥ guru-vartī ca samprahāreṣu amarṣaṇaḥ .. 11 ..
एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता । देवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ 12 ॥
एतेन साह्यम् सु महत् कृतम् शक्रस्य धीमता । देवासुरे जाम्बवता लब्धाः च बहवः वराः ॥ १२ ॥
etena sāhyam su mahat kṛtam śakrasya dhīmatā . devāsure jāmbavatā labdhāḥ ca bahavaḥ varāḥ .. 12 ..
आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः । मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ 13 ॥
आरुह्य पर्वत-अग्रेभ्यः महा-अभ्र-विपुलाः शिलाः । मुञ्चन्ति विपुल-आकाराः न मृत्योः उद्विजन्ति च ॥ १३ ॥
āruhya parvata-agrebhyaḥ mahā-abhra-vipulāḥ śilāḥ . muñcanti vipula-ākārāḥ na mṛtyoḥ udvijanti ca .. 13 ..
राक्षसानां च सदृशाः पिशाचानां च रोमशाः । एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः ॥ 14 ॥
राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः । एतस्य सैन्ये बहवः विचरन्ति अग्नि-तेजसः ॥ १४ ॥
rākṣasānām ca sadṛśāḥ piśācānām ca romaśāḥ . etasya sainye bahavaḥ vicaranti agni-tejasaḥ .. 14 ..
यं एनमभिसंरब्धं प्लवमानमिव स्थितम् । प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् ॥ 15 ॥
यम् एनम् अभिसंरब्धम् प्लवमानम् इव स्थितम् । प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप-यूथपम् ॥ १५ ॥
yam enam abhisaṃrabdham plavamānam iva sthitam . prekṣante vānarāḥ sarve sthitam yūthapa-yūthapam .. 15 ..
एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः । बलेन बलसम्पन्नो रम्भो नामैष यूथपः ॥ 16 ॥
एष राजन् सहस्राक्षम् पर्युपास्ते हरि-ईश्वरः । बलेन बल-सम्पन्नः रम्भः नाम एष यूथपः ॥ १६ ॥
eṣa rājan sahasrākṣam paryupāste hari-īśvaraḥ . balena bala-sampannaḥ rambhaḥ nāma eṣa yūthapaḥ .. 16 ..
यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते । ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥ 17 ॥
यः स्थितम् योजने शैलम् गच्छन् पार्श्वेन सेवते । ऊर्ध्वम् तथा एव कायेन गतः प्राप्नोति योजनम् ॥ १७ ॥
yaḥ sthitam yojane śailam gacchan pārśvena sevate . ūrdhvam tathā eva kāyena gataḥ prāpnoti yojanam .. 17 ..
यस्मान्न परमं रूपं चतुष्पादेषु विद्यते । श्रुतः संनादनो नाम वानराणां पितामहः ॥ 18 ॥
यस्मात् न परमम् रूपम् चतुष्पादेषु विद्यते । श्रुतः संनादनः नाम वानराणाम् पितामहः ॥ १८ ॥
yasmāt na paramam rūpam catuṣpādeṣu vidyate . śrutaḥ saṃnādanaḥ nāma vānarāṇām pitāmahaḥ .. 18 ..
येन युद्धं तदा दत्तं रणे शक्रस्य धीमता । पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥ 19 ॥
येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता । पराजयः च न प्राप्तः सः अयम् यूथप-यूथपः ॥ १९ ॥
yena yuddham tadā dattam raṇe śakrasya dhīmatā . parājayaḥ ca na prāptaḥ saḥ ayam yūthapa-yūthapaḥ .. 19 ..
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः । एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना ॥ 20 ॥
यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः । एष गन्धर्व-कन्यायाम् उत्पन्नः कृष्णवर्त्मना ॥ २० ॥
yasya vikramamāṇasya śakrasya iva parākramaḥ . eṣa gandharva-kanyāyām utpannaḥ kṛṣṇavartmanā .. 20 ..
तदा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् । यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥ 21 ॥
तदा देवासुरे युद्धे साह्य-अर्थम् त्रिदिवौकसाम् । यत्र वैश्रवणः राजा जम्बूम् उपनिषेवते ॥ २१ ॥
tadā devāsure yuddhe sāhya-artham tridivaukasām . yatra vaiśravaṇaḥ rājā jambūm upaniṣevate .. 21 ..
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् । विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ॥ 22 ॥
यः राजा पर्वत-इन्द्राणाम् बहु-किंनर-सेविनाम् । विहार-सुख-दः नित्यम् भ्रातुः ते राक्षस-अधिप ॥ २२ ॥
yaḥ rājā parvata-indrāṇām bahu-kiṃnara-sevinām . vihāra-sukha-daḥ nityam bhrātuḥ te rākṣasa-adhipa .. 22 ..
तत्रैष वसति श्रीमान्बलवान्वानरर्षभः । युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥ 23 ॥
तत्र एष वसति श्रीमान् बलवान् वानर-ऋषभः । युद्धेषु अकत्थनः नित्यम् क्रथनः नाम यूथपः ॥ २३ ॥
tatra eṣa vasati śrīmān balavān vānara-ṛṣabhaḥ . yuddheṣu akatthanaḥ nityam krathanaḥ nāma yūthapaḥ .. 23 ..
वृतः कोटिसहस्रेण हरीणां समुपस्थितः । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 24 ॥
वृतः कोटि-सहस्रेण हरीणाम् समुपस्थितः । एषा एव आशंसते लङ्काम् स्वेन अनीकेन मर्दितुम् ॥ २४ ॥
vṛtaḥ koṭi-sahasreṇa harīṇām samupasthitaḥ . eṣā eva āśaṃsate laṅkām svena anīkena marditum .. 24 ..
यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान् । हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ॥ 25 ॥
यः गङ्गाम् अनु पर्येति त्रासयन् हस्ति-यूथपान् । हस्तिनाम् वानराणाम् च पूर्व-वैरम् अनुस्मरन् ॥ २५ ॥
yaḥ gaṅgām anu paryeti trāsayan hasti-yūthapān . hastinām vānarāṇām ca pūrva-vairam anusmaran .. 25 ..
एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः । गजान् तोधयते वन्यानारूजंश्च महीरुहान् ॥ 26 ॥
एष यूथ-पतिः नेता गच्छन् गिरि-गुहा-आशयः । गजान् तोधयते वन्यान् आरूजन् च महीरुहान् ॥ २६ ॥
eṣa yūtha-patiḥ netā gacchan giri-guhā-āśayaḥ . gajān todhayate vanyān ārūjan ca mahīruhān .. 26 ..
हरीणां वाहिनी मुख्यो नदीं हैमवतीम् अनु । उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम् ॥ 27 ॥
हरीणाम् वाहिनी मुख्यः नदीम् हैमवतीम् अनु । उशीर बीजम् आश्रित्य पर्वतम् मन्दर-उपमम् ॥ २७ ॥
harīṇām vāhinī mukhyaḥ nadīm haimavatīm anu . uśīra bījam āśritya parvatam mandara-upamam .. 27 ..
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् । एनं शतसहस्राणां सहस्रमभिवर्तते ॥ 28 ॥
रमते वानर-श्रेष्ठः दिवि शक्रः इव स्वयम् । एनम् शत-सहस्राणाम् सहस्रम् अभिवर्तते ॥ २८ ॥
ramate vānara-śreṣṭhaḥ divi śakraḥ iva svayam . enam śata-sahasrāṇām sahasram abhivartate .. 28 ..
स एष दुर्धणो राजन् प्रमाथी नाम यूथपः । वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥ 29 ॥
सः एष दुर्धणः राजन् प्रमाथी नाम यूथपः । वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥ २९ ॥
saḥ eṣa durdhaṇaḥ rājan pramāthī nāma yūthapaḥ . vātena iva uddhatam megham yam enam anupaśyasi .. 29 ..
विवर्तमानं बहुशो यत्रैतद्बहुलं रजः । एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ॥ 30 ॥
विवर्तमानम् बहुशस् यत्र एतत् बहुलम् रजः । एते असित-मुखाः घोराः गोलाङ्गूलाः महा-बलाः ॥ ३० ॥
vivartamānam bahuśas yatra etat bahulam rajaḥ . ete asita-mukhāḥ ghorāḥ golāṅgūlāḥ mahā-balāḥ .. 30 ..
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् । गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ॥ 31 ॥
शतम् शत-सहस्राणि दृष्ट्वा वै सेतुबन्धनम् । गोलाङ्गूलम् महा-वेगम् गवाक्षम् नाम यूथपम् ॥ ३१ ॥
śatam śata-sahasrāṇi dṛṣṭvā vai setubandhanam . golāṅgūlam mahā-vegam gavākṣam nāma yūthapam .. 31 ..
परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा । भ्रमराचरिता यत्र सर्वकामफलद्रुमाः ॥ 32 ॥
परिवार्य अभिवर्तन्ते लङ्काम् मर्दितुम् ओजसा । भ्रमर-आचरिताः यत्र सर्व-काम-फल-द्रुमाः ॥ ३२ ॥
parivārya abhivartante laṅkām marditum ojasā . bhramara-ācaritāḥ yatra sarva-kāma-phala-drumāḥ .. 32 ..
यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् । यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ॥ 33 ॥
यम् सूर्य-तुल्य-वर्ण-आभम् अनुपर्येति पर्वतम् । यस्य भासा सदा भान्ति तद्-वर्णाः मृग-पक्षिणः ॥ ३३ ॥
yam sūrya-tulya-varṇa-ābham anuparyeti parvatam . yasya bhāsā sadā bhānti tad-varṇāḥ mṛga-pakṣiṇaḥ .. 33 ..
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः । तत्रैष रमते राजन्रम्ये काञ्चनपर्वते ॥ 34 ॥
यस्य प्रस्थम् महात्मानः न त्यजन्ति महा-ऋषयः । तत्र एष रमते राजन् रम्ये काञ्चन-पर्वते ॥ ३४ ॥
yasya prastham mahātmānaḥ na tyajanti mahā-ṛṣayaḥ . tatra eṣa ramate rājan ramye kāñcana-parvate .. 34 ..
मुख्यो वानरमुख्यानां केसरी नाम यूथपः । षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ॥ 35 ॥
मुख्यः वानर-मुख्यानाम् केसरी नाम यूथपः । षष्टिः गिरि-सहस्राणाम् रम्याः काञ्चन-पर्वताः ॥ ३५ ॥
mukhyaḥ vānara-mukhyānām kesarī nāma yūthapaḥ . ṣaṣṭiḥ giri-sahasrāṇām ramyāḥ kāñcana-parvatāḥ .. 35 ..
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् । तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ॥ 36 ॥
तेषाम् मध्ये गिरि-वरः त्वम् इव अनघ रक्षसाम् । तत्र एते कपिलाः श्वेताः ताम्र-आस्याः मधु-पिङ्गलाः ॥ ३६ ॥
teṣām madhye giri-varaḥ tvam iva anagha rakṣasām . tatra ete kapilāḥ śvetāḥ tāmra-āsyāḥ madhu-piṅgalāḥ .. 36 ..
निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः । सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ॥ 37 ॥
निवसन्ति उत्तम-गिरौ तीक्ष्ण-दंष्ट्रा-नख-आयुधाः । सिंहः इव चतुर्-दंष्ट्राः व्याघ्राः इव दुरासदाः ॥ ३७ ॥
nivasanti uttama-girau tīkṣṇa-daṃṣṭrā-nakha-āyudhāḥ . siṃhaḥ iva catur-daṃṣṭrāḥ vyāghrāḥ iva durāsadāḥ .. 37 ..
सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः । सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः ॥ 38 ॥
सर्वे वैश्वनर-समाः ज्वलित-आशीविष-उपमाः । सु दीर्घ-आञ्चित-लाङ्गूलाः मत्त-मातङ्ग-संनिभाः ॥ ३८ ॥
sarve vaiśvanara-samāḥ jvalita-āśīviṣa-upamāḥ . su dīrgha-āñcita-lāṅgūlāḥ matta-mātaṅga-saṃnibhāḥ .. 38 ..
महापर्वतसङ्काशा महाजीमूतनिस्वनाः । वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वराः ॥ 39 ॥
महा-पर्वत-सङ्काशाः महा-जीमूत-निस्वनाः । वृत्त-पिङ्गल-नेत्राः हि महा-भीम-गति-स्वराः ॥ ३९ ॥
mahā-parvata-saṅkāśāḥ mahā-jīmūta-nisvanāḥ . vṛtta-piṅgala-netrāḥ hi mahā-bhīma-gati-svarāḥ .. 39 ..
मर्दयन्तीवतेसर्वेतस्थुर्लङकासमीक्ष्यते । एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥ 40 ॥
मर्दयन्तीवते सर्वे तस्थुः लङका-समीक्ष्यते । एष च एषाम् अधिपतिः मध्ये तिष्ठति वीर्यवान् ॥ ४० ॥
mardayantīvate sarve tasthuḥ laṅakā-samīkṣyate . eṣa ca eṣām adhipatiḥ madhye tiṣṭhati vīryavān .. 40 ..
जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् । नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः ॥ 41 ॥
जय-अर्थी नित्यम् आदित्यम् उपतिष्ठति बुद्धिमान् । नाम्ना पृथिव्याम् विख्यातः राजन् शतबली इति यः ॥ ४१ ॥
jaya-arthī nityam ādityam upatiṣṭhati buddhimān . nāmnā pṛthivyām vikhyātaḥ rājan śatabalī iti yaḥ .. 41 ..
गजो गवाक्षो गवयो नलो नीलश्च वानरः । एकैक एव यूथानां कोटिभिर्दशभिर्वृतः ॥ 42 ॥
गजः गवाक्षः गवयः नलः नीलः च वानरः । एकैकः एव यूथानाम् कोटिभिः दशभिः वृतः ॥ ४२ ॥
gajaḥ gavākṣaḥ gavayaḥ nalaḥ nīlaḥ ca vānaraḥ . ekaikaḥ eva yūthānām koṭibhiḥ daśabhiḥ vṛtaḥ .. 42 ..
तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः । न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः ॥ 43 ॥
तथा अन्ये वानर-श्रेष्ठाः विन्ध्य-पर्वत-वासिनः । न शक्यन्ते बहु-त्वात् तु सङ्ख्यातुम् लघु-विक्रमाः ॥ ४३ ॥
tathā anye vānara-śreṣṭhāḥ vindhya-parvata-vāsinaḥ . na śakyante bahu-tvāt tu saṅkhyātum laghu-vikramāḥ .. 43 ..
सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः । सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ 44 ॥
सर्वे महा-राज महा-प्रभावाः सर्वे महा-शैल-निकाश-कायाः । सर्वे समर्थाः पृथिवीम् क्षणेन कर्तुम् प्रविध्वस्त-विकीर्ण-शैलाम् ॥ ४४ ॥
sarve mahā-rāja mahā-prabhāvāḥ sarve mahā-śaila-nikāśa-kāyāḥ . sarve samarthāḥ pṛthivīm kṣaṇena kartum pravidhvasta-vikīrṇa-śailām .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In