This overlay will guide you through the buttons:

| |
|
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् । बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् ॥ 1 ॥
सारणस्य वचः श्रुत्वा रावणम् राक्षस-अधिपम् । बलम् आलोकयन् सर्वम् शुकः वाक्यम् अथ अब्रवीत् ॥ १ ॥
sāraṇasya vacaḥ śrutvā rāvaṇam rākṣasa-adhipam . balam ālokayan sarvam śukaḥ vākyam atha abravīt .. 1 ..
स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् । न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतीनिव ॥ 2 ॥
स्थितान् पश्यसि यान् एतान् मत्तान् इव महा-द्विपान् । न्यग्रोधान् इव गाङ्गेयान् सालान् हैमवतीन् इव ॥ २ ॥
sthitān paśyasi yān etān mattān iva mahā-dvipān . nyagrodhān iva gāṅgeyān sālān haimavatīn iva .. 2 ..
एते दुष्प्रसहा राजन्बलिनः कामरूपिणः । दैत्यदानवसङ्काशा युद्धे देवपराक्रमाः ॥ 3 ॥
एते दुष्प्रसहाः राजन् बलिनः कामरूपिणः । दैत्य-दानव-सङ्काशाः युद्धे देव-पराक्रमाः ॥ ३ ॥
ete duṣprasahāḥ rājan balinaḥ kāmarūpiṇaḥ . daitya-dānava-saṅkāśāḥ yuddhe deva-parākramāḥ .. 3 ..
एषां कोटिसहस्राणि नव पञ्चच सप्त च । तथा शङ्खसहस्राणि तथा वृन्दशतानि च ॥ 4 ॥
एषाम् कोटि-सहस्राणि नव सप्त च । तथा शङ्ख-सहस्राणि तथा वृन्द-शतानि च ॥ ४ ॥
eṣām koṭi-sahasrāṇi nava sapta ca . tathā śaṅkha-sahasrāṇi tathā vṛnda-śatāni ca .. 4 ..
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा । हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥ 5 ॥
एते सुग्रीव-सचिवाः किष्किन्धा-निलयाः सदा । हरयः देव-गन्धर्वैः उत्पन्नाः कामरूपिणः ॥ ५ ॥
ete sugrīva-sacivāḥ kiṣkindhā-nilayāḥ sadā . harayaḥ deva-gandharvaiḥ utpannāḥ kāmarūpiṇaḥ .. 5 ..
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ । मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ॥ 6 ॥
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव-रूपिणौ । मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समः युधि ॥ ६ ॥
yau tau paśyasi tiṣṭhantau kumārau deva-rūpiṇau . maindaḥ ca dvividaḥ ca ubhau tābhyām na asti samaḥ yudhi .. 6 ..
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ । आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ॥ 7 ॥
ब्रह्मणा समनुज्ञातौ अमृत-प्राशिनौ उभौ । आशंसेते युधा लङ्काम् एतौ मर्दितुम् ओजसा ॥ ७ ॥
brahmaṇā samanujñātau amṛta-prāśinau ubhau . āśaṃsete yudhā laṅkām etau marditum ojasā .. 7 ..
यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् । यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः ॥ 8 ॥
यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुञ्जरम् । यः बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥ ८ ॥
yam tu paśyasi tiṣṭhantam prabhinnam iva kuñjaram . yaḥ balāt kṣobhayet kruddhaḥ samudram api vānaraḥ .. 8 ..
एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो । एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥ 9 ॥
एषः अभिगन्ता लङ्कायाः वैदेह्याः तव च प्रभो । एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥ ९ ॥
eṣaḥ abhigantā laṅkāyāḥ vaidehyāḥ tava ca prabho . enam paśya purā dṛṣṭam vānaram punar āgatam .. 9 ..
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः । हनूमानिति विख्यातो लङ्घितो येन सागरः ॥ 10 ॥
ज्येष्ठः केसरिणः पुत्रः वातात्मजः इति श्रुतः । हनूमान् इति विख्यातः लङ्घितः येन सागरः ॥ १० ॥
jyeṣṭhaḥ kesariṇaḥ putraḥ vātātmajaḥ iti śrutaḥ . hanūmān iti vikhyātaḥ laṅghitaḥ yena sāgaraḥ .. 10 ..
कामरूपो हरिश्रेष्ठो बलरूपसमन्वितः । अनिवार्यगतिश्चैव यथा सततगः प्रभुः ॥ 11 ॥
काम-रूपः हरि-श्रेष्ठः बल-रूप-समन्वितः । अनिवार्य-गतिः च एव यथा सततगः प्रभुः ॥ ११ ॥
kāma-rūpaḥ hari-śreṣṭhaḥ bala-rūpa-samanvitaḥ . anivārya-gatiḥ ca eva yathā satatagaḥ prabhuḥ .. 11 ..
उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः । त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ॥ 12 ॥
उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः । त्रि-योजन-सहस्रम् तु अध्वानम् अवतीर्य हि ॥ १२ ॥
udyantam bhāskaram dṛṣṭvā bālaḥ kila pipāsitaḥ . tri-yojana-sahasram tu adhvānam avatīrya hi .. 12 ..
आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति । इति निञ्चित्य मनसा पुप्लवे बलदर्पितः ॥ 13 ॥
आदित्यम् आहरिष्यामि न मे क्षुध् प्रतियास्यति । इति मनसा पुप्लवे बल-दर्पितः ॥ १३ ॥
ādityam āhariṣyāmi na me kṣudh pratiyāsyati . iti manasā puplave bala-darpitaḥ .. 13 ..
अनाधृष्यतमं देवमपि देवर्षिदानवैः । अनासाद्यैव पतितो भास्करोदयने गिरौ ॥ 14 ॥
अनाधृष्यतमम् देवम् अपि देव-ऋषि-दानवैः । अन् आसाद्य एव पतितः भास्कर-उदयने गिरौ ॥ १४ ॥
anādhṛṣyatamam devam api deva-ṛṣi-dānavaiḥ . an āsādya eva patitaḥ bhāskara-udayane girau .. 14 ..
पतितस्य कपेरस्य हनुरेका शिलातले । किंचिद् भिन्ना दृढहनोर्हनूमानेष तेन वै ॥ 15 ॥
पतितस्य कपेः अस्य हनुः एका शिला-तले । किंचिद् भिन्ना दृढ-हनोः हनूमान् एष तेन वै ॥ १५ ॥
patitasya kapeḥ asya hanuḥ ekā śilā-tale . kiṃcid bhinnā dṛḍha-hanoḥ hanūmān eṣa tena vai .. 15 ..
सत्यमागमयोगेन ममैष विदितो हरिः । नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम् ॥ 16 ॥
सत्यम् आगम-योगेन मम एष विदितः हरिः । न अस्य शक्यम् बलम् रूपम् प्रभावः वा अनुभाषितुम् ॥ १६ ॥
satyam āgama-yogena mama eṣa viditaḥ hariḥ . na asya śakyam balam rūpam prabhāvaḥ vā anubhāṣitum .. 16 ..
एष आशंसते लङ्कामेको मर्दितुमोजसा । यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः । लङ्कायां निहितश्चापि कथं विस्मरसे कपिम् ॥ 17 ॥
एषः आशंसते लङ्काम् एकः मर्दितुम् ओजसा । यः च एषः अनन्तरः शूरः श्यामः पद्म-निभ-ईक्षणः । लङ्कायाम् निहितः च अपि कथम् विस्मरसे कपिम् ॥ १७ ॥
eṣaḥ āśaṃsate laṅkām ekaḥ marditum ojasā . yaḥ ca eṣaḥ anantaraḥ śūraḥ śyāmaḥ padma-nibha-īkṣaṇaḥ . laṅkāyām nihitaḥ ca api katham vismarase kapim .. 17 ..
यश्चैषोऽनन्तर शूर श्यामः पद्मनिभेक्षणः । इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः ॥ 18 ॥
यः च एषः अनन्तर शूर श्यामः पद्म-निभ-ईक्षणः । इक्ष्वाकूणाम् अतिरथः लोके विख्यात पौरुषः ॥ १८ ॥
yaḥ ca eṣaḥ anantara śūra śyāmaḥ padma-nibha-īkṣaṇaḥ . ikṣvākūṇām atirathaḥ loke vikhyāta pauruṣaḥ .. 18 ..
यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते । यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ 19 ॥
यस्मिन् न चलते धर्मः यः धर्मम् न अतिवर्तते । यः ब्राह्मम् अस्त्रम् वेदान् च वेद वेद-विदाम् वरः ॥ १९ ॥
yasmin na calate dharmaḥ yaḥ dharmam na ativartate . yaḥ brāhmam astram vedān ca veda veda-vidām varaḥ .. 19 ..
यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत् । यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ॥ 20 ॥
यः भिन्द्यात् गगनम् बाणैः पर्वतान् च अपि दारयेत् । यस्य मृत्योः इव क्रोधः शक्रस्य इव पराक्रमः ॥ २० ॥
yaḥ bhindyāt gaganam bāṇaiḥ parvatān ca api dārayet . yasya mṛtyoḥ iva krodhaḥ śakrasya iva parākramaḥ .. 20 ..
यस्य भार्या जनस्थानात् सीता चापि हृता त्वया । स एष रामस्त्वां योद्धुं राजन्समभिवर्तते ॥ 21 ॥
यस्य भार्या जनस्थानात् सीता च अपि हृता त्वया । सः एष रामः त्वाम् योद्धुम् राजन् समभिवर्तते ॥ २१ ॥
yasya bhāryā janasthānāt sītā ca api hṛtā tvayā . saḥ eṣa rāmaḥ tvām yoddhum rājan samabhivartate .. 21 ..
यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः । विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ॥ 22 ॥
यः च एष दक्षिणे पार्श्वे शुद्ध-जाम्बूनद-प्रभः । विशाल-वक्षाः ताम्र-अक्षः नील-कुञ्चित-मूर्धजः ॥ २२ ॥
yaḥ ca eṣa dakṣiṇe pārśve śuddha-jāmbūnada-prabhaḥ . viśāla-vakṣāḥ tāmra-akṣaḥ nīla-kuñcita-mūrdhajaḥ .. 22 ..
एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः । नये युद्धे च कुशलः सर्वशास्त्रविशारदः ॥ 23 ॥
एषः अस्य लक्ष्मणः नाम भ्राता प्राण-समः प्रियः । नये युद्धे च कुशलः सर्व-शास्त्र-विशारदः ॥ २३ ॥
eṣaḥ asya lakṣmaṇaḥ nāma bhrātā prāṇa-samaḥ priyaḥ . naye yuddhe ca kuśalaḥ sarva-śāstra-viśāradaḥ .. 23 ..
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ 24 ॥
अमर्षी दुर्जयः जेता विक्रान्तः बुद्धिमान् बली । रामस्य दक्षिणः बाहुः नित्यम् प्राणः बहिश्चरः ॥ २४ ॥
amarṣī durjayaḥ jetā vikrāntaḥ buddhimān balī . rāmasya dakṣiṇaḥ bāhuḥ nityam prāṇaḥ bahiścaraḥ .. 24 ..
न ह्येष राघवस्यार्थे जीवितं परिरक्षति । एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥ 25 ॥
न हि एष राघवस्य अर्थे जीवितम् परिरक्षति । एषा एव आशंसते युद्धे निहन्तुम् सर्व-राक्षसान् ॥ २५ ॥
na hi eṣa rāghavasya arthe jīvitam parirakṣati . eṣā eva āśaṃsate yuddhe nihantum sarva-rākṣasān .. 25 ..
यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति । रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ॥ 26 ॥
यः तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति । रक्षः-गण-परिक्षिप्तः राजा हि एष विभीषणः ॥ २६ ॥
yaḥ tu savyam asau pakṣam rāmasya āśritya tiṣṭhati . rakṣaḥ-gaṇa-parikṣiptaḥ rājā hi eṣa vibhīṣaṇaḥ .. 26 ..
श्रीमता राजराजेन लङ्कायामभिषेचितः । त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ॥ 27 ॥
श्रीमता राजराजेन लङ्कायाम् अभिषेचितः । त्वाम् एव प्रतिसंरब्धः युद्धाय एषः अभिवर्तते ॥ २७ ॥
śrīmatā rājarājena laṅkāyām abhiṣecitaḥ . tvām eva pratisaṃrabdhaḥ yuddhāya eṣaḥ abhivartate .. 27 ..
यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् । सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ॥ 28 ॥
यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् । सर्व-शाखामृग-इन्द्राणाम् भर्तारम् अपराजितम् ॥ २८ ॥
yam tu paśyasi tiṣṭhantam madhye girim iva acalam . sarva-śākhāmṛga-indrāṇām bhartāram aparājitam .. 28 ..
तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च । यः कपीनति बभ्राज हिमवानिव पर्वतान् ॥ 29 ॥
तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च । यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ॥ २९ ॥
tejasā yaśasā buddhyā jñānena abhijanena ca . yaḥ kapīn ati babhrāja himavān iva parvatān .. 29 ..
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् । दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ॥ 30 ॥
किष्किन्धाम् यः समध्यास्ते गुहाम् स गहन-द्रुमाम् । दुर्गाम् पर्वत-दुर्ग-स्थाम् प्रधानैः सह यूथपैः ॥ ३० ॥
kiṣkindhām yaḥ samadhyāste guhām sa gahana-drumām . durgām parvata-durga-sthām pradhānaiḥ saha yūthapaiḥ .. 30 ..
यस्यैषा काञ्चनी माला शोभते शतपुष्करा । कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ॥ 31 ॥
यस्य एषा काञ्चनी माला शोभते शत-पुष्करा । कान्ता देव-मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ॥ ३१ ॥
yasya eṣā kāñcanī mālā śobhate śata-puṣkarā . kāntā deva-manuṣyāṇām yasyām lakṣmīḥ pratiṣṭhitā .. 31 ..
एतां च मालां तारां च कपिराज्यं च शाश्वतम् । सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ 32 ॥
एताम् च मालाम् ताराम् च कपि-राज्यम् च शाश्वतम् । सुग्रीवः वालिनम् हत्वा रामेण प्रतिपादितः ॥ ३२ ॥
etām ca mālām tārām ca kapi-rājyam ca śāśvatam . sugrīvaḥ vālinam hatvā rāmeṇa pratipāditaḥ .. 32 ..
शतं शतसहस्राणां कोटिमाहुर्मनीषिणः । शतं कोटिसहस्राणां शङ्कु: इत्यभिधीयते ॥ 33 ॥
शतम् शत-सहस्राणाम् कोटिम् आहुः मनीषिणः । शतम् कोटि-सहस्राणाम् शङ्कुः इति अभिधीयते ॥ ३३ ॥
śatam śata-sahasrāṇām koṭim āhuḥ manīṣiṇaḥ . śatam koṭi-sahasrāṇām śaṅkuḥ iti abhidhīyate .. 33 ..
शतं शङ्कुसहस्राणां महाशङ्कुरिति स्मृतः । महापद्मसहस्राणां शतं पद्ममिहोच्यते ॥ 34 ॥
शतम् शङ्कु-सहस्राणाम् महाशङ्कुः इति स्मृतः । महापद्म-सहस्राणाम् शतम् पद्मम् इह उच्यते ॥ ३४ ॥
śatam śaṅku-sahasrāṇām mahāśaṅkuḥ iti smṛtaḥ . mahāpadma-sahasrāṇām śatam padmam iha ucyate .. 34 ..
शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् । महावृन्दसहस्राणां शतं पद्ममिहोच्यते ॥ 35 ॥
शतम् वृन्द-सहस्राणाम् महावृन्दम् इति स्मृतम् । महा-वृन्द-सहस्राणाम् शतम् पद्मम् इह उच्यते ॥ ३५ ॥
śatam vṛnda-sahasrāṇām mahāvṛndam iti smṛtam . mahā-vṛnda-sahasrāṇām śatam padmam iha ucyate .. 35 ..
शतं पद्मसहस्राणां महापद्ममिति स्मृतम् । महापद्मसहस्राणां शतं खर्वमिहोच्यते ॥ 36 ॥
शतम् पद्म-सहस्राणाम् महापद्मम् इति स्मृतम् । महापद्म-सहस्राणाम् शतम् खर्वम् इह उच्यते ॥ ३६ ॥
śatam padma-sahasrāṇām mahāpadmam iti smṛtam . mahāpadma-sahasrāṇām śatam kharvam iha ucyate .. 36 ..
शतं खर्वसहस्राणां महाखर्वमिति स्मृतिम् । महाखर्वसहस्राणां समुद्रमभिधीयते । शतं समुद्रसाहसत्रमोघ इत्यभिधीयते ॥ 37 ॥
शतम् खर्व-सहस्राणाम् महाखर्वम् इति स्मृतिम् । महा-खर्व-सहस्राणाम् समुद्रम् अभिधीयते । शतम् समुद्रसाहसत्रम् ओघः इति अभिधीयते ॥ ३७ ॥
śatam kharva-sahasrāṇām mahākharvam iti smṛtim . mahā-kharva-sahasrāṇām samudram abhidhīyate . śatam samudrasāhasatram oghaḥ iti abhidhīyate .. 37 ..
शतमोघसहस्राणां महौघ इति विश्रुतः । एवं कोटिसहस्रेण शङ्कूनां च शतेन च । महाशङ्कुसहस्रेण तथा वृन्दशतेन च ॥ 38 ॥
शतम् ओघ-सहस्राणाम् महौघः इति विश्रुतः । एवम् कोटि-सहस्रेण शङ्कूनाम् च शतेन च । महा-शङ्कु-सहस्रेण तथा वृन्द-शतेन च ॥ ३८ ॥
śatam ogha-sahasrāṇām mahaughaḥ iti viśrutaḥ . evam koṭi-sahasreṇa śaṅkūnām ca śatena ca . mahā-śaṅku-sahasreṇa tathā vṛnda-śatena ca .. 38 ..
महाबृन्दसहस्रेण तथा पद्मशतेन च । महापद्मसहस्रेण तथा खर्वशतेन च ॥ 39 ॥
महा-बृन्द-सहस्रेण तथा पद्म-शतेन च । महापद्म-सहस्रेण तथा खर्व-शतेन च ॥ ३९ ॥
mahā-bṛnda-sahasreṇa tathā padma-śatena ca . mahāpadma-sahasreṇa tathā kharva-śatena ca .. 39 ..
समुद्रेण च तेनैव महौघेन तथैव च । एष कोटिमहौघेन समुद्रसदृशेन च ॥ 40 ॥
समुद्रेण च तेन एव महा-ओघेन तथा एव च । एष कोटि-महा-ओघेन समुद्र-सदृशेन च ॥ ४० ॥
samudreṇa ca tena eva mahā-oghena tathā eva ca . eṣa koṭi-mahā-oghena samudra-sadṛśena ca .. 40 ..
विभीष वीरेण न सचिवैः परिवारितः । सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते । महाबलवृतो नित्यं महाबलपराक्रमः ॥ 41 ॥
विभीष वीरेण न सचिवैः परिवारितः । सुग्रीवः वानर-इन्द्रः त्वाम् युद्ध-अर्थम् अभिवर्तते । महा-बल-वृतः नित्यम् महा-बल-पराक्रमः ॥ ४१ ॥
vibhīṣa vīreṇa na sacivaiḥ parivāritaḥ . sugrīvaḥ vānara-indraḥ tvām yuddha-artham abhivartate . mahā-bala-vṛtaḥ nityam mahā-bala-parākramaḥ .. 41 ..
इमां महाराजसमीक्ष्य वाहिनीम् उपस्थितां प्रज्वलितग्रहोपमाम् । ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराजयः ॥ 42 ॥
इमाम् महा-राज समीक्ष्य वाहिनीम् उपस्थिताम् प्रज्वलित-ग्रह-उपमाम् । ततस् प्रयत्नः परमः विधीयताम् यथा जयः स्यात् न परैः पराजयः ॥ ४२ ॥
imām mahā-rāja samīkṣya vāhinīm upasthitām prajvalita-graha-upamām . tatas prayatnaḥ paramaḥ vidhīyatām yathā jayaḥ syāt na paraiḥ parājayaḥ .. 42 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In