This overlay will guide you through the buttons:

| |
|
सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् । प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ 1 ॥
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम-अर्थ-विद् । प्रतिजग्राह काकुत्स्थः हनूमन्तम् अथ अब्रवीत् ॥ १ ॥
sugrīvasya vacaḥ śrutvā hetumat parama-artha-vid . pratijagrāha kākutsthaḥ hanūmantam atha abravīt .. 1 ..
तरसा सेतुबन्धेन सागरोच्छोषणेन वा । सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ॥ 2 ॥
तरसा सेतु-बन्धेन सागर-उच्छोषणेन वा । सर्वथा सु समर्थः अस्मि सागरस्य अस्य लङ्घने ॥ २ ॥
tarasā setu-bandhena sāgara-ucchoṣaṇena vā . sarvathā su samarthaḥ asmi sāgarasya asya laṅghane .. 2 ..
कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीहि मे । ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ 3 ॥
कति दुर्गाणि दुर्गायाः लङ्कायाः तत् ब्रवीहि मे । ज्ञातुम् इच्छामि तत् सर्वम् दर्शनात् इव वानर ॥ ३ ॥
kati durgāṇi durgāyāḥ laṅkāyāḥ tat bravīhi me . jñātum icchāmi tat sarvam darśanāt iva vānara .. 3 ..
बलस्य परिमाणं च द्वारदुर्गक्रियाम् अपि । गुप्ति कर्म च लङ्काया रक्षसां सदनानि च ॥ 4 ॥
बलस्य परिमाणम् च द्वार-दुर्ग-क्रियाम् अपि । गुप्ति कर्म च लङ्कायाः रक्षसाम् सदनानि च ॥ ४ ॥
balasya parimāṇam ca dvāra-durga-kriyām api . gupti karma ca laṅkāyāḥ rakṣasām sadanāni ca .. 4 ..
यथासुखं यथावच्च लङ्कायामसि दृष्टवान् । सरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ 5 ॥
यथासुखम् यथावत् च लङ्कायाम् असि दृष्टवान् । सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलः हि असि ॥ ५ ॥
yathāsukham yathāvat ca laṅkāyām asi dṛṣṭavān . saram ācakṣva tattvena sarvathā kuśalaḥ hi asi .. 5 ..
श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः । वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ 6 ॥
श्रुत्वा रामस्य वचनम् हनूमान् मारुतात्मजः । वाक्यम् वाक्य-विदाम् श्रेष्ठः रामम् पुनर् अथ अब्रवीत् ॥ ६ ॥
śrutvā rāmasya vacanam hanūmān mārutātmajaḥ . vākyam vākya-vidām śreṣṭhaḥ rāmam punar atha abravīt .. 6 ..
श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः । गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ 7 ॥
श्रूयताम् सर्वम् आख्यास्ये दुर्ग-कर्म-विधानतः । गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ ७ ॥
śrūyatām sarvam ākhyāsye durga-karma-vidhānataḥ . guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ .. 7 ..
राक्षसाश्चयथास्निग्धारावणस्यचतेजसा । परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ॥ 8 ॥
राक्षसाः च यथा स्निग्धाः रावणस्य च तेजसा । पराम् समृद्धिम् लङ्कायाः सागरस्य च भीम-ताम् ॥ ८ ॥
rākṣasāḥ ca yathā snigdhāḥ rāvaṇasya ca tejasā . parām samṛddhim laṅkāyāḥ sāgarasya ca bhīma-tām .. 8 ..
विभागं च बलौघस्य निर्देशं वाहनस्य च । एवमुक्त्वाकपिश्रेष्ठःकथयामासतत्त्ववित: ॥ 9 ॥
विभागम् च बल-ओघस्य निर्देशम् वाहनस्य च । एवम् उक्त्वा कपि-श्रेष्ठः कथयामास तत्त्ववितः ॥ ९ ॥
vibhāgam ca bala-oghasya nirdeśam vāhanasya ca . evam uktvā kapi-śreṣṭhaḥ kathayāmāsa tattvavitaḥ .. 9 ..
प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला । महती रथसम्पूर्णा रक्षोगणसमाकुला ॥ 10 ॥
प्रहृष्टा मुदिता लङ्का मत्त-द्विप-समाकुला । महती रथ-सम्पूर्णा रक्षः-गण-समाकुला ॥ १० ॥
prahṛṣṭā muditā laṅkā matta-dvipa-samākulā . mahatī ratha-sampūrṇā rakṣaḥ-gaṇa-samākulā .. 10 ..
दृढबद्धकवाटानि महापरिघवन्ति च । द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ 11 ॥
दृढ-बद्ध-कवाटानि महा-परिघवन्ति च । द्वाराणि विपुलानि अस्याः चत्वारि सु महान्ति च ॥ ११ ॥
dṛḍha-baddha-kavāṭāni mahā-parighavanti ca . dvārāṇi vipulāni asyāḥ catvāri su mahānti ca .. 11 ..
तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च । आगतं परसैन्यं तैस्तत्र प्रतिनिवार्यते ॥ 12 ॥
तत्र इषूपल-यन्त्राणि बलवन्ति महान्ति च । आगतम् पर-सैन्यम् तैः तत्र प्रतिनिवार्यते ॥ १२ ॥
tatra iṣūpala-yantrāṇi balavanti mahānti ca . āgatam para-sainyam taiḥ tatra pratinivāryate .. 12 ..
द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः । शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ 13 ॥
द्वारेषु संस्कृताः भीमाः कालायस-मयाः शिताः । शतशस् रोचिताः वीरैः शतघ्न्यः रक्षसाम् गणैः ॥ १३ ॥
dvāreṣu saṃskṛtāḥ bhīmāḥ kālāyasa-mayāḥ śitāḥ . śataśas rocitāḥ vīraiḥ śataghnyaḥ rakṣasām gaṇaiḥ .. 13 ..
सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः । मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः ॥ 14 ॥
सौवर्णः च महान् तस्याः प्राकारः दुष्प्रधर्षणः । मणि-विद्रुम-वैदूर्य-मुक्ता-विचरित-अन्तरः ॥ १४ ॥
sauvarṇaḥ ca mahān tasyāḥ prākāraḥ duṣpradharṣaṇaḥ . maṇi-vidruma-vaidūrya-muktā-vicarita-antaraḥ .. 14 ..
सर्वतश्च महाभीमाः शीततोया महाशुभाः । अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ 15 ॥
सर्वतस् च महा-भीमाः शीत-तोयाः महा-शुभाः । अगाधाः ग्राहवत्यः च परिखाः मीन-सेविताः ॥ १५ ॥
sarvatas ca mahā-bhīmāḥ śīta-toyāḥ mahā-śubhāḥ . agādhāḥ grāhavatyaḥ ca parikhāḥ mīna-sevitāḥ .. 15 ..
द्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः । यन्त्रैरुपेता बहुभिर्महद्भिर्दृढसन्धिभिः ॥ 16 ॥
द्वारेषु तासाम् चत्वारः सङ्क्रमाः परम-आयताः । यन्त्रैः उपेताः बहुभिः महद्भिः दृढ-सन्धिभिः ॥ १६ ॥
dvāreṣu tāsām catvāraḥ saṅkramāḥ parama-āyatāḥ . yantraiḥ upetāḥ bahubhiḥ mahadbhiḥ dṛḍha-sandhibhiḥ .. 16 ..
त्रायन्ते सङ्क्रमास्तत्र परसैन्यागमे सति । यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ 17 ॥
त्रायन्ते सङ्क्रमाः तत्र पर-सैन्य-आगमे सति । यन्त्रैः तैः अवकीर्यन्ते परिखासु समन्ततः ॥ १७ ॥
trāyante saṅkramāḥ tatra para-sainya-āgame sati . yantraiḥ taiḥ avakīryante parikhāsu samantataḥ .. 17 ..
एकस्त्वकम्प्यो बलवान्सङ्क्रमः सुमहादृढः । काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ 18 ॥
एकः तु अकम्प्यः बलवान् सङ्क्रमः सु महा-दृढः । काञ्चनैः बहुभिः स्तम्भैः वेदिकाभिः च शोभितः ॥ १८ ॥
ekaḥ tu akampyaḥ balavān saṅkramaḥ su mahā-dṛḍhaḥ . kāñcanaiḥ bahubhiḥ stambhaiḥ vedikābhiḥ ca śobhitaḥ .. 18 ..
स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः । उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ 19 ॥
स्वयम् प्रकृति-सम्पन्नः युयुत्सुः राम रावणः । उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥ १९ ॥
svayam prakṛti-sampannaḥ yuyutsuḥ rāma rāvaṇaḥ . utthitaḥ ca apramattaḥ ca balānām anudarśane .. 19 ..
लङ्का पुरी निरालम्बा देवदुर्गा भयावहा । नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम् ॥ 20 ॥
लङ्का पुरी निरालम्बा देव-दुर्गा भय-आवहा । नादेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर्विधम् ॥ २० ॥
laṅkā purī nirālambā deva-durgā bhaya-āvahā . nādeyam pārvatam vanyam kṛtrimam ca caturvidham .. 20 ..
स्थिता पारे समुद्रस्य दूरपारस्य राघव । नौपथश्चापि नास्त्यत्र निरादेशश्च सर्वतः ॥ 21 ॥
स्थिता पारे समुद्रस्य दूर-पारस्य राघव । नौपथः च अपि ना अस्ति अत्र निरादेशः च सर्वतस् ॥ २१ ॥
sthitā pāre samudrasya dūra-pārasya rāghava . naupathaḥ ca api nā asti atra nirādeśaḥ ca sarvatas .. 21 ..
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा । वाजिवारणसम्पूर्णा लङ्का परमदुर्जया ॥ 22 ॥
शैल-अग्रे रचिता दुर्गा सा पूः देव-पुर-उपमा । वाजि-वारण-सम्पूर्णा लङ्का परम-दुर्जया ॥ २२ ॥
śaila-agre racitā durgā sā pūḥ deva-pura-upamā . vāji-vāraṇa-sampūrṇā laṅkā parama-durjayā .. 22 ..
परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च । शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ 23 ॥
परिखाः च शतघ्न्यः च यन्त्राणि विविधानि च । शोभयन्ति पुरीम् लङ्काम् रावणस्य दुरात्मनः ॥ २३ ॥
parikhāḥ ca śataghnyaḥ ca yantrāṇi vividhāni ca . śobhayanti purīm laṅkām rāvaṇasya durātmanaḥ .. 23 ..
अयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् । शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥ 24 ॥
अयुतम् रक्षसाम् अत्र पश्चिम-द्वारम् आश्रितम् । शूल-हस्ताः दुराधर्षाः सर्वे खड्ग-अग्र-योधिनः ॥ २४ ॥
ayutam rakṣasām atra paścima-dvāram āśritam . śūla-hastāḥ durādharṣāḥ sarve khaḍga-agra-yodhinaḥ .. 24 ..
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् । चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ 25 ॥
नियुतम् रक्षसाम् अत्र दक्षिण-द्वारम् आश्रितम् । चतुरङ्गेण सैन्येन योधाः तत्र अपि अनुत्तमाः ॥ २५ ॥
niyutam rakṣasām atra dakṣiṇa-dvāram āśritam . caturaṅgeṇa sainyena yodhāḥ tatra api anuttamāḥ .. 25 ..
प्रयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् । चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ 26 ॥
प्रयुतम् रक्षसाम् अत्र पूर्व-द्वारम् समाश्रितम् । चर्म-खड्ग-धराः सर्वे तथा सर्व-अस्त्र-कोविदाः ॥ २६ ॥
prayutam rakṣasām atra pūrva-dvāram samāśritam . carma-khaḍga-dharāḥ sarve tathā sarva-astra-kovidāḥ .. 26 ..
न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् । रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ 27 ॥
न्यर्बुदम् रक्षसाम् अत्र उत्तर-द्वारम् आश्रितम् । रथिनः च अश्व-वाहाः च कुल-पुत्राः सु पूजिताः ॥ २७ ॥
nyarbudam rakṣasām atra uttara-dvāram āśritam . rathinaḥ ca aśva-vāhāḥ ca kula-putrāḥ su pūjitāḥ .. 27 ..
शतं शतसहस्राणां मध्यमं गुल्ममाश्रितम् । यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ 28 ॥
शतम् शत-सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् । यातुधानाः दुराधर्षाः साग्र-कोटिः च रक्षसाम् ॥ २८ ॥
śatam śata-sahasrāṇām madhyamam gulmam āśritam . yātudhānāḥ durādharṣāḥ sāgra-koṭiḥ ca rakṣasām .. 28 ..
ते मया सङ्क्रमा भग्नाः परिखाश्चावपूरिताः । दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः । बलैकदेशःक्षपितोराक्षसानांमहात्मनाम् ॥ 29 ॥
ते मया सङ्क्रमाः भग्नाः परिखाः च अवपूरिताः । दग्धा च नगरी लङ्का प्राकाराः च अवसादिताः । बल-एक-देशः क्षपितः राक्षसानाम् महात्मनाम् ॥ २९ ॥
te mayā saṅkramāḥ bhagnāḥ parikhāḥ ca avapūritāḥ . dagdhā ca nagarī laṅkā prākārāḥ ca avasāditāḥ . bala-eka-deśaḥ kṣapitaḥ rākṣasānām mahātmanām .. 29 ..
येन केन तु मार्गेण तराम वरुणालयम् । हतेति नगरी लङ्कां वानरैरवधार्यताम् ॥ 30 ॥
येन केन तु मार्गेण तराम वरुणालयम् । हता इति नगरी लङ्काम् वानरैः अवधार्यताम् ॥ ३० ॥
yena kena tu mārgeṇa tarāma varuṇālayam . hatā iti nagarī laṅkām vānaraiḥ avadhāryatām .. 30 ..
अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः । नीलः सेनापतिश्चैव बलशेषेण किं तव ॥ 31 ॥
अङ्गदः द्विविदः मैन्दः जाम्बवान् पनसः नलः । नीलः सेनापतिः च एव बल-शेषेण किम् तव ॥ ३१ ॥
aṅgadaḥ dvividaḥ maindaḥ jāmbavān panasaḥ nalaḥ . nīlaḥ senāpatiḥ ca eva bala-śeṣeṇa kim tava .. 31 ..
प्लवमाना हि गत्वा तां रावणस्य महापुरीम् । सपर्वतवनांभित्त्वासखातांचसप्रतोरणाम् । सप्रकारां सभवनामानयिष्यन्ति मैथिलीम् ॥ 32 ॥
प्लवमानाः हि गत्वा ताम् रावणस्य महा-पुरीम् । स पर्वत-वनाम् भित्त्वा स खाताम् च स प्रतोरणाम् । स प्रकाराम् स भवनाम् आनयिष्यन्ति मैथिलीम् ॥ ३२ ॥
plavamānāḥ hi gatvā tām rāvaṇasya mahā-purīm . sa parvata-vanām bhittvā sa khātām ca sa pratoraṇām . sa prakārām sa bhavanām ānayiṣyanti maithilīm .. 32 ..
एवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम् । मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ 33 ॥
एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व-सङ्ग्रहम् । मुहूर्तेन तु युक्तेन प्रस्थानम् अभिरोचय ॥ ३३ ॥
evam ājñāpaya kṣipram balānām sarva-saṅgraham . muhūrtena tu yuktena prasthānam abhirocaya .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In