This overlay will guide you through the buttons:

| |
|
ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ 1 ॥
ततस् तम् अक्षोभ्य बलम् लङ्काधिपतये चराः । सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥ १ ॥
tatas tam akṣobhya balam laṅkādhipataye carāḥ . suvele rāghavam śaile niviṣṭam pratyavedayan .. 1 ..
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत्किं चिच्छार्दूलं वाक्यमब्रवीत् ॥ 2 ॥
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महा-बलम् । जात-उद्वेगः अभवत् किम् चित् शार्दूलम् वाक्यम् अब्रवीत् ॥ २ ॥
cārāṇām rāvaṇaḥ śrutvā prāptam rāmam mahā-balam . jāta-udvegaḥ abhavat kim cit śārdūlam vākyam abravīt .. 2 ..
अयथावच्च ते वर्णो दीनश्चासि निशाचर । नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ 3 ॥
अयथावत् च ते वर्णः दीनः च असि निशाचर । न असि कच्चित् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥ ३ ॥
ayathāvat ca te varṇaḥ dīnaḥ ca asi niśācara . na asi kaccit amitrāṇām kruddhānām vaśam āgataḥ .. 3 ..
इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् । तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥ 4 ॥
इति तेन अनुशिष्टः तु वाचम् मन्दम् उदीरयत् । तदा राक्षस-शार्दूलम् शार्दूलः भय-विह्वलः ॥ ४ ॥
iti tena anuśiṣṭaḥ tu vācam mandam udīrayat . tadā rākṣasa-śārdūlam śārdūlaḥ bhaya-vihvalaḥ .. 4 ..
न ते चारयितुं शक्या राजन्वानरपुङ्गवाः । विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ॥ 5 ॥
न ते चारयितुम् शक्याः राजन् वानर-पुङ्गवाः । विक्रान्ताः बलवन्तः च राघवेण च रक्षिताः ॥ ५ ॥
na te cārayitum śakyāḥ rājan vānara-puṅgavāḥ . vikrāntāḥ balavantaḥ ca rāghaveṇa ca rakṣitāḥ .. 5 ..
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते । सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ॥ 6 ॥
न अपि सम्भाषितुम् शक्याः सम्प्रश्नः अत्र न लभ्यते । सर्वतस् रक्ष्यते पन्थाः वानरैः पर्वत-उपमैः ॥ ६ ॥
na api sambhāṣitum śakyāḥ sampraśnaḥ atra na labhyate . sarvatas rakṣyate panthāḥ vānaraiḥ parvata-upamaiḥ .. 6 ..
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते । बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः ॥ 7 ॥
प्रविष्ट-मात्रे ज्ञातः अहम् बले तस्मिन् अचारिते । बलात् गृहीतः बहुभिः बहुधा अस्मि विदारितः ॥ ७ ॥
praviṣṭa-mātre jñātaḥ aham bale tasmin acārite . balāt gṛhītaḥ bahubhiḥ bahudhā asmi vidāritaḥ .. 7 ..
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् । परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ॥ 8 ॥
जानुभिः मुष्टिभिः दन्तैः तलैः च अभिहतः भृशम् । परिणीतः अस्मि हरिभिः बलवद्भिः अमर्षणैः ॥ ८ ॥
jānubhiḥ muṣṭibhiḥ dantaiḥ talaiḥ ca abhihataḥ bhṛśam . pariṇītaḥ asmi haribhiḥ balavadbhiḥ amarṣaṇaiḥ .. 8 ..
परिणीय च सर्वत्र नीतोऽहं रामसंसदम् । रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ॥ 9 ॥
परिणीय च सर्वत्र नीतः अहम् राम-संसदम् । रुधिर-आदिग्ध-सर्व-अङ्गः विह्वलः चलित-इन्द्रियः ॥ ९ ॥
pariṇīya ca sarvatra nītaḥ aham rāma-saṃsadam . rudhira-ādigdha-sarva-aṅgaḥ vihvalaḥ calita-indriyaḥ .. 9 ..
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः । राघवेण परित्रातो जीवामि ह यदृच्छया ॥ 10 ॥
हरिभिः वध्यमानः च याचमानः कृताञ्जलिः । राघवेण परित्रातः जीवामि ह यदृच्छया ॥ १० ॥
haribhiḥ vadhyamānaḥ ca yācamānaḥ kṛtāñjaliḥ . rāghaveṇa paritrātaḥ jīvāmi ha yadṛcchayā .. 10 ..
एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् । द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥ 11 ॥
एष शैलैः शिलाभिः च पूरयित्वा महा-अर्णवम् । द्वारम् आश्रित्य लङ्कायाः रामः तिष्ठति स आयुधः ॥ ११ ॥
eṣa śailaiḥ śilābhiḥ ca pūrayitvā mahā-arṇavam . dvāram āśritya laṅkāyāḥ rāmaḥ tiṣṭhati sa āyudhaḥ .. 11 ..
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः । मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥ 12 ॥
गरुड-व्यूहम् आस्थाय सर्वतस् हरिभिः वृतः । माम् विसृज्य महा-तेजाः लङ्काम् एव अभिवर्तते ॥ १२ ॥
garuḍa-vyūham āsthāya sarvatas haribhiḥ vṛtaḥ . mām visṛjya mahā-tejāḥ laṅkām eva abhivartate .. 12 ..
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु । सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ 13 ॥
पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु । सीताम् च अस्मै प्रयच्छ आशु सु युद्धम् वा प्रदीयताम् ॥ १३ ॥
purā prākāram āyāti kṣipram ekataram kuru . sītām ca asmai prayaccha āśu su yuddham vā pradīyatām .. 13 ..
मनसा सन्ततापाथ तच्छ्रुत्वा राक्षसाधिपः । शार्दूलस्य महद्वाक्यमथोवाच स रावणः ॥ 14 ॥
मनसा सन्तताप अथ तत् श्रुत्वा राक्षस-अधिपः । शार्दूलस्य महत् वाक्यम् अथ उवाच स रावणः ॥ १४ ॥
manasā santatāpa atha tat śrutvā rākṣasa-adhipaḥ . śārdūlasya mahat vākyam atha uvāca sa rāvaṇaḥ .. 14 ..
यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ 15 ॥
यदि माम् प्रतियुध्येरन् देव-गन्धर्व-दानवाः । न एव सीताम् प्रदास्यामि सर्व-लोक-भयात् अपि ॥ १५ ॥
yadi mām pratiyudhyeran deva-gandharva-dānavāḥ . na eva sītām pradāsyāmi sarva-loka-bhayāt api .. 15 ..
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् । चारिता भवता सेना केऽत्र शूराः प्लवङ्गमाः ॥ 16 ॥
एवम् उक्त्वा महा-तेजाः रावणः पुनर् अब्रवीत् । चारिता भवता सेना के अत्र शूराः प्लवङ्गमाः ॥ १६ ॥
evam uktvā mahā-tejāḥ rāvaṇaḥ punar abravīt . cāritā bhavatā senā ke atra śūrāḥ plavaṅgamāḥ .. 16 ..
कीदृशाः किम्प्रभावाश्च वानरा ये दुरासदाः । कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥ 17 ॥
कीदृशाः किम्प्रभावाः च वानराः ये दुरासदाः । कस्य पुत्राः च पौत्राः च तत् त्वम् आख्याहि राक्षस ॥ १७ ॥
kīdṛśāḥ kimprabhāvāḥ ca vānarāḥ ye durāsadāḥ . kasya putrāḥ ca pautrāḥ ca tat tvam ākhyāhi rākṣasa .. 17 ..
तत्रत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् । अवश्यं बलसङ्ख्यानं कर्तव्यं युद्धमिच्छता ॥ 18 ॥
तत्र त्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बलाबलम् । अवश्यम् बल-सङ्ख्यानम् कर्तव्यम् युद्धम् इच्छता ॥ १८ ॥
tatra tra pratipatsyāmi jñātvā teṣām balābalam . avaśyam bala-saṅkhyānam kartavyam yuddham icchatā .. 18 ..
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः । इदं वचनमारेभे वक्तुं रावणसंनिधौ ॥ 19 ॥
अथा एवम् उक्तः शार्दूलः रावणेन उत्तमः चरः । इदम् वचनम् आरेभे वक्तुम् रावण-संनिधौ ॥ १९ ॥
athā evam uktaḥ śārdūlaḥ rāvaṇena uttamaḥ caraḥ . idam vacanam ārebhe vaktum rāvaṇa-saṃnidhau .. 19 ..
अथर्क्षरजसः पुत्रो युधि राजन्सुदुर्जयः । गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ 20 ॥
अथ ऋक्षरजसः पुत्रः युधि राजन् सु दुर्जयः । गद्गदस्य अथ पुत्रः अत्र जाम्बवान् इति विश्रुतः ॥ २० ॥
atha ṛkṣarajasaḥ putraḥ yudhi rājan su durjayaḥ . gadgadasya atha putraḥ atra jāmbavān iti viśrutaḥ .. 20 ..
गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः । कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ 21 ॥
गद्गदस्य एव पुत्रः अन्यः गुरु-पुत्रः शतक्रतोः । कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥ २१ ॥
gadgadasya eva putraḥ anyaḥ guru-putraḥ śatakratoḥ . kadanam yasya putreṇa kṛtam ekena rakṣasām .. 21 ..
सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् । सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः ॥ 22 ॥
सुषेणः च अपि धर्म-आत्मा पुत्रः धर्मस्य वीर्यवान् । सौम्यः सोम-आत्मजः च अत्र राजन् दधिमुखः कपिः ॥ २२ ॥
suṣeṇaḥ ca api dharma-ātmā putraḥ dharmasya vīryavān . saumyaḥ soma-ātmajaḥ ca atra rājan dadhimukhaḥ kapiḥ .. 22 ..
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः । मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ॥ 23 ॥
सुमुखः दुर्मुखः च अत्र वेगदर्शी च वानरः । मृत्युः वानर-रूपेण नूनम् सृष्टः स्वयम्भुवा ॥ २३ ॥
sumukhaḥ durmukhaḥ ca atra vegadarśī ca vānaraḥ . mṛtyuḥ vānara-rūpeṇa nūnam sṛṣṭaḥ svayambhuvā .. 23 ..
पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् । अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः ॥ 24 ॥
पुत्रः हुतवहस्य अथ नीलः सेनापतिः स्वयम् । अनिलस्य च पुत्रः अत्र हनूमान् इति विश्रुतः ॥ २४ ॥
putraḥ hutavahasya atha nīlaḥ senāpatiḥ svayam . anilasya ca putraḥ atra hanūmān iti viśrutaḥ .. 24 ..
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा । मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ ॥ 25 ॥
नप्ता शक्रस्य दुर्धर्षः बलवान् अङ्गदः युवा । मैन्दः च द्विविदः च उभौ बलिनौ अश्वि-सम्भवौ ॥ २५ ॥
naptā śakrasya durdharṣaḥ balavān aṅgadaḥ yuvā . maindaḥ ca dvividaḥ ca ubhau balinau aśvi-sambhavau .. 25 ..
पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः । गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ 26 ॥
पुत्राः वैवस्वतस्य अत्र पञ्च-काल-अन्तक-उपमाः । गजः गवाक्षः गवयः शरभः गन्धमादनः ॥ २६ ॥
putrāḥ vaivasvatasya atra pañca-kāla-antaka-upamāḥ . gajaḥ gavākṣaḥ gavayaḥ śarabhaḥ gandhamādanaḥ .. 26 ..
दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् । श्रीमतां देवपुत्राणां शेषा नाख्यातुमुत्सहे ॥ 27 ॥
दश वानर-कोट्यः च शूराणाम् युद्ध-काङ्क्षिणाम् । श्रीमताम् देव-पुत्राणाम् शेषाः ना आख्यातुम् उत्सहे ॥ २७ ॥
daśa vānara-koṭyaḥ ca śūrāṇām yuddha-kāṅkṣiṇām . śrīmatām deva-putrāṇām śeṣāḥ nā ākhyātum utsahe .. 27 ..
पुत्रो दशरथस्यैष सिंहसंहननो युवा । दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥ 28 ॥
पुत्रः दशरथस्य एष सिंह-संहननः युवा । दूषणः निहतः येन खरः च त्रिशिराः तथा ॥ २८ ॥
putraḥ daśarathasya eṣa siṃha-saṃhananaḥ yuvā . dūṣaṇaḥ nihataḥ yena kharaḥ ca triśirāḥ tathā .. 28 ..
नास्ति रामस्य सदृशो विक्रमे भुवि कश् चन । विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ 29 ॥
न अस्ति रामस्य सदृशः विक्रमे भुवि कः चन । विराधः निहतः येन कबन्धः च अन्तक-उपमः ॥ २९ ॥
na asti rāmasya sadṛśaḥ vikrame bhuvi kaḥ cana . virādhaḥ nihataḥ yena kabandhaḥ ca antaka-upamaḥ .. 29 ..
वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान्क्षितौ । जनस्थानगता येन तावन्तो राक्षसा हताः ॥ 30 ॥
वक्तुम् न शक्तः रामस्य नरः कश्चिद् गुणान् क्षितौ । जनस्थान-गताः येन तावन्तः राक्षसाः हताः ॥ ३० ॥
vaktum na śaktaḥ rāmasya naraḥ kaścid guṇān kṣitau . janasthāna-gatāḥ yena tāvantaḥ rākṣasāḥ hatāḥ .. 30 ..
लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः । यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ 31 ॥
लक्ष्मणः च अत्र धर्म-आत्मा मातङ्गानाम् इव ऋषभः । यस्य बाण-पथम् प्राप्य न जीवेत् अपि वासवः ॥ ३१ ॥
lakṣmaṇaḥ ca atra dharma-ātmā mātaṅgānām iva ṛṣabhaḥ . yasya bāṇa-patham prāpya na jīvet api vāsavaḥ .. 31 ..
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ । वरुणस्याथ पुत्रोऽथ हेमकूटः प्लवङ्गमः ॥ 32 ॥
श्वेतः ज्योतिर्मुखः च अत्र भास्करस्य आत्मसम्भवौ । वरुणस्य अथ पुत्रः अथ हेमकूटः प्लवङ्गमः ॥ ३२ ॥
śvetaḥ jyotirmukhaḥ ca atra bhāskarasya ātmasambhavau . varuṇasya atha putraḥ atha hemakūṭaḥ plavaṅgamaḥ .. 32 ..
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः । विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः ॥ 33 ॥
। विक्रान्तः वेगवान् अत्र वसु-पुत्रः सु दुर्धरः ॥ ३३ ॥
. vikrāntaḥ vegavān atra vasu-putraḥ su durdharaḥ .. 33 ..
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः । परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥ 34 ॥
राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः । परिगृह्य पुरीम् लङ्काम् राघवस्य हिते रतः ॥ ३४ ॥
rākṣasānām variṣṭhaḥ ca tava bhrātā vibhīṣaṇaḥ . parigṛhya purīm laṅkām rāghavasya hite rataḥ .. 34 ..
इति सर्वं समाख्यातं तवेदं वानरं बलम् । सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ॥ 35 ॥
इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् । सुवेले अधिष्ठितम् शैले शेष-कार्ये भवान् गतिः ॥ ३५ ॥
iti sarvam samākhyātam tava idam vānaram balam . suvele adhiṣṭhitam śaile śeṣa-kārye bhavān gatiḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In