This overlay will guide you through the buttons:

| |
|
ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ 1 ॥
ततस् तम् अक्षोभ्य-बलम् लङ्कायाम् नृपतेः चरः । सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥ १ ॥
tatas tam akṣobhya-balam laṅkāyām nṛpateḥ caraḥ . suvele rāghavam śaile niviṣṭam pratyavedayan .. 1 ..
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत्किं चित्सचिवांश्चेदमब्रवीत् ॥ 2 ॥
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महा-बलम् । जात-उद्वेगः अभवत् किम् चित् सचिवान् च इदम् अब्रवीत् ॥ २ ॥
cārāṇām rāvaṇaḥ śrutvā prāptam rāmam mahā-balam . jāta-udvegaḥ abhavat kim cit sacivān ca idam abravīt .. 2 ..
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः । अयं नो मन्त्रकालो हि सम्प्राप्त इव राक्षसाः ॥ 3 ॥
मन्त्रिणः शीघ्रम् आयान्तु सर्वे वै सु समाहिताः । अयम् नः मन्त्र-कालः हि सम्प्राप्तः इव राक्षसाः ॥ ३ ॥
mantriṇaḥ śīghram āyāntu sarve vai su samāhitāḥ . ayam naḥ mantra-kālaḥ hi samprāptaḥ iva rākṣasāḥ .. 3 ..
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् । ततः संमन्त्रयामास सचिवै राक्षसैः सह ॥ 4 ॥
तस्य तत् शासनम् श्रुत्वा मन्त्रिणः अभ्यागमन् द्रुतम् । ततस् संमन्त्रयामास सचिवैः राक्षसैः सह ॥ ४ ॥
tasya tat śāsanam śrutvā mantriṇaḥ abhyāgaman drutam . tatas saṃmantrayāmāsa sacivaiḥ rākṣasaiḥ saha .. 4 ..
मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् । विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् ॥ 5 ॥
मन्त्रयित्वा स दुर्धर्षः क्षमम् यत् समनन्तरम् । विसर्जयित्वा सचिवान् प्रविवेश स्वम् आलयम् ॥ ५ ॥
mantrayitvā sa durdharṣaḥ kṣamam yat samanantaram . visarjayitvā sacivān praviveśa svam ālayam .. 5 ..
ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् । मायाविदं महामायः प्राविशद्यत्र मैथिली ॥ 6 ॥
ततस् राक्षसम् आहूय विद्युज्जिह्वम् महा-बलम् । माया-विदम् महा-मायः प्राविशत् यत्र मैथिली ॥ ६ ॥
tatas rākṣasam āhūya vidyujjihvam mahā-balam . māyā-vidam mahā-māyaḥ prāviśat yatra maithilī .. 6 ..
विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः । मोहयिष्यामहे सीतां मायया जनकात्मजाम् ॥ 7 ॥
विद्युज्जिह्वम् च माया-ज्ञम् अब्रवीत् राक्षस-अधिपः । मोहयिष्यामहे सीताम् मायया जनकात्मजाम् ॥ ७ ॥
vidyujjihvam ca māyā-jñam abravīt rākṣasa-adhipaḥ . mohayiṣyāmahe sītām māyayā janakātmajām .. 7 ..
शिरो मायामयं गृह्य राघवस्य निशाचर । मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ॥ 8 ॥
शिरः माया-मयम् गृह्य राघवस्य निशाचर । माम् त्वम् समुपतिष्ठस्व महत् च स शरम् धनुः ॥ ८ ॥
śiraḥ māyā-mayam gṛhya rāghavasya niśācara . mām tvam samupatiṣṭhasva mahat ca sa śaram dhanuḥ .. 8 ..
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः । दर्शयामासतांमायांसुप्रयुक्तांसरावणे ॥ 9 ॥
एवम् उक्तः तथा इति आह विद्युज्जिह्वः निशाचरः । दर्शयामासताम् मायाम् सु प्रयुक्ताम् स रावणे ॥ ९ ॥
evam uktaḥ tathā iti āha vidyujjihvaḥ niśācaraḥ . darśayāmāsatām māyām su prayuktām sa rāvaṇe .. 9 ..
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् । अशोकवनिकायां तु प्रविवेश महाबलः ॥ 10 ॥
तस्य तुष्टः अभवत् राजा प्रददौ च विभूषणम् । अशोक-वनिकायाम् तु प्रविवेश महा-बलः ॥ १० ॥
tasya tuṣṭaḥ abhavat rājā pradadau ca vibhūṣaṇam . aśoka-vanikāyām tu praviveśa mahā-balaḥ .. 10 ..
वैरृतानामधिपतिस्संविवेशमहाबलः । ततो दीनामदैन्यार्हां ददर्श धनदानुजः ॥ 11 ॥
वैरृतानाम् अधिपतिः संविवेश महा-बलः । ततस् दीनाम् अ दैन्य-अर्हाम् ददर्श धनद-अनुजः ॥ ११ ॥
vairṛtānām adhipatiḥ saṃviveśa mahā-balaḥ . tatas dīnām a dainya-arhām dadarśa dhanada-anujaḥ .. 11 ..
अधोमुखीं शोकपरामुपविष्टां महीतले । भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ॥ 12 ॥
अधोमुखीम् शोक-पराम् उपविष्टाम् मही-तले । भर्तारम् एव ध्यायन्तीम् अशोक-वनिकाम् गताम् ॥ १२ ॥
adhomukhīm śoka-parām upaviṣṭām mahī-tale . bhartāram eva dhyāyantīm aśoka-vanikām gatām .. 12 ..
उपास्यमानां घोराभी राक्षसीभिरदूरतः । उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् ॥ 13 ॥
उपास्यमानाम् घोराभिः राक्षसीभिः अदूरतः । उपसृत्य ततस् सीताम् प्रहर्षन् नाम कीर्तयन् ॥ १३ ॥
upāsyamānām ghorābhiḥ rākṣasībhiḥ adūrataḥ . upasṛtya tatas sītām praharṣan nāma kīrtayan .. 13 ..
इदं च वचनं धृष्टमुवाच जनकात्मजाम् । सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे ॥ 14 ॥
इदम् च वचनम् धृष्टम् उवाच जनकात्मजाम् । सान्त्व्यमाना मया भद्रे यम् उपाश्रित्य वल्गसे ॥ १४ ॥
idam ca vacanam dhṛṣṭam uvāca janakātmajām . sāntvyamānā mayā bhadre yam upāśritya valgase .. 14 ..
खर हन्ता स ते भर्ता राघवः समरे हतः । छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया ॥ 15 ॥
खर-हन्ता स ते भर्ता राघवः समरे हतः । छिन्नम् ते सर्वतस् मूलम् दर्पः ते निहतः मया ॥ १५ ॥
khara-hantā sa te bhartā rāghavaḥ samare hataḥ . chinnam te sarvatas mūlam darpaḥ te nihataḥ mayā .. 15 ..
व्यसनेनात्मनः सीते मम भार्या भविष्यसि । विसृजैतां मतिं मूढे: किं मृतेन करिष्यसि ॥ 16 ॥
व्यसनेन आत्मनः सीते मम भार्या भविष्यसि । विसृज एताम् मतिम् मूढे किम् मृतेन करिष्यसि ॥ १६ ॥
vyasanena ātmanaḥ sīte mama bhāryā bhaviṣyasi . visṛja etām matim mūḍhe kim mṛtena kariṣyasi .. 16 ..
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि । शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा ॥ 17 ॥
अल्प-पुण्ये निवृत्त-अर्थे मूढे पण्डित-मानिनि । शृणु भर्तृ-बधम् सीते घोरम् वृत्र-वधम् यथा ॥ १७ ॥
alpa-puṇye nivṛtta-arthe mūḍhe paṇḍita-mānini . śṛṇu bhartṛ-badham sīte ghoram vṛtra-vadham yathā .. 17 ..
भवस्व भद्रे: भार्याणां सर्वेसामीश्वरी मम । समायातः समुद्रान्तं मां हन्तुं किल राघवः । वानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ 18 ॥
भवस्व भद्रे भार्याणाम् सर्वेसाम् ईश्वरी मम । समायातः समुद्र-अन्तम् माम् हन्तुम् किल राघवः । वानर-इन्द्र-प्रणीतेन बलेन महता वृतः ॥ १८ ॥
bhavasva bhadre bhāryāṇām sarvesām īśvarī mama . samāyātaḥ samudra-antam mām hantum kila rāghavaḥ . vānara-indra-praṇītena balena mahatā vṛtaḥ .. 18 ..
संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् । बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ 19 ॥
संनिविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् । बलेन महता रामः व्रजति अस्तम् दिवाकरे ॥ १९ ॥
saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam . balena mahatā rāmaḥ vrajati astam divākare .. 19 ..
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् । सुखसुप्तं समासाद्य चारितं प्रथमं चरैः ॥ 20 ॥
अथ अध्वनि परिश्रान्तम् अर्धरात्रे स्थितम् बलम् । सुख-सुप्तम् समासाद्य चारितम् प्रथमम् चरैः ॥ २० ॥
atha adhvani pariśrāntam ardharātre sthitam balam . sukha-suptam samāsādya cāritam prathamam caraiḥ .. 20 ..
तत्प्रहस्तप्रणीतेन बलेन महता मम । बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः ॥ 21 ॥
तत् प्रहस्त-प्रणीतेन बलेन महता मम । बलम् अस्य हतम् रात्रौ यत्र रामः सु लक्ष्मणः ॥ २१ ॥
tat prahasta-praṇītena balena mahatā mama . balam asya hatam rātrau yatra rāmaḥ su lakṣmaṇaḥ .. 21 ..
पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान् । बाणजालानि शूलानि भास्वरान्कूटमुद्गरान् ॥ 22 ॥
पट्टसान् परिघान् खड्गान् चक्रान् दण्डान् महा-आयसान् । बाण-जालानि शूलानि भास्वरान् कूटमुद्गरान् ॥ २२ ॥
paṭṭasān parighān khaḍgān cakrān daṇḍān mahā-āyasān . bāṇa-jālāni śūlāni bhāsvarān kūṭamudgarān .. 22 ..
यष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि च । उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ 23 ॥
यष्टीः च तोमरान् प्रासन् चक्राणि मुसलानि च । उद्यम्य उद्यम्य रक्षोभिः वानरेषु निपातिताः ॥ २३ ॥
yaṣṭīḥ ca tomarān prāsan cakrāṇi musalāni ca . udyamya udyamya rakṣobhiḥ vānareṣu nipātitāḥ .. 23 ..
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना । असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ 24 ॥
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना । असक्तम् कृतहस्तेन शिरः छिन्नम् महा-असिना ॥ २४ ॥
atha suptasya rāmasya prahastena pramāthinā . asaktam kṛtahastena śiraḥ chinnam mahā-asinā .. 24 ..
विभीषणः समुत्पत्य निगृहीतो यदृच्छया । दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह ॥ 25 ॥
विभीषणः समुत्पत्य निगृहीतः यदृच्छया । दिशः प्रव्राजितः सर्वैः लक्ष्मणः प्लवगैः सह ॥ २५ ॥
vibhīṣaṇaḥ samutpatya nigṛhītaḥ yadṛcchayā . diśaḥ pravrājitaḥ sarvaiḥ lakṣmaṇaḥ plavagaiḥ saha .. 25 ..
सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः । निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः ॥ 26 ॥
सुग्रीवः ग्रीवया शेते भग्नया प्लवग-अधिपः । निरस्त-हनुकः शेते हनूमान् राक्षसैः हतः ॥ २६ ॥
sugrīvaḥ grīvayā śete bhagnayā plavaga-adhipaḥ . nirasta-hanukaḥ śete hanūmān rākṣasaiḥ hataḥ .. 26 ..
जाम्बवानथ जानुभ्याम् उत्पतन्निहतो युधि । पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ 27 ॥
जाम्बवान् अथ जानुभ्याम् उत्पतन् निहतः युधि । पट्टसैः बहुभिः छिन्नः निकृत्तः पादपः यथा ॥ २७ ॥
jāmbavān atha jānubhyām utpatan nihataḥ yudhi . paṭṭasaiḥ bahubhiḥ chinnaḥ nikṛttaḥ pādapaḥ yathā .. 27 ..
मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ । निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ ॥ 28 ॥
मैन्दः च द्विविदः च उभौ निहतौ वानर-ऋषभौ । निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ ॥ २८ ॥
maindaḥ ca dvividaḥ ca ubhau nihatau vānara-ṛṣabhau . niḥśvasantau rudantau ca rudhireṇa samukṣitau .. 28 ..
असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः । अभिष्टनति मेदिन्यां पनसः पनसो यथा ॥ 29 ॥
असिना अभ्याहतः छिन्नः मध्ये रिपु-निषूदनः । अभिष्टनति मेदिन्याम् पनसः पनसः यथा ॥ २९ ॥
asinā abhyāhataḥ chinnaḥ madhye ripu-niṣūdanaḥ . abhiṣṭanati medinyām panasaḥ panasaḥ yathā .. 29 ..
नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः । कुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः ॥ 30 ॥
नाराचैः बहुभिः छिन्नः शेते दर्याम् दरीमुखः । कुमुदः तु महा-तेजाः निष्कूजन् सायकैः हतः ॥ ३० ॥
nārācaiḥ bahubhiḥ chinnaḥ śete daryām darīmukhaḥ . kumudaḥ tu mahā-tejāḥ niṣkūjan sāyakaiḥ hataḥ .. 30 ..
अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः । पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः ॥ 31 ॥
अङ्गदः बहुभिः छिन्नः शरैः आसाद्य राक्षसैः । पातितः रुधिर-उद्गारी क्षितौ निपतितः अङ्गदः ॥ ३१ ॥
aṅgadaḥ bahubhiḥ chinnaḥ śaraiḥ āsādya rākṣasaiḥ . pātitaḥ rudhira-udgārī kṣitau nipatitaḥ aṅgadaḥ .. 31 ..
हरयो मथिता नागै रथजालैस्तथापरे । शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥ 32 ॥
हरयः मथिताः नागैः रथ-जालैः तथा अपरे । शायिताः मृदिताः तत्र वायु-वेगैः इव अम्बुदाः ॥ ३२ ॥
harayaḥ mathitāḥ nāgaiḥ ratha-jālaiḥ tathā apare . śāyitāḥ mṛditāḥ tatra vāyu-vegaiḥ iva ambudāḥ .. 32 ..
प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः । अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ 33 ॥
प्रद्रुताः च परे त्रस्ताः हन्यमानाः जघन्यतस् । अभिद्रुताः तु रक्षोभिः सिंहैः इव महा-द्विपाः ॥ ३३ ॥
pradrutāḥ ca pare trastāḥ hanyamānāḥ jaghanyatas . abhidrutāḥ tu rakṣobhiḥ siṃhaiḥ iva mahā-dvipāḥ .. 33 ..
सागरे पतिताः के चित्के चिद्गगनमाश्रिताः । ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः ॥ 34 ॥
सागरे पतिताः के चित् के चित् गगनम् आश्रिताः । ऋक्षाः वृक्षान् उपारूढाः वानरैः तु विमिश्रिताः ॥ ३४ ॥
sāgare patitāḥ ke cit ke cit gaganam āśritāḥ . ṛkṣāḥ vṛkṣān upārūḍhāḥ vānaraiḥ tu vimiśritāḥ .. 34 ..
सागरस्य च तीरेषु शैलेषु च वनेषु च । पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥ 35 ॥
सागरस्य च तीरेषु शैलेषु च वनेषु च । पिङ्ग-अक्षाः ते विरूपाक्षैः बहुभिः बहवः हताः ॥ ३५ ॥
sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca . piṅga-akṣāḥ te virūpākṣaiḥ bahubhiḥ bahavaḥ hatāḥ .. 35 ..
एवं तव हतो भर्ता ससैन्यो मम सेनया । क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ 36 ॥
एवम् तव हतः भर्ता स सैन्यः मम सेनया । क्षतज-आर्द्रम् रजः-ध्वस्तम् इदम् च अस्य आहृतम् शिरः ॥ ३६ ॥
evam tava hataḥ bhartā sa sainyaḥ mama senayā . kṣataja-ārdram rajaḥ-dhvastam idam ca asya āhṛtam śiraḥ .. 36 ..
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः । सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ 37 ॥
ततस् परम-दुर्धर्षः रावणः राक्षसेश्वरः । सीतायाम् उपशृण्वन्त्याम् राक्षसीम् इदम् अब्रवीत् ॥ ३७ ॥
tatas parama-durdharṣaḥ rāvaṇaḥ rākṣaseśvaraḥ . sītāyām upaśṛṇvantyām rākṣasīm idam abravīt .. 37 ..
राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय । येन तद्राघवशिरः सङ्ग्रामात्स्वयमाहृतम् ॥ 38 ॥
राक्षसम् क्रूर-कर्माणम् विद्युज्जिह्वम् त्वम् आनय । येन तत् राघव-शिरः सङ्ग्रामात् स्वयम् आहृतम् ॥ ३८ ॥
rākṣasam krūra-karmāṇam vidyujjihvam tvam ānaya . yena tat rāghava-śiraḥ saṅgrāmāt svayam āhṛtam .. 38 ..
विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् । प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ 39 ॥
विद्युज्जिह्वः ततस् गृह्य शिरः तत् स शरासनम् । प्रणामम् शिरसा कृत्वा रावणस्य अग्रतस् स्थितः ॥ ३९ ॥
vidyujjihvaḥ tatas gṛhya śiraḥ tat sa śarāsanam . praṇāmam śirasā kṛtvā rāvaṇasya agratas sthitaḥ .. 39 ..
तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् । विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ॥ 40 ॥
तम् अब्रवीत् ततस् राजा रावणः राक्षसम् स्थितम् । विद्युज्जिह्वम् महाजिह्वम् समीपपरिवर्तिनम् ॥ ४० ॥
tam abravīt tatas rājā rāvaṇaḥ rākṣasam sthitam . vidyujjihvam mahājihvam samīpaparivartinam .. 40 ..
अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः । अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥ 41 ॥
अग्रतस् कुरु सीतायाः शीघ्रम् दाशरथेः शिरः । अवस्थाम् पश्चिमाम् भर्तुः कृपणा साधु पश्यतु ॥ ४१ ॥
agratas kuru sītāyāḥ śīghram dāśaratheḥ śiraḥ . avasthām paścimām bhartuḥ kṛpaṇā sādhu paśyatu .. 41 ..
एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् । उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ 42 ॥
एवम् उक्तम् तु तत् रक्षः शिरः तत् प्रिय-दर्शनम् । उपनिक्षिप्य सीतायाः क्षिप्रम् अन्तरधीयत ॥ ४२ ॥
evam uktam tu tat rakṣaḥ śiraḥ tat priya-darśanam . upanikṣipya sītāyāḥ kṣipram antaradhīyata .. 42 ..
रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् । त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह ॥ 43 ॥
रावणः च अपि चिक्षेप भास्वरम् कार्मुकम् महत् । त्रिषु लोकेषु विख्यातम् सीताम् इदम् उवाच ह ॥ ४३ ॥
rāvaṇaḥ ca api cikṣepa bhāsvaram kārmukam mahat . triṣu lokeṣu vikhyātam sītām idam uvāca ha .. 43 ..
इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् । इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥ 44 ॥
इदम् तत् तव रामस्य कार्मुकम् ज्या-समन्वितम् । इह प्रहस्तेन आनीतम् हत्वा तम् निशि मानुषम् ॥ ४४ ॥
idam tat tava rāmasya kārmukam jyā-samanvitam . iha prahastena ānītam hatvā tam niśi mānuṣam .. 44 ..
स विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः । विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा ॥ 45 ॥
स विद्युज्जिह्वेन सह एव तत् शिरः धनुः च भूमौ विनिकीर्य रावणः । विदेह-राजस्य सुताम् यशस्विनीम् ततस् अब्रवीत् ताम् भव मे वश-अनुगा ॥ ४५ ॥
sa vidyujjihvena saha eva tat śiraḥ dhanuḥ ca bhūmau vinikīrya rāvaṇaḥ . videha-rājasya sutām yaśasvinīm tatas abravīt tām bhava me vaśa-anugā .. 45 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In