This overlay will guide you through the buttons:

| |
|
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ 1 ॥
सा सीता तत् शिरः दृष्ट्वा तत् च कार्मुकम् उत्तमम् । सुग्रीव-प्रतिसंसर्गम् आख्यातम् च हनूमता ॥ १ ॥
sā sītā tat śiraḥ dṛṣṭvā tat ca kārmukam uttamam . sugrīva-pratisaṃsargam ākhyātam ca hanūmatā .. 1 ..
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् । केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥ 2 ॥
नयने मुख-वर्णम् च भर्तुः तद्-सदृशम् मुखम् । केशान् केशान्त-देशम् च तम् च चूडामणिम् शुभम् ॥ २ ॥
nayane mukha-varṇam ca bhartuḥ tad-sadṛśam mukham . keśān keśānta-deśam ca tam ca cūḍāmaṇim śubham .. 2 ..
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता । विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ॥ 3 ॥
एतैः सर्वैः अभिज्ञानैः अभिज्ञाय सु दुःखिता । विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा ॥ ३ ॥
etaiḥ sarvaiḥ abhijñānaiḥ abhijñāya su duḥkhitā . vijagarhe atha kaikeyīm krośantī kurarī yathā .. 3 ..
सकामा भव कैकेयि हतोऽयं कुलनन्दनः । कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ 4 ॥
स कामा भव कैकेयि हतः अयम् कुल-नन्दनः । कुलम् उत्सादितम् सर्वम् त्वया कलह-शीलया ॥ ४ ॥
sa kāmā bhava kaikeyi hataḥ ayam kula-nandanaḥ . kulam utsāditam sarvam tvayā kalaha-śīlayā .. 4 ..
आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् । यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम् ॥ 5 ॥
आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् । यद्-गृहात् चीर-वसनः तया प्रस्थापितः वनम् ॥ ५ ॥
āryeṇa kim nu kaikeyyāḥ kṛtam rāmeṇa vipriyam . yad-gṛhāt cīra-vasanaḥ tayā prasthāpitaḥ vanam .. 5 ..
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी । जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ 6 ॥
एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी । जगाम जगतीम् बाला छिन्ना तु कदली यथा ॥ ६ ॥
evam uktvā tu vaidehī vepamānā tapasvinī . jagāma jagatīm bālā chinnā tu kadalī yathā .. 6 ..
सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् । तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ 7 ॥
सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् । तत् शिरः समुपाघ्राय विललाप आयत-ईक्षणा ॥ ७ ॥
sā muhūrtāt samāśvasya pratilabhya ca cetanām . tat śiraḥ samupāghrāya vilalāpa āyata-īkṣaṇā .. 7 ..
हा हतास्मि महाबाहो वीरव्रतमनुव्रता । इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ 8 ॥
हा हता अस्मि महा-बाहो वीर-व्रतम् अनुव्रता । इमाम् ते पश्चिम-अवस्थाम् गता अस्मि विधवा कृता ॥ ८ ॥
hā hatā asmi mahā-bāho vīra-vratam anuvratā . imām te paścima-avasthām gatā asmi vidhavā kṛtā .. 8 ..
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते । सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ 9 ॥
प्रथमम् मरणम् नार्याः भर्तुः वैगुण्यम् उच्यते । सु वृत्तः साधु-वृत्तायाः संवृत्तः त्वम् मम अग्रतस् ॥ ९ ॥
prathamam maraṇam nāryāḥ bhartuḥ vaiguṇyam ucyate . su vṛttaḥ sādhu-vṛttāyāḥ saṃvṛttaḥ tvam mama agratas .. 9 ..
महद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे । यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ 10 ॥
महत् दुःखम् प्रपन्नायाः मग्नायाः शोक-सागरे । यः हि माम् उद्यतः त्रातुम् सः अपि त्वम् विनिपातितः ॥ १० ॥
mahat duḥkham prapannāyāḥ magnāyāḥ śoka-sāgare . yaḥ hi mām udyataḥ trātum saḥ api tvam vinipātitaḥ .. 10 ..
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव । वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ 11 ॥
सा श्वश्रूः मम कौसल्या त्वया पुत्रेण राघव । वत्सेन इव यथा धेनुः विवत्सा वत्सला कृता ॥ ११ ॥
sā śvaśrūḥ mama kausalyā tvayā putreṇa rāghava . vatsena iva yathā dhenuḥ vivatsā vatsalā kṛtā .. 11 ..
आद्यिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम । अनृतं वचनं तेषामल्पायुरसि राघव ॥ 12 ॥
आदि-इष्टम् दीर्घम् आयुः ते यैः अचिन्त्य-पराक्रम । अनृतम् वचनम् तेषाम् अल्प-आयुः असि राघव ॥ १२ ॥
ādi-iṣṭam dīrgham āyuḥ te yaiḥ acintya-parākrama . anṛtam vacanam teṣām alpa-āyuḥ asi rāghava .. 12 ..
अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव । पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥ 13 ॥
अथ वा नश्यति प्रज्ञा प्राज्ञस्य अपि सतः तव । पचति एनम् तथा कालः भूतानाम् प्रभवः हि अयम् ॥ १३ ॥
atha vā naśyati prajñā prājñasya api sataḥ tava . pacati enam tathā kālaḥ bhūtānām prabhavaḥ hi ayam .. 13 ..
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् । व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ 14 ॥
अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय-शास्त्र-विद् । व्यसनानाम् उपाय-ज्ञः कुशलः हि असि वर्जने ॥ १४ ॥
adṛṣṭam mṛtyum āpannaḥ kasmāt tvam naya-śāstra-vid . vyasanānām upāya-jñaḥ kuśalaḥ hi asi varjane .. 14 ..
तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया । कालरात्र्या मयाच्छिद्य हृतः कमललोचनः ॥ 15 ॥
तथा त्वम् सम्परिष्वज्य रौद्रया अति नृशंसया । कालरात्र्या मया आच्छिद्य हृतः कमल-लोचनः ॥ १५ ॥
tathā tvam sampariṣvajya raudrayā ati nṛśaṃsayā . kālarātryā mayā ācchidya hṛtaḥ kamala-locanaḥ .. 15 ..
इह शेषे महाबाहो मां विहाय तपस्विनीम् । प्रियामिव यथा नारीं पृथिवीं पुरुषर्षभ ॥ 16 ॥
इह शेषे महा-बाहो माम् विहाय तपस्विनीम् । प्रियाम् इव यथा नारीम् पृथिवीम् पुरुष-ऋषभ ॥ १६ ॥
iha śeṣe mahā-bāho mām vihāya tapasvinīm . priyām iva yathā nārīm pṛthivīm puruṣa-ṛṣabha .. 16 ..
अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव । इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥ 17 ॥
अर्चितम् सततम् यत्नात् गन्ध-माल्यैः मया तव । इदम् ते मद्-प्रियम् वीर धनुः काञ्चन-भूषितम् ॥ १७ ॥
arcitam satatam yatnāt gandha-mālyaiḥ mayā tava . idam te mad-priyam vīra dhanuḥ kāñcana-bhūṣitam .. 17 ..
पित्रा दशरथेन त्वं श्वशुरेण ममानघ । सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ 18 ॥
पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ । सर्वैः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः ॥ १८ ॥
pitrā daśarathena tvam śvaśureṇa mama anagha . sarvaiḥ ca pitṛbhiḥ sārdham nūnam svarge samāgataḥ .. 18 ..
दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम् । पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ॥ 19 ॥
दिवि नक्षत्र-भूतः त्वम् महत् कर्म कृतम् प्रियम् । पुण्यम् राजर्षि-वंशम् त्वम् आत्मनः समुपेक्षसे ॥ १९ ॥
divi nakṣatra-bhūtaḥ tvam mahat karma kṛtam priyam . puṇyam rājarṣi-vaṃśam tvam ātmanaḥ samupekṣase .. 19 ..
किं मां न प्रेक्षसे राजन् किं मां न प्रतिभाषसे । बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ 20 ॥
किम् माम् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे । बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सहचारिणीम् ॥ २० ॥
kim mām na prekṣase rājan kim mām na pratibhāṣase . bālām bālena samprāptām bhāryām mām sahacāriṇīm .. 20 ..
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया । स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ 21 ॥
संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया । स्मर तत् मम काकुत्स्थ नय माम् अपि दुःखिताम् ॥ २१ ॥
saṃśrutam gṛhṇatā pāṇim cariṣyāmi iti yat tvayā . smara tat mama kākutstha naya mām api duḥkhitām .. 21 ..
कस्मान्मामपहाय त्वं गतो गतिमतां वर । अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् ॥ 22 ॥
कस्मात् माम् अपहाय त्वम् गतः गतिमताम् वर । अस्मात् लोकात् अमुम् लोकम् त्यक्त्वा माम् इह दुःखिताम् ॥ २२ ॥
kasmāt mām apahāya tvam gataḥ gatimatām vara . asmāt lokāt amum lokam tyaktvā mām iha duḥkhitām .. 22 ..
कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु । क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ 23 ॥
कल्याणैः उचितम् यत् तत् परिष्वक्तम् मया एव तु । क्रव्यादैः तत् शरीरम् ते नूनम् विपरिकृष्यते ॥ २३ ॥
kalyāṇaiḥ ucitam yat tat pariṣvaktam mayā eva tu . kravyādaiḥ tat śarīram te nūnam viparikṛṣyate .. 23 ..
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः । अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ 24 ॥
अग्निष्टोम-आदिभिः यज्ञैः इष्टवान् आप्त-दक्षिणैः । अग्निहोत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे ॥ २४ ॥
agniṣṭoma-ādibhiḥ yajñaiḥ iṣṭavān āpta-dakṣiṇaiḥ . agnihotreṇa saṃskāram kena tvam tu na lapsyase .. 24 ..
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् । परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ 25 ॥
प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् । परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक-लालसा ॥ २५ ॥
pravrajyām upapannānām trayāṇām ekam āgatam . pariprakṣyati kausalyā lakṣmaṇam śoka-lālasā .. 25 ..
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते । तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ 26 ॥
स तस्याः परिपृच्छन्त्याः वधम् मित्र-बलस्य ते । तव च आख्यास्यते नूनम् निशायाम् राक्षसैः वधम् ॥ २६ ॥
sa tasyāḥ paripṛcchantyāḥ vadham mitra-balasya te . tava ca ākhyāsyate nūnam niśāyām rākṣasaiḥ vadham .. 26 ..
सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् । हृदयेन विदीर्णेन न भविष्यति राघव ॥ 27 ॥
सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षः-गृहम् गताम् । हृदयेन विदीर्णेन न भविष्यति राघव ॥ २७ ॥
sā tvām suptam hatam śrutvā mām ca rakṣaḥ-gṛham gatām . hṛdayena vidīrṇena na bhaviṣyati rāghava .. 27 ..
मम हेतोरनार्याया अनघः पार्थिवात्मजः । राम सागरमुत्तीर्य वीर्यवान गोष्पदे हतः ॥ 28 ॥
मम हेतोः अनार्यायाः अनघः पार्थिव-आत्मजः । राम सागरम् उत्तीर्य वीर्यवान गोष्पदे हतः ॥ २८ ॥
mama hetoḥ anāryāyāḥ anaghaḥ pārthiva-ātmajaḥ . rāma sāgaram uttīrya vīryavāna goṣpade hataḥ .. 28 ..
अहं दाशरथेनोढा मोहात् स्वकुलपांसनी । आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ 29 ॥
अहम् दाशरथेन ऊढा मोहात् स्व-कुल-पांसनी । आर्य-पुत्रस्य रामस्य भार्या मृत्युः अजायत ॥ २९ ॥
aham dāśarathena ūḍhā mohāt sva-kula-pāṃsanī . ārya-putrasya rāmasya bhāryā mṛtyuḥ ajāyata .. 29 ..
नूनमन्यां मया जातिं वारितं दानमुत्तमम् । याहमद्यैव शोचामि भार्या सर्वतिथेरहि ॥ 30 ॥
नूनम् अन्याम् मया जातिम् वारितम् दानम् उत्तमम् । या अहम् अद्य एव शोचामि भार्या सर्व-अतिथेः अहि ॥ ३० ॥
nūnam anyām mayā jātim vāritam dānam uttamam . yā aham adya eva śocāmi bhāryā sarva-atitheḥ ahi .. 30 ..
साधु पातय मां क्षिप्रं रामस्योपरि रावणः । समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥ 31 ॥
साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः । समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् ॥ ३१ ॥
sādhu pātaya mām kṣipram rāmasya upari rāvaṇaḥ . samānaya patim patnyā kuru kalyāṇam uttamam .. 31 ..
शिरसा मे शिरश्चास्य कायं कायेन योजय । रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ॥ 32 ॥
शिरसा मे शिरः च अस्य कायम् कायेन योजय । रावण अनुगमिष्यामि गतिम् भर्तुः महात्मनः ॥ ३२ ॥
śirasā me śiraḥ ca asya kāyam kāyena yojaya . rāvaṇa anugamiṣyāmi gatim bhartuḥ mahātmanaḥ .. 32 ..
इतिव दुःखसन्तप्ता विललापायतेक्षणा । भर्तुः शिरो धनुसश्चैव ददर्श जनकात्मजा ॥ 33 ॥
दुःख-सन्तप्ता विललाप आयत-ईक्षणा । भर्तुः शिरः धनुसः च एव ददर्श जनकात्मजा ॥ ३३ ॥
duḥkha-santaptā vilalāpa āyata-īkṣaṇā . bhartuḥ śiraḥ dhanusaḥ ca eva dadarśa janakātmajā .. 33 ..
एवं लालप्यमानायां सीतायां तत्र राक्षसः । अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ 34 ॥
एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः । अभिचक्राम भर्तारम् अनीक-स्थः कृताञ्जलिः ॥ ३४ ॥
evam lālapyamānāyām sītāyām tatra rākṣasaḥ . abhicakrāma bhartāram anīka-sthaḥ kṛtāñjaliḥ .. 34 ..
विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च । न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ 35 ॥
विजयस्व आर्य-पुत्र इति सः अभिवाद्य प्रसाद्य च । न्यवेदयत् अनुप्राप्तम् प्रहस्तम् वाहिनीपतिम् ॥ ३५ ॥
vijayasva ārya-putra iti saḥ abhivādya prasādya ca . nyavedayat anuprāptam prahastam vāhinīpatim .. 35 ..
अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः । किं चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ 36 ॥
अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः । किम् चित् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु ॥ ३६ ॥
amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ . kim cit ātyayikam kāryam teṣām tvam darśanam kuru .. 36 ..
नूनमस्ति महाराज राजभावात् क्षमान्वितं । किञ्चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ 37 ॥
नूनम् अस्ति महा-राज राज-भावात् क्षमा-अन्वितम् । किञ्चिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु ॥ ३७ ॥
nūnam asti mahā-rāja rāja-bhāvāt kṣamā-anvitam . kiñcid ātyayikam kāryam teṣām tvam darśanam kuru .. 37 ..
एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् । अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ 38 ॥
एतत् श्रुत्वा दशग्रीवः राक्षस-प्रतिवेदितम् । अशोक-वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ ॥ ३८ ॥
etat śrutvā daśagrīvaḥ rākṣasa-prativeditam . aśoka-vanikām tyaktvā mantriṇām darśanam yayau .. 38 ..
स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः । सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ 39 ॥
स तु सर्वम् समर्थ्य एव मन्त्रिभिः कृत्यम् आत्मनः । सभाम् प्रविश्य विदधे विदित्वा राम-विक्रमम् ॥ ३९ ॥
sa tu sarvam samarthya eva mantribhiḥ kṛtyam ātmanaḥ . sabhām praviśya vidadhe viditvā rāma-vikramam .. 39 ..
अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् । जगाम रावणस्यैव निर्याणसमनन्तरम् ॥ 40 ॥
अन्तर्धानम् तु तत् शीर्षम् तत् च कार्मुकम् उत्तमम् । जगाम रावणस्य एव निर्याण-समनन्तरम् ॥ ४० ॥
antardhānam tu tat śīrṣam tat ca kārmukam uttamam . jagāma rāvaṇasya eva niryāṇa-samanantaram .. 40 ..
राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः । समर्थयामास तदा रामकार्यविनिश्चयम् ॥ 41 ॥
राक्षस-इन्द्रः तु तैः सार्धम् मन्त्रिभिः भीम-विक्रमैः । समर्थयामास तदा राम-कार्य-विनिश्चयम् ॥ ४१ ॥
rākṣasa-indraḥ tu taiḥ sārdham mantribhiḥ bhīma-vikramaiḥ . samarthayāmāsa tadā rāma-kārya-viniścayam .. 41 ..
अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः । अब्रवीत्कालसदृशो रावणो राक्षसाधिपः ॥ 42 ॥
अविदूर-स्थितान् सर्वान् बलाध्यक्षान् हित-एषिणः । अब्रवीत् काल-सदृशः रावणः राक्षस-अधिपः ॥ ४२ ॥
avidūra-sthitān sarvān balādhyakṣān hita-eṣiṇaḥ . abravīt kāla-sadṛśaḥ rāvaṇaḥ rākṣasa-adhipaḥ .. 42 ..
शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे । समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ 43 ॥
शीघ्रम् भेरी-निनादेन स्फुट-कोण-आहतेन मे । समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् ॥ ४३ ॥
śīghram bherī-ninādena sphuṭa-koṇa-āhatena me . samānayadhvam sainyāni vaktavyam ca na kāraṇam .. 43 ..
ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम् । समानयंश्चैव समागतं च ते न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि ॥ 44 ॥
ततस् तथा इति प्रतिगृह्य तद्-वचः बल-अधिपाः ते महत् आत्मनः बलम् । समानयन् च एव समागतम् च ते न्यवेदयन् भर्तरि युद्ध-काङ्क्षिणि ॥ ४४ ॥
tatas tathā iti pratigṛhya tad-vacaḥ bala-adhipāḥ te mahat ātmanaḥ balam . samānayan ca eva samāgatam ca te nyavedayan bhartari yuddha-kāṅkṣiṇi .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In