This overlay will guide you through the buttons:

| |
|
सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी । आससादाशु वैदेहीं प्रियां प्रणयिनी सखी ॥ 1 ॥
सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी । आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ॥ १ ॥
sītām tu mohitām dṛṣṭvā saramā nāma rākṣasī . āsasāda āśu vaidehīm priyām praṇayinī sakhī .. 1 ..
मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ॥ 2 ॥
मोहिताम् राक्षस-इन्द्रेण सीताम् परम-दुःखिताम् । आश्वासयामास तदा सरमा मृदु-भाषिणी ॥ २ ॥
mohitām rākṣasa-indreṇa sītām parama-duḥkhitām . āśvāsayāmāsa tadā saramā mṛdu-bhāṣiṇī .. 2 ..
सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया । रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥ 3 ॥
सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया । रक्षन्ती रावण-आदिष्टा स अनुक्रोशा दृढ-व्रता ॥ ३ ॥
sā hi tatra kṛtā mitram sītayā rakṣyamāṇayā . rakṣantī rāvaṇa-ādiṣṭā sa anukrośā dṛḍha-vratā .. 3 ..
सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् । उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु ॥ 4 ॥
सा ददर्श सखीम् सीताम् सरमा नष्ट-चेतनाम् । उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ॥ ४ ॥
sā dadarśa sakhīm sītām saramā naṣṭa-cetanām . upāvṛtya utthitām dhvastām vaḍavām iva pāṃsuṣu .. 4 ..
तां समाश्वासयामास सखी स्नेहेन सुव्रता । समाश्वसिहि वैदेही मा भूत्ते मनसो व्यथा । उक्ता यद रावणेन त्वं प्रत्युक्तंश्च स्वयं त्वया ॥ 5 ॥
ताम् समाश्वासयामास सखी स्नेहेन सुव्रता । समाश्वसिहि वैदेही मा भूत् ते मनसः व्यथा । उक्ता रावणेन त्वम् प्रत्युक्तः च स्वयम् त्वया ॥ ५ ॥
tām samāśvāsayāmāsa sakhī snehena suvratā . samāśvasihi vaidehī mā bhūt te manasaḥ vyathā . uktā rāvaṇena tvam pratyuktaḥ ca svayam tvayā .. 5 ..
सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् । लीनया गनहे शूह्ये भयमुत्सृज्य रावणात् । तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् ॥ 6 ॥
सखी-स्नेहेन तत् भीरु मया सर्वम् प्रतिश्रुतम् । लीनया शूह्ये भयम् उत्सृज्य रावणात् । तव हेतोः विशाल-अक्षि न हि मे जीवितम् प्रियम् ॥ ६ ॥
sakhī-snehena tat bhīru mayā sarvam pratiśrutam . līnayā śūhye bhayam utsṛjya rāvaṇāt . tava hetoḥ viśāla-akṣi na hi me jīvitam priyam .. 6 ..
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः । तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ॥ 7 ॥
स सम्भ्रान्तः च निष्क्रान्तः यद्-कृते राक्षस-अधिपः । तत् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ॥ ७ ॥
sa sambhrāntaḥ ca niṣkrāntaḥ yad-kṛte rākṣasa-adhipaḥ . tat ca me viditam sarvam abhiniṣkramya maithili .. 7 ..
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः । वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते ॥ 8 ॥
न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित-आत्मनः । वधः च पुरुष-व्याघ्रे तस्मिन् एव उपपद्यते ॥ ८ ॥
na śakyam sauptikam kartum rāmasya vidita-ātmanaḥ . vadhaḥ ca puruṣa-vyāghre tasmin eva upapadyate .. 8 ..
न चैव वानरा हन्तुं शक्याः पादपयोधिनः । सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ 9 ॥
न च एव वानराः हन्तुम् शक्याः पादप-योधिनः । सुराः देव-ऋषभेण इव रामेण हि सु रक्षिताः ॥ ९ ॥
na ca eva vānarāḥ hantum śakyāḥ pādapa-yodhinaḥ . surāḥ deva-ṛṣabheṇa iva rāmeṇa hi su rakṣitāḥ .. 9 ..
दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् । धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥ 10 ॥
दीर्घ-वृत्त-भुजः श्रीमान् महा-उरस्कः प्रतापवान् । धन्वी संहनन-उपेतः धर्म-आत्मा भुवि विश्रुतः ॥ १० ॥
dīrgha-vṛtta-bhujaḥ śrīmān mahā-uraskaḥ pratāpavān . dhanvī saṃhanana-upetaḥ dharma-ātmā bhuvi viśrutaḥ .. 10 ..
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च । लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् ॥ 11 ॥
विक्रान्तः रक्षिता नित्यम् आत्मनः च परस्य च । लक्ष्मणेन सह भ्रात्रा कुशली नय-शास्त्र-विद् ॥ ११ ॥
vikrāntaḥ rakṣitā nityam ātmanaḥ ca parasya ca . lakṣmaṇena saha bhrātrā kuśalī naya-śāstra-vid .. 11 ..
हन्ता परबलौघानामचिन्त्यबलपौरुषः । न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः ॥ 12 ॥
हन्ता पर-बल-ओघानाम् अचिन्त्य-बल-पौरुषः । न हतः राघवः श्रीमान् सीते शत्रु-निबर्हणः ॥ १२ ॥
hantā para-bala-oghānām acintya-bala-pauruṣaḥ . na hataḥ rāghavaḥ śrīmān sīte śatru-nibarhaṇaḥ .. 12 ..
अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना । इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ॥ 13 ॥
अयुक्त-बुद्धि-कृत्येन सर्व-भूत-विरोधिना । इयम् प्रयुक्ता रौद्रेण माया माया-विदा त्वयि ॥ १३ ॥
ayukta-buddhi-kṛtyena sarva-bhūta-virodhinā . iyam prayuktā raudreṇa māyā māyā-vidā tvayi .. 13 ..
शोकस्ते विगतः सर्वः कल्याणं त्वाम् उपस्थितम् । ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु ॥ 14 ॥
शोकः ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् । ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति-करम् शृणु ॥ १४ ॥
śokaḥ te vigataḥ sarvaḥ kalyāṇam tvām upasthitam . dhruvam tvām bhajate lakṣmīḥ priyam prīti-karam śṛṇu .. 14 ..
उत्तीर्य सागरं रामः सह वानरसेनया । संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥ 15 ॥
उत्तीर्य सागरम् रामः सह वानर-सेनया । संनिविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ॥ १५ ॥
uttīrya sāgaram rāmaḥ saha vānara-senayā . saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam .. 15 ..
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः । सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ॥ 16 ॥
दृष्टः मे परिपूर्ण-अर्थः काकुत्स्थः सहलक्ष्मणः । सहितैः सागर-अन्तस्थैः बलैः तिष्ठति रक्षितः ॥ १६ ॥
dṛṣṭaḥ me paripūrṇa-arthaḥ kākutsthaḥ sahalakṣmaṇaḥ . sahitaiḥ sāgara-antasthaiḥ balaiḥ tiṣṭhati rakṣitaḥ .. 16 ..
अनेन प्रेषिता ये च राक्षसा लघुविक्रमः । राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता ॥ 17 ॥
अनेन प्रेषिताः ये च राक्षसाः लघु-विक्रमः । राघवः तीर्णः इति एवम् प्रवृत्तिः तैः इह आहृता ॥ १७ ॥
anena preṣitāḥ ye ca rākṣasāḥ laghu-vikramaḥ . rāghavaḥ tīrṇaḥ iti evam pravṛttiḥ taiḥ iha āhṛtā .. 17 ..
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः । एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥ 18 ॥
स ताम् श्रुत्वा विशाल-अक्षि प्रवृत्तिम् राक्षस-अधिपः । एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥ १८ ॥
sa tām śrutvā viśāla-akṣi pravṛttim rākṣasa-adhipaḥ . eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ .. 18 ..
इति ब्रुवाणा सरमा राक्षसी सीतया सह । सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥ 19 ॥
इति ब्रुवाणा सरमा राक्षसी सीतया सह । सर्व-उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ॥ १९ ॥
iti bruvāṇā saramā rākṣasī sītayā saha . sarva-udyogena sainyānām śabdam śuśrāva bhairavam .. 19 ..
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् । उवाच सरमा सीतामिदं मधुरभाषिणी ॥ 20 ॥
दण्ड-निर्घात-वादिन्याः श्रुत्वा भेर्याः महा-स्वनम् । उवाच सरमा सीताम् इदम् मधुर-भाषिणी ॥ २० ॥
daṇḍa-nirghāta-vādinyāḥ śrutvā bheryāḥ mahā-svanam . uvāca saramā sītām idam madhura-bhāṣiṇī .. 20 ..
संनाहजननी ह्येषा भैरवा भीरु भेरिका । भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् ॥ 21 ॥
संनाह-जननी हि एषा भैरवा भीरु भेरिका । भेरी-नादम् च गम्भीरम् शृणु तोयद-निस्वनम् ॥ २१ ॥
saṃnāha-jananī hi eṣā bhairavā bhīru bherikā . bherī-nādam ca gambhīram śṛṇu toyada-nisvanam .. 21 ..
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः । दृश्यन्ते तुरगारूढाः प्रासहस्त सहस्रशः ॥ 22 ॥
कल्प्यन्ते मत्त-मातङ्गाः युज्यन्ते रथ-वाजिनः । दृश्यन्ते तुरग-आरूढाः प्रास-हस्त सहस्रशस् ॥ २२ ॥
kalpyante matta-mātaṅgāḥ yujyante ratha-vājinaḥ . dṛśyante turaga-ārūḍhāḥ prāsa-hasta sahasraśas .. 22 ..
तत्र तत्र च संनद्धाः सम्पतन्ति पदातयः । आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः ॥ 23 ॥
तत्र तत्र च संनद्धाः सम्पतन्ति पदातयः । आपूर्यन्ते राजमार्गाः सैन्यैः अद्भुत-दर्शनैः ॥ २३ ॥
tatra tatra ca saṃnaddhāḥ sampatanti padātayaḥ . āpūryante rājamārgāḥ sainyaiḥ adbhuta-darśanaiḥ .. 23 ..
वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः । शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ॥ 24 ॥
वेगवद्भिः नदद्भिः च तोय-ओघैः इव सागरः । शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ॥ २४ ॥
vegavadbhiḥ nadadbhiḥ ca toya-oghaiḥ iva sāgaraḥ . śāstrāṇām ca prasannānām carmaṇām varmaṇām tathā .. 24 ..
रथवाजिगजानां च भूषितानां च रक्षसाम् । संभ्रमो राक्षसामेष हृषितानां तरस्विनाम् ॥ 25 ॥
रथ-वाजि-गजानाम् च भूषितानाम् च रक्षसाम् । संभ्रमः राक्षसाम् एष हृषितानाम् तरस्विनाम् ॥ २५ ॥
ratha-vāji-gajānām ca bhūṣitānām ca rakṣasām . saṃbhramaḥ rākṣasām eṣa hṛṣitānām tarasvinām .. 25 ..
प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् । वनं निर्दहतो धर्मे यथारूपं विभावसोः ॥ 26 ॥
प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् । वनम् निर्दहतः धर्मे यथारूपम् विभावसोः ॥ २६ ॥
prabhām visṛjatām paśya nānā varṇām samutthitām . vanam nirdahataḥ dharme yathārūpam vibhāvasoḥ .. 26 ..
घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् । हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा ॥ 27 ॥
घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् । हयानाम् हेषमाणानाम् शृणु तूर्य-ध्वनिम् यथा ॥ २७ ॥
ghaṇṭānām śṛṇu nirghoṣam rathānām śṛṇu nisvanam . hayānām heṣamāṇānām śṛṇu tūrya-dhvanim yathā .. 27 ..
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् । सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणः ॥ 28 ॥
उद्यत-आयुध-हस्तानाम् राक्षस-इन्द्र-अनुयायिनाम् । सम्भ्रमः रक्षसाम् एष तुमुलः लोम-हर्षणः ॥ २८ ॥
udyata-āyudha-hastānām rākṣasa-indra-anuyāyinām . sambhramaḥ rakṣasām eṣa tumulaḥ loma-harṣaṇaḥ .. 28 ..
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् । रामात्कमलपत्राक्षि दैत्यानामिव वासवात् ॥ 29 ॥
श्रीः त्वाम् भजति शोक-घ्नी रक्षसाम् भयम् आगतम् । रामात् कमल-पत्त्र-अक्षे दैत्यानाम् इव वासवात् ॥ २९ ॥
śrīḥ tvām bhajati śoka-ghnī rakṣasām bhayam āgatam . rāmāt kamala-pattra-akṣe daityānām iva vāsavāt .. 29 ..
अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः । रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ॥ 30 ॥
अवजित्य जित-क्रोधः तम् अचिन्त्य-पराक्रमः । रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ॥ ३० ॥
avajitya jita-krodhaḥ tam acintya-parākramaḥ . rāvaṇam samare hatvā bhartā tvā adhigamiṣyati .. 30 ..
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः । यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥ 31 ॥
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः । यथा शत्रुषु शत्रुघ्नः विष्णुना सह वासवः ॥ ३१ ॥
vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ . yathā śatruṣu śatrughnaḥ viṣṇunā saha vāsavaḥ .. 31 ..
आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् । अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ॥ 32 ॥
आगतस्य हि रामस्य क्षिप्रम् अङ्क-गताम् सतीम् । अहम् द्रक्ष्यामि सिद्धार्थाम् त्वाम् शत्रौ विनिपातिते ॥ ३२ ॥
āgatasya hi rāmasya kṣipram aṅka-gatām satīm . aham drakṣyāmi siddhārthām tvām śatrau vinipātite .. 32 ..
अस्त्राण्यानन्दजानि त्वं वर्तयिष्यसि शोभने । समागम्य परिष्वक्ता तस्योरसि महोरसः ॥ 33 ॥
अस्त्राणि आनन्द-जानि त्वम् वर्तयिष्यसि शोभने । समागम्य परिष्वक्ता तस्य उरसि महा-उरसः ॥ ३३ ॥
astrāṇi ānanda-jāni tvam vartayiṣyasi śobhane . samāgamya pariṣvaktā tasya urasi mahā-urasaḥ .. 33 ..
अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् । धृतामेतां बहून्मासान्वेणीं रामो महाबलः ॥ 34 ॥
अचिरात् मोक्ष्यते सीते देवि ते जघनम् गताम् । धृताम् एताम् बहून् मासान् वेणीम् रामः महा-बलः ॥ ३४ ॥
acirāt mokṣyate sīte devi te jaghanam gatām . dhṛtām etām bahūn māsān veṇīm rāmaḥ mahā-balaḥ .. 34 ..
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् । मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ॥ 35 ॥
तस्य दृष्ट्वा मुखम् देवि पूर्ण-चन्द्रम् इव उदितम् । मोक्ष्यसे शोक-जम् वारि निर्मोकम् इव पन्नगी ॥ ३५ ॥
tasya dṛṣṭvā mukham devi pūrṇa-candram iva uditam . mokṣyase śoka-jam vāri nirmokam iva pannagī .. 35 ..
रावणं समरे हत्वा नचिरादेव मैथिलि । त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् ॥ 36 ॥
रावणम् समरे हत्वा नचिरात् एव मैथिलि । त्वया समग्रम् प्रियया सुख-अर्हः लप्स्यते सुखम् ॥ ३६ ॥
rāvaṇam samare hatvā nacirāt eva maithili . tvayā samagram priyayā sukha-arhaḥ lapsyate sukham .. 36 ..
सभाजिता त्वं रामेण मोदिष्यसि महात्मना । सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ 37 ॥
सभाजिता त्वम् रामेण मोदिष्यसि महात्मना । सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ ३७ ॥
sabhājitā tvam rāmeṇa modiṣyasi mahātmanā . suvarṣeṇa samāyuktā yathā sasyena medinī .. 37 ..
गिरिवरमभितोऽनुवर्तमानो हय इव मण्डलमाशु यः करोति । तमिह शरणमभ्युपेहि देवि दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥ 38 ॥
गिरि-वरम् अभितस् अनुवर्तमानः हयः इव मण्डलम् आशु यः करोति । तम् इह शरणम् अभ्युपेहि देवि दिवसकरम् प्रभवः हि अयम् प्रजानाम् ॥ ३८ ॥
giri-varam abhitas anuvartamānaḥ hayaḥ iva maṇḍalam āśu yaḥ karoti . tam iha śaraṇam abhyupehi devi divasakaram prabhavaḥ hi ayam prajānām .. 38 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In