This overlay will guide you through the buttons:

| |
|
अथ तां जातसन्तापां तेन वाक्येन मोहिताम् । सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा ॥ १॥
अथ ताम् जात-सन्तापाम् तेन वाक्येन मोहिताम् । सरमा ह्लादयामास पृतिवीम् द्यौः इव अम्भसा ॥ १॥
atha tām jāta-santāpām tena vākyena mohitām . saramā hlādayāmāsa pṛtivīm dyauḥ iva ambhasā .. 1..
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः । उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ २॥
ततस् तस्याः हितम् सख्याः चिकीर्षन्ती सखी वचः । उवाच काले काल-ज्ञा स्मित-पूर्व-अभिभाषिणी ॥ २॥
tatas tasyāḥ hitam sakhyāḥ cikīrṣantī sakhī vacaḥ . uvāca kāle kāla-jñā smita-pūrva-abhibhāṣiṇī .. 2..
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे । निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ ३॥
उत्सहेयम् अहम् गत्वा त्वद्-वाक्यम् असित-ईक्षणे । निवेद्य कुशलम् रामे प्रतिच्छन्ना निवर्तितुम् ॥ ३॥
utsaheyam aham gatvā tvad-vākyam asita-īkṣaṇe . nivedya kuśalam rāme praticchannā nivartitum .. 3..
न हि मे क्रममाणाया निरालम्बे विहायसि । समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥ ४॥
न हि मे क्रममाणायाः निरालम्बे विहायसि । समर्थः गतिम् अन्वेतुम् पवनः गरुडः अपि वा ॥ ४॥
na hi me kramamāṇāyāḥ nirālambe vihāyasi . samarthaḥ gatim anvetum pavanaḥ garuḍaḥ api vā .. 4..
एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् । मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया ॥ ५॥
एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् । मधुरम् श्लक्ष्णया वाचा पूर्व-शोक-अभिपन्नया ॥ ५॥
evam bruvāṇām tām sītā saramām punar abravīt . madhuram ślakṣṇayā vācā pūrva-śoka-abhipannayā .. 5..
समर्था गगनं गन्तुमपि वा त्वं रसातलम् । अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥ ६॥
समर्था गगनम् गन्तुम् अपि वा त्वम् रसातलम् । अवगच्छामि अकर्तव्यम् कर्तव्यम् ते मद्-अन्तरे ॥ ६॥
samarthā gaganam gantum api vā tvam rasātalam . avagacchāmi akartavyam kartavyam te mad-antare .. 6..
मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव । ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ ७॥
मद्-प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव । ज्ञातुम् इच्छामि तम् गत्वा किम् करोति इति रावणः ॥ ७॥
mad-priyam yadi kartavyam yadi buddhiḥ sthirā tava . jñātum icchāmi tam gatvā kim karoti iti rāvaṇaḥ .. 7..
स हि मायाबलः क्रूरो रावणः शत्रुरावणः । मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ ८॥
स हि माया-बलः क्रूरः रावणः शत्रु-रावणः । माम् मोहयति दुष्ट-आत्मा पीत-मात्रा इव वारुणी ॥ ८॥
sa hi māyā-balaḥ krūraḥ rāvaṇaḥ śatru-rāvaṇaḥ . mām mohayati duṣṭa-ātmā pīta-mātrā iva vāruṇī .. 8..
तर्जापयति मां नित्यं भर्त्सापयति चासकृत् । राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥ ९॥
तर्जापयति माम् नित्यम् भर्त्सापयति च असकृत् । राक्षसीभिः सु घोराभिः याः माम् रक्षन्ति नित्यशस् ॥ ९॥
tarjāpayati mām nityam bhartsāpayati ca asakṛt . rākṣasībhiḥ su ghorābhiḥ yāḥ mām rakṣanti nityaśas .. 9..
उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम । तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः ॥ १०॥
उद्विग्ना शङ्किता च अस्मि न च स्वस्थम् मनः मम । तद्-भयात् च अहम् उद्विग्नाः अशोक-वनिकाम् गताः ॥ १०॥
udvignā śaṅkitā ca asmi na ca svastham manaḥ mama . tad-bhayāt ca aham udvignāḥ aśoka-vanikām gatāḥ .. 10..
यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् । निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः ॥ ११॥
यदि नाम कथा तस्य निश्चितम् वा अपि यत् भवेत् । निवेदयेथाः सर्वम् तत् परः मे स्यात् अनुग्रहः ॥ ११॥
yadi nāma kathā tasya niścitam vā api yat bhavet . nivedayethāḥ sarvam tat paraḥ me syāt anugrahaḥ .. 11..
साप्येवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी । उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥ १२॥
सा अपि एवम् ब्रुवतीम् सीताम् सरमा वल्गु-भाषिणी । उवाच वचनम् तस्याः स्पृशन्ती बाष्प-विक्लवम् ॥ १२॥
sā api evam bruvatīm sītām saramā valgu-bhāṣiṇī . uvāca vacanam tasyāḥ spṛśantī bāṣpa-viklavam .. 12..
एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि । गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ १३॥
एष ते यदि अभिप्रायः तस्मात् गच्छामि जानकि । गृह्य शत्रोः अभिप्रायम् उपावृत्ताम् च पश्य माम् ॥ १३॥
eṣa te yadi abhiprāyaḥ tasmāt gacchāmi jānaki . gṛhya śatroḥ abhiprāyam upāvṛttām ca paśya mām .. 13..
एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः । शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ १४॥
एवम् उक्त्वा ततस् गत्वा समीपम् तस्य रक्षसः । शुश्राव कथितम् तस्य रावणस्य स मन्त्रिणः ॥ १४॥
evam uktvā tatas gatvā samīpam tasya rakṣasaḥ . śuśrāva kathitam tasya rāvaṇasya sa mantriṇaḥ .. 14..
सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः । पुनरेवागमत्क्षिप्रमशोकवनिकां तदा ॥ १५॥
सा श्रुत्वा निश्चयम् तस्य निश्चय-ज्ञा दुरात्मनः । पुनर् एव अगमत् क्षिप्रम् अशोक-वनिकाम् तदा ॥ १५॥
sā śrutvā niścayam tasya niścaya-jñā durātmanaḥ . punar eva agamat kṣipram aśoka-vanikām tadā .. 15..
सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् । प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ १६॥
सा प्रविष्टा पुनर् तत्र ददर्श जनकात्मजाम् । प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट-पद्माम् इव श्रियम् ॥ १६॥
sā praviṣṭā punar tatra dadarśa janakātmajām . pratīkṣamāṇām svām eva bhraṣṭa-padmām iva śriyam .. 16..
तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् । परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ १७॥
ताम् तु सीता पुनर् प्राप्ताम् सरमाम् वल्गु-भाषिणीम् । परिष्वज्य च सु स्निग्धम् ददौ च स्वयम् आसनम् ॥ १७॥
tām tu sītā punar prāptām saramām valgu-bhāṣiṇīm . pariṣvajya ca su snigdham dadau ca svayam āsanam .. 17..
इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः । क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ १८॥
इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः । क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः ॥ १८॥
iha āsīnā sukham sarvam ākhyāhi mama tattvataḥ . krūrasya niścayam tasya rāvaṇasya durātmanaḥ .. 18..
एवमुक्ता तु सरमा सीतया वेपमानया । कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥ १९॥
एवम् उक्ता तु सरमा सीतया वेपमानया । कथितम् सर्वम् आचष्ट रावणस्य स मन्त्रिणः ॥ १९॥
evam uktā tu saramā sītayā vepamānayā . kathitam sarvam ācaṣṭa rāvaṇasya sa mantriṇaḥ .. 19..
जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः । अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ॥ २०॥
जनन्या राक्षस-इन्द्रः वै त्वद्-मोक्ष-अर्थम् बृहत् वचः । अ विद्धेन च वैदेहि मन्त्रि-वृद्धेन बोधितः ॥ २०॥
jananyā rākṣasa-indraḥ vai tvad-mokṣa-artham bṛhat vacaḥ . a viddhena ca vaidehi mantri-vṛddhena bodhitaḥ .. 20..
दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली । निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ २१॥
दीयताम् अभिसत्कृत्य मनुज-इन्द्राय मैथिली । निदर्शनम् ते पर्याप्तम् जनस्थाने यत् अद्भुतम् ॥ २१॥
dīyatām abhisatkṛtya manuja-indrāya maithilī . nidarśanam te paryāptam janasthāne yat adbhutam .. 21..
लङ्घनं च समुद्रस्य दर्शनं च हनूमतः । वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ॥ २२॥
लङ्घनम् च समुद्रस्य दर्शनम् च हनूमतः । वधम् च रक्षसाम् युद्धे कः कुर्यात् मानुषः भुवि ॥ २२॥
laṅghanam ca samudrasya darśanam ca hanūmataḥ . vadham ca rakṣasām yuddhe kaḥ kuryāt mānuṣaḥ bhuvi .. 22..
एवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः । न त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा ॥ २३॥
एवम् स मन्त्रि-वृद्धैः च मात्रा च बहु भाषितः । न त्वाम् उत्सहते मोक्तुम् अर्तह्म अर्थ-परः यथा ॥ २३॥
evam sa mantri-vṛddhaiḥ ca mātrā ca bahu bhāṣitaḥ . na tvām utsahate moktum artahma artha-paraḥ yathā .. 23..
नोत्सहत्यमृतो मोक्तुं युद्धे त्वाम् इति मैथिलि । सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥ २४॥
न उत्सहति अमृतः मोक्तुम् युद्धे त्वाम् इति मैथिलि । स अमात्यस्य नृशंसस्य निश्चयः हि एष वर्तते ॥ २४॥
na utsahati amṛtaḥ moktum yuddhe tvām iti maithili . sa amātyasya nṛśaṃsasya niścayaḥ hi eṣa vartate .. 24..
तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता । भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे ॥ २५॥
तत् एषा सु स्थिरा बुद्धिः मृत्यु-लोभात् उपस्थिता । भयात् न शक्तः त्वाम् मोक्तुम् अ निरस्तः तु संयुगे ॥ २५॥
tat eṣā su sthirā buddhiḥ mṛtyu-lobhāt upasthitā . bhayāt na śaktaḥ tvām moktum a nirastaḥ tu saṃyuge .. 25..
राक्षसानां च सर्वेषामात्मनश् च वधेन हि । निहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः । प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ २६॥
राक्षसानाम् च सर्वेषाम् आत्मनः च वधेन हि । निहत्य रावणम् सङ्ख्ये सर्वथा निशितैः शरैः । प्रतिनेष्यति रामः त्वाम् अयोध्याम् असित-ईक्षणे ॥ २६॥
rākṣasānām ca sarveṣām ātmanaḥ ca vadhena hi . nihatya rāvaṇam saṅkhye sarvathā niśitaiḥ śaraiḥ . pratineṣyati rāmaḥ tvām ayodhyām asita-īkṣaṇe .. 26..
एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः । श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् ॥ २७॥
एतस्मिन् अन्तरे शब्दः भेरी-शङ्ख-समाकुलः । श्रुतः वै सर्व-सैन्यानाम् कम्पयन् धरणी-तलम् ॥ २७॥
etasmin antare śabdaḥ bherī-śaṅkha-samākulaḥ . śrutaḥ vai sarva-sainyānām kampayan dharaṇī-talam .. 27..
श्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः । हतौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषैः ॥ २८॥
श्रुत्वा तु तम् वानर-सैन्य-शब्दम् लङ्का-गताः राक्षस-राज-भृत्याः । हत-ओजसः दैन्य-परीत-चेष्टाः श्रेयः न पश्यन्ति नृपस्य दोषैः ॥ २८॥
śrutvā tu tam vānara-sainya-śabdam laṅkā-gatāḥ rākṣasa-rāja-bhṛtyāḥ . hata-ojasaḥ dainya-parīta-ceṣṭāḥ śreyaḥ na paśyanti nṛpasya doṣaiḥ .. 28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In