This overlay will guide you through the buttons:

| |
|
तेन शङ्खविमिश्रेण भेरीशब्देन राघवः । उपयतो महाबाहू रामः परपुरञ्जयः ॥ 1 ॥
तेन शङ्ख-विमिश्रेण भेरी-शब्देन राघवः । उपयतः महा-बाहुः रामः परपुरञ्जयः ॥ १ ॥
tena śaṅkha-vimiśreṇa bherī-śabdena rāghavaḥ . upayataḥ mahā-bāhuḥ rāmaḥ parapurañjayaḥ .. 1 ..
तं निनादं निशम्याथ रावणो राक्षसेश्वरः । मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥ 2 ॥
तम् निनादम् निशम्य अथ रावणः राक्षसेश्वरः । मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥ २ ॥
tam ninādam niśamya atha rāvaṇaḥ rākṣaseśvaraḥ . muhūrtam dhyānam āsthāya sacivān abhyudaikṣata .. 2 ..
अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः । सभां संनादयन्सर्वामित्युवाच महाबलः ॥ 3 ॥
अथ तान् सचिवान् तत्र सर्वान् आभाष्य रावणः । सभाम् संनादयन् सर्वाम् इति उवाच महा-बलः ॥ ३ ॥
atha tān sacivān tatra sarvān ābhāṣya rāvaṇaḥ . sabhām saṃnādayan sarvām iti uvāca mahā-balaḥ .. 3 ..
जगत्सन्तापन् क्रूरोगर्हयना राक्षसेश्वरः । तरणं सागरस्यापि विक्रमं बलसञ्चयम् ॥ 4 ॥
राक्षसेश्वरः । तरणम् सागरस्य अपि विक्रमम् बल-सञ्चयम् ॥ ४ ॥
rākṣaseśvaraḥ . taraṇam sāgarasya api vikramam bala-sañcayam .. 4 ..
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् । भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् । ॥ 5 ॥
यत् उक्तवन्तः रामस्य भवन्तः तत् मया श्रुतम् । भवतः च अपि अहम् वेद्मि युद्धे सत्य-पराक्रमान् । ॥ ५ ॥
yat uktavantaḥ rāmasya bhavantaḥ tat mayā śrutam . bhavataḥ ca api aham vedmi yuddhe satya-parākramān . .. 5 ..
ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः । रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ॥ 6 ॥
ततस् तु सु महा-प्राज्ञः माल्यवान् नाम राक्षसः । रावणस्य वचः श्रुत्वा मातुः पैतामहः अब्रवीत् ॥ ६ ॥
tatas tu su mahā-prājñaḥ mālyavān nāma rākṣasaḥ . rāvaṇasya vacaḥ śrutvā mātuḥ paitāmahaḥ abravīt .. 6 ..
विद्यास्वभिविनीतो यो राजा राजन्नयानुगः । स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ॥ 7 ॥
विद्यासु अभिविनीतः यः राजा राजन् नय-अनुगः । स शास्ति चिरम् ऐश्वर्यम् अरीन् च कुरुते वशे ॥ ७ ॥
vidyāsu abhivinītaḥ yaḥ rājā rājan naya-anugaḥ . sa śāsti ciram aiśvaryam arīn ca kurute vaśe .. 7 ..
सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह । स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते ॥ 8 ॥
सन्दधानः हि कालेन विगृह्णन् च अरिभिः सह । स्व-पक्ष-वर्धनम् कुर्वत् महत् ऐश्वर्यम् अश्नुते ॥ ८ ॥
sandadhānaḥ hi kālena vigṛhṇan ca aribhiḥ saha . sva-pakṣa-vardhanam kurvat mahat aiśvaryam aśnute .. 8 ..
हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च । न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् ॥ 9 ॥
हीयमानेन कर्तव्यः राज्ञा सन्धिः समेन च । न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् ॥ ९ ॥
hīyamānena kartavyaḥ rājñā sandhiḥ samena ca . na śatrum avamanyeta jyāyān kurvīta vigraham .. 9 ..
तन्मह्यं रोचते सन्धिः सह रामेण रावण । यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् ॥ 10 ॥
तत् मह्यम् रोचते सन्धिः सह रामेण रावण । यद्-अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् ॥ १० ॥
tat mahyam rocate sandhiḥ saha rāmeṇa rāvaṇa . yad-artham abhiyuktāḥ sma sītā tasmai pradīyatām .. 10 ..
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः । विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् ॥ 11 ॥
तस्य देवर्षयः सर्वे गन्धर्वाः च जय-एषिणः । विरोधम् मा गमः तेन सन्धिः ते तेन रोचताम् ॥ ११ ॥
tasya devarṣayaḥ sarve gandharvāḥ ca jaya-eṣiṇaḥ . virodham mā gamaḥ tena sandhiḥ te tena rocatām .. 11 ..
असृजद्भगवान्पक्षौ द्वावेव हि पितामहः । सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ॥ 12 ॥
असृजत् भगवान् पक्षौ द्वौ एव हि पितामहः । सुराणाम् असुराणाम् च धर्म-अधर्मौ तद्-आश्रयौ ॥ १२ ॥
asṛjat bhagavān pakṣau dvau eva hi pitāmahaḥ . surāṇām asurāṇām ca dharma-adharmau tad-āśrayau .. 12 ..
धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम् । अधर्मो रक्षसं पक्षो ह्यसुराणां च रावण ॥ 13 ॥
धर्मः हि श्रूयते पक्षः सुराणाम् च महात्मनाम् । अधर्मः रक्षसम् पक्षः हि असुराणाम् च रावण ॥ १३ ॥
dharmaḥ hi śrūyate pakṣaḥ surāṇām ca mahātmanām . adharmaḥ rakṣasam pakṣaḥ hi asurāṇām ca rāvaṇa .. 13 ..
धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् । अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ॥ 14 ॥
धर्मः वै ग्रसते अधर्मम् ततस् कृतम् अभूत् युगम् । अधर्मः ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते ॥ १४ ॥
dharmaḥ vai grasate adharmam tatas kṛtam abhūt yugam . adharmaḥ grasate dharmam tatas tiṣyaḥ pravartate .. 14 ..
तत्त्वया चरता लोकान्धर्मो विनिहतो महान् । अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे ॥ 15 ॥
तत् त्वया चरता लोकान् धर्मः विनिहतः महान् । अधर्मः प्रगृहीतः च तेन अस्मत् बलिनः परे ॥ १५ ॥
tat tvayā caratā lokān dharmaḥ vinihataḥ mahān . adharmaḥ pragṛhītaḥ ca tena asmat balinaḥ pare .. 15 ..
स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः । विवर्धयति पक्षं च सुराणां सुरभावनः ॥ 16 ॥
स प्रमादात् विवृद्धः ते अधर्मः अहिः ग्रसते हि नः । विवर्धयति पक्षम् च सुराणाम् सुर-भावनः ॥ १६ ॥
sa pramādāt vivṛddhaḥ te adharmaḥ ahiḥ grasate hi naḥ . vivardhayati pakṣam ca surāṇām sura-bhāvanaḥ .. 16 ..
विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया । ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ॥ 17 ॥
विषयेषु प्रसक्तेन यत् किञ्चिद् कारिणा त्वया । ऋषीणाम् अग्नि-कल्पानाम् उद्वेगः जनितः महान् ॥ १७ ॥
viṣayeṣu prasaktena yat kiñcid kāriṇā tvayā . ṛṣīṇām agni-kalpānām udvegaḥ janitaḥ mahān .. 17 ..
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः । तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ॥ 18 ॥
तेषाम् प्रभावः दुर्धर्षः प्रदीप्तः इव पावकः । तपसा भावित-आत्मानः धर्मस्य अनुग्रहे रताः ॥ १८ ॥
teṣām prabhāvaḥ durdharṣaḥ pradīptaḥ iva pāvakaḥ . tapasā bhāvita-ātmānaḥ dharmasya anugrahe ratāḥ .. 18 ..
मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः । जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ॥ 19 ॥
मुख्यैः यज्ञैः यजन्ति एते नित्यम् तैः तैः द्विजातयः । जुह्वति अग्नीन् च विधिवत् वेदान् च उच्चैस् अधीयते ॥ १९ ॥
mukhyaiḥ yajñaiḥ yajanti ete nityam taiḥ taiḥ dvijātayaḥ . juhvati agnīn ca vidhivat vedān ca uccais adhīyate .. 19 ..
अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् । दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे ॥ 20 ॥
अभिभूय च रक्षांसि ब्रह्मघोषान् उदैरयन् । दिशः विप्रद्रुताः सर्वे स्तनयित्नुः इव उष्णगे ॥ २० ॥
abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan . diśaḥ vipradrutāḥ sarve stanayitnuḥ iva uṣṇage .. 20 ..
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः । आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ॥ 21 ॥
ऋषीणाम् अग्नि-कल्पानाम् अग्नि-होत्र-समुत्थितः । आदत्ते रक्षसाम् तेजः धूमः व्याप्य दिशः दश ॥ २१ ॥
ṛṣīṇām agni-kalpānām agni-hotra-samutthitaḥ . ādatte rakṣasām tejaḥ dhūmaḥ vyāpya diśaḥ daśa .. 21 ..
तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः । चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान् ॥ 22 ॥
तेषु तेषु च देशेषु पुण्येषु च दृढ-व्रतैः । चर्यमाणम् तपः तीव्रम् सन्तापयति राक्षसान् ॥ २२ ॥
teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍha-vrataiḥ . caryamāṇam tapaḥ tīvram santāpayati rākṣasān .. 22 ..
देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया । मनुषा वानरा ऋक्षा गोलाङ्गूला महाबलाः । बलवन्त इहागम्य गर्जन्ती दृढविक्रमाः ॥ 23 ॥
देव-दानव-यक्षेभ्यः गृहीतः च वरः त्वया । मनुषाः वानराः ऋक्षाः गोलाङ्गूलाः महा-बलाः । बलवन्तः इह आगम्य गर्जन्ती दृढ-विक्रमाः ॥ २३ ॥
deva-dānava-yakṣebhyaḥ gṛhītaḥ ca varaḥ tvayā . manuṣāḥ vānarāḥ ṛkṣāḥ golāṅgūlāḥ mahā-balāḥ . balavantaḥ iha āgamya garjantī dṛḍha-vikramāḥ .. 23 ..
उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा । विनाशमनुपश्यामि सर्वेषां रक्षसाम् अहम् ॥ 24 ॥
उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधान् तथा । विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥ २४ ॥
utpātān vividhān dṛṣṭvā ghorān bahuvidhān tathā . vināśam anupaśyāmi sarveṣām rakṣasām aham .. 24 ..
खराभिस्तनिता घोरा मेघाः प्रतिभयङ्करः । शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ॥ 25 ॥
खर-अभिस्तनिताः घोराः मेघाः प्रतिभयङ्करः । शोणितेन अभिवर्षन्ति लङ्काम् उष्णेन सर्वतस् ॥ २५ ॥
khara-abhistanitāḥ ghorāḥ meghāḥ pratibhayaṅkaraḥ . śoṇitena abhivarṣanti laṅkām uṣṇena sarvatas .. 25 ..
रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः । ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् ॥ 26 ॥
रुदताम् वाहनानाम् च प्रपतन्ति अस्र-बिन्दवः । ध्वजाः ध्वस्ताः विवर्णाः च न प्रभान्ति यथापुरम् ॥ २६ ॥
rudatām vāhanānām ca prapatanti asra-bindavaḥ . dhvajāḥ dhvastāḥ vivarṇāḥ ca na prabhānti yathāpuram .. 26 ..
व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् । प्रविश्य लङ्कामनिशं समवायांश् च कुर्वते ॥ 27 ॥
व्यालाः गोमायवः गृध्राः वाशन्ति च सु भैरवम् । प्रविश्य लङ्काम् अनिशम् समवायान् च कुर्वते ॥ २७ ॥
vyālāḥ gomāyavaḥ gṛdhrāḥ vāśanti ca su bhairavam . praviśya laṅkām aniśam samavāyān ca kurvate .. 27 ..
कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः । स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥ 28 ॥
कालिकाः पाण्डुरैः दन्तैः प्रहसन्ति अग्रतस् स्थिताः । स्त्रियः स्वप्नेषु मुष्णन्त्यः गृहाणि प्रतिभाष्य च ॥ २८ ॥
kālikāḥ pāṇḍuraiḥ dantaiḥ prahasanti agratas sthitāḥ . striyaḥ svapneṣu muṣṇantyaḥ gṛhāṇi pratibhāṣya ca .. 28 ..
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते । खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥ 29 ॥
गृहाणाम् बलि-कर्माणि श्वानः पर्युपभुञ्जते । खराः गोषु प्रजायन्ते मूषिकाः नकुलैः सह ॥ २९ ॥
gṛhāṇām bali-karmāṇi śvānaḥ paryupabhuñjate . kharāḥ goṣu prajāyante mūṣikāḥ nakulaiḥ saha .. 29 ..
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह । किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह ॥ 30 ॥
मार्जाराः द्वीपिभिः सार्धम् सूकराः शुनकैः सह । किंनराः राक्षसैः च अपि समेयुः मानुषैः सह ॥ ३० ॥
mārjārāḥ dvīpibhiḥ sārdham sūkarāḥ śunakaiḥ saha . kiṃnarāḥ rākṣasaiḥ ca api sameyuḥ mānuṣaiḥ saha .. 30 ..
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः । राक्षसानां विनाशाय कपोता विचरन्ति च ॥ 31 ॥
पाण्डुराः रक्तपादाः च विहगाः काल-चोदिताः । राक्षसानाम् विनाशाय कपोताः विचरन्ति च ॥ ३१ ॥
pāṇḍurāḥ raktapādāḥ ca vihagāḥ kāla-coditāḥ . rākṣasānām vināśāya kapotāḥ vicaranti ca .. 31 ..
चीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः । पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः ॥ 32 ॥
चीचीकूची इति वाशन्त्यः शारिकाः वेश्मसु स्थिताः । पतन्ति ग्रथिताः च अपि निर्जिताः कलह-एषिणः ॥ ३२ ॥
cīcīkūcī iti vāśantyaḥ śārikāḥ veśmasu sthitāḥ . patanti grathitāḥ ca api nirjitāḥ kalaha-eṣiṇaḥ .. 32 ..
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च । करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ॥ 33 ॥
पक्षिणः च मृगाः सर्वे प्रति आदित्यम् रुदन्ति च । करालः विकटः मुण्डः पुरुषः कृष्ण-पिङ्गलः ॥ ३३ ॥
pakṣiṇaḥ ca mṛgāḥ sarve prati ādityam rudanti ca . karālaḥ vikaṭaḥ muṇḍaḥ puruṣaḥ kṛṣṇa-piṅgalaḥ .. 33 ..
कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते । एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥ 34 ॥
कालः गृहाणि सर्वेषाम् काले काले अन्ववेक्षते । एतानि अन्यानि दुष्टानि निमित्तानि उत्पतन्ति च ॥ ३४ ॥
kālaḥ gṛhāṇi sarveṣām kāle kāle anvavekṣate . etāni anyāni duṣṭāni nimittāni utpatanti ca .. 34 ..
विष्णुं मन्यामहे रामं मानुषं देहमास्थितम् । नहि मानुषमात्रोऽसौ राघवो दृढविक्रमः ॥ 35 ॥
विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् । नहि मानुष-मात्रः असौ राघवः दृढ-विक्रमः ॥ ३५ ॥
viṣṇum manyāmahe rāmam mānuṣam deham āsthitam . nahi mānuṣa-mātraḥ asau rāghavaḥ dṛḍha-vikramaḥ .. 35 ..
येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः । कुरुष्व नरराजेन सन्धिं रामेण रावण । ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ॥ 36 ॥
येन बद्धः समुद्रस्य स सेतुः परम-अद्भुतः । कुरुष्व नर-राजेन सन्धिम् रामेण रावण । ज्ञात्वा अवधार्य कर्माणि क्रियताम् आयति-क्षमम् ॥ ३६ ॥
yena baddhaḥ samudrasya sa setuḥ parama-adbhutaḥ . kuruṣva nara-rājena sandhim rāmeṇa rāvaṇa . jñātvā avadhārya karmāṇi kriyatām āyati-kṣamam .. 36 ..
इदं वचस्तत्र निगद्य माल्यवन् परीक्ष्य रक्षोऽधिपतेर्मनः पुनः । अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ॥ 37 ॥
इदम् वचः तत्र निगद्य माल्यवन् परीक्ष्य रक्षः-अधिपतेः मनः पुनर् । अनुत्तमेषु उत्तम-पौरुषः बली बभूव तूष्णीम् समवेक्ष्य रावणम् ॥ ३७ ॥
idam vacaḥ tatra nigadya mālyavan parīkṣya rakṣaḥ-adhipateḥ manaḥ punar . anuttameṣu uttama-pauruṣaḥ balī babhūva tūṣṇīm samavekṣya rāvaṇam .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In