This overlay will guide you through the buttons:

| |
|
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ १॥
तत् तु माल्यवतः वाक्यम् हितम् उक्तम् दशाननः । न मर्षयति दुष्ट-आत्मा कालस्य वशम् आगतः ॥ १॥
tat tu mālyavataḥ vākyam hitam uktam daśānanaḥ . na marṣayati duṣṭa-ātmā kālasya vaśam āgataḥ .. 1..
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः । अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ २॥
स बद्ध्वा भ्रुकुटिम् वक्त्रे क्रोधस्य वशम् आगतः । अमर्षात् परिवृत्त-अक्षः माल्यवन्तम् अथ अब्रवीत् ॥ २॥
sa baddhvā bhrukuṭim vaktre krodhasya vaśam āgataḥ . amarṣāt parivṛtta-akṣaḥ mālyavantam atha abravīt .. 2..
हितबुद्ध्या यदहितं वचः परुषमुच्यते । परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ॥ ३॥
हित-बुद्ध्या यत् अहितम् वचः परुषम् उच्यते । पर-पक्षम् प्रविश्य एव न एतत् श्रोत्र-गतम् मम ॥ ३॥
hita-buddhyā yat ahitam vacaḥ paruṣam ucyate . para-pakṣam praviśya eva na etat śrotra-gatam mama .. 3..
मानुषं कृपणं राममेकं शाखामृगाश्रयम् । समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ॥ ४॥
मानुषम् कृपणम् रामम् एकम् शाखामृग-आश्रयम् । समर्थम् मन्यसे केन त्यक्तम् पित्रा वन-आलयम् ॥ ४॥
mānuṣam kṛpaṇam rāmam ekam śākhāmṛga-āśrayam . samartham manyase kena tyaktam pitrā vana-ālayam .. 4..
रक्षसामीश्वरं मां च देवतानां भयङ्करम् । हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः ॥ ५॥
रक्षसाम् ईश्वरम् माम् च देवतानाम् भयङ्करम् । हीनम् माम् मन्यसे केन अहीनम् सर्व-विक्रमैः ॥ ५॥
rakṣasām īśvaram mām ca devatānām bhayaṅkaram . hīnam mām manyase kena ahīnam sarva-vikramaiḥ .. 5..
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः । त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा ॥ ६॥
वीर-द्वेषेण वा शङ्के पक्षपातेन वा रिपोः । त्वया अहम् परुषाणि उक्तः पर-प्रोत्साहनेन वा ॥ ६॥
vīra-dveṣeṇa vā śaṅke pakṣapātena vā ripoḥ . tvayā aham paruṣāṇi uktaḥ para-protsāhanena vā .. 6..
प्रभवन्तं पदस्थं हि परुषं कोऽह्बिधास्यति । पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ॥ ७॥
प्रभवन्तम् पद-स्थम् हि परुषम् कः अह् विधास्यति । पण्डितः शास्त्र-तत्त्व-ज्ञः विना प्रोत्साहनात् रिपोः ॥ ७॥
prabhavantam pada-stham hi paruṣam kaḥ ah vidhāsyati . paṇḍitaḥ śāstra-tattva-jñaḥ vinā protsāhanāt ripoḥ .. 7..
आनीय च वनात्सीतां पद्महीनामिव श्रियम् । किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ ८॥
आनीय च वनात् सीताम् पद्म-हीनाम् इव श्रियम् । किमर्थम् प्रतिदास्यामि राघवस्य भयात् अहम् ॥ ८॥
ānīya ca vanāt sītām padma-hīnām iva śriyam . kimartham pratidāsyāmi rāghavasya bhayāt aham .. 8..
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् । पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ॥ ९॥
वृतम् वानर-कोटीभिः स सुग्रीवम् स लक्ष्मणम् । पश्य कैश्चिद् अहोभिः त्वम् राघवम् निहतम् मया ॥ ९॥
vṛtam vānara-koṭībhiḥ sa sugrīvam sa lakṣmaṇam . paśya kaiścid ahobhiḥ tvam rāghavam nihatam mayā .. 9..
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे । स कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥ १०॥
द्वन्द्वे यस्य न तिष्ठन्ति दैवतानि अपि संयुगे । स कस्मात् रावणः युद्धे भयम् आहारयिष्यति ॥ १०॥
dvandve yasya na tiṣṭhanti daivatāni api saṃyuge . sa kasmāt rāvaṇaḥ yuddhe bhayam āhārayiṣyati .. 10..
द्विधा भज्येयमप्येवं न नमेयं तु कस्य चित् । एष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥ ११॥
द्विधा भज्येयम् अपि एवम् न नमेयम् तु कस्य चित् । एष मे सहजः दोषः स्वभावः दुरतिक्रमः ॥ ११॥
dvidhā bhajyeyam api evam na nameyam tu kasya cit . eṣa me sahajaḥ doṣaḥ svabhāvaḥ duratikramaḥ .. 11..
यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया । रामेण विस्मयः कोऽत्र येन ते भयमागतम् ॥ १२॥
यदि तावत् समुद्रे तु सेतुः बद्धः यदृच्छया । रामेण विस्मयः कः अत्र येन ते भयम् आगतम् ॥ १२॥
yadi tāvat samudre tu setuḥ baddhaḥ yadṛcchayā . rāmeṇa vismayaḥ kaḥ atra yena te bhayam āgatam .. 12..
स तु तीर्त्वार्णवं रामः सह वानरसेनया । प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ॥ १३॥
स तु तीर्त्वा अर्णवम् रामः सह वानर-सेनया । प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥ १३॥
sa tu tīrtvā arṇavam rāmaḥ saha vānara-senayā . pratijānāmi te satyam na jīvan pratiyāsyati .. 13..
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् । व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४॥
एवम् ब्रुवाणम् संरब्धम् रुष्टम् विज्ञाय रावणम् । व्रीडितः माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥ १४॥
evam bruvāṇam saṃrabdham ruṣṭam vijñāya rāvaṇam . vrīḍitaḥ mālyavān vākyam na uttaram pratyapadyata .. 14..
जयाशिषा च राजानं वर्धयित्वा यथोचितम् । माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥ १५॥
जय-आशिषा च राजानम् वर्धयित्वा यथोचितम् । माल्यवान् अभ्यनुज्ञातः जगाम स्वम् निवेशनम् ॥ १५॥
jaya-āśiṣā ca rājānam vardhayitvā yathocitam . mālyavān abhyanujñātaḥ jagāma svam niveśanam .. 15..
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च । लङ्कायामतुलां गुप्तिं कारयामास राक्षसः ॥ १६॥
रावणः तु सहामात्यः मन्त्रयित्वा विमृश्य च । लङ्कायाम् अतुलाम् गुप्तिम् कारयामास राक्षसः ॥ १६॥
rāvaṇaḥ tu sahāmātyaḥ mantrayitvā vimṛśya ca . laṅkāyām atulām guptim kārayāmāsa rākṣasaḥ .. 16..
व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं । दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ ॥ १७॥
व्यादिदेश च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् । दक्षिणस्याम् महा-वीर्यौ महापार्श्व महोदरौ ॥ १७॥
vyādideśa ca pūrvasyām prahastam dvāri rākṣasam . dakṣiṇasyām mahā-vīryau mahāpārśva mahodarau .. 17..
पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा । व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् ॥ १८॥
पश्चिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा । व्यादिदेश महा-मायम् राक्षसैः बहुभिः वृतम् ॥ १८॥
paścimāyām atho dvāri putram indrajitam tathā . vyādideśa mahā-māyam rākṣasaiḥ bahubhiḥ vṛtam .. 18..
उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ । स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह ॥ १९॥
उत्तरस्याम् पुर-द्वारि व्यादिश्य शुक-सारणौ । स्वयम् च अत्र भविष्यामि मन्त्रिणः तान् उवाच ह ॥ १९॥
uttarasyām pura-dvāri vyādiśya śuka-sāraṇau . svayam ca atra bhaviṣyāmi mantriṇaḥ tān uvāca ha .. 19..
राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् । मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः ॥ २०॥
राक्षसम् तु विरूपाक्षम् महा-वीर्य-पराक्रमम् । मध्यमे अस्थापयत् गुल्मे बहुभिः सह राक्षसैः ॥ २०॥
rākṣasam tu virūpākṣam mahā-vīrya-parākramam . madhyame asthāpayat gulme bahubhiḥ saha rākṣasaiḥ .. 20..
एवंविधानं लङ्कायां कृत्वा राक्षसपुङ्गवः । मेने कृतार्थमात्मानं कृतान्तवशमागतः ॥ २१॥
एवम् विधानम् लङ्कायाम् कृत्वा राक्षस-पुङ्गवः । मेने कृतार्थम् आत्मानम् कृतान्त-वशम् आगतः ॥ २१॥
evam vidhānam laṅkāyām kṛtvā rākṣasa-puṅgavaḥ . mene kṛtārtham ātmānam kṛtānta-vaśam āgataḥ .. 21..
विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् । जयाशिषा मन्त्रगणेन पूजितो विवेश सोऽन्तःपुरमृद्धिमन्महत् ॥ २२॥
विसर्जयामास ततस् स मन्त्रिणः विधानम् आज्ञाप्य पुरस्य पुष्कलम् । जय-आशिषा मन्त्र-गणेन पूजितः विवेश सः अन्तःपुरम् ऋद्धिमत् महत् ॥ २२॥
visarjayāmāsa tatas sa mantriṇaḥ vidhānam ājñāpya purasya puṣkalam . jaya-āśiṣā mantra-gaṇena pūjitaḥ viveśa saḥ antaḥpuram ṛddhimat mahat .. 22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In