This overlay will guide you through the buttons:

| |
|
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥ 1 ॥
स तु कृत्वा सुवेलस्य मतिम् आरोहणम् प्रति । लक्ष्मण-अनुगतः रामः सुग्रीवम् इदम् अब्रवीत् ॥ १ ॥
sa tu kṛtvā suvelasya matim ārohaṇam prati . lakṣmaṇa-anugataḥ rāmaḥ sugrīvam idam abravīt .. 1 ..
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥ 2 ॥
विभीषणम् च धर्म-ज्ञम् अनुरक्तम् निशाचरम् । मन्त्र-ज्ञम् च विधि-ज्ञम् च श्लक्ष्णया परया गिरा ॥ २ ॥
vibhīṣaṇam ca dharma-jñam anuraktam niśācaram . mantra-jñam ca vidhi-jñam ca ślakṣṇayā parayā girā .. 2 ..
सुवेलं साधु शैलेन्द्रमिमं धातुशतैश् चितम् । अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ 3 ॥
सुवेलम् साधु शैल-इन्द्रम् इमम् धातु-शतैः चितम् । अध्यारोहामहे सर्वे वत्स्यामः अत्र निशाम् इमाम् ॥ ३ ॥
suvelam sādhu śaila-indram imam dhātu-śataiḥ citam . adhyārohāmahe sarve vatsyāmaḥ atra niśām imām .. 3 ..
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः । येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ 4 ॥
लङ्काम् च आलोकयिष्यामः निलयम् तस्य रक्षसः । येन मे मरण-अन्ताय हृता भार्या दुरात्मना ॥ ४ ॥
laṅkām ca ālokayiṣyāmaḥ nilayam tasya rakṣasaḥ . yena me maraṇa-antāya hṛtā bhāryā durātmanā .. 4 ..
येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा । राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् ॥ 5 ॥
येन धर्मः न विज्ञातः न वृत्तम् न कुलम् तथा । राक्षस्या नीचया बुद्ध्या येन तत् गर्हितम् कृतम् ॥ ५ ॥
yena dharmaḥ na vijñātaḥ na vṛttam na kulam tathā . rākṣasyā nīcayā buddhyā yena tat garhitam kṛtam .. 5 ..
तस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे । यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥ 6 ॥
तस्मिन् मे वर्धते रोषः कीर्तिते राक्षस-अधमे । यस्य अपराधात् नीचस्य वधम् द्रक्ष्यामि रक्षसाम् ॥ ६ ॥
tasmin me vardhate roṣaḥ kīrtite rākṣasa-adhame . yasya aparādhāt nīcasya vadham drakṣyāmi rakṣasām .. 6 ..
एको हि कुरुते पापं कालपाशवशं गतः । नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ 7 ॥
एकः हि कुरुते पापम् काल-पाश-वशम् गतः । नीचेन आत्म-अपचारेण कुलम् तेन विनश्यति ॥ ७ ॥
ekaḥ hi kurute pāpam kāla-pāśa-vaśam gataḥ . nīcena ātma-apacāreṇa kulam tena vinaśyati .. 7 ..
एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति । रामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥ 8 ॥
एवम् संमन्त्रयन् एव स क्रोधः रावणम् प्रति । रामः सुवेलम् वासाय चित्र-सानुम् उपारुहत् ॥ ८ ॥
evam saṃmantrayan eva sa krodhaḥ rāvaṇam prati . rāmaḥ suvelam vāsāya citra-sānum upāruhat .. 8 ..
पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः । सशरं चापमुद्यम्य सुमहद्विक्रमे रतः ॥ 9 ॥
पृष्ठतस् लक्ष्मण च एनम् अन्वगच्छत् समाहितः । स शरम् चापम् उद्यम्य सु महत् विक्रमे रतः ॥ ९ ॥
pṛṣṭhatas lakṣmaṇa ca enam anvagacchat samāhitaḥ . sa śaram cāpam udyamya su mahat vikrame rataḥ .. 9 ..
तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः । हनूमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ 10 ॥
तम् अन्वरोहत् सुग्रीवः स अमात्यः स विभीषणः । हनूमान् अङ्गदः नीलः मैन्दः द्विविदः एव च ॥ १० ॥
tam anvarohat sugrīvaḥ sa amātyaḥ sa vibhīṣaṇaḥ . hanūmān aṅgadaḥ nīlaḥ maindaḥ dvividaḥ eva ca .. 10 ..
गजो गवाक्षो गवयः शरभो गन्धमादनः । पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥ 11 ॥
गजः गवाक्षः गवयः शरभः गन्धमादनः । पनसः कुमुदः च एव हरः रम्भः च यूथपः ॥ ११ ॥
gajaḥ gavākṣaḥ gavayaḥ śarabhaḥ gandhamādanaḥ . panasaḥ kumudaḥ ca eva haraḥ rambhaḥ ca yūthapaḥ .. 11 ..
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः । दुर्मुखश्च महातेजास्तथा शतवलिः कपिः ॥ 12 ॥
जाम्बवान् च सुषेणः च ऋषभः च महामतिः । दुर्मुखः च महातेजाः तथा शतवलिः कपिः ॥ १२ ॥
jāmbavān ca suṣeṇaḥ ca ṛṣabhaḥ ca mahāmatiḥ . durmukhaḥ ca mahātejāḥ tathā śatavaliḥ kapiḥ .. 12 ..
एते चान्ये च बहवो वानराः शीघ्रगामिनः । ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ॥ 13 ॥
एते च अन्ये च बहवः वानराः शीघ्र-गामिनः । ते वायु-वेग-प्रवणाः तम् गिरिम् गिरि-चारिणः ॥ १३ ॥
ete ca anye ca bahavaḥ vānarāḥ śīghra-gāminaḥ . te vāyu-vega-pravaṇāḥ tam girim giri-cāriṇaḥ .. 13 ..
अध्यारोहन्त शतशः सुवेलं यत्र राघवः । ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ॥ 14 ॥
अध्यारोहन्त शतशस् सुवेलम् यत्र राघवः । ते तु अदीर्घेण कालेन गिरिम् आरुह्य सर्वतस् ॥ १४ ॥
adhyārohanta śataśas suvelam yatra rāghavaḥ . te tu adīrgheṇa kālena girim āruhya sarvatas .. 14 ..
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् । तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् ॥ 15 ॥
ददृशुः शिखरे तस्य विषक्ताम् इव खे पुरीम् । ताम् शुभाम् प्रवर-द्वाराम् प्राकार-वर-शोभिताम् ॥ १५ ॥
dadṛśuḥ śikhare tasya viṣaktām iva khe purīm . tām śubhām pravara-dvārām prākāra-vara-śobhitām .. 15 ..
लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः । प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः ॥ 16 ॥
लङ्काम् राक्षस-सम्पूर्णाम् ददृशुः हरि-यूथपाः । प्राकार-चय-संस्थैः च तथा नीलैः निशाचरैः ॥ १६ ॥
laṅkām rākṣasa-sampūrṇām dadṛśuḥ hari-yūthapāḥ . prākāra-caya-saṃsthaiḥ ca tathā nīlaiḥ niśācaraiḥ .. 16 ..
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥ 17 ॥
ददृशुः ते हरि-श्रेष्ठाः प्राकारम् अपरम् कृतम् ॥ १७ ॥
dadṛśuḥ te hari-śreṣṭhāḥ prākāram aparam kṛtam .. 17 ..
ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः । मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः ॥ 18 ॥
ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्ध-काङ्क्षिणः । मुमुचुः विपुलान् नादान् तत्र रामस्य पश्यतः ॥ १८ ॥
te dṛṣṭvā vānarāḥ sarve rākṣasān yuddha-kāṅkṣiṇaḥ . mumucuḥ vipulān nādān tatra rāmasya paśyataḥ .. 18 ..
ततोऽस्तमगमत्सूर्यः सन्ध्यया प्रतिरञ्जितः । पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते ॥ 19 ॥
ततस् अस्तम् अगमत् सूर्यः सन्ध्यया प्रतिरञ्जितः । पूर्ण-चन्द्र-प्रदीपा च क्षपा समभिवर्तते ॥ १९ ॥
tatas astam agamat sūryaḥ sandhyayā pratirañjitaḥ . pūrṇa-candra-pradīpā ca kṣapā samabhivartate .. 19 ..
ततः स रामो हरिवाहिनीपतिर् विभीषणेन प्रतिनन्द्य सत्कृतः । सलक्ष्मणो यूथपयूथसंवृतः सुवेल पृष्ठे न्यवसद्यथासुखम् ॥ 20 ॥
ततस् स रामः हरि-वाहिनी-पतिः विभीषणेन प्रतिनन्द्य सत्कृतः । स लक्ष्मणः यूथप-यूथ-संवृतः सुवेल पृष्ठे न्यवसत् यथासुखम् ॥ २० ॥
tatas sa rāmaḥ hari-vāhinī-patiḥ vibhīṣaṇena pratinandya satkṛtaḥ . sa lakṣmaṇaḥ yūthapa-yūtha-saṃvṛtaḥ suvela pṛṣṭhe nyavasat yathāsukham .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In