This overlay will guide you through the buttons:

| |
|
तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः । लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ॥ 1 ॥
ताम् रात्रिम् उषिताः तत्र सुवेले हरि-पुङ्गवाः । लङ्कायाम् ददृशुः वीराः वनानि उपवनानि च ॥ १ ॥
tām rātrim uṣitāḥ tatra suvele hari-puṅgavāḥ . laṅkāyām dadṛśuḥ vīrāḥ vanāni upavanāni ca .. 1 ..
समसौम्यानि रम्याणि विशालान्यायतानि च । दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥ 2 ॥
सम-सौम्यानि रम्याणि विशालानि आयतानि च । दृष्टि-रम्याणि ते दृष्ट्वा बभूवुः जात-विस्मयाः ॥ २ ॥
sama-saumyāni ramyāṇi viśālāni āyatāni ca . dṛṣṭi-ramyāṇi te dṛṣṭvā babhūvuḥ jāta-vismayāḥ .. 2 ..
चम्पकाशोकपुंनागसालतालसमाकुला । तमालवनसञ्चन्ना नागमालासमावृता ॥ 3 ॥
चम्पक-अशोक-पुंनाग-साल-ताल-समाकुला । तमाल-वन-सञ्चन्ना नाग-माला-समावृता ॥ ३ ॥
campaka-aśoka-puṃnāga-sāla-tāla-samākulā . tamāla-vana-sañcannā nāga-mālā-samāvṛtā .. 3 ..
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः । तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः ॥ 4 ॥
हिन्तालैः अर्जुनैः नीपैः सप्तपर्णैः च पुष्पितैः । तिलकैः कर्णिकारैः च पटालैः च समन्ततः ॥ ४ ॥
hintālaiḥ arjunaiḥ nīpaiḥ saptaparṇaiḥ ca puṣpitaiḥ . tilakaiḥ karṇikāraiḥ ca paṭālaiḥ ca samantataḥ .. 4 ..
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः । लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ 5 ॥
शुशुभे पुष्पित-अग्रैः च लता-परिगतैः द्रुमैः । लङ्का बहुविधैः दिव्यैः यथा इन्द्रस्य अमरावती ॥ ५ ॥
śuśubhe puṣpita-agraiḥ ca latā-parigataiḥ drumaiḥ . laṅkā bahuvidhaiḥ divyaiḥ yathā indrasya amarāvatī .. 5 ..
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः । शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ 6 ॥
विचित्र-कुसुम-उपेतैः रक्त-कोमल-पल्लवैः । शाद्वलैः च तथा नीलैः चित्राभिः वन-राजिभिः ॥ ६ ॥
vicitra-kusuma-upetaiḥ rakta-komala-pallavaiḥ . śādvalaiḥ ca tathā nīlaiḥ citrābhiḥ vana-rājibhiḥ .. 6 ..
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च । धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥ 7 ॥
गन्ध-आढ्यानि अभिरम्याणि पुष्पाणि च फलानि च । धारयन्ति अगमाः तत्र भूषणानि इव मानवाः ॥ ७ ॥
gandha-āḍhyāni abhiramyāṇi puṣpāṇi ca phalāni ca . dhārayanti agamāḥ tatra bhūṣaṇāni iva mānavāḥ .. 7 ..
तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् । वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥ 8 ॥
तत् चैत्ररथ-सङ्काशम् मनोज्ञम् नन्दन-उपमम् । वनम् सर्वर्तुकम् रम्यम् शुशुभे षट्पद-आयुतम् ॥ ८ ॥
tat caitraratha-saṅkāśam manojñam nandana-upamam . vanam sarvartukam ramyam śuśubhe ṣaṭpada-āyutam .. 8 ..
दात्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः । रुतं परभृतानां च शुश्रुवे वननिर्झरे ॥ 9 ॥
दात्यूह-कोयष्टिभकैः नृत्यमानैः च बर्हिभिः । रुतम् परभृतानाम् च शुश्रुवे वन-निर्झरे ॥ ९ ॥
dātyūha-koyaṣṭibhakaiḥ nṛtyamānaiḥ ca barhibhiḥ . rutam parabhṛtānām ca śuśruve vana-nirjhare .. 9 ..
नित्यमत्तविहङ्गानि भ्रमराचरितानि च । कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ 10 ॥
नित्य-मत्त-विहङ्गानि भ्रमर-आचरितानि च । कोकिल-आकुल-षण्डानि विहग-अभिरुतानि च ॥ १० ॥
nitya-matta-vihaṅgāni bhramara-ācaritāni ca . kokila-ākula-ṣaṇḍāni vihaga-abhirutāni ca .. 10 ..
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च । कोणालकविघुष्टानि सारसाभिरुतानि च । विविशुस्ते ततस्तानि वनान्युपवनानि च ॥ 11 ॥
भृङ्गराज-अभिगीतानि भ्रमरैः सेवितानि च । कोणालक-विघुष्टानि सारस-अभिरुतानि च । विविशुः ते ततस् तानि वनानि उपवनानि च ॥ ११ ॥
bhṛṅgarāja-abhigītāni bhramaraiḥ sevitāni ca . koṇālaka-vighuṣṭāni sārasa-abhirutāni ca . viviśuḥ te tatas tāni vanāni upavanāni ca .. 11 ..
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः । तेषां प्रविशतां तत्र वानराणां महौजसाम् ॥ 12 ॥
हृष्टाः प्रमुदिताः वीराः हरयः कामरूपिणः । तेषाम् प्रविशताम् तत्र वानराणाम् महा-ओजसाम् ॥ १२ ॥
hṛṣṭāḥ pramuditāḥ vīrāḥ harayaḥ kāmarūpiṇaḥ . teṣām praviśatām tatra vānarāṇām mahā-ojasām .. 12 ..
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः । अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः । सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥ 13 ॥
पुष्प-संसर्ग-सुरभिः ववौ घ्राण-सुखः अनिलः । अन्ये तु हरि-वीराणाम् यूथात् निष्क्रम्य यूथपाः । सुग्रीवेण अभ्यनुज्ञाताः लङ्काम् जग्मुः पताकिनीम् ॥ १३ ॥
puṣpa-saṃsarga-surabhiḥ vavau ghrāṇa-sukhaḥ anilaḥ . anye tu hari-vīrāṇām yūthāt niṣkramya yūthapāḥ . sugrīveṇa abhyanujñātāḥ laṅkām jagmuḥ patākinīm .. 13 ..
वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् । कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः ॥ 14 ॥
वित्रासयन्तः विहगान् त्रासयन्तः मृग-द्विपान् । कम्पयन्तः च ताम् लङ्काम् नादैः स्वैः नदताम् वराः ॥ १४ ॥
vitrāsayantaḥ vihagān trāsayantaḥ mṛga-dvipān . kampayantaḥ ca tām laṅkām nādaiḥ svaiḥ nadatām varāḥ .. 14 ..
कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् । रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम् ॥ 15 ॥
कुर्वन्तः ते महा-वेगाः महीम् चारण-पीडिताम् । रजः च सहसा एवा ऊर्ध्वम् जगाम चरण-उद्धतम् ॥ १५ ॥
kurvantaḥ te mahā-vegāḥ mahīm cāraṇa-pīḍitām . rajaḥ ca sahasā evā ūrdhvam jagāma caraṇa-uddhatam .. 15 ..
ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः । तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ 16 ॥
ऋक्षाः सिंहाः वराहाः च महिषाः वारणाः मृगाः । तेन शब्देन वित्रस्ताः जग्मुः भीताः दिशः दश ॥ १६ ॥
ṛkṣāḥ siṃhāḥ varāhāḥ ca mahiṣāḥ vāraṇāḥ mṛgāḥ . tena śabdena vitrastāḥ jagmuḥ bhītāḥ diśaḥ daśa .. 16 ..
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् । समन्तात्पुष्पसञ्चन्नं महारजतसंनिभम् ॥ 17 ॥
शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिविस्पृशम् । समन्तात् पुष्प-सञ्चन्नम् महारजत-संनिभम् ॥ १७ ॥
śikharam tu trikūṭasya prāṃśu ca ekam divispṛśam . samantāt puṣpa-sañcannam mahārajata-saṃnibham .. 17 ..
शतयोजनविस्तीर्णं विमलं चारुदर्शनम् । श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ॥ 18 ॥
शत-योजन-विस्तीर्णम् विमलम् चारु-दर्शनम् । श्लक्ष्णम् श्रीमत् महत् च एव दुष्प्रापम् शकुनैः अपि ॥ १८ ॥
śata-yojana-vistīrṇam vimalam cāru-darśanam . ślakṣṇam śrīmat mahat ca eva duṣprāpam śakunaiḥ api .. 18 ..
मनसापि दुरारोहं किं पुनः कर्मणा जनैः । निविष्टा तत्र शिखरे लङ्का रावणपालिता ॥ 19 ॥
मनसा अपि दुरारोहम् किम् पुनर् कर्मणा जनैः । निविष्टा तत्र शिखरे लङ्का रावण-पालिता ॥ १९ ॥
manasā api durāroham kim punar karmaṇā janaiḥ . niviṣṭā tatra śikhare laṅkā rāvaṇa-pālitā .. 19 ..
दशयोजनविस्तीर्णा विशद्योजनमायता । सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः । काञ्चनेन च सालेन राजतेन च शोभिता ॥ 20 ॥
दश-योजन-विस्तीर्णा विशत्-योजनम् आयता । सा पुरी गोपुरैः उच्चैस् पाण्डुर-अम्बुद-संनिभैः । काञ्चनेन च सालेन राजतेन च शोभिता ॥ २० ॥
daśa-yojana-vistīrṇā viśat-yojanam āyatā . sā purī gopuraiḥ uccais pāṇḍura-ambuda-saṃnibhaiḥ . kāñcanena ca sālena rājatena ca śobhitā .. 20 ..
प्रासादैश्च विमानैश्च लङ्का परमभूषिता । घनैरिवातपापाये मध्यमं वैष्णवं पदम् ॥ 21 ॥
प्रासादैः च विमानैः च लङ्का परम-भूषिता । घनैः इव आतप-अपाये मध्यमम् वैष्णवम् पदम् ॥ २१ ॥
prāsādaiḥ ca vimānaiḥ ca laṅkā parama-bhūṣitā . ghanaiḥ iva ātapa-apāye madhyamam vaiṣṇavam padam .. 21 ..
यस्यां स्तम्भसहस्रेण प्रासादः समलङ्कृतः । कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ॥ 22 ॥
यस्याम् स्तम्भ-सहस्रेण प्रासादः समलङ्कृतः । कैलास-शिखर-आकारः दृश्यते खम् इव उल्लिखन् ॥ २२ ॥
yasyām stambha-sahasreṇa prāsādaḥ samalaṅkṛtaḥ . kailāsa-śikhara-ākāraḥ dṛśyate kham iva ullikhan .. 22 ..
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् । शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ 23 ॥
चैत्यः स राक्षस-इन्द्रस्य बभूव पुर-भूषणम् । शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ॥ २३ ॥
caityaḥ sa rākṣasa-indrasya babhūva pura-bhūṣaṇam . śatena rakṣasām nityam yaḥ samagreṇa rakṣyate .. 23 ..
मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम् । नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥ 24 ॥
मनोज्ञाम् काञ्चनवतीम् पर्वतैः उपशोभिताम् । नाना धातु-विचित्रैः च उद्यानैः उपशोभिताम् ॥ २४ ॥
manojñām kāñcanavatīm parvataiḥ upaśobhitām . nānā dhātu-vicitraiḥ ca udyānaiḥ upaśobhitām .. 24 ..
नानाविहङ्गासङ्घुष्टां नानामृगनिषेविताम् । नानाकुसुमसञ्छन्नां नानाराक्षससेविताम् ॥ 25 ॥
नाना विहङ्गा-सङ्घुष्टाम् नाना मृग-निषेविताम् । नाना कुसुम-सञ्छन्नाम् नाना राक्षस-सेविताम् ॥ २५ ॥
nānā vihaṅgā-saṅghuṣṭām nānā mṛga-niṣevitām . nānā kusuma-sañchannām nānā rākṣasa-sevitām .. 25 ..
तां समृद्धां समृद्धार्थो लक्ष्मीवाँल्लक्ष्मणाग्रजः । रावणस्य पुरीं रामो ददर्श सह वानरैः ॥ 26 ॥
ताम् समृद्धाम् समृद्ध-अर्थः लक्ष्मीवान् लक्ष्मण-अग्रजः । रावणस्य पुरीम् रामः ददर्श सह वानरैः ॥ २६ ॥
tām samṛddhām samṛddha-arthaḥ lakṣmīvān lakṣmaṇa-agrajaḥ . rāvaṇasya purīm rāmaḥ dadarśa saha vānaraiḥ .. 26 ..
तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः। नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ॥ 27 ॥
ताम् महा-गृह-सम्बाधाम् दृष्ट्वा लक्ष्मण-पूर्वजः। नगरीम् त्रिदिव-प्रख्याम् विस्मयम् प्राप वीर्यवान् ॥ २७ ॥
tām mahā-gṛha-sambādhām dṛṣṭvā lakṣmaṇa-pūrvajaḥ. nagarīm tridiva-prakhyām vismayam prāpa vīryavān .. 27 ..
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलङ्कृतां च । पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ॥ 28 ॥
ताम् रत्न-पूर्णाम् बहु-संविधानाम् प्रासाद-मालाभिः अलङ्कृताम् च । पुरीम् महा-यन्त्रक-वाट-मुख्याम् ददर्श रामः महता बलेन ॥ २८ ॥
tām ratna-pūrṇām bahu-saṃvidhānām prāsāda-mālābhiḥ alaṅkṛtām ca . purīm mahā-yantraka-vāṭa-mukhyām dadarśa rāmaḥ mahatā balena .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In