This overlay will guide you through the buttons:

| |
|
ततो राम सुवेलाग्रं योजनद्वयमण्डलम् । उपरोहत् ससुग्रीवो हरियूथै समन्वितः ॥ 1 ॥
ततस् राम सुवेल-अग्रम् योजन-द्वय-मण्डलम् । उपरोहत् स सुग्रीवः हरि-यूथैः समन्वितः ॥ १ ॥
tatas rāma suvela-agram yojana-dvaya-maṇḍalam . uparohat sa sugrīvaḥ hari-yūthaiḥ samanvitaḥ .. 1 ..
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् । त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा ॥ 2 ॥
स्थित्वा मुहूर्तम् तत्र एव दिशः दश विलोकयन् । त्रिकूट-शिखरे रम्ये निर्मिताम् विश्वकर्मणा ॥ २ ॥
sthitvā muhūrtam tatra eva diśaḥ daśa vilokayan . trikūṭa-śikhare ramye nirmitām viśvakarmaṇā .. 2 ..
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् । तस्य गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥ 3 ॥
ददर्श लङ्काम् सु न्यस्ताम् रम्य-कानन-शोभिताम् । तस्य गोपुर-शृङ्ग-स्थम् राक्षस-इन्द्रम् दुरासदम् ॥ ३ ॥
dadarśa laṅkām su nyastām ramya-kānana-śobhitām . tasya gopura-śṛṅga-stham rākṣasa-indram durāsadam .. 3 ..
श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम् । रक्तचन्दनसंलिप्तं रत्नाभरणभूषितम् ॥ 4 ॥
श्वेत-चामर-पर्यन्तम् विजय-छत्र-शोभितम् । रक्तचन्दन-संलिप्तम् रत्न-आभरण-भूषितम् ॥ ४ ॥
śveta-cāmara-paryantam vijaya-chatra-śobhitam . raktacandana-saṃliptam ratna-ābharaṇa-bhūṣitam .. 4 ..
नीलजीमूतसङ्काशं हेमसञ्छादिताम्बरम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ 5 ॥
नील-जीमूत-सङ्काशम् हेम-सञ्छादित-अम्बरम् । ऐरावत-विषाण-अग्रैः उत्कृष्ट-किण-वक्षसम् ॥ ५ ॥
nīla-jīmūta-saṅkāśam hema-sañchādita-ambaram . airāvata-viṣāṇa-agraiḥ utkṛṣṭa-kiṇa-vakṣasam .. 5 ..
शशलोहितरागेण संवीतं रक्तवाससा । सन्ध्यातपेन संछन्नं मेघराशिमिवाम्बरे ॥ 6 ॥
शश-लोहित-रागेण संवीतम् रक्त-वाससा । सन्ध्या-आतपेन संछन्नम् मेघ-राशिम् इव अम्बरे ॥ ६ ॥
śaśa-lohita-rāgeṇa saṃvītam rakta-vāsasā . sandhyā-ātapena saṃchannam megha-rāśim iva ambare .. 6 ..
पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः । दर्शनादा राक्षसेन्द्रस्य सुग्रीव सहसोत्थितः ॥ 7 ॥
पश्यताम् वानर-इन्द्राणाम् राघवस्य अपि पश्यतः । दर्शनात् आः राक्षस-इन्द्रस्य सुग्रीव सहसा उत्थितः ॥ ७ ॥
paśyatām vānara-indrāṇām rāghavasya api paśyataḥ . darśanāt āḥ rākṣasa-indrasya sugrīva sahasā utthitaḥ .. 7 ..
क्रोधवेगेन संयुक्त सत्त्वेन च बलेन च । अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥ 8 ॥
क्रोध-वेगेन संयुक्त सत्त्वेन च बलेन च । अचल-अग्रात् अथ उत्थाय पुप्लुवे गोपुर-स्थले ॥ ८ ॥
krodha-vegena saṃyukta sattvena ca balena ca . acala-agrāt atha utthāya pupluve gopura-sthale .. 8 ..
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना । तृणीकृत्य च तद रक्ष सोऽब्रवीत् परुषं वचः ॥ 9 ॥
स्थित्वा मुहूर्तम् सम्प्रेक्ष्य निर्भयेन अन्तरात्मना । तृणीकृत्य च रक्ष सः अब्रवीत् परुषम् वचः ॥ ९ ॥
sthitvā muhūrtam samprekṣya nirbhayena antarātmanā . tṛṇīkṛtya ca rakṣa saḥ abravīt paruṣam vacaḥ .. 9 ..
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस । न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥ 10 ॥
लोक-नाथस्य रामस्य सखा दासः अस्मि राक्षस । न मया मोक्ष्यसे अद्य त्वम् पार्थिव-इन्द्रस्य तेजसा ॥ १० ॥
loka-nāthasya rāmasya sakhā dāsaḥ asmi rākṣasa . na mayā mokṣyase adya tvam pārthiva-indrasya tejasā .. 10 ..
इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि । आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ॥ 11 ॥
इति उक्त्वा सहसा उत्पत्य पुप्लुवे तस्य च उपरि । आकृष्य मुकुटम् चित्रम् पातयामास तत् भुवि ॥ ११ ॥
iti uktvā sahasā utpatya pupluve tasya ca upari . ākṛṣya mukuṭam citram pātayāmāsa tat bhuvi .. 11 ..
समीक्ष्य तूर्णमायान्तं बभाषे तं निशाचरः । सुग्रीवस्त्व परोक्षम् मे हीनग्रीवो भविष्यसि ॥ 12 ॥
समीक्ष्य तूर्णम् आयान्तम् बभाषे तम् निशाचरः । सुग्रीवः त्व परोक्षम् मे हीन-ग्रीवः भविष्यसि ॥ १२ ॥
samīkṣya tūrṇam āyāntam babhāṣe tam niśācaraḥ . sugrīvaḥ tva parokṣam me hīna-grīvaḥ bhaviṣyasi .. 12 ..
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले । कन्दुवत् स समुत्थाय बाहुभ्यामाक्षिपद्धरि ॥ 13 ॥
इति उक्त्वा उत्थाय तम् क्षिप्रम् बाहुभ्याम् आक्षिपत् तले । कन्दु-वत् स समुत्थाय बाहुभ्याम् आक्षिपत् हरि ॥ १३ ॥
iti uktvā utthāya tam kṣipram bāhubhyām ākṣipat tale . kandu-vat sa samutthāya bāhubhyām ākṣipat hari .. 13 ..
परस्परं स्वेदविदग्धगात्रौ परस्परं शोणितदिग्धदेह । परस्परंल शिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकाविव ॥ 14 ॥
परस्परम् स्वेद-विदग्ध-गात्रौ परस्परम् शोणित-दिग्ध-देह । शिष्ट-निरुद्ध-चेष्टौ परस्परम् शाल्मलि-किंशुकौ इव ॥ १४ ॥
parasparam sveda-vidagdha-gātrau parasparam śoṇita-digdha-deha . śiṣṭa-niruddha-ceṣṭau parasparam śālmali-kiṃśukau iva .. 14 ..
मुष्टिप्रहारैश्च तलप्रहारैररत्निघातैश्च कराग्रघातैः । तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ राक्षसवानरेन्द्रौ ॥ 15 ॥
मुष्टि-प्रहारैः च तल-प्रहारैः अरत्नि-घातैः च कर-अग्र-घातैः । तौ चक्रतुः युद्धम् असह्य-रूपम् महा-बलौ राक्षस-वानर-इन्द्रौ ॥ १५ ॥
muṣṭi-prahāraiḥ ca tala-prahāraiḥ aratni-ghātaiḥ ca kara-agra-ghātaiḥ . tau cakratuḥ yuddham asahya-rūpam mahā-balau rākṣasa-vānara-indrau .. 15 ..
कृत्वा नियुद्धं भृशमुग्रवेगौ कालं चिर गोपुरवेदिमध्ये । उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ पादक्रमाद् गोपुरवेदिलग्नौ ॥ 16 ॥
कृत्वा नियुद्धम् भृशम् उग्र-वेगौ कालम् चिर गोपुर-वेदि-मध्ये । उत्क्षिप्य च उत्क्षिप्य विनम्य देहौ पाद-क्रमात् गोपुर-वेदि-लग्नौ ॥ १६ ॥
kṛtvā niyuddham bhṛśam ugra-vegau kālam cira gopura-vedi-madhye . utkṣipya ca utkṣipya vinamya dehau pāda-kramāt gopura-vedi-lagnau .. 16 ..
अन्योन्यमापिधदड्य विलग्नदेहौ तौ पेततु सालनिखातमध्ये ।उत्पेततुर्भूमितल स्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ॥ 17 ॥
विलग्न-देहौ तौ पेततु साल-निखात-मध्ये ।उत्पेततुः भूमि-तल स्पृशन्तौ स्थित्वा मुहूर्तम् तु अभिनिःश्वसन्तौ ॥ १७ ॥
vilagna-dehau tau petatu sāla-nikhāta-madhye .utpetatuḥ bhūmi-tala spṛśantau sthitvā muhūrtam tu abhiniḥśvasantau .. 17 ..
आलिङ्ग्य चालिङ्ग्य च बाहुयोक्त्रै स्संयोजयामासतुराहवे तौ । संरम्भशिक्षाबलसम्प्रयुक्तौ संचेरतु सम्प्रति युद्धमार्गैः ॥ 18 ॥
आलिङ्ग्य च आलिङ्ग्य च बाहु-योक्त्रैः स्संयोजयामासतुः आहवे तौ । संरम्भ-शिक्षा-बल-सम्प्रयुक्तौ संचेरतु सम्प्रति युद्ध-मार्गैः ॥ १८ ॥
āliṅgya ca āliṅgya ca bāhu-yoktraiḥ ssaṃyojayāmāsatuḥ āhave tau . saṃrambha-śikṣā-bala-samprayuktau saṃceratu samprati yuddha-mārgaiḥ .. 18 ..
शार्दूरसिंहाविव जातदर्पौग जेन्द्रपोताविव सम्प्रयुक्तौ । संहत्य संवेद्य च तौ कराभ्यां तौ पेततुर्वै युगपद धरायाम् ॥ 19 ॥
शार्दूर-सिंहौ इव जात-दर्पौ ज-इन्द्र-पोतौ इव सम्प्रयुक्तौ । संहत्य संवेद्य च तौ कराभ्याम् तौ पेततुः वै धरायाम् ॥ १९ ॥
śārdūra-siṃhau iva jāta-darpau ja-indra-potau iva samprayuktau . saṃhatya saṃvedya ca tau karābhyām tau petatuḥ vai dharāyām .. 19 ..
उद्यम्य चान्योन्यमधिक्षिपन्तौ संचक्रमाते बहु युद्धमार्गे: । व्यायामशिक्षाबलसम्प्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ ॥ 20 ॥
उद्यम्य च अन्योन्यम् अधिक्षिपन्तौ संचक्रमाते बहु युद्ध-मार्गे । व्यायाम-शिक्षा-बल-सम्प्रयुक्तौ क्लमम् न तौ जग्मतुः आशु वीरौ ॥ २० ॥
udyamya ca anyonyam adhikṣipantau saṃcakramāte bahu yuddha-mārge . vyāyāma-śikṣā-bala-samprayuktau klamam na tau jagmatuḥ āśu vīrau .. 20 ..
बाहूत्तमैर्वारणवारणाभैर्निवारयन्तौ परवारणाभौ । चिरेण कालेन भृशं प्रयुक्तौ संचेरतुर्मण्डलमार्गमाशु ॥ 21 ॥
बाहु-उत्तमैः वारण-वारण-आभैः निवारयन्तौ पर-वारण-आभौ । चिरेण कालेन भृशम् प्रयुक्तौ संचेरतुः मण्डल-मार्गम् आशु ॥ २१ ॥
bāhu-uttamaiḥ vāraṇa-vāraṇa-ābhaiḥ nivārayantau para-vāraṇa-ābhau . cireṇa kālena bhṛśam prayuktau saṃceratuḥ maṇḍala-mārgam āśu .. 21 ..
तौ परस्परमासाद्य यत्तावन्योन्यसूदने । मार्जाराविव भक्ष्यार्थेऽवितस्थाते मुहुर्मुहुः ॥ 22 ॥
तौ परस्परम् आसाद्य यत्तौ अन्योन्य-सूदने । मार्जारौ इव भक्ष्य-अर्थे अवितस्थाते मुहुर् मुहुर् ॥ २२ ॥
tau parasparam āsādya yattau anyonya-sūdane . mārjārau iva bhakṣya-arthe avitasthāte muhur muhur .. 22 ..
मण्डलानि विचित्राणि स्थानानि विविधानि च । गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ॥ 23 ॥
मण्डलानि विचित्राणि स्थानानि विविधानि च । गो-मूत्रकाणि चित्राणि गत-प्रत्यागतानि च ॥ २३ ॥
maṇḍalāni vicitrāṇi sthānāni vividhāni ca . go-mūtrakāṇi citrāṇi gata-pratyāgatāni ca .. 23 ..
तिरच्शीनगतान्येव तथा वक्रगतानि च । परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ 24 ॥
तिरच्-शीन-गतानि एव तथा वक्र-गतानि च । परिमोक्षम् प्रहाराणाम् वर्जनम् परिधावनम् ॥ २४ ॥
tirac-śīna-gatāni eva tathā vakra-gatāni ca . parimokṣam prahārāṇām varjanam paridhāvanam .. 24 ..
अभिद्रवणमाप्लावमावस्थानं सविग्रहम् । परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ॥ 25 ॥
अभिद्रवणम् आप्लावम् आ अवस्थानम् स विग्रहम् । परावृत्तम् अपावृत्तम् अपद्रुतम् अवप्लुतम् ॥ २५ ॥
abhidravaṇam āplāvam ā avasthānam sa vigraham . parāvṛttam apāvṛttam apadrutam avaplutam .. 25 ..
उपन्यस्तपमन्यस्तं युद्धमार्गविशारदौ । तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः ॥ 26 ॥
उपन्यस्त-पम-न्यस्तम् युद्ध-मार्ग-विशारदौ । तौ विचेरतुः अन्योन्यम् वानर-इन्द्रः च रावणः ॥ २६ ॥
upanyasta-pama-nyastam yuddha-mārga-viśāradau . tau viceratuḥ anyonyam vānara-indraḥ ca rāvaṇaḥ .. 26 ..
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः । आरब्धुमुपसंपेदे ज्ञात्वा तं वानराधिपः ॥ 27 ॥
एतस्मिन् अन्तरे रक्षः माया-बलम् अथ आत्मनः । आरब्धुम् उपसंपेदे ज्ञात्वा तम् वानर-अधिपः ॥ २७ ॥
etasmin antare rakṣaḥ māyā-balam atha ātmanaḥ . ārabdhum upasaṃpede jñātvā tam vānara-adhipaḥ .. 27 ..
उत्पपात तदाऽऽकाशं जितकाशी जितक्लमः । रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥ 28 ॥
उत्पपात तदा आकाशम् जितकाशी जित-क्लमः । रावणः स्थितः एव अत्र हरि-राजेन वञ्चितः ॥ २८ ॥
utpapāta tadā ākāśam jitakāśī jita-klamaḥ . rāvaṇaḥ sthitaḥ eva atra hari-rājena vañcitaḥ .. 28 ..
अथ हरिवरनाथः प्राप्यसङ्ग्रामकीर्तिंनिशिचरपतिमाजौ योजयित्वा श्रमेण । गगनमतिविशालं लङ्घयित्वार्कसूनुर्हरिगणमध्ये रामपार्श्वं जगाम ॥ 29 ॥
अथ हरि-वर-नाथः प्राप्य-सङ्ग्राम-कीर्तिम् निशिचर-पतिम् आजौ योजयित्वा श्रमेण । गगनम् अति विशालम् लङ्घयित्वा अर्कसूनुः हरि-गण-मध्ये राम-पार्श्वम् जगाम ॥ २९ ॥
atha hari-vara-nāthaḥ prāpya-saṅgrāma-kīrtim niśicara-patim ājau yojayitvā śrameṇa . gaganam ati viśālam laṅghayitvā arkasūnuḥ hari-gaṇa-madhye rāma-pārśvam jagāma .. 29 ..
इति स सवितृसूनुस्तत्र तत् कर्म कृत्वा पवनगतिरनीकं प्राविशत्स सम्प्रहृष्टः । रघुवरनृपसूनोद्वर्धय युद्धहर्षं तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥ 30 ॥
इति स सवितृ-सूनुः तत्र तत् कर्म कृत्वा पवन-गतिः अनीकम् प्राविशत् स सम्प्रहृष्टः । रघु-वर-नृप-सूनो उद्वर्धय युद्ध-हर्षम् तरु-मृग-गण-मुख्यैः पूज्यमानः हरि-इन्द्रः ॥ ३० ॥
iti sa savitṛ-sūnuḥ tatra tat karma kṛtvā pavana-gatiḥ anīkam prāviśat sa samprahṛṣṭaḥ . raghu-vara-nṛpa-sūno udvardhaya yuddha-harṣam taru-mṛga-gaṇa-mukhyaiḥ pūjyamānaḥ hari-indraḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In