This overlay will guide you through the buttons:

| |
|
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः । सुग्रीवं सम्परिष्वज्य रामो वचनमब्रवीत् ॥ 1 ॥
अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मण-पूर्वजः । सुग्रीवम् सम्परिष्वज्य रामः वचनम् अब्रवीत् ॥ १ ॥
atha tasmin nimittāni dṛṣṭvā lakṣmaṇa-pūrvajaḥ . sugrīvam sampariṣvajya rāmaḥ vacanam abravīt .. 1 ..
असन्त्ऱ्य मया सार्थं तदिदं साहसं कृतम् । एवं साहसुक्तानि न कुर्वन्ति जनेश्वराः ॥ 2 ॥
अ सन्तृय मया सार्थम् तत् इदम् साहसम् कृतम् । एवम् साहस्-उक्तानि न कुर्वन्ति जनेश्वराः ॥ २ ॥
a santṛya mayā sārtham tat idam sāhasam kṛtam . evam sāhas-uktāni na kurvanti janeśvarāḥ .. 2 ..
संशये स्थाप्य मां चेदं बलं चेमं विभीषणम् । कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥ 3 ॥
संशये स्थाप्य माम् च इदम् बलम् च इमम् विभीषणम् । कष्टम् कृतम् इदम् वीर साहसम् साहस-प्रिय ॥ ३ ॥
saṃśaye sthāpya mām ca idam balam ca imam vibhīṣaṇam . kaṣṭam kṛtam idam vīra sāhasam sāhasa-priya .. 3 ..
इदानीं मा कृथा वीर एवंविधमरिंदम् । त्वयि किञ्चित्समापन्ने किं कार्यं सीतया मम ॥ 4 ॥
इदानीम् मा कृथाः वीरः एवंविधम् अरिंदम् । त्वयि किञ्चिद् समापन्ने किम् कार्यम् सीतया मम ॥ ४ ॥
idānīm mā kṛthāḥ vīraḥ evaṃvidham ariṃdam . tvayi kiñcid samāpanne kim kāryam sītayā mama .. 4 ..
भरतेन महाबाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुन:। ॥ 5 ॥
भरतेन महा-बाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुघ्न स्व-शरीरेण वा पुनर्। ॥ ५ ॥
bharatena mahā-bāho lakṣmaṇena yavīyasā . śatrughnena ca śatrughna sva-śarīreṇa vā punar. .. 5 ..
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः । जानतश्चापि ते वीर्यं महेन्द्रवरुणोसम ॥ 6 ॥
त्वयि च अनागते पूर्वम् इति मे निश्चिता मतिः । जानतः च अपि ते वीर्यम् महा-इन्द्र-वरुण-उसम ॥ ६ ॥
tvayi ca anāgate pūrvam iti me niścitā matiḥ . jānataḥ ca api te vīryam mahā-indra-varuṇa-usama .. 6 ..
हत्वाऽहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य च लङ्कायां विभीषणमथापि च ॥ 7 ॥
हत्वा अहम् रावणम् युद्धे स पुत्र-बल-वाहनम् । अभिषिच्य च लङ्कायाम् विभीषणम् अथ अपि च ॥ ७ ॥
hatvā aham rāvaṇam yuddhe sa putra-bala-vāhanam . abhiṣicya ca laṅkāyām vibhīṣaṇam atha api ca .. 7 ..
भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल । । तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ॥ 8 ॥
भरते राज्यम् आवेश्य त्यक्ष्ये देहम् महा-बल । । तम् एवम् वादिनम् रामम् सुग्रीवः प्रत्यभाषत ॥ ८ ॥
bharate rājyam āveśya tyakṣye deham mahā-bala . . tam evam vādinam rāmam sugrīvaḥ pratyabhāṣata .. 8 ..
तव भार्यापहर्तारं दृष्टवा राघव रावणम् । मर्षयामि कथं वीर जानन् विक्रममात्मनः ॥ 9 ॥
तव भार्या-अपहर्तारम् दृष्टवा राघव रावणम् । मर्षयामि कथम् वीर जानन् विक्रमम् आत्मनः ॥ ९ ॥
tava bhāryā-apahartāram dṛṣṭavā rāghava rāvaṇam . marṣayāmi katham vīra jānan vikramam ātmanaḥ .. 9 ..
इत्येवं वादिनं वीरमभिनन्द्य च राघवः । लक्ष्मणं लक्षीसम्पन्नमिदं वचनमब्रवीत् ॥ 10 ॥
इति एवम् वादिनम् वीरम् अभिनन्द्य च राघवः । लक्ष्मणम् लक्षी-सम्पन्नम् इदम् वचनम् अब्रवीत् ॥ १० ॥
iti evam vādinam vīram abhinandya ca rāghavaḥ . lakṣmaṇam lakṣī-sampannam idam vacanam abravīt .. 10 ..
परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥ 11 ॥
परिगृह्य उदकम् शीतम् वनानि फलवन्ति च । बल-ओघम् संविभज्य इमम् व्यूह्य तिष्ठेम लक्ष्मण ॥ ११ ॥
parigṛhya udakam śītam vanāni phalavanti ca . bala-ogham saṃvibhajya imam vyūhya tiṣṭhema lakṣmaṇa .. 11 ..
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ 12 ॥
लोक-क्षय-करम् भीमम् भयम् पश्यामि उपस्थितम् । निबर्हणम् प्रवीराणाम् ऋक्ष-वानर-रक्षसाम् ॥ १२ ॥
loka-kṣaya-karam bhīmam bhayam paśyāmi upasthitam . nibarhaṇam pravīrāṇām ṛkṣa-vānara-rakṣasām .. 12 ..
वाता हि परुषं वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः ॥ 13 ॥
वाताः हि परुषम् वान्ति कम्पते च वसुन्धरा । पर्वत-अग्राणि वेपन्ते नदन्ति धरणीधराः ॥ १३ ॥
vātāḥ hi paruṣam vānti kampate ca vasundharā . parvata-agrāṇi vepante nadanti dharaṇīdharāḥ .. 13 ..
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभिः ॥ 14 ॥
मेघाः क्रव्याद-सङ्काशाः परुषाः परुष-स्वनाः । क्रूराः क्रूरम् प्रवर्षन्ते मिश्रम् शोणित-बिन्दुभिः ॥ १४ ॥
meghāḥ kravyāda-saṅkāśāḥ paruṣāḥ paruṣa-svanāḥ . krūrāḥ krūram pravarṣante miśram śoṇita-bindubhiḥ .. 14 ..
रक्तचन्दनसङ्काशा सन्ध्यापरमदारुणा । ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ॥ 15 ॥
रक्तचन्दन-सङ्काशा सन्ध्या-परम-दारुणा । ज्वलत् च निपतति एतत् आदित्यात् अग्नि-मण्डलम् ॥ १५ ॥
raktacandana-saṅkāśā sandhyā-parama-dāruṇā . jvalat ca nipatati etat ādityāt agni-maṇḍalam .. 15 ..
आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम् । दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ॥ 16 ॥
आदित्यम् अभिवाश्यन्ते जनयन्तः महत् भयम् । दीनाः दीन-स्वराः घोराः अप्रशस्ताः मृग-द्विजाः ॥ १६ ॥
ādityam abhivāśyante janayantaḥ mahat bhayam . dīnāḥ dīna-svarāḥ ghorāḥ apraśastāḥ mṛga-dvijāḥ .. 16 ..
रजन्यामप्रकाशश्च संतापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो यथा लोकस्य सङ्क्षये ॥ 17 ॥
रजन्याम् अप्रकाशः च संतापयति चन्द्रमाः । कृष्ण-रक्त-अंशु-पर्यन्तः यथा लोकस्य सङ्क्षये ॥ १७ ॥
rajanyām aprakāśaḥ ca saṃtāpayati candramāḥ . kṛṣṇa-rakta-aṃśu-paryantaḥ yathā lokasya saṅkṣaye .. 17 ..
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः । आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ 18 ॥
ह्रस्वः रूक्षः अप्रशस्तः च परिवेषः सु लोहितः । आदित्य-मण्डले नीलम् लक्ष्म लक्ष्मण दृश्यते ॥ १८ ॥
hrasvaḥ rūkṣaḥ apraśastaḥ ca pariveṣaḥ su lohitaḥ . āditya-maṇḍale nīlam lakṣma lakṣmaṇa dṛśyate .. 18 ..
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते । युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥ 19 ॥
दृश्यन्ते न यथावत् च नक्षत्राणि अभिवर्तते । युग-अन्तम् इव लोकस्य पश्य लक्ष्मण शंसति ॥ १९ ॥
dṛśyante na yathāvat ca nakṣatrāṇi abhivartate . yuga-antam iva lokasya paśya lakṣmaṇa śaṃsati .. 19 ..
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ॥ 20 ॥
काकाः श्येनाः तथा गृध्राः नीचैस् परिपतन्ति च । शिवाः च अपि अशिवाः वाचः प्रवदन्ति महा-स्वनाः ॥ २० ॥
kākāḥ śyenāḥ tathā gṛdhrāḥ nīcais paripatanti ca . śivāḥ ca api aśivāḥ vācaḥ pravadanti mahā-svanāḥ .. 20 ..
शैलैः शूलैश्च खडगैश्च विमुक्स्सैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥ 21 ॥
शैलैः शूलैः च खडगैः च विमुक्स्सैः कपि-राक्षसैः । भविष्यति आवृता भूमिः मांस-शोणित-कर्दमा ॥ २१ ॥
śailaiḥ śūlaiḥ ca khaḍagaiḥ ca vimukssaiḥ kapi-rākṣasaiḥ . bhaviṣyati āvṛtā bhūmiḥ māṃsa-śoṇita-kardamā .. 21 ..
क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् । अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ 22 ॥
क्षिप्रम् अद्य दुराधर्षाम् पुरीम् रावण-पालिताम् । अभियाम जवेन एव सर्वतस् हरिभिः वृताः ॥ २२ ॥
kṣipram adya durādharṣām purīm rāvaṇa-pālitām . abhiyāma javena eva sarvatas haribhiḥ vṛtāḥ .. 22 ..
इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः । तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः ॥ 23 ॥
इति एवम् तु वदन् वीरः लक्ष्मणम् लक्ष्मण-अग्रजः । तस्मात् अवातरत् शीघ्रम् पर्वत-अग्रात् महा-बलः ॥ २३ ॥
iti evam tu vadan vīraḥ lakṣmaṇam lakṣmaṇa-agrajaḥ . tasmāt avātarat śīghram parvata-agrāt mahā-balaḥ .. 23 ..
अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः । परैः परमदुर्धर्षं ददर्श बलमात्मनः ॥ 24 ॥
अवतीर्य तु धर्म-आत्मा तस्मात् शैलात् स राघवः । परैः परम-दुर्धर्षम् ददर्श बलम् आत्मनः ॥ २४ ॥
avatīrya tu dharma-ātmā tasmāt śailāt sa rāghavaḥ . paraiḥ parama-durdharṣam dadarśa balam ātmanaḥ .. 24 ..
संनह्य तु ससुग्रीवः कपिराजबलं महत् । कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ॥ 25 ॥
संनह्य तु स सुग्रीवः कपि-राज-बलम् महत् । काल-ज्ञः राघवः काले संयुगाय अभ्यचोदयत् ॥ २५ ॥
saṃnahya tu sa sugrīvaḥ kapi-rāja-balam mahat . kāla-jñaḥ rāghavaḥ kāle saṃyugāya abhyacodayat .. 25 ..
ततः काले महाबाहुर्बलेन महता वृतः । प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ॥ 26 ॥
ततस् काले महा-बाहुः बलेन महता वृतः । प्रस्थितः पुरतस् धन्वी लङ्काम् अभिमुखः पुरीम् ॥ २६ ॥
tatas kāle mahā-bāhuḥ balena mahatā vṛtaḥ . prasthitaḥ puratas dhanvī laṅkām abhimukhaḥ purīm .. 26 ..
तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः । ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा ॥ 27 ॥
तम् विभीषण सुग्रीवौ हनूमान् जाम्बवान् नलः । ऋक्ष-राजः तथा नीलः लक्ष्मणः च अन्ययुः तदा ॥ २७ ॥
tam vibhīṣaṇa sugrīvau hanūmān jāmbavān nalaḥ . ṛkṣa-rājaḥ tathā nīlaḥ lakṣmaṇaḥ ca anyayuḥ tadā .. 27 ..
ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् । प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥ 28 ॥
ततस् पश्चात् सु महती पृतना ऋक्ष-वनौकसाम् । प्रच्छाद्य महतीम् भूमिम् अनुयाति स्म राघवम् ॥ २८ ॥
tatas paścāt su mahatī pṛtanā ṛkṣa-vanaukasām . pracchādya mahatīm bhūmim anuyāti sma rāghavam .. 28 ..
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम् । जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥ 29 ॥
शैल-शृङ्गाणि शतशस् प्रवृद्धान् च महीरुहाम् । जगृहुः कुञ्जर-प्रख्याः वानराः पर-वारणाः ॥ २९ ॥
śaila-śṛṅgāṇi śataśas pravṛddhān ca mahīruhām . jagṛhuḥ kuñjara-prakhyāḥ vānarāḥ para-vāraṇāḥ .. 29 ..
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ । रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ॥ 30 ॥
तौ तु अदीर्घेण कालेन भ्रातरौ राम-लक्ष्मणौ । रावणस्य पुरीम् लङ्काम् आसेदतुः अरिन्दमौ ॥ ३० ॥
tau tu adīrgheṇa kālena bhrātarau rāma-lakṣmaṇau . rāvaṇasya purīm laṅkām āsedatuḥ arindamau .. 30 ..
पताकामालिनीं रम्यामुद्यानवनशोभिताम् । चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम् ॥ 31 ॥
पताका-मालिनीम् रम्याम् उद्यान-वन-शोभिताम् । चित्र-वप्राम् सुदुष्प्रापाम् उच्च-प्राकार-तोरणाम् ॥ ३१ ॥
patākā-mālinīm ramyām udyāna-vana-śobhitām . citra-vaprām suduṣprāpām ucca-prākāra-toraṇām .. 31 ..
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः । यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः ॥ 32 ॥
ताम् सुरैः अपि दुर्धर्षाम् राम-वाक्य-प्रचोदिताः । यथा निदेशम् सम्पीड्य न्यविशन्त वनौकसः ॥ ३२ ॥
tām suraiḥ api durdharṣām rāma-vākya-pracoditāḥ . yathā nideśam sampīḍya nyaviśanta vanaukasaḥ .. 32 ..
लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् । रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ 33 ॥
लङ्कायाः तु उत्तर-द्वारम् शैल-शृङ्गम् इव उन्नतम् । रामः सहानुजः धन्वी जुगोप च रुरोध च ॥ ३३ ॥
laṅkāyāḥ tu uttara-dvāram śaila-śṛṅgam iva unnatam . rāmaḥ sahānujaḥ dhanvī jugopa ca rurodha ca .. 33 ..
लङ्कामुपनिविष्टश्च रामो दशरथात्मजः । लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ॥ 34 ॥
लङ्काम् उपनिविष्टः च रामः दशरथ-आत्मजः । लक्ष्मण-अनुचरः वीरः पुरीम् रावण-पालिताम् ॥ ३४ ॥
laṅkām upaniviṣṭaḥ ca rāmaḥ daśaratha-ātmajaḥ . lakṣmaṇa-anucaraḥ vīraḥ purīm rāvaṇa-pālitām .. 34 ..
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः । नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ॥ 35 ॥
उत्तर-द्वारम् आसाद्य यत्र तिष्ठति रावणः । न अन्यः रामात् हि तत् द्वारम् समर्थः परिरक्षितुम् ॥ ३५ ॥
uttara-dvāram āsādya yatra tiṣṭhati rāvaṇaḥ . na anyaḥ rāmāt hi tat dvāram samarthaḥ parirakṣitum .. 35 ..
रावणाधिष्ठितं भीमं वरुणेनेव सागरम् । सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः ॥ 36 ॥
रावण-अधिष्ठितम् भीमम् वरुणेन इव सागरम् । स आयुधौ राक्षसैः भीमैः अभिगुप्तम् समन्ततः ॥ ३६ ॥
rāvaṇa-adhiṣṭhitam bhīmam varuṇena iva sāgaram . sa āyudhau rākṣasaiḥ bhīmaiḥ abhiguptam samantataḥ .. 36 ..
लघूनां त्रासजननं पातालमिव दानवैः । विन्यस्तानि च योधानां बहूनि विविधानि च ॥ 37 ॥
लघूनाम् त्रास-जननम् पातालम् इव दानवैः । विन्यस्तानि च योधानाम् बहूनि विविधानि च ॥ ३७ ॥
laghūnām trāsa-jananam pātālam iva dānavaiḥ . vinyastāni ca yodhānām bahūni vividhāni ca .. 37 ..
ददर्शायुधजालानि तथैव कवचानि च । पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ॥ 38 ॥
ददर्श आयुध-जालानि तथा एव कवचानि च । पूर्वम् तु द्वारम् आसाद्य नीलः हरि-चमूपतिः ॥ ३८ ॥
dadarśa āyudha-jālāni tathā eva kavacāni ca . pūrvam tu dvāram āsādya nīlaḥ hari-camūpatiḥ .. 38 ..
अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् । अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ॥ 39 ॥
अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् । अङ्गदः दक्षिण-द्वारम् जग्राह सु महा-बलः ॥ ३९ ॥
atiṣṭhat saha maindena dvividena ca vīryavān . aṅgadaḥ dakṣiṇa-dvāram jagrāha su mahā-balaḥ .. 39 ..
ऋषभेण गवाक्षेण गजेन गवयेन च । हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः ॥ 40 ॥
ऋषभेण गवाक्षेण गजेन गवयेन च । हनूमान् पश्चिम-द्वारम् ररक्ष बलवान् कपिः ॥ ४० ॥
ṛṣabheṇa gavākṣeṇa gajena gavayena ca . hanūmān paścima-dvāram rarakṣa balavān kapiḥ .. 40 ..
प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः । मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ॥ 41 ॥
प्रमाथि प्रघसाभ्याम् च वीरैः अन्यैः च सङ्गतः । मध्यमे च स्वयम् गुल्मे सुग्रीवः समतिष्ठत ॥ ४१ ॥
pramāthi praghasābhyām ca vīraiḥ anyaiḥ ca saṅgataḥ . madhyame ca svayam gulme sugrīvaḥ samatiṣṭhata .. 41 ..
सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः । वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ॥ 42 ॥
सह सर्वैः हरि-श्रेष्ठैः सुपर्ण-श्वसन-उपमैः । वानराणाम् तु षट्त्रिंशत्-कोट्यः प्रख्यात-यूथपाः ॥ ४२ ॥
saha sarvaiḥ hari-śreṣṭhaiḥ suparṇa-śvasana-upamaiḥ . vānarāṇām tu ṣaṭtriṃśat-koṭyaḥ prakhyāta-yūthapāḥ .. 42 ..
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः । शासनेन तु रामस्य लक्ष्मणः सविभीषणः ॥ 43 ॥
निपीड्य उपनिविष्टाः च सुग्रीवः यत्र वानरः । शासनेन तु रामस्य लक्ष्मणः स विभीषणः ॥ ४३ ॥
nipīḍya upaniviṣṭāḥ ca sugrīvaḥ yatra vānaraḥ . śāsanena tu rāmasya lakṣmaṇaḥ sa vibhīṣaṇaḥ .. 43 ..
द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् । पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् ॥ 44 ॥
द्वारे द्वारे हरीणाम् तु कोटिम् कोटिम् न्यवेशयत् । पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् ॥ ४४ ॥
dvāre dvāre harīṇām tu koṭim koṭim nyaveśayat . paścimena tu rāmasya sugrīvaḥ saha jāmbavān .. 44 ..
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः । ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः । गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे ॥ 45 ॥
अदूरात् मध्यमे गुल्मे तस्थौ बहु-बल-अनुगः । ते तु वानर-शार्दूलाः शार्दूलाः इव दंष्ट्रिणः । गृहीत्वा द्रुम-शैल-अग्रान् हृष्टाः युद्धाय तस्थिरे ॥ ४५ ॥
adūrāt madhyame gulme tasthau bahu-bala-anugaḥ . te tu vānara-śārdūlāḥ śārdūlāḥ iva daṃṣṭriṇaḥ . gṛhītvā druma-śaila-agrān hṛṣṭāḥ yuddhāya tasthire .. 45 ..
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः । सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ॥ 46 ॥
सर्वे विकृत-लाङ्गूलाः सर्वे दंष्ट्र-नख-आयुधाः । सर्वे विकृत-चित्र-अङ्गाः सर्वे च विकृत-आननाः ॥ ४६ ॥
sarve vikṛta-lāṅgūlāḥ sarve daṃṣṭra-nakha-āyudhāḥ . sarve vikṛta-citra-aṅgāḥ sarve ca vikṛta-ānanāḥ .. 46 ..
दशनागबलाः के चित्के चिद्दशगुणोत्तराः । के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ 47 ॥
दश-नाग-बलाः के चित् के चित् दश-गुण-उत्तराः । के चित् नाग-सहस्रस्य बभूवुः तुल्य-विक्रमाः ॥ ४७ ॥
daśa-nāga-balāḥ ke cit ke cit daśa-guṇa-uttarāḥ . ke cit nāga-sahasrasya babhūvuḥ tulya-vikramāḥ .. 47 ..
सन्ति चौघा बलाः के चित्के चिच्छतगुणोत्तराः । अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः ॥ 48 ॥
सन्ति च ओघाः बलाः के चित् के चित् शतगुण-उत्तराः । अप्रमेय-बलाः च अन्ये तत्र आसन् हरि-यूथपाः ॥ ४८ ॥
santi ca oghāḥ balāḥ ke cit ke cit śataguṇa-uttarāḥ . aprameya-balāḥ ca anye tatra āsan hari-yūthapāḥ .. 48 ..
अद्भुतश्च विचित्रश्च तेषामासीत्समागमः । तत्र वानरसैन्यानां शलभानामिवोद्गमः ॥ 49 ॥
अद्भुतः च विचित्रः च तेषाम् आसीत् समागमः । तत्र वानर-सैन्यानाम् शलभानाम् इव उद्गमः ॥ ४९ ॥
adbhutaḥ ca vicitraḥ ca teṣām āsīt samāgamaḥ . tatra vānara-sainyānām śalabhānām iva udgamaḥ .. 49 ..
परिपूर्णमिवाकाशं सञ्चन्नेव च मेदिनी । लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ॥ 50 ॥
परिपूर्णम् इव आकाशम् सञ्चन्ना इव च मेदिनी । लङ्काम् उपनिविष्टैः च सम्पतद्भिः च वानरैः ॥ ५० ॥
paripūrṇam iva ākāśam sañcannā iva ca medinī . laṅkām upaniviṣṭaiḥ ca sampatadbhiḥ ca vānaraiḥ .. 50 ..
शतं शतसहस्राणां पृथगृक्षवनौकसाम् । लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ॥ 51 ॥
शतम् शत-सहस्राणाम् पृथक् ऋक्ष-वनौकसाम् । लङ्काः द्वाराणि उपाजग्मुः अन्ये योद्धुम् समन्ततः ॥ ५१ ॥
śatam śata-sahasrāṇām pṛthak ṛkṣa-vanaukasām . laṅkāḥ dvārāṇi upājagmuḥ anye yoddhum samantataḥ .. 51 ..
आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः । अयुतानां सहस्रं च पुरीं ताम् अभ्यवर्तत ॥ 52 ॥
आवृतः स गिरिः सर्वैः तैः समन्तात् प्लवङ्गमैः । अयुतानाम् सहस्रम् च पुरीम् ताम् अभ्यवर्तत ॥ ५२ ॥
āvṛtaḥ sa giriḥ sarvaiḥ taiḥ samantāt plavaṅgamaiḥ . ayutānām sahasram ca purīm tām abhyavartata .. 52 ..
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः । सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना ॥ 53 ॥
वानरैः बलवद्भिः च बभूव द्रुम-पाणिभिः । सर्वतस् संवृता लङ्का दुष्प्रवेशा अपि वायुना ॥ ५३ ॥
vānaraiḥ balavadbhiḥ ca babhūva druma-pāṇibhiḥ . sarvatas saṃvṛtā laṅkā duṣpraveśā api vāyunā .. 53 ..
राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः । वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः ॥ 54 ॥
राक्षसाः विस्मयम् जग्मुः सहसा अभिनिपीडिताः । वानरैः मेघ-सङ्काशैः शक्र-तुल्य-पराक्रमैः ॥ ५४ ॥
rākṣasāḥ vismayam jagmuḥ sahasā abhinipīḍitāḥ . vānaraiḥ megha-saṅkāśaiḥ śakra-tulya-parākramaiḥ .. 54 ..
महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः । सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः ॥ 55 ॥
महान् शब्दः अभवत् तत्र बल-ओघस्य अभिवर्ततः । सागरस्य इव भिन्नस्य यथा स्यात् सलिल-स्वनः ॥ ५५ ॥
mahān śabdaḥ abhavat tatra bala-oghasya abhivartataḥ . sāgarasya iva bhinnasya yathā syāt salila-svanaḥ .. 55 ..
तेन शब्देन महता सप्राकारा सतोरणा । लङ्का प्रचलिता सर्वा सशैलवनकानना ॥ 56 ॥
तेन शब्देन महता स प्राकारा स तोरणा । लङ्का प्रचलिता सर्वा स शैल-वन-कानना ॥ ५६ ॥
tena śabdena mahatā sa prākārā sa toraṇā . laṅkā pracalitā sarvā sa śaila-vana-kānanā .. 56 ..
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ 57 ॥
राम-लक्ष्मण-गुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैः अपि सुर-असुरैः ॥ ५७ ॥
rāma-lakṣmaṇa-guptā sā sugrīveṇa ca vāhinī . babhūva durdharṣatarā sarvaiḥ api sura-asuraiḥ .. 57 ..
राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे । संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः ॥ 58 ॥
राघवः संनिवेश्य एवम् सैन्यम् स्वम् रक्षसाम् वधे । संमन्त्र्य मन्त्रिभिः सार्धम् निश्चित्य च पुनर् पुनर् ॥ ५८ ॥
rāghavaḥ saṃniveśya evam sainyam svam rakṣasām vadhe . saṃmantrya mantribhiḥ sārdham niścitya ca punar punar .. 58 ..
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् । विभीषणस्यानुमते राजधर्ममनुस्मरन् ॥ 59 ॥
आनन्तर्यम् अभिप्रेप्सुः क्रम-योग-अर्थ-तत्त्व-विद् । विभीषणस्य अनुमते राज-धर्मम् अनुस्मरन् ॥ ५९ ॥
ānantaryam abhiprepsuḥ krama-yoga-artha-tattva-vid . vibhīṣaṇasya anumate rāja-dharmam anusmaran .. 59 ..
अङ्गदं वालितनयं समाहूयेदमब्रवीत् । गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे ॥ 60 ॥
अङ्गदम् वालि-तनयम् समाहूय इदम् अब्रवीत् । गत्वा सौम्य दशग्रीवम् ब्रूहि मद्-वचनात् कपे ॥ ६० ॥
aṅgadam vāli-tanayam samāhūya idam abravīt . gatvā saumya daśagrīvam brūhi mad-vacanāt kape .. 60 ..
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः । भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः ॥ 61 ॥
लङ्घयित्वा पुरीम् लङ्काम् भयम् त्यक्त्वा गत-व्यथः । भ्रष्ट-श्रीक-गत-ऐश्वर्य-मुमूर्षः नष्ट-चेतनः ॥ ६१ ॥
laṅghayitvā purīm laṅkām bhayam tyaktvā gata-vyathaḥ . bhraṣṭa-śrīka-gata-aiśvarya-mumūrṣaḥ naṣṭa-cetanaḥ .. 61 ..
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा । नागानामथ यक्षाणां राज्ञां च रजनीचर ॥ 62 ॥
ऋषीणाम् देवतानाम् च गन्धर्व-अप्सरसाम् तथा । नागानाम् अथ यक्षाणाम् राज्ञाम् च रजनीचर ॥ ६२ ॥
ṛṣīṇām devatānām ca gandharva-apsarasām tathā . nāgānām atha yakṣāṇām rājñām ca rajanīcara .. 62 ..
यच्च पापं कृतं मोहादवलिप्तेन राक्षस । नून मे विगतो दर्पः स्वयम्भूवरदानजः । तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरसदा ॥ 63 ॥
यत् च पापम् कृतम् मोहात् अवलिप्तेन राक्षस । नून मे विगतः दर्पः स्वयम्भू-वर-दान-जः । तस्य पापस्य सम्प्राप्ता व्युष्टिः अद्य दुरसदा ॥ ६३ ॥
yat ca pāpam kṛtam mohāt avaliptena rākṣasa . nūna me vigataḥ darpaḥ svayambhū-vara-dāna-jaḥ . tasya pāpasya samprāptā vyuṣṭiḥ adya durasadā .. 63 ..
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः । दण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः ॥ 64 ॥
यस्य दण्ड-धरः ते अहम् दार-आहरण-कर्शितः । दण्डम् धारयमाणः तु लङ्का-द्वरे व्यवस्थितः ॥ ६४ ॥
yasya daṇḍa-dharaḥ te aham dāra-āharaṇa-karśitaḥ . daṇḍam dhārayamāṇaḥ tu laṅkā-dvare vyavasthitaḥ .. 64 ..
पदवीं देवतानां च महर्षीणां च राक्षस । राजर्षीणां च सर्वेणां गमिष्यसि मया हतः ॥ 65 ॥
पदवीम् देवतानाम् च महा-ऋषीणाम् च राक्षस । राजर्षीणाम् च गमिष्यसि मया हतः ॥ ६५ ॥
padavīm devatānām ca mahā-ṛṣīṇām ca rākṣasa . rājarṣīṇām ca gamiṣyasi mayā hataḥ .. 65 ..
बलेन येन वै सीतां मायया राक्षसाधम । मामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय ॥ 66 ॥
बलेन येन वै सीताम् मायया राक्षस-अधम । माम् अतिक्रामयित्वा त्वम् हृतवान् तत् विदर्शय ॥ ६६ ॥
balena yena vai sītām māyayā rākṣasa-adhama . mām atikrāmayitvā tvam hṛtavān tat vidarśaya .. 66 ..
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः । न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ॥ 67 ॥
अराक्षसम् इमम् लोकम् कर्तास्मि निशितैः शरैः । न चेद् शरणम् अभ्येषि माम् उपादाय मैथिलीम् ॥ ६७ ॥
arākṣasam imam lokam kartāsmi niśitaiḥ śaraiḥ . na ced śaraṇam abhyeṣi mām upādāya maithilīm .. 67 ..
धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः । लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥ 68 ॥
धर्म-आत्मा रक्षसाम् श्रेष्ठः सम्प्राप्तः अयम् विभीषणः । लङ्का-ऐश्वर्यम् ध्रुवम् श्रीमान् अयम् प्राप्नोति अकण्टकम् ॥ ६८ ॥
dharma-ātmā rakṣasām śreṣṭhaḥ samprāptaḥ ayam vibhīṣaṇaḥ . laṅkā-aiśvaryam dhruvam śrīmān ayam prāpnoti akaṇṭakam .. 68 ..
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया । शक्यं मूर्खसहायेन पापेनाविजितात्मना ॥ 69 ॥
न हि राज्यम् अधर्मेण भोक्तुम् क्षणम् अपि त्वया । शक्यम् मूर्ख-सहायेन पापेन अविजित-आत्मना ॥ ६९ ॥
na hi rājyam adharmeṇa bhoktum kṣaṇam api tvayā . śakyam mūrkha-sahāyena pāpena avijita-ātmanā .. 69 ..
युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस । मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ॥ 70 ॥
युध्यस्व वा धृतिम् कृत्वा शौर्यम् आलम्ब्य राक्षस । मद्-शरैः त्वम् रणे शान्तः ततस् पूतः भविष्यसि ॥ ७० ॥
yudhyasva vā dhṛtim kṛtvā śauryam ālambya rākṣasa . mad-śaraiḥ tvam raṇe śāntaḥ tatas pūtaḥ bhaviṣyasi .. 70 ..
यद्याविशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः । मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि ॥ 71 ॥
यदि आविशसि लोकान् त्रीन् पक्षि-भूतः मनोजवः । मम चक्षुष्पथम् प्राप्य न जीवन् प्रतियास्यसि ॥ ७१ ॥
yadi āviśasi lokān trīn pakṣi-bhūtaḥ manojavaḥ . mama cakṣuṣpatham prāpya na jīvan pratiyāsyasi .. 71 ..
ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदेकिकम् । सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ॥ 72 ॥
ब्रवीमि त्वाम् हितम् वाक्यम् क्रियताम् और्ध्वदेकिकम् । सु दृष्टा क्रियताम् लङ्का जीवितम् ते मयि स्थितम् ॥ ७२ ॥
bravīmi tvām hitam vākyam kriyatām aurdhvadekikam . su dṛṣṭā kriyatām laṅkā jīvitam te mayi sthitam .. 72 ..
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा । जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥ 73 ॥
इति उक्तः स तु तारेयः रामेण अक्लिष्ट-कर्मणा । जगाम आकाशम् आविश्य मूर्तिमान् इव हव्यवाट् ॥ ७३ ॥
iti uktaḥ sa tu tāreyaḥ rāmeṇa akliṣṭa-karmaṇā . jagāma ākāśam āviśya mūrtimān iva havyavāṭ .. 73 ..
सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् । ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥ 74 ॥
सः अतिपत्य मुहूर्तेन श्रीमान् रावण-मन्दिरम् । ददर्श आसीनम् अव्यग्रम् रावणम् सचिवैः सह ॥ ७४ ॥
saḥ atipatya muhūrtena śrīmān rāvaṇa-mandiram . dadarśa āsīnam avyagram rāvaṇam sacivaiḥ saha .. 74 ..
ततस्तस्याविदूरेण निपत्य हरिपुङ्गवः । दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ॥ 75 ॥
ततस् तस्य अविदूरेण निपत्य हरि-पुङ्गवः । दीप्त-अग्नि-सदृशः तस्थौ अङ्गदः कनक-अङ्गदः ॥ ७५ ॥
tatas tasya avidūreṇa nipatya hari-puṅgavaḥ . dīpta-agni-sadṛśaḥ tasthau aṅgadaḥ kanaka-aṅgadaḥ .. 75 ..
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् । सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥ 76 ॥
तत् राम-वचनम् सर्वम् अन्यून-अधिकम् उत्तमम् । स अमात्यम् श्रावयामास निवेद्य आत्मानम् आत्मना ॥ ७६ ॥
tat rāma-vacanam sarvam anyūna-adhikam uttamam . sa amātyam śrāvayāmāsa nivedya ātmānam ātmanā .. 76 ..
दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः ॥ 77 ॥
दूतः अहम् कोसल-इन्द्रस्य रामस्य अक्लिष्ट-कर्मणः । वालि-पुत्रः अङ्गदः नाम यदि ते श्रोत्रम् आगतः ॥ ७७ ॥
dūtaḥ aham kosala-indrasya rāmasya akliṣṭa-karmaṇaḥ . vāli-putraḥ aṅgadaḥ nāma yadi te śrotram āgataḥ .. 77 ..
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः । निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम ॥ 78 ॥
आह त्वाम् राघवः रामः कौसल्या-आनन्द-वर्धनः । निष्पत्य प्रतियुध्यस्व नृशंसम् पुरुष-अधम ॥ ७८ ॥
āha tvām rāghavaḥ rāmaḥ kausalyā-ānanda-vardhanaḥ . niṣpatya pratiyudhyasva nṛśaṃsam puruṣa-adhama .. 78 ..
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् । निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥ 79 ॥
हन्तास्मि त्वाम् सह अमात्यम् स पुत्र-ज्ञाति-बान्धवम् । निरुद्विग्नाः त्रयः लोकाः भविष्यन्ति हते त्वयि ॥ ७९ ॥
hantāsmi tvām saha amātyam sa putra-jñāti-bāndhavam . nirudvignāḥ trayaḥ lokāḥ bhaviṣyanti hate tvayi .. 79 ..
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥ 80 ॥
देव-दानव-यक्षाणाम् गन्धर्व-उरग-रक्षसाम् । शत्रुम् अद्य उद्धरिष्यामि त्वाम् ऋषीणाम् च कण्टकम् ॥ ८० ॥
deva-dānava-yakṣāṇām gandharva-uraga-rakṣasām . śatrum adya uddhariṣyāmi tvām ṛṣīṇām ca kaṇṭakam .. 80 ..
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि । न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ॥ 81 ॥
विभीषणस्य च ऐश्वर्यम् भविष्यति हते त्वयि । न चेद् सत्कृत्य वैदेहीम् प्रणिपत्य प्रदास्यसि ॥ ८१ ॥
vibhīṣaṇasya ca aiśvaryam bhaviṣyati hate tvayi . na ced satkṛtya vaidehīm praṇipatya pradāsyasi .. 81 ..
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे । अमर्षवशमापन्नो निशाचरगणेश्वरः ॥ 82 ॥
इति एवम् परुषम् वाक्यम् ब्रुवाणे हरि-पुङ्गवे । अमर्ष-वशम् आपन्नः निशाचर-गण-ईश्वरः ॥ ८२ ॥
iti evam paruṣam vākyam bruvāṇe hari-puṅgave . amarṣa-vaśam āpannaḥ niśācara-gaṇa-īśvaraḥ .. 82 ..
ततः स रोषताम्राक्षः शशास सचिवांस्तदा । गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ॥ 83 ॥
ततस् स रोष-ताम्र-अक्षः शशास सचिवान् तदा । गृह्यताम् एष दुर्मेधाः वध्यताम् इति च असकृत् ॥ ८३ ॥
tatas sa roṣa-tāmra-akṣaḥ śaśāsa sacivān tadā . gṛhyatām eṣa durmedhāḥ vadhyatām iti ca asakṛt .. 83 ..
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः । जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥ 84 ॥
रावणस्य वचः श्रुत्वा दीप्त-अग्नि-सम-तेजसः । जगृहुः तम् ततस् घोराः चत्वारः रजनीचराः ॥ ८४ ॥
rāvaṇasya vacaḥ śrutvā dīpta-agni-sama-tejasaḥ . jagṛhuḥ tam tatas ghorāḥ catvāraḥ rajanīcarāḥ .. 84 ..
ग्राहयामास तारेयः स्वयमात्मानमात्मना । बलं दर्शयितुं वीरो यातुधानगणे तदा ॥ 85 ॥
ग्राहयामास तारेयः स्वयम् आत्मानम् आत्मना । बलम् दर्शयितुम् वीरः यातुधान-गणे तदा ॥ ८५ ॥
grāhayāmāsa tāreyaḥ svayam ātmānam ātmanā . balam darśayitum vīraḥ yātudhāna-gaṇe tadā .. 85 ..
स तान्बाहुद्वये सक्तानादाय पतगानिव । प्रासादं शैलसङ्काशमुत्पापाताङ्गदस्तदा ॥ 86 ॥
स तान् बाहु-द्वये सक्तान् आदाय पतगान् इव । प्रासादम् शैल-सङ्काशम् उत्पापात अङ्गदः तदा ॥ ८६ ॥
sa tān bāhu-dvaye saktān ādāya patagān iva . prāsādam śaila-saṅkāśam utpāpāta aṅgadaḥ tadā .. 86 ..
तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः । भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥ 87 ॥
ते अन्तरिक्षात् विनिर्धूताः तस्य वेगेन राक्षसाः । भुमौ निपतिताः सर्वे राक्षस-इन्द्रस्य पश्यतः ॥ ८७ ॥
te antarikṣāt vinirdhūtāḥ tasya vegena rākṣasāḥ . bhumau nipatitāḥ sarve rākṣasa-indrasya paśyataḥ .. 87 ..
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् । चक्राम राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ॥ 88 ॥
ततस् प्रासाद-शिखरम् शैल-शृङ्गम् इव उन्नतम् । चक्राम राक्षस-इन्द्रस्य वालि-पुत्रः प्रतापवान् ॥ ८८ ॥
tatas prāsāda-śikharam śaila-śṛṅgam iva unnatam . cakrāma rākṣasa-indrasya vāli-putraḥ pratāpavān .. 88 ..
पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः । पुरा हिमवतः श्रृङ्गं वज्रेणेव विदारितम् ॥ 89 ॥
पफाल च तत् आक्रान्तम् दशग्रीवस्य पश्यतः । पुरा हिमवतः श्रृङ्गम् वज्रेण इव विदारितम् ॥ ८९ ॥
paphāla ca tat ākrāntam daśagrīvasya paśyataḥ . purā himavataḥ śrṛṅgam vajreṇa iva vidāritam .. 89 ..
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः । विनद्य सुमहानादमुत्पपात विहायसा ॥ 90 ॥
भङ्क्त्वा प्रासाद-शिखरम् नाम विश्राव्य च आत्मनः । विनद्य सु महा-नादम् उत्पपात विहायसा ॥ ९० ॥
bhaṅktvā prāsāda-śikharam nāma viśrāvya ca ātmanaḥ . vinadya su mahā-nādam utpapāta vihāyasā .. 90 ..
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् । स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥ 91 ॥
व्यथयन् राक्षसान् सर्वान् हर्षयन् च अपि वानरान् । स वानराणाम् मध्ये तु राम-पार्श्वम् उपागतः ॥ ९१ ॥
vyathayan rākṣasān sarvān harṣayan ca api vānarān . sa vānarāṇām madhye tu rāma-pārśvam upāgataḥ .. 91 ..
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् । विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत् ॥ 92 ॥
रावणः तु परम् चक्रे क्रोधम् प्रासाद-धर्षणात् । विनाशम् च आत्मनः पश्यन् निःश्वास-परमः अभवत् ॥ ९२ ॥
rāvaṇaḥ tu param cakre krodham prāsāda-dharṣaṇāt . vināśam ca ātmanaḥ paśyan niḥśvāsa-paramaḥ abhavat .. 92 ..
रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः । वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ॥ 93 ॥
रामः तु बहुभिः हृष्टैः निनदद्भिः प्लवङ्गमैः । वृतः रिपु-वध-आकाङ्क्षी युद्धाय एव अभ्यवर्तत ॥ ९३ ॥
rāmaḥ tu bahubhiḥ hṛṣṭaiḥ ninadadbhiḥ plavaṅgamaiḥ . vṛtaḥ ripu-vadha-ākāṅkṣī yuddhāya eva abhyavartata .. 93 ..
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः । बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ॥ 94 ॥
सुषेणः तु महा-वीर्यः गिरि-कूट-उपमः हरिः । बहुभिः संवृतः तत्र वानरैः कामरूपिभिः ॥ ९४ ॥
suṣeṇaḥ tu mahā-vīryaḥ giri-kūṭa-upamaḥ hariḥ . bahubhiḥ saṃvṛtaḥ tatra vānaraiḥ kāmarūpibhiḥ .. 94 ..
स तु द्वाराणि संयम्य सुग्रीववचनात् कपिः । पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ॥ 95 ॥
स तु द्वाराणि संयम्य सुग्रीव-वचनात् कपिः । पर्याक्रमत दुर्धर्षः नक्षत्राणि इव चन्द्रमाः ॥ ९५ ॥
sa tu dvārāṇi saṃyamya sugrīva-vacanāt kapiḥ . paryākramata durdharṣaḥ nakṣatrāṇi iva candramāḥ .. 95 ..
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् । लङ्कामुपनिविष्टानां सागरं चातिवर्तताम् ॥ 96 ॥
तेषाम् अक्षौहिणी-शतम् समवेक्ष्य वनौकसाम् । लङ्काम् उपनिविष्टानाम् सागरम् च अतिवर्तताम् ॥ ९६ ॥
teṣām akṣauhiṇī-śatam samavekṣya vanaukasām . laṅkām upaniviṣṭānām sāgaram ca ativartatām .. 96 ..
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे । अपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे ॥ 97 ॥
राक्षसाः विस्मयम् जग्मुः त्रासम् जग्मुः तथा अपरे । अपरे समर-उद्धर्षात् हर्षम् एव उपपेदिरे ॥ ९७ ॥
rākṣasāḥ vismayam jagmuḥ trāsam jagmuḥ tathā apare . apare samara-uddharṣāt harṣam eva upapedire .. 97 ..
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् । ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् । हाहाकारंप्रकुर्वन्तिराक्षसाभयमोहिताः ॥ 98 ॥
कृत्स्नम् हि कपिभिः व्याप्तम् प्राकार-परिखा-अन्तरम् । ददृशुः राक्षसाः दीनाः प्राकारम् वानरीकृतम् । हाहाकारम् प्रकुर्वन्ति राक्षस-अभय-मोहिताः ॥ ९८ ॥
kṛtsnam hi kapibhiḥ vyāptam prākāra-parikhā-antaram . dadṛśuḥ rākṣasāḥ dīnāḥ prākāram vānarīkṛtam . hāhākāram prakurvanti rākṣasa-abhaya-mohitāḥ .. 98 ..
तस्मिन्महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् । प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ॥ 99 ॥
तस्मिन् महा-भीषणके प्रवृत्ते कोलाहले राक्षस-राजधान्याम् । प्रगृह्य रक्षांसि महा-आयुधानि युगान्त-वाताः इव संविचेरुः ॥ ९९ ॥
tasmin mahā-bhīṣaṇake pravṛtte kolāhale rākṣasa-rājadhānyām . pragṛhya rakṣāṃsi mahā-āyudhāni yugānta-vātāḥ iva saṃviceruḥ .. 99 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In