This overlay will guide you through the buttons:

| |
|
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् । न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ 1 ॥
ततस् ते राक्षसाः तत्र गत्वा रावण-मन्दिरम् । न्यवेदयन् पुरीम् रुद्धाम् रामेण सह वानरैः ॥ १ ॥
tatas te rākṣasāḥ tatra gatvā rāvaṇa-mandiram . nyavedayan purīm ruddhām rāmeṇa saha vānaraiḥ .. 1 ..
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः । विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत ॥ 2 ॥
रुद्धाम् तु नगरीम् श्रुत्वा जात-क्रोधः निशाचरः । विधानम् द्विगुणम् श्रुत्वा प्रासादम् सः अध्यरोहत ॥ २ ॥
ruddhām tu nagarīm śrutvā jāta-krodhaḥ niśācaraḥ . vidhānam dviguṇam śrutvā prāsādam saḥ adhyarohata .. 2 ..
स ददर्शावृतां लङ्कां सशैलवनकाननाम् । असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ 3 ॥
स ददर्श आवृताम् लङ्काम् स शैल-वन-काननाम् । असङ्ख्येयैः हरि-गणैः सर्वतस् युद्ध-काङ्क्षिभिः ॥ ३ ॥
sa dadarśa āvṛtām laṅkām sa śaila-vana-kānanām . asaṅkhyeyaiḥ hari-gaṇaiḥ sarvatas yuddha-kāṅkṣibhiḥ .. 3 ..
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् । कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ 4 ॥
स दृष्ट्वा वानरैः सर्वाम् वसुधाम् कवलीकृताम् । कथम् क्षपयितव्याः स्युः इति चिन्ता-परः अभवत् ॥ ४ ॥
sa dṛṣṭvā vānaraiḥ sarvām vasudhām kavalīkṛtām . katham kṣapayitavyāḥ syuḥ iti cintā-paraḥ abhavat .. 4 ..
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः । राघवं हरियूथांश्च ददर्शायतलोचनः ॥ 5 ॥
स चिन्तयित्वा सु चिरम् धैर्यम् आलम्ब्य रावणः । राघवम् हरि-यूथान् च ददर्श आयत-लोचनः ॥ ५ ॥
sa cintayitvā su ciram dhairyam ālambya rāvaṇaḥ . rāghavam hari-yūthān ca dadarśa āyata-locanaḥ .. 5 ..
राघवः सह सैन्येन मुदितो नाम पुप्लुवे । लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥ 6 ॥
राघवः सह सैन्येन मुदितः नाम पुप्लुवे । लङ्काम् ददर्श गुप्ताम् वै सर्वतस् राक्षसैः वृताम् ॥ ६ ॥
rāghavaḥ saha sainyena muditaḥ nāma pupluve . laṅkām dadarśa guptām vai sarvatas rākṣasaiḥ vṛtām .. 6 ..
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम सहसा सीतां दूयमानेन चेतसा ॥ 7 ॥
दृष्ट्वा दाशरथिः लङ्काम् चित्र-ध्वज-पताकिनीम् । जगाम सहसा सीताम् दूयमानेन चेतसा ॥ ७ ॥
dṛṣṭvā dāśarathiḥ laṅkām citra-dhvaja-patākinīm . jagāma sahasā sītām dūyamānena cetasā .. 7 ..
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा । पीड्यते शोकसंतप्ता कृशा स्थण्डिलशायिनी ॥ 8 ॥
अत्र सा मृगशावाक्षी मद्-कृते जनकात्मजा । पीड्यते शोक-संतप्ता कृशा स्थण्डिलशायिनी ॥ ८ ॥
atra sā mṛgaśāvākṣī mad-kṛte janakātmajā . pīḍyate śoka-saṃtaptā kṛśā sthaṇḍilaśāyinī .. 8 ..
पीड्यमानांस धर्मात्मा वैदेहीमनुचिन्तयन् । क्षिप्रमाज्ञापयाद् रामो वानरान् द्विषतां वधे ॥ 9 ॥
पीड्यमानान् स धर्म-आत्मा वैदेहीम् अनुचिन्तयन् । क्षिप्रम् आज्ञापयात् रामः वानरान् द्विषताम् वधे ॥ ९ ॥
pīḍyamānān sa dharma-ātmā vaidehīm anucintayan . kṣipram ājñāpayāt rāmaḥ vānarān dviṣatām vadhe .. 9 ..
एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा । संघर्षमाणाः प्लवगाः सिम्हनादैरनादयन् ॥ 10 ॥
एवम् उक्ते तु वचसि रामेण अक्लिष्ट-कर्मणा । संघर्षमाणाः प्लवगाः सिम्ह-नादैः अनादयन् ॥ १० ॥
evam ukte tu vacasi rāmeṇa akliṣṭa-karmaṇā . saṃgharṣamāṇāḥ plavagāḥ simha-nādaiḥ anādayan .. 10 ..
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥ 11 ॥
शिखरैः विकिराम एनाम् लङ्काम् मुष्टिभिः एव वा । इति स्म दधिरे सर्वे मनांसि हरि-यूथपाः ॥ ११ ॥
śikharaiḥ vikirāma enām laṅkām muṣṭibhiḥ eva vā . iti sma dadhire sarve manāṃsi hari-yūthapāḥ .. 11 ..
उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च । तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥ 12 ॥
उद्यम्य गिरि-शृङ्गाणि महान्ति शिखराणि च । तरून् च उत्पाट्य विविधान् तिष्ठन्ति हरि-यूथपाः ॥ १२ ॥
udyamya giri-śṛṅgāṇi mahānti śikharāṇi ca . tarūn ca utpāṭya vividhān tiṣṭhanti hari-yūthapāḥ .. 12 ..
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः । राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ 13 ॥
प्रेक्षतः राक्षस-इन्द्रस्य तानि अनीकानि भागशस् । राघव-प्रिय-काम-अर्थम् लङ्काम् आरुरुहुः तदा ॥ १३ ॥
prekṣataḥ rākṣasa-indrasya tāni anīkāni bhāgaśas . rāghava-priya-kāma-artham laṅkām āruruhuḥ tadā .. 13 ..
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः । लङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः ॥ 14 ॥
ते ताम्र-वक्त्राः हेम-आभाः राम-अर्थे त्यक्त-जीविताः । लङ्काम् एव अहि-अवर्तन्त साल-ताल-शिला-आयुधाः ॥ १४ ॥
te tāmra-vaktrāḥ hema-ābhāḥ rāma-arthe tyakta-jīvitāḥ . laṅkām eva ahi-avartanta sāla-tāla-śilā-āyudhāḥ .. 14 ..
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः । प्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि च ॥ 15 ॥
ते द्रुमैः पर्वत-अग्रैः च मुष्टिभिः च प्लवङ्गमाः । प्रासाद-अग्राणि च उच्चानि ममन्तुः तोरणानि च ॥ १५ ॥
te drumaiḥ parvata-agraiḥ ca muṣṭibhiḥ ca plavaṅgamāḥ . prāsāda-agrāṇi ca uccāni mamantuḥ toraṇāni ca .. 15 ..
पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः । पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ 16 ॥
पारिखाः पूरयन्ति स्म प्रसन्न-सलिल-आयुताः । पांसुभिः पर्वत-अग्रैः च तृणैः काष्ठैः च वानराः ॥ १६ ॥
pārikhāḥ pūrayanti sma prasanna-salila-āyutāḥ . pāṃsubhiḥ parvata-agraiḥ ca tṛṇaiḥ kāṣṭhaiḥ ca vānarāḥ .. 16 ..
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः । कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ॥ 17 ॥
ततस् सहस्र-यूथाः च कोटि-यूथाः च यूथपाः । कोटी-शत-युताः च अन्ये लङ्काम् आरुरुहुः तदा ॥ १७ ॥
tatas sahasra-yūthāḥ ca koṭi-yūthāḥ ca yūthapāḥ . koṭī-śata-yutāḥ ca anye laṅkām āruruhuḥ tadā .. 17 ..
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः । कैलासशिखराभानि गोपुराणि प्रमथ्य च ॥ 18 ॥
काञ्चनानि प्रमृद्नन्तः तोरणानि प्लवङ्गमाः । कैलास-शिखर-आभानि गोपुराणि प्रमथ्य च ॥ १८ ॥
kāñcanāni pramṛdnantaḥ toraṇāni plavaṅgamāḥ . kailāsa-śikhara-ābhāni gopurāṇi pramathya ca .. 18 ..
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः ॥ 19 ॥
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवङ्गमाः । लङ्काम् ताम् अभ्यवर्तन्त महा-वारण-संनिभाः ॥ १९ ॥
āplavantaḥ plavantaḥ ca garjantaḥ ca plavaṅgamāḥ . laṅkām tām abhyavartanta mahā-vāraṇa-saṃnibhāḥ .. 19 ..
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 20 ॥
जयति अतिबलः रामः लक्ष्मणः च महा-बलः । राजा जयति सुग्रीवः राघवेण अभिपालितः ॥ २० ॥
jayati atibalaḥ rāmaḥ lakṣmaṇaḥ ca mahā-balaḥ . rājā jayati sugrīvaḥ rāghaveṇa abhipālitaḥ .. 20 ..
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः । अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ 21 ॥
इति एवम् घोषयन्तः च गर्जन्तः च प्लवङ्गमाः । अभ्यधावन्त लङ्कायाः प्राकारम् कामरूपिणः ॥ २१ ॥
iti evam ghoṣayantaḥ ca garjantaḥ ca plavaṅgamāḥ . abhyadhāvanta laṅkāyāḥ prākāram kāmarūpiṇaḥ .. 21 ..
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः । निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः । एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ 22 ॥
वीरबाहुः सुबाहुः च नलः च वनगोचरः । निपीड्य उपनिविष्टाः ते प्राकारम् हरि-यूथपाः । एतस्मिन् अन्तरे चक्रुः स्कन्धावार-निवेशनम् ॥ २२ ॥
vīrabāhuḥ subāhuḥ ca nalaḥ ca vanagocaraḥ . nipīḍya upaniviṣṭāḥ te prākāram hari-yūthapāḥ . etasmin antare cakruḥ skandhāvāra-niveśanam .. 22 ..
पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः । आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ 23 ॥
पूर्व-द्वारम् तु कुमुदः कोटिभिः दशभिः वृतः । आवृत्य बलवान् तस्थौ हरिभिः जित-काशिभिः ॥ २३ ॥
pūrva-dvāram tu kumudaḥ koṭibhiḥ daśabhiḥ vṛtaḥ . āvṛtya balavān tasthau haribhiḥ jita-kāśibhiḥ .. 23 ..
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसोहरिः । पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ॥ 24 ॥
साहाय्य-अर्थम् तु तस्य एव निविष्टः । पनसः च महा-बाहुः वानरैः बहुभिः वृतः ॥ २४ ॥
sāhāyya-artham tu tasya eva niviṣṭaḥ . panasaḥ ca mahā-bāhuḥ vānaraiḥ bahubhiḥ vṛtaḥ .. 24 ..
दक्षिणद्वारमागम्य वीरः शतबलिः कपिः । आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥ 25 ॥
दक्षिण-द्वारम् आगम्य वीरः शतबलिः कपिः । आवृत्य बलवान् तस्थौ विंशत्या कोटिभिः वृतः ॥ २५ ॥
dakṣiṇa-dvāram āgamya vīraḥ śatabaliḥ kapiḥ . āvṛtya balavān tasthau viṃśatyā koṭibhiḥ vṛtaḥ .. 25 ..
सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः । आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः ॥ 26 ॥
सुषेणः पश्चिम-द्वारम् गतः तारा पिता हरिः । आवृत्य बलवान् तस्थौ षष्टि कोटिभिः आवृतः ॥ २६ ॥
suṣeṇaḥ paścima-dvāram gataḥ tārā pitā hariḥ . āvṛtya balavān tasthau ṣaṣṭi koṭibhiḥ āvṛtaḥ .. 26 ..
उत्तरद्वारमासाद्य रामः सौमित्रिणा सह । आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ 27 ॥
उत्तर-द्वारम् आसाद्य रामः सौमित्रिणा सह । आवृत्य बलवान् तस्थौ सुग्रीवः च हरि-ईश्वरः ॥ २७ ॥
uttara-dvāram āsādya rāmaḥ saumitriṇā saha . āvṛtya balavān tasthau sugrīvaḥ ca hari-īśvaraḥ .. 27 ..
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः ॥ 28 ॥
गोलाङ्गूलः महा-कायः गवाक्षः भीम-दर्शनः । वृतः कोट्या महा-वीर्यः तस्थौ रामस्य पार्वतः ॥ २८ ॥
golāṅgūlaḥ mahā-kāyaḥ gavākṣaḥ bhīma-darśanaḥ . vṛtaḥ koṭyā mahā-vīryaḥ tasthau rāmasya pārvataḥ .. 28 ..
ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ 29 ॥
ऋष्काणाम् भीम-वेगानाम् धूम्रः शत्रु-निबर्हणः । वृतः कोट्या महा-वीर्यः तस्थौ रामस्य पार्श्वतस् ॥ २९ ॥
ṛṣkāṇām bhīma-vegānām dhūmraḥ śatru-nibarhaṇaḥ . vṛtaḥ koṭyā mahā-vīryaḥ tasthau rāmasya pārśvatas .. 29 ..
संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः । वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ॥ 30 ॥
संनद्धः तु महा-वीर्यः गदा-पाणिः विभीषणः । वृतः यः तैः तु सचिवैः तस्थौ तत्र महा-बलः ॥ ३० ॥
saṃnaddhaḥ tu mahā-vīryaḥ gadā-pāṇiḥ vibhīṣaṇaḥ . vṛtaḥ yaḥ taiḥ tu sacivaiḥ tasthau tatra mahā-balaḥ .. 30 ..
गजो गवाक्षो गवयः शरभो गन्धमादनः । समन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम् ॥ 31 ॥
गजः गवाक्षः गवयः शरभः गन्धमादनः । समन्तात् परिघावन्तः ररक्षुः हरि-वाहिनीम् ॥ ३१ ॥
gajaḥ gavākṣaḥ gavayaḥ śarabhaḥ gandhamādanaḥ . samantāt parighāvantaḥ rarakṣuḥ hari-vāhinīm .. 31 ..
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः । निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ॥ 32 ॥
ततस् कोप-परीत-आत्मा रावणः राक्षसेश्वरः । निर्याणम् सर्व-सैन्यानाम् द्रुतम् आज्ञापयत् तदा ॥ ३२ ॥
tatas kopa-parīta-ātmā rāvaṇaḥ rākṣaseśvaraḥ . niryāṇam sarva-sainyānām drutam ājñāpayat tadā .. 32 ..
एतच्छ्रुत्वा तदा वाक्यं रावणस्य मुखोद्गतम् । सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ॥ 33 ॥
एतत् श्रुत्वा तदा वाक्यम् रावणस्य मुख-उद्गतम् । सहसा भीम-निर्घोषम् उद्घुष्टम् रजनीचरैः ॥ ३३ ॥
etat śrutvā tadā vākyam rāvaṇasya mukha-udgatam . sahasā bhīma-nirghoṣam udghuṣṭam rajanīcaraiḥ .. 33 ..
ततः प्रबोधिता भेर्यश्चन्द्रपाण्डरपुष्कराः । हेमकोणाहताभीमा राक्षसानां समन्ततः ॥ 34 ॥
ततस् प्रबोधिताः भेर्यः चन्द्र-पाण्डर-पुष्कराः । हेम-कोण-आहत-अभीमाः राक्षसानाम् समन्ततः ॥ ३४ ॥
tatas prabodhitāḥ bheryaḥ candra-pāṇḍara-puṣkarāḥ . hema-koṇa-āhata-abhīmāḥ rākṣasānām samantataḥ .. 34 ..
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः । राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ 35 ॥
विनेदुः च महा-घोषाः शङ्खाः शत-सहस्रशस् । राक्षसानाम् सु घोराणाम् मुख-मारुत-पूरिताः ॥ ३५ ॥
vineduḥ ca mahā-ghoṣāḥ śaṅkhāḥ śata-sahasraśas . rākṣasānām su ghorāṇām mukha-māruta-pūritāḥ .. 35 ..
ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः । विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ॥ 36 ॥
ते बभुः शुभ-नील-अङ्गाः स शङ्खाः रजनीचराः । विद्युत्-मण्डल-सन्नद्धाः स बलाकाः इव अम्बुदाः ॥ ३६ ॥
te babhuḥ śubha-nīla-aṅgāḥ sa śaṅkhāḥ rajanīcarāḥ . vidyut-maṇḍala-sannaddhāḥ sa balākāḥ iva ambudāḥ .. 36 ..
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः । समये पूर्यमाणस्य वेगा इव महोदधेः ॥ 37 ॥
निष्पतन्ति ततस् सैन्याः हृष्टाः रावण-चोदिताः । समये पूर्यमाणस्य वेगाः इव महा-उदधेः ॥ ३७ ॥
niṣpatanti tatas sainyāḥ hṛṣṭāḥ rāvaṇa-coditāḥ . samaye pūryamāṇasya vegāḥ iva mahā-udadheḥ .. 37 ..
ततो वानरसैन्येन मुक्तो नादः समन्ततः । मलयः पूरितो येन ससानुप्रस्थकन्दरः ॥ 38 ॥
ततस् वानर-सैन्येन मुक्तः नादः समन्ततः । मलयः पूरितः येन ससानु-प्रस्थ-कन्दरः ॥ ३८ ॥
tatas vānara-sainyena muktaḥ nādaḥ samantataḥ . malayaḥ pūritaḥ yena sasānu-prastha-kandaraḥ .. 38 ..
शङ्खदुन्दुभिसंघुष्टः सिम्हनादस्तरस्विनाम् । पृथिवीं चान्तरिक्षं च सागरं चाभ्यनादयनत् ॥ 39 ॥
शङ्ख-दुन्दुभि-संघुष्टः सिम्ह-नादः तरस्विनाम् । पृथिवीम् च अन्तरिक्षम् च सागरम् च अभ्यनादयनत् ॥ ३९ ॥
śaṅkha-dundubhi-saṃghuṣṭaḥ simha-nādaḥ tarasvinām . pṛthivīm ca antarikṣam ca sāgaram ca abhyanādayanat .. 39 ..
गजानां बृंहितैः सार्धं हयानां हेषितैरपि । रथानां नेमिघोषै रक्षसा वदनस्वनैः ॥ 40 ॥
गजानाम् बृंहितैः सार्धम् हयानाम् हेषितैः अपि । रथानाम् नेमि-घोषैः रक्षसा वदन-स्वनैः ॥ ४० ॥
gajānām bṛṃhitaiḥ sārdham hayānām heṣitaiḥ api . rathānām nemi-ghoṣaiḥ rakṣasā vadana-svanaiḥ .. 40 ..
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समपद्यत । रक्षसां वानराणां च यथा देवासुरे पुरा ॥ 41 ॥
एतस्मिन् अन्तरे घोरः सङ्ग्रामः समपद्यत । रक्षसाम् वानराणाम् च यथा देवासुरे पुरा ॥ ४१ ॥
etasmin antare ghoraḥ saṅgrāmaḥ samapadyata . rakṣasām vānarāṇām ca yathā devāsure purā .. 41 ..
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः । निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान् ॥ 42 ॥
ते गदाभिः प्रदीप्ताभिः शक्ति-शूल-परश्वधैः । निजघ्नुः वानरान् घोराः कथयन्तः स्व-विक्रमान् ॥ ४२ ॥
te gadābhiḥ pradīptābhiḥ śakti-śūla-paraśvadhaiḥ . nijaghnuḥ vānarān ghorāḥ kathayantaḥ sva-vikramān .. 42 ..
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः । राक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ॥ 43 ॥
तथा वृक्षैः महा-कायाः पर्वत-अग्रैः च वानराः । राक्षसाः तानि रक्षांसि नखैः दन्तैः च वेगिताः ॥ ४३ ॥
tathā vṛkṣaiḥ mahā-kāyāḥ parvata-agraiḥ ca vānarāḥ . rākṣasāḥ tāni rakṣāṃsi nakhaiḥ dantaiḥ ca vegitāḥ .. 43 ..
राजा जयति सुग्रीव इति शब्दो महानभूत् । राजञ्चयजयेत्युक्तवा स्वस्वनामकथां ततः ॥ 44 ॥
राजा जयति सुग्रीवः इति शब्दः महान् अभूत् । राजन् चय-जय इति उक्तवा स्व-स्व-नाम-कथाम् ततस् ॥ ४४ ॥
rājā jayati sugrīvaḥ iti śabdaḥ mahān abhūt . rājan caya-jaya iti uktavā sva-sva-nāma-kathām tatas .. 44 ..
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् । वानरान् भिन्दिपालैश्च शूलैश्चैव व्यदारयन् ॥ 45 ॥
राक्षसाः तु अपरे भीमाः प्राकार-स्थाः मही-गतान् । वानरान् भिन्दिपालैः च शूलैः च एव व्यदारयन् ॥ ४५ ॥
rākṣasāḥ tu apare bhīmāḥ prākāra-sthāḥ mahī-gatān . vānarān bhindipālaiḥ ca śūlaiḥ ca eva vyadārayan .. 45 ..
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान्महीगताः । राक्षसान्पातयामासुः समाप्लुत्य प्लवङ्गमाः ॥ 46 ॥
वानराः च अपि सङ्क्रुद्धाः प्राकार-स्थान् मही-गताः । राक्षसान् पातयामासुः समाप्लुत्य प्लवङ्गमाः ॥ ४६ ॥
vānarāḥ ca api saṅkruddhāḥ prākāra-sthān mahī-gatāḥ . rākṣasān pātayāmāsuḥ samāplutya plavaṅgamāḥ .. 46 ..
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः । रक्षसां वानराणां च सम्बभूवाद्भुतोपमाः ॥ 47 ॥
स सम्प्रहारः तुमुलः मांस-शोणित-कर्दमः । रक्षसाम् वानराणाम् च सम्बभूव अद्भुत-उपमाः ॥ ४७ ॥
sa samprahāraḥ tumulaḥ māṃsa-śoṇita-kardamaḥ . rakṣasām vānarāṇām ca sambabhūva adbhuta-upamāḥ .. 47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In