This overlay will guide you through the buttons:

| |
|
युध्यतां तु ततस्तेषां वानराणां महात्मनाम् । रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ॥ १॥
युध्यताम् तु ततस् तेषाम् वानराणाम् महात्मनाम् । रक्षसाम् सम्बभूव अथ बल-कोपः सु दारुणः ॥ १॥
yudhyatām tu tatas teṣām vānarāṇām mahātmanām . rakṣasām sambabhūva atha bala-kopaḥ su dāruṇaḥ .. 1..
ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः । रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ॥ २॥
ते हयैः काञ्चन-आपीडैः ध्वजैः च अग्नि-शिखा-उपमैः । रथैः च आदित्य-सङ्काशैः कवचैः च मनोरमैः ॥ २॥
te hayaiḥ kāñcana-āpīḍaiḥ dhvajaiḥ ca agni-śikhā-upamaiḥ . rathaiḥ ca āditya-saṅkāśaiḥ kavacaiḥ ca manoramaiḥ .. 2..
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश । राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ३॥
निर्ययुः राक्षस-व्याघ्राः नादयन्तः दिशः दश । राक्षसाः भीम-कर्माणः रावणस्य जय-एषिणः ॥ ३॥
niryayuḥ rākṣasa-vyāghrāḥ nādayantaḥ diśaḥ daśa . rākṣasāḥ bhīma-karmāṇaḥ rāvaṇasya jaya-eṣiṇaḥ .. 3..
वानराणामपि चमूर्महती जयमिच्चताम् । अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ॥ ४॥
वानराणाम् अपि चमूः महती जयम् इच्चताम् । अभ्यधावत ताम् सेनाम् रक्षसाम् कामरूपिणाम् ॥ ४॥
vānarāṇām api camūḥ mahatī jayam iccatām . abhyadhāvata tām senām rakṣasām kāmarūpiṇām .. 4..
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् । रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥ ५॥
एतस्मिन् अन्तरे तेषाम् अन्योन्यम् अभिधावताम् । रक्षसाम् वानराणाम् च द्वन्द्व-युद्धम् अवर्तत ॥ ५॥
etasmin antare teṣām anyonyam abhidhāvatām . rakṣasām vānarāṇām ca dvandva-yuddham avartata .. 5..
अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः । अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः ॥ ६॥
अङ्गदेन इन्द्रजित् सार्धम् वालि-पुत्रेण राक्षसः । अयुध्यत महा-तेजाः त्र्यम्बकेण यथा अन्धकः ॥ ६॥
aṅgadena indrajit sārdham vāli-putreṇa rākṣasaḥ . ayudhyata mahā-tejāḥ tryambakeṇa yathā andhakaḥ .. 6..
प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे । जम्बूमालिनमारब्धो हनूमानपि वानरः ॥ ७॥
प्रजङ्घेन च सम्पातिः नित्यम् दुर्मर्षणः रणे । जम्बूमालिनम् आरब्धः हनूमान् अपि वानरः ॥ ७॥
prajaṅghena ca sampātiḥ nityam durmarṣaṇaḥ raṇe . jambūmālinam ārabdhaḥ hanūmān api vānaraḥ .. 7..
संगतस्तु महाक्रोधो राक्षसो रावणानुजः । समरे तीक्ष्णवेगेन शत्रघ्नेन विभीषणः ॥ ८॥
संगतः तु महा-क्रोधः राक्षसः रावण-अनुजः । समरे तीक्ष्णवेगेन शत्रघ्नेन विभीषणः ॥ ८॥
saṃgataḥ tu mahā-krodhaḥ rākṣasaḥ rāvaṇa-anujaḥ . samare tīkṣṇavegena śatraghnena vibhīṣaṇaḥ .. 8..
तपनेन गजः सार्धं राक्षसेन महाबलः । निकुम्भेन महातेजा नीलोऽपि समयुध्यत ॥ ९॥
तपनेन गजः सार्धम् राक्षसेन महा-बलः । निकुम्भेन महा-तेजाः नीलः अपि समयुध्यत ॥ ९॥
tapanena gajaḥ sārdham rākṣasena mahā-balaḥ . nikumbhena mahā-tejāḥ nīlaḥ api samayudhyata .. 9..
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः । संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ॥ १०॥
वानर-इन्द्रः तु सुग्रीवः प्रघसेन समागतः । संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ॥ १०॥
vānara-indraḥ tu sugrīvaḥ praghasena samāgataḥ . saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ .. 10..
अग्निकेतु सुदुर्धर्षो रश्मिकेतुश्च राक्षसः । सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ॥ ११॥
अग्निकेतु सु दुर्धर्षः रश्मिकेतुः च राक्षसः । सुप्तघ्नः यज्ञकोपः च रामेण सह संगताः ॥ ११॥
agniketu su durdharṣaḥ raśmiketuḥ ca rākṣasaḥ . suptaghnaḥ yajñakopaḥ ca rāmeṇa saha saṃgatāḥ .. 11..
वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः । राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२॥
वज्रमुष्टिः तु मैन्देन द्विविदेन अशनिप्रभः । राक्षसाभ्याम् सु घोराभ्याम् कपि-मुख्यौ समागतौ ॥ १२॥
vajramuṣṭiḥ tu maindena dvividena aśaniprabhaḥ . rākṣasābhyām su ghorābhyām kapi-mukhyau samāgatau .. 12..
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः । समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥ १३॥
वीरः प्रतपनः घोरः राक्षसः रण-दुर्धरः । समरे तीक्ष्ण-वेगेन नलेन समयुध्यत ॥ १३॥
vīraḥ pratapanaḥ ghoraḥ rākṣasaḥ raṇa-durdharaḥ . samare tīkṣṇa-vegena nalena samayudhyata .. 13..
धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः । स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ १४॥
धर्मस्य पुत्रः बलवान् सुषेणः इति विश्रुतः । स विद्युन्मालिना सार्धम् अयुध्यत महा-कपिः ॥ १४॥
dharmasya putraḥ balavān suṣeṇaḥ iti viśrutaḥ . sa vidyunmālinā sārdham ayudhyata mahā-kapiḥ .. 14..
वानराश्चापरे भीमा राक्षसैरपरैः सह । द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ॥ १५॥
वानराः च अपरे भीमाः राक्षसैः अपरैः सह । द्वन्द्वम् समीयुः बहुधा युद्धाय बहुभिः सह ॥ १५॥
vānarāḥ ca apare bhīmāḥ rākṣasaiḥ aparaiḥ saha . dvandvam samīyuḥ bahudhā yuddhāya bahubhiḥ saha .. 15..
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् । रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ १६॥
तत्र आसीत् सु महत् युद्धम् तुमुलम् लोम-हर्षणम् । रक्षसाम् वानराणाम् च वीराणाम् जयम् इच्छताम् ॥ १६॥
tatra āsīt su mahat yuddham tumulam loma-harṣaṇam . rakṣasām vānarāṇām ca vīrāṇām jayam icchatām .. 16..
हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः । शरीरसङ्घाटवहाः प्रसुस्रुः शोणितापगाः ॥ १७॥
हरि-राक्षस-देहेभ्यः प्रसृताः केश-शाड्वलाः । शरीर-सङ्घाट-वहाः प्रसुस्रुः शोणित-आपगाः ॥ १७॥
hari-rākṣasa-dehebhyaḥ prasṛtāḥ keśa-śāḍvalāḥ . śarīra-saṅghāṭa-vahāḥ prasusruḥ śoṇita-āpagāḥ .. 17..
आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः । अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ १८॥
आजघान इन्द्रजित् क्रुद्धः वज्रेण इव शतक्रतुः । अङ्गदम् गदया वीरम् शत्रु-सैन्य-विदारणम् ॥ १८॥
ājaghāna indrajit kruddhaḥ vajreṇa iva śatakratuḥ . aṅgadam gadayā vīram śatru-sainya-vidāraṇam .. 18..
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् । जघान समरे श्रीमानङ्गदो वेगवान् हरिः ॥ १९॥
तस्य काञ्चन-चित्र-अङ्गम् रथम् स अश्वम् स सारथिम् । जघान समरे श्रीमान् अङ्गदः वेगवान् हरिः ॥ १९॥
tasya kāñcana-citra-aṅgam ratham sa aśvam sa sārathim . jaghāna samare śrīmān aṅgadaḥ vegavān hariḥ .. 19..
सम्पातिस्तु प्रजङ्घेन त्रिभिर्बाणैः समाहतः । निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ॥ २०॥
सम्पातिः तु प्रजङ्घेन त्रिभिः बाणैः समाहतः । निजघान अश्वकर्णेन प्रजङ्घम् रण-मूर्धनि ॥ २०॥
sampātiḥ tu prajaṅghena tribhiḥ bāṇaiḥ samāhataḥ . nijaghāna aśvakarṇena prajaṅgham raṇa-mūrdhani .. 20..
जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः । बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ २१॥
जम्बूमाली रथ-स्थः तु रथ-शक्त्या महा-बलः । बिभेद समरे क्रुद्धः हनूमन्तम् स्तनान्तरे ॥ २१॥
jambūmālī ratha-sthaḥ tu ratha-śaktyā mahā-balaḥ . bibheda samare kruddhaḥ hanūmantam stanāntare .. 21..
तस्य तं रथमास्थाय हनूमान्मारुतात्मजः । प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२॥
तस्य तम् रथम् आस्थाय हनूमान् मारुतात्मजः । प्रममाथ तलेन आशु सह तेन एव रक्षसा ॥ २२॥
tasya tam ratham āsthāya hanūmān mārutātmajaḥ . pramamātha talena āśu saha tena eva rakṣasā .. 22..
नदन् प्रतपनो घोरो नलं सोप्यन्वधावत । नलः प्रतपनस्याशु पातयामास चक्षुषी ॥ २३ ॥
नदन् प्रतपनः घोरः नलम् सः अपि अन्वधावत । नलः प्रतपनस्य आशु पातयामास चक्षुषी ॥ २३ ॥
nadan pratapanaḥ ghoraḥ nalam saḥ api anvadhāvata . nalaḥ pratapanasya āśu pātayāmāsa cakṣuṣī .. 23 ..
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा । ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ॥ २४॥
भिन्न-गात्रः शरैः तीक्ष्णैः क्षिप्र-हस्तेन रक्षसा । ग्रसन्तम् इव सैन्यानि प्रघसम् वानर-अधिपः ॥ २४॥
bhinna-gātraḥ śaraiḥ tīkṣṇaiḥ kṣipra-hastena rakṣasā . grasantam iva sainyāni praghasam vānara-adhipaḥ .. 24..
सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च । प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ॥ 25 ॥
सुग्रीवः सप्त-पर्णेन निर्बिभेद जघान च । प्रपीड्य शर-वर्षेण राक्षसम् भीम-दर्शनम् ॥ २५ ॥
sugrīvaḥ sapta-parṇena nirbibheda jaghāna ca . prapīḍya śara-varṣeṇa rākṣasam bhīma-darśanam .. 25 ..
निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः । अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । सुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ॥ 26 ॥
निजघान विरूपाक्षम् शरेण एकेन लक्ष्मणः । अग्निकेतुः च दुर्धर्षः रश्मिकेतुः च राक्षसः । सुप्तिघ्नः यज्ञकोपः च रामम् निर्बिभिदुः शरैः ॥ २६ ॥
nijaghāna virūpākṣam śareṇa ekena lakṣmaṇaḥ . agniketuḥ ca durdharṣaḥ raśmiketuḥ ca rākṣasaḥ . suptighnaḥ yajñakopaḥ ca rāmam nirbibhiduḥ śaraiḥ .. 26 ..
तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः । क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ॥ 27 ॥
तेषाम् चतुर्णाम् रामः तु शिरांसि समरे शरैः । क्रुद्धः चतुर्भिः चिच्छेद घोरैः अग्नि-शिखा-उपमैः ॥ २७ ॥
teṣām caturṇām rāmaḥ tu śirāṃsi samare śaraiḥ . kruddhaḥ caturbhiḥ ciccheda ghoraiḥ agni-śikhā-upamaiḥ .. 27 ..
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे । पपात सरथः साश्वः पुराट्ट इव भूतले ॥ 28 ॥
वज्रमुष्टिः तु मैन्देन मुष्टिना निहतः रणे । पपात स रथः स अश्वः पुर-अट्टः इव भू-तले ॥ २८ ॥
vajramuṣṭiḥ tu maindena muṣṭinā nihataḥ raṇe . papāta sa rathaḥ sa aśvaḥ pura-aṭṭaḥ iva bhū-tale .. 28 ..
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् । निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ 29 ॥
निकुम्भः तु रणे नीलम् नीलाञ्जन-चय-प्रभम् । निर्बिभेद शरैः तीक्ष्णैः करैः मेघम् इव अंशुमान् ॥ २९ ॥
nikumbhaḥ tu raṇe nīlam nīlāñjana-caya-prabham . nirbibheda śaraiḥ tīkṣṇaiḥ karaiḥ megham iva aṃśumān .. 29 ..
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः । बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ 30 ॥
पुनर् शर-शतेन अथ क्षिप्रहस्तः निशाचरः । बिभेद समरे नीलम् निकुम्भः प्रजहास च ॥ ३० ॥
punar śara-śatena atha kṣiprahastaḥ niśācaraḥ . bibheda samare nīlam nikumbhaḥ prajahāsa ca .. 30 ..
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे । शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ 31 ॥
तस्य एव रथ-चक्रेण नीलः विष्णुः इव आहवे । शिरः चिच्छेद समरे निकुम्भस्य च सारथेः ॥ ३१ ॥
tasya eva ratha-cakreṇa nīlaḥ viṣṇuḥ iva āhave . śiraḥ ciccheda samare nikumbhasya ca sāratheḥ .. 31 ..
वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् । जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥ 32 ॥
वज्र-अशनि-सम-स्पर्शः द्विविदः अपि अशनिप्रभम् । जघान गिरि-शृङ्गेण मिषताम् सर्व-रक्षसाम् ॥ ३२ ॥
vajra-aśani-sama-sparśaḥ dvividaḥ api aśaniprabham . jaghāna giri-śṛṅgeṇa miṣatām sarva-rakṣasām .. 32 ..
द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे । शरैरशनिसङ्काशैः स विव्याधाशनिप्रभः ॥ 33 ॥
द्विविदम् वानर-इन्द्रम् तु द्रुम-योधिनम् आहवे । शरैः अशनि-सङ्काशैः स विव्याध अशनिप्रभः ॥ ३३ ॥
dvividam vānara-indram tu druma-yodhinam āhave . śaraiḥ aśani-saṅkāśaiḥ sa vivyādha aśaniprabhaḥ .. 33 ..
स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः । सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥ 34 ॥
स शरैः अतिविद्ध-अङ्गः द्विविदः क्रोध-मूर्छितः । सालेन स रथम् स अश्वम् निजघान अशनिप्रभम् ॥ ३४ ॥
sa śaraiḥ atividdha-aṅgaḥ dvividaḥ krodha-mūrchitaḥ . sālena sa ratham sa aśvam nijaghāna aśaniprabham .. 34 ..
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः । सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ 35 ॥
विद्युन्माली रथ-स्थः तु शरैः काञ्चन-भूषणैः । सुषेणम् ताडयामास ननाद च मुहुर् मुहुर् ॥ ३५ ॥
vidyunmālī ratha-sthaḥ tu śaraiḥ kāñcana-bhūṣaṇaiḥ . suṣeṇam tāḍayāmāsa nanāda ca muhur muhur .. 35 ..
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः । गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ 36 ॥
तम् रथ-स्थम् अथो दृष्ट्वा सुषेणः वानर-उत्तमः । गिरि-शृङ्गेण महता रथम् आशु न्यपातयत् ॥ ३६ ॥
tam ratha-stham atho dṛṣṭvā suṣeṇaḥ vānara-uttamaḥ . giri-śṛṅgeṇa mahatā ratham āśu nyapātayat .. 36 ..
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः । अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ॥ 37 ॥
लाघवेन तु संयुक्तः विद्युन्माली निशाचरः । अपक्रम्य रथात् तूर्णम् गदा-पाणिः क्षितौ स्थितः ॥ ३७ ॥
lāghavena tu saṃyuktaḥ vidyunmālī niśācaraḥ . apakramya rathāt tūrṇam gadā-pāṇiḥ kṣitau sthitaḥ .. 37 ..
ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः । शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ 38 ॥
ततस् क्रोध-समाविष्टः सुषेणः हरि-पुङ्गवः । शिलाम् सु महतीम् गृह्य निशाचरम् अभिद्रवत् ॥ ३८ ॥
tatas krodha-samāviṣṭaḥ suṣeṇaḥ hari-puṅgavaḥ . śilām su mahatīm gṛhya niśācaram abhidravat .. 38 ..
तमापतन्तं गदया विद्युन्माली निशाचरः । वक्षस्यभिजग्नानाशु सुषेणं हरिसत्तमम् ॥ 39 ॥
तम् आपतन्तम् गदया विद्युन्माली निशाचरः । वक्षसि अभिजग्नान् आशु सुषेणम् हरि-सत्तमम् ॥ ३९ ॥
tam āpatantam gadayā vidyunmālī niśācaraḥ . vakṣasi abhijagnān āśu suṣeṇam hari-sattamam .. 39 ..
गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः । तां शिलां पातयामास तस्योरसि महामृधे ॥ 40 ॥
गदा-प्रहारम् तम् घोरम् अचिन्त्य-प्लवग-उत्तमः । ताम् शिलाम् पातयामास तस्य उरसि महा-मृधे ॥ ४० ॥
gadā-prahāram tam ghoram acintya-plavaga-uttamaḥ . tām śilām pātayāmāsa tasya urasi mahā-mṛdhe .. 40 ..
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः । निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ 41 ॥
शिला-प्रहार-अभिहतः विद्युन्माली निशाचरः । निष्पिष्ट-हृदयः भूमौ गतासुः निपपात ह ॥ ४१ ॥
śilā-prahāra-abhihataḥ vidyunmālī niśācaraḥ . niṣpiṣṭa-hṛdayaḥ bhūmau gatāsuḥ nipapāta ha .. 41 ..
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः । द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ 42 ॥
एवम् तैः वानरैः शूरैः शूराः ते रजनीचराः । द्वन्द्वे विमृदिताः तत्र दैत्याः इव दिवौकसैः ॥ ४२ ॥
evam taiḥ vānaraiḥ śūraiḥ śūrāḥ te rajanīcarāḥ . dvandve vimṛditāḥ tatra daityāḥ iva divaukasaiḥ .. 42 ..
भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः । अपविद्धश्च भिन्नश्च रथैः साङ्ग्रामिकैर्हयैः ॥ 43 ॥
भल्लैः खड्गैः गदाभिः च शक्ति-तोमर-पट्टसैः । अपविद्धः च भिन्नः च रथैः साङ्ग्रामिकैः हयैः ॥ ४३ ॥
bhallaiḥ khaḍgaiḥ gadābhiḥ ca śakti-tomara-paṭṭasaiḥ . apaviddhaḥ ca bhinnaḥ ca rathaiḥ sāṅgrāmikaiḥ hayaiḥ .. 43 ..
निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः । चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ॥ 44 ॥
निहतैः कुञ्जरैः मत्तैः तथा वानर-राक्षसैः । चक्र-अक्ष-युग-दण्डैः च भग्नैः धरणि-संश्रितैः ॥ ४४ ॥
nihataiḥ kuñjaraiḥ mattaiḥ tathā vānara-rākṣasaiḥ . cakra-akṣa-yuga-daṇḍaiḥ ca bhagnaiḥ dharaṇi-saṃśritaiḥ .. 44 ..
बभूवायोधनं घोरं गोमायुगणसेवितम् । कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् । विमर्दे तुमुले तस्मिन्देवासुररणोपमे ॥ 45 ॥
बभूव आयोधनम् घोरम् गोमायु-गण-सेवितम् । कबन्धानि समुत्पेतुः दिक्षु वानर-रक्षसाम् । विमर्दे तुमुले तस्मिन् देव-असुर-रण-उपमे ॥ ४५ ॥
babhūva āyodhanam ghoram gomāyu-gaṇa-sevitam . kabandhāni samutpetuḥ dikṣu vānara-rakṣasām . vimarde tumule tasmin deva-asura-raṇa-upame .. 45 ..
विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः । पुनः सुयुद्धं तरसा समाश्रिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ 46 ॥
विदार्यमाणाः हरि-पुङ्गवैः तदा निशाचराः शोणित-दिग्ध-गात्राः । पुनर् सु युद्धम् तरसा समाश्रिताः दिवाकरस्य अस्तमय-अभिकाङ्क्षिणः ॥ ४६ ॥
vidāryamāṇāḥ hari-puṅgavaiḥ tadā niśācarāḥ śoṇita-digdha-gātrāḥ . punar su yuddham tarasā samāśritāḥ divākarasya astamaya-abhikāṅkṣiṇaḥ .. 46 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In