This overlay will guide you through the buttons:

| |
|
स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् । दिदेशातिबलो रामो दशवानरयूथपान् ॥ १॥
स तस्य गतिम् अन्विच्छन् राज-पुत्रः प्रतापवान् । दिदेश अतिबलः रामः दश-वानर-यूथपान् ॥ १॥
sa tasya gatim anvicchan rāja-putraḥ pratāpavān . dideśa atibalaḥ rāmaḥ daśa-vānara-yūthapān .. 1..
द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् । अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ २॥
द्वौ सुषेणस्य दायादौ नीलम् च प्लवग-ऋषभम् । अङ्गदम् वालि-पुत्रम् च शरभम् च तरस्विनम् ॥ २॥
dvau suṣeṇasya dāyādau nīlam ca plavaga-ṛṣabham . aṅgadam vāli-putram ca śarabham ca tarasvinam .. 2..
द्विविदं च हनूमन्तं सानुप्रस्थं महाबलम् । ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ॥ ३॥
द्विविदम् च हनूमन्तम् सानुप्रस्थम् महा-बलम् । ऋषभम् च ऋषभ-स्कन्धम् आदिदेश परन्तपः ॥ ३॥
dvividam ca hanūmantam sānuprastham mahā-balam . ṛṣabham ca ṛṣabha-skandham ādideśa parantapaḥ .. 3..
ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् । आकाशं विविशुः सर्वे मार्गामाणा दिशो दश ॥ ४॥
ते सम्प्रहृष्टाः हरयः भीमान् उद्यम्य पादपान् । आकाशम् विविशुः सर्वे मार्गामाणाः दिशः दश ॥ ४॥
te samprahṛṣṭāḥ harayaḥ bhīmān udyamya pādapān . ākāśam viviśuḥ sarve mārgāmāṇāḥ diśaḥ daśa .. 4..
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः । अस्त्रवित्परमास्त्रेण वारयामास रावणिः ॥ ५॥
तेषाम् वेगवताम् वेगम् इषुभिः वेगवत्तरैः । अस्त्र-विद् परम-अस्त्रेण वारयामास रावणिः ॥ ५॥
teṣām vegavatām vegam iṣubhiḥ vegavattaraiḥ . astra-vid parama-astreṇa vārayāmāsa rāvaṇiḥ .. 5..
तं भीमवेगा हरयो नाराचैः क्षतविक्षताः । अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ॥ ६॥
तम् भीम-वेगाः हरयः नाराचैः क्षत-विक्षताः । अन्धकारे न ददृशुः मेघैः सूर्यम् इव आवृतम् ॥ ६॥
tam bhīma-vegāḥ harayaḥ nārācaiḥ kṣata-vikṣatāḥ . andhakāre na dadṛśuḥ meghaiḥ sūryam iva āvṛtam .. 6..
रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान् । भृशमावेशयामास रावणिः समितिञ्जयः ॥ ७॥
राम-लक्ष्मणयोः एव सर्व-मर्म-भिदः शरान् । भृशम् आवेशयामास रावणिः समितिञ्जयः ॥ ७॥
rāma-lakṣmaṇayoḥ eva sarva-marma-bhidaḥ śarān . bhṛśam āveśayāmāsa rāvaṇiḥ samitiñjayaḥ .. 7..
निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ । क्रुद्धेनेन्द्रजोता वीरौ पन्नगैः शरतां गतैः ॥ ८॥
निरन्तर-शरीरौ तु भ्रातरौ राम-लक्ष्मणौ । क्रुद्धेन इन्द्रजोता वीरौ पन्नगैः शर-ताम् गतैः ॥ ८॥
nirantara-śarīrau tu bhrātarau rāma-lakṣmaṇau . kruddhena indrajotā vīrau pannagaiḥ śara-tām gataiḥ .. 8..
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु । तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ ९॥
तयोः क्षतज-मार्गेण सुस्राव रुधिरम् बहु । तौ उभौ च प्रकाशेते पुष्पितौ इव किंशुकौ ॥ ९॥
tayoḥ kṣataja-mārgeṇa susrāva rudhiram bahu . tau ubhau ca prakāśete puṣpitau iva kiṃśukau .. 9..
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः । रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥ १०॥
ततस् पर्यन्त-रक्त-अक्षः भिन्नाञ्जन-चय-उपमः । रावणिः भ्रातरौ वाक्यम् अन्तर्धान-गतः अब्रवीत् ॥ १०॥
tatas paryanta-rakta-akṣaḥ bhinnāñjana-caya-upamaḥ . rāvaṇiḥ bhrātarau vākyam antardhāna-gataḥ abravīt .. 10..
युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः । द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ॥ ११॥
युध्यमानम् अनालक्ष्यम् शक्रः अपि त्रिदशेश्वरः । द्रष्टुम् आसादितुम् वा अपि न शक्तः किम् पुनर् युवाम् ॥ ११॥
yudhyamānam anālakṣyam śakraḥ api tridaśeśvaraḥ . draṣṭum āsāditum vā api na śaktaḥ kim punar yuvām .. 11..
प्रापिताविषुजालेन राघवौ कङ्कपत्रिणा । एष रोषपरीतात्मा नयामि यमसादनम् ॥ १२॥
प्रापितौ इषु-जालेन राघवौ कङ्क-पत्रिणा । एष रोष-परीत-आत्मा नयामि यम-सादनम् ॥ १२॥
prāpitau iṣu-jālena rāghavau kaṅka-patriṇā . eṣa roṣa-parīta-ātmā nayāmi yama-sādanam .. 12..
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ । निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ॥ १३॥
एवम् उक्त्वा तु धर्म-ज्ञौ भ्रातरौ राम-लक्ष्मणौ । निर्बिभेद शितैः बाणैः प्रजहर्ष ननाद च ॥ १३॥
evam uktvā tu dharma-jñau bhrātarau rāma-lakṣmaṇau . nirbibheda śitaiḥ bāṇaiḥ prajaharṣa nanāda ca .. 13..
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः । भूय एव शरान् घोरान् विससर्ज महामृधे ॥ १४॥
भिन्नाञ्जन-चय-श्यामः विस्फार्य विपुलम् धनुः । भूयस् एव शरान् घोरान् विससर्ज महा-मृधे ॥ १४॥
bhinnāñjana-caya-śyāmaḥ visphārya vipulam dhanuḥ . bhūyas eva śarān ghorān visasarja mahā-mṛdhe .. 14..
ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् । रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥ १५॥
ततस् मर्मसु मर्म-ज्ञः मज्जयन् निशितान् शरान् । राम-लक्ष्मणयोः वीरः ननाद च मुहुर् मुहुर् ॥ १५॥
tatas marmasu marma-jñaḥ majjayan niśitān śarān . rāma-lakṣmaṇayoḥ vīraḥ nanāda ca muhur muhur .. 15..
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि । निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ॥ १६॥
बद्धौ तु शर-बन्धेन तौ उभौ रण-मूर्धनि । निमेष-अन्तर-मात्रेण न शेकतुः उदीक्षितुम् ॥ १६॥
baddhau tu śara-bandhena tau ubhau raṇa-mūrdhani . nimeṣa-antara-mātreṇa na śekatuḥ udīkṣitum .. 16..
ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ । ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ १७॥
ततस् विभिन्न-सर्व-अङ्गौ शर-शल्य-आचितौ उभौ । ध्वजौ इव महा-इन्द्रस्य रज्जु-मुक्तौ प्रकम्पितौ ॥ १७॥
tatas vibhinna-sarva-aṅgau śara-śalya-ācitau ubhau . dhvajau iva mahā-indrasya rajju-muktau prakampitau .. 17..
तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ । निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥ १८॥
तौ सम्प्रचलितौ वीरौ मर्म-भेदेन कर्शितौ । निपेततुः महा-इष्वासौ जगत्याम् जगतीपती ॥ १८॥
tau sampracalitau vīrau marma-bhedena karśitau . nipetatuḥ mahā-iṣvāsau jagatyām jagatīpatī .. 18..
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ । शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ॥ १९॥
तौ वीर-शयने वीरौ शयानौ रुधिर-उक्षितौ । शर-वेष्टित-सर्व-अङ्गौ आर्तौ परम-पीडितौ ॥ १९॥
tau vīra-śayane vīrau śayānau rudhira-ukṣitau . śara-veṣṭita-sarva-aṅgau ārtau parama-pīḍitau .. 19..
न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम् । नानिर्विण्णं न चाध्वसतमाकराग्रादजिह्मगैः ॥ २०॥
न हि अविद्धम् तयोः गात्रम् बभूव अङ्गुलम् अन्तरम् । न अनिर्विण्णम् न च अध्वसतमा आकर-अग्रात् अजिह्मगैः ॥ २०॥
na hi aviddham tayoḥ gātram babhūva aṅgulam antaram . na anirviṇṇam na ca adhvasatamā ākara-agrāt ajihmagaiḥ .. 20..
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा । असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ॥ २१॥
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा । असृज् सुस्रुवतुः तीव्रम् जलम् प्रस्रवणौ इव ॥ २१॥
tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā . asṛj susruvatuḥ tīvram jalam prasravaṇau iva .. 21..
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः । क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥ २२॥
पपात प्रथमम् रामः विद्धः मर्मसु मार्गणैः । क्रोधात् इन्द्रजिता येन पुरा शक्रः विनिर्जितः ॥ २२॥
papāta prathamam rāmaḥ viddhaḥ marmasu mārgaṇaiḥ . krodhāt indrajitā yena purā śakraḥ vinirjitaḥ .. 22..
रुक्मपुङ्खैः प्रसन्नाग्रै रधोगतिभिराशुगैः । नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि । विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ॥ २३॥
रुक्म-पुङ्खैः प्रसन्न-अग्रैः रधः-गतिभिः आशुगैः । नारचैः अर्धनाराचैः भल्लैः अञ्जलिकैः अपि । विव्याध वत्सदन्तैः च सिंहदंष्ट्रैः क्षुरैः तथा ॥ २३॥
rukma-puṅkhaiḥ prasanna-agraiḥ radhaḥ-gatibhiḥ āśugaiḥ . nāracaiḥ ardhanārācaiḥ bhallaiḥ añjalikaiḥ api . vivyādha vatsadantaiḥ ca siṃhadaṃṣṭraiḥ kṣuraiḥ tathā .. 23..
स वीरशयने शिश्ये विज्यमादाय कार्मुकम् । भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् ॥ २४॥
स वीर-शयने शिश्ये विज्यम् आदाय कार्मुकम् । भिन्न-मुष्टि-परीणाहम् त्रिणतम् रुक्म-भूषितम् ॥ २४॥
sa vīra-śayane śiśye vijyam ādāya kārmukam . bhinna-muṣṭi-parīṇāham triṇatam rukma-bhūṣitam .. 24..
बाणपातान्तरे रामं पतितं पुरुषर्षभम् । स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ॥ २५॥
बाण-पात-अन्तरे रामम् पतितम् पुरुष-ऋषभम् । स तत्र लक्ष्मणः दृष्ट्वा निराशः जीविते अभवत् ॥ २५॥
bāṇa-pāta-antare rāmam patitam puruṣa-ṛṣabham . sa tatra lakṣmaṇaḥ dṛṣṭvā nirāśaḥ jīvite abhavat .. 25..
रामं कमलपत्रा शरण्य रणतोषिणम् । शुशोच भ्रातरं दृष्टवापतितं धरणीतले ॥ २६ ॥
रामम् कमल-पत्रा शरण्य रण-तोषिणम् । शुशोच भ्रातरम् दृष्ट-वा आपतितम् धरणी-तले ॥ २६ ॥
rāmam kamala-patrā śaraṇya raṇa-toṣiṇam . śuśoca bhrātaram dṛṣṭa-vā āpatitam dharaṇī-tale .. 26 ..
हरयश्चापि तं दृष्टवा संतापं परमं गताः । शोकार्ताश्चुक्रशुर्घोरमश्रुपूरितलोचनाः ॥ २७ ॥
हरयः च अपि तम् दृष्टवा संतापम् परमम् गताः । शोक-आर्ताः चुक्रशुः घोरम् अश्रु-पूरित-लोचनाः ॥ २७ ॥
harayaḥ ca api tam dṛṣṭavā saṃtāpam paramam gatāḥ . śoka-ārtāḥ cukraśuḥ ghoram aśru-pūrita-locanāḥ .. 27 ..
बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः । समागता वायुसुतप्रमुख्या विषदमार्ताः परमं च जग्मुः ॥ २८॥
बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः । समागताः वायुसुत-प्रमुख्याः विषदम् आर्ताः परमम् च जग्मुः ॥ २८॥
baddhau tu vīrau patitau śayānau tau vānarāḥ samparivārya tasthuḥ . samāgatāḥ vāyusuta-pramukhyāḥ viṣadam ārtāḥ paramam ca jagmuḥ .. 28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In