This overlay will guide you through the buttons:

| |
|
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः । ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ 1 ॥
ततस् द्याम् पृथिवीम् च एव वीक्षमाणाः वनौकसः । ददृशुः सन्ततौ बाणैः भ्रातरौ राम-लक्ष्मणौ ॥ १ ॥
tatas dyām pṛthivīm ca eva vīkṣamāṇāḥ vanaukasaḥ . dadṛśuḥ santatau bāṇaiḥ bhrātarau rāma-lakṣmaṇau .. 1 ..
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे । आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ 2 ॥
वृष्ट्वा इव उपरते देवे कृत-कर्मणि राक्षसे । आजगाम अथ तम् देशम् स सुग्रीवः विभीषणः ॥ २ ॥
vṛṣṭvā iva uparate deve kṛta-karmaṇi rākṣase . ājagāma atha tam deśam sa sugrīvaḥ vibhīṣaṇaḥ .. 2 ..
नीलश्च द्विविद मैन्दः सुषेण कुमुदऽङ्गदः । तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥ 3 ॥
नीलः च द्विविद मैन्दः सुषेण कुमुद-अङ्गदः । तूर्णम् हनुमता सार्धम् अन्वशोचन्त राघवौ ॥ ३ ॥
nīlaḥ ca dvivida maindaḥ suṣeṇa kumuda-aṅgadaḥ . tūrṇam hanumatā sārdham anvaśocanta rāghavau .. 3 ..
अचेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ । शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ॥ 4 ॥
अचेष्टौ मन्द-निःश्वासौ शोणित-ओघ-परिप्लुतौ । शर-जाल-आचितौ स्तब्धौ शयानौ शर-तल्पयोः ॥ ४ ॥
aceṣṭau manda-niḥśvāsau śoṇita-ogha-pariplutau . śara-jāla-ācitau stabdhau śayānau śara-talpayoḥ .. 4 ..
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ । रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ॥ 5 ॥
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्द-विक्रमौ । रुधिर-स्राव-दिग्ध-अङ्गौ तापनीयौ इव ध्वजौ ॥ ५ ॥
niḥśvasantau yathā sarpau niśceṣṭau manda-vikramau . rudhira-srāva-digdha-aṅgau tāpanīyau iva dhvajau .. 5 ..
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ । यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ॥ 6 ॥
तौ वीर-शयने वीरौ शयानौ मन्द-चेष्टितौ । यूथपैः तैः परिवृतौ बाष्प-व्याकुल-लोचनैः ॥ ६ ॥
tau vīra-śayane vīrau śayānau manda-ceṣṭitau . yūthapaiḥ taiḥ parivṛtau bāṣpa-vyākula-locanaiḥ .. 6 ..
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ । बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ॥ 7 ॥
राघवौ पतितौ दृष्ट्वा शर-जाल-समावृतौ । बभूवुः व्यथिताः सर्वे वानराः स विभीषणाः ॥ ७ ॥
rāghavau patitau dṛṣṭvā śara-jāla-samāvṛtau . babhūvuḥ vyathitāḥ sarve vānarāḥ sa vibhīṣaṇāḥ .. 7 ..
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः । न चैनं मायया छन्नं ददृशू रावणिं रणे ॥ 8 ॥
अन्तरिक्षम् निरीक्षन्तः दिशः सर्वाः च वानराः । न च एनम् मायया छन्नम् ददृशुः रावणिम् रणे ॥ ८ ॥
antarikṣam nirīkṣantaḥ diśaḥ sarvāḥ ca vānarāḥ . na ca enam māyayā channam dadṛśuḥ rāvaṇim raṇe .. 8 ..
तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः । वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे ॥ 9 ॥
तम् तु माया-प्रतिच्छिन्नम् मायया एव विभीषणः । वीक्षमाणः ददर्श अथ भ्रातुः पुत्रम् अवस्थितम् तम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् आहवे ॥ ९ ॥
tam tu māyā-praticchinnam māyayā eva vibhīṣaṇaḥ . vīkṣamāṇaḥ dadarśa atha bhrātuḥ putram avasthitam tam apratima karmāṇam apratidvandvam āhave .. 9 ..
ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः । तेजसा यशसा चैव विक्रमेण च सम्युतम् ॥ 10 ॥
ददर्श अन्तर्हितम् वीरम् वर-दानात् विभीषणः । तेजसा यशसा च एव विक्रमेण च सम्युतम् ॥ १० ॥
dadarśa antarhitam vīram vara-dānāt vibhīṣaṇaḥ . tejasā yaśasā ca eva vikrameṇa ca samyutam .. 10 ..
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च । उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् ॥ 11 ॥
इन्द्रजित् त्वा आत्मनः कर्म तौ शयानौ समीक्ष्य च । उवाच परम-प्रीतः हर्षयन् सर्व-नैरृतान् ॥ ११ ॥
indrajit tvā ātmanaḥ karma tau śayānau samīkṣya ca . uvāca parama-prītaḥ harṣayan sarva-nairṛtān .. 11 ..
दूषणस्य च हन्तारौ खरस्य च महाबलौ । सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ 12 ॥
दूषणस्य च हन्तारौ खरस्य च महा-बलौ । सादितौ मामकैः बाणैः भ्रातरौ राम-लक्ष्मणौ ॥ १२ ॥
dūṣaṇasya ca hantārau kharasya ca mahā-balau . sāditau māmakaiḥ bāṇaiḥ bhrātarau rāma-lakṣmaṇau .. 12 ..
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् । सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ॥ 13 ॥
न इमौ मोक्षयितुम् शक्यौ एतस्मात् इषु-बन्धनात् । सर्वैः अपि समागम्य स ऋषि-सङ्घैः सुर-असुरैः ॥ १३ ॥
na imau mokṣayitum śakyau etasmāt iṣu-bandhanāt . sarvaiḥ api samāgamya sa ṛṣi-saṅghaiḥ sura-asuraiḥ .. 13 ..
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम । अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती ॥ 14 ॥
यत्कृते चिन्तयानस्य शोक-आर्तस्य पितुः मम । अ स्पृष्ट्वा शयनम् गात्रैः त्रि-यामा याति शर्वती ॥ १४ ॥
yatkṛte cintayānasya śoka-ārtasya pituḥ mama . a spṛṣṭvā śayanam gātraiḥ tri-yāmā yāti śarvatī .. 14 ..
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला । सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ॥ 15 ॥
कृत्स्ना इयम् यत्कृते लङ्का नदी वर्षासु इव आकुला । सः अयम् मूल-हरः अनर्थः सर्वेषाम् निहतः मया ॥ १५ ॥
kṛtsnā iyam yatkṛte laṅkā nadī varṣāsu iva ākulā . saḥ ayam mūla-haraḥ anarthaḥ sarveṣām nihataḥ mayā .. 15 ..
रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् । विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥ 16 ॥
रामस्य लक्ष्मणस्य एव सर्वेषाम् च वनौकसाम् । विक्रमाः निष्फलाः सर्वे यथा शरदि तोयदाः ॥ १६ ॥
rāmasya lakṣmaṇasya eva sarveṣām ca vanaukasām . vikramāḥ niṣphalāḥ sarve yathā śaradi toyadāḥ .. 16 ..
एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान् । यूथपानपि तान्सर्वांस्ताडयामास रावणिः ॥ 17 ॥
एवम् उक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्व-गान् । यूथपान् अपि तान् सर्वान् ताडयामास रावणिः ॥ १७ ॥
evam uktvā tu tān sarvān rākṣasān paripārśva-gān . yūthapān api tān sarvān tāḍayāmāsa rāvaṇiḥ .. 17 ..
नीलं नवभिराहत्य मैन्दं सद्विविदं तथा । त्रिभिस्त्रिभिरमित्रघ्नस्तताप पुरमेषुभिः ॥ 18 ॥
नीलम् नवभिः आहत्य मैन्दम् स द्विविदम् तथा । त्रिभिः त्रिभिः अमित्र-घ्नः तताप पुरम-इषुभिः ॥ १८ ॥
nīlam navabhiḥ āhatya maindam sa dvividam tathā . tribhiḥ tribhiḥ amitra-ghnaḥ tatāpa purama-iṣubhiḥ .. 18 ..
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि । हनूमतो वेगवतो विससर्ज शरान् दश ॥ 19 ॥
जाम्बवन्तम् महा-इष्वासः विद्ध्वा बाणेन वक्षसि । हनूमतः वेगवतः विससर्ज शरान् दश ॥ १९ ॥
jāmbavantam mahā-iṣvāsaḥ viddhvā bāṇena vakṣasi . hanūmataḥ vegavataḥ visasarja śarān daśa .. 19 ..
गवाक्षं शरभं चैव तावप्यमिततेजसौ । द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ॥ 20 ॥
गवाक्षम् शरभम् च एव तौ अपि अमित-तेजसौ । द्वाभ्याम् द्वाभ्याम् महा-वेगः विव्याध युधि रावणिः ॥ २० ॥
gavākṣam śarabham ca eva tau api amita-tejasau . dvābhyām dvābhyām mahā-vegaḥ vivyādha yudhi rāvaṇiḥ .. 20 ..
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् । विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः ॥ 21 ॥
गोलाङ्गूलेश्वरम् च एव वालि-पुत्रम् अथ अङ्गदम् । विव्याध बहुभिः बाणैः त्वरमाणः अथ रावणिः ॥ २१ ॥
golāṅgūleśvaram ca eva vāli-putram atha aṅgadam . vivyādha bahubhiḥ bāṇaiḥ tvaramāṇaḥ atha rāvaṇiḥ .. 21 ..
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः । ननाद बलवांस्तत्र महासत्त्व स रावणिः ॥ 22 ॥
तान् वानर-वरान् भित्त्वा शरैः अग्नि-शिखा-उपमैः । ननाद बलवान् तत्र महा-सत्त्व स रावणिः ॥ २२ ॥
tān vānara-varān bhittvā śaraiḥ agni-śikhā-upamaiḥ . nanāda balavān tatra mahā-sattva sa rāvaṇiḥ .. 22 ..
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् । प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ 23 ॥
तान् अर्दयित्वा बाण-ओघैः त्रासयित्वा च वानरान् । प्रजहास महा-बाहुः वचनम् च इदम् अब्रवीत् ॥ २३ ॥
tān ardayitvā bāṇa-oghaiḥ trāsayitvā ca vānarān . prajahāsa mahā-bāhuḥ vacanam ca idam abravīt .. 23 ..
शरबन्धेन घोरेण मया बद्धौ चमूमुखे । सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ 24 ॥
शर-बन्धेन घोरेण मया बद्धौ चमू-मुखे । सहितौ भ्रातरौ एतौ निशामयत राक्षसाः ॥ २४ ॥
śara-bandhena ghoreṇa mayā baddhau camū-mukhe . sahitau bhrātarau etau niśāmayata rākṣasāḥ .. 24 ..
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः । परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः ॥ 25 ॥
एवम् उक्ताः तु ते सर्वे राक्षसाः कूट-योधिनः । परम् विस्मयम् आजग्मुः कर्मणा तेन तोषिताः ॥ २५ ॥
evam uktāḥ tu te sarve rākṣasāḥ kūṭa-yodhinaḥ . param vismayam ājagmuḥ karmaṇā tena toṣitāḥ .. 25 ..
विनेदुश्च महानादान्सर्वे ते जलदोपमाः । हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ 26 ॥
विनेदुः च महा-नादान् सर्वे ते जलद-उपमाः । हतः रामः इति ज्ञात्वा रावणिम् समपूजयन् ॥ २६ ॥
vineduḥ ca mahā-nādān sarve te jalada-upamāḥ . hataḥ rāmaḥ iti jñātvā rāvaṇim samapūjayan .. 26 ..
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ । वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ॥ 27 ॥
निष्पन्दौ तु तदा दृष्ट्वा तौ उभौ राम-लक्ष्मणौ । वसुधायाम् निरुच्छ्वासौ हतौ इति अन्वमन्यत ॥ २७ ॥
niṣpandau tu tadā dṛṣṭvā tau ubhau rāma-lakṣmaṇau . vasudhāyām nirucchvāsau hatau iti anvamanyata .. 27 ..
हर्षेण तु समाविष्ट इन्द्रजित्समितिञ्जयः । प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान् ॥ 28 ॥
हर्षेण तु समाविष्टः इन्द्रजित् समितिञ्जयः । प्रविवेश पुरीम् लङ्काम् हर्षयन् सर्व-नैरृतान् ॥ २८ ॥
harṣeṇa tu samāviṣṭaḥ indrajit samitiñjayaḥ . praviveśa purīm laṅkām harṣayan sarva-nairṛtān .. 28 ..
रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश् चिते । सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥ 29 ॥
राम-लक्ष्मणयोः दृष्ट्वा शरीरे सायकैः चिते । सर्वाणि च अङ्ग-उपाङ्गानि सुग्रीवम् भयम् आविशत् ॥ २९ ॥
rāma-lakṣmaṇayoḥ dṛṣṭvā śarīre sāyakaiḥ cite . sarvāṇi ca aṅga-upāṅgāni sugrīvam bhayam āviśat .. 29 ..
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः । सबाष्पवदनं दीनं शोकव्याकुललोचनम् ॥ 30 ॥
तम् उवाच परित्रस्तम् वानर-इन्द्रम् विभीषणः । स बाष्प-वदनम् दीनम् शोक-व्याकुल-लोचनम् ॥ ३० ॥
tam uvāca paritrastam vānara-indram vibhīṣaṇaḥ . sa bāṣpa-vadanam dīnam śoka-vyākula-locanam .. 30 ..
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् । एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥ 31 ॥
अलम् त्रासेन सुग्रीव बाष्प-वेगः निगृह्यताम् । एवम् प्रायाणि युद्धानि विजयः न अस्ति नैष्ठिकः ॥ ३१ ॥
alam trāsena sugrīva bāṣpa-vegaḥ nigṛhyatām . evam prāyāṇi yuddhāni vijayaḥ na asti naiṣṭhikaḥ .. 31 ..
सभाग्यशेषतास्माकं यदि वीर भविष्यति । मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ ॥ 32 ॥
स भाग्य-शेष-ता अस्माकम् यदि वीर भविष्यति । मोहम् एतौ प्रहास्येते भ्रातरौ राम-लक्ष्मणौ ॥ ३२ ॥
sa bhāgya-śeṣa-tā asmākam yadi vīra bhaviṣyati . moham etau prahāsyete bhrātarau rāma-lakṣmaṇau .. 32 ..
पर्यवस्थापयात्मानमनाथं मां च वानर । सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् ॥ 33 ॥
पर्यवस्थापय आत्मानम् अनाथम् माम् च वानर । सत्य-धर्म-अनुरक्तानाम् ना अस्ति मृत्यु-कृतम् भयम् ॥ ३३ ॥
paryavasthāpaya ātmānam anātham mām ca vānara . satya-dharma-anuraktānām nā asti mṛtyu-kṛtam bhayam .. 33 ..
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना । सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥ 34 ॥
एवम् उक्त्वा ततस् तस्य जल-क्लिन्नेन पाणिना । सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥ ३४ ॥
evam uktvā tatas tasya jala-klinnena pāṇinā . sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ .. 34 ..
तत सलिलमादाय विद्यया परिजप्यच । सुग्रीवनेत्रे धर्मात्मा सममार्ज विभीषणः ॥ 35 ॥
तत सलिलम् आदाय विद्यया परिजप्य च । सुग्रीव-नेत्रे धर्म-आत्मा सममार्ज विभीषणः ॥ ३५ ॥
tata salilam ādāya vidyayā parijapya ca . sugrīva-netre dharma-ātmā samamārja vibhīṣaṇaḥ .. 35 ..
विमृज्य वदनं तस्य कपिराजस्य धीमतः । अब्रवीत्कालसम्प्रातमसम्भ्रान्तमिदं वचः ॥ 36 ॥
विमृज्य वदनम् तस्य कपि-राजस्य धीमतः । अब्रवीत् काल-सम्प्रातम् असम्भ्रान्तम् इदम् वचः ॥ ३६ ॥
vimṛjya vadanam tasya kapi-rājasya dhīmataḥ . abravīt kāla-samprātam asambhrāntam idam vacaḥ .. 36 ..
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् । अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते ॥ 37 ॥
न कालः कपि-राज-इन्द्र वैक्लव्यम् अनुवर्तितुम् । अतिस्नेहः अपि अकाले अस्मिन् मरणाय उपपद्यते ॥ ३७ ॥
na kālaḥ kapi-rāja-indra vaiklavyam anuvartitum . atisnehaḥ api akāle asmin maraṇāya upapadyate .. 37 ..
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् । हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ॥ 38 ॥
तस्मात् उत्सृज्य वैक्लव्यम् सर्व-कार्य-विनाशनम् । हितम् राम-पुरोगाणाम् सैन्यानाम् अनुचिन्त्यताम् ॥ ३८ ॥
tasmāt utsṛjya vaiklavyam sarva-kārya-vināśanam . hitam rāma-purogāṇām sainyānām anucintyatām .. 38 ..
अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः । लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः ॥ 39 ॥
अथ वा रक्ष्यताम् रामः यावत् संज्ञा विपर्ययः । लब्ध-संज्ञौ तु काकुत्स्थौ भयम् नः व्यपनेष्यतः ॥ ३९ ॥
atha vā rakṣyatām rāmaḥ yāvat saṃjñā viparyayaḥ . labdha-saṃjñau tu kākutsthau bhayam naḥ vyapaneṣyataḥ .. 39 ..
नैतत्किं चन रामस्य न च रामो मुमूर्षति । न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ॥ 40 ॥
न एतत् किम् चन रामस्य न च रामः मुमूर्षति । न हि एनम् हास्यते लक्ष्मीः दुर्लभा या गत-आयुषाम् ॥ ४० ॥
na etat kim cana rāmasya na ca rāmaḥ mumūrṣati . na hi enam hāsyate lakṣmīḥ durlabhā yā gata-āyuṣām .. 40 ..
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् । यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम् ॥ 41 ॥
तस्मात् आश्वासय आत्मानम् बलम् च आश्वासय स्वकम् । यावत् सर्वाणि सैन्यानि पुनर् संस्थापयामि अहम् ॥ ४१ ॥
tasmāt āśvāsaya ātmānam balam ca āśvāsaya svakam . yāvat sarvāṇi sainyāni punar saṃsthāpayāmi aham .. 41 ..
एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः । कर्णे कर्णे प्रकथिता हरयो हरिपुङ्गव ॥ 42 ॥
एते हि उत्फुल्ल-नयनाः त्रासात् आगत-साध्वसाः । कर्णे कर्णे प्रकथिताः हरयः हरि-पुङ्गव ॥ ४२ ॥
ete hi utphulla-nayanāḥ trāsāt āgata-sādhvasāḥ . karṇe karṇe prakathitāḥ harayaḥ hari-puṅgava .. 42 ..
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् । त्यजन्तु हरयस्त्रासं भुक्तपूर्वाम् इव स्रजम् ॥ 43 ॥
माम् तु दृष्ट्वा प्रधावन्तम् अनीकम् सम्प्रहर्षितुम् । त्यजन्तु हरयः त्रासम् भुक्त-पूर्वाम् इव स्रजम् ॥ ४३ ॥
mām tu dṛṣṭvā pradhāvantam anīkam sampraharṣitum . tyajantu harayaḥ trāsam bhukta-pūrvām iva srajam .. 43 ..
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः । विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ॥ 44 ॥
समाश्वास्य तु सुग्रीवम् राक्षस-इन्द्रः विभीषणः । विद्रुतम् वानर-अनीकम् तत् समाश्वासयत् पुनर् ॥ ४४ ॥
samāśvāsya tu sugrīvam rākṣasa-indraḥ vibhīṣaṇaḥ . vidrutam vānara-anīkam tat samāśvāsayat punar .. 44 ..
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः । विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥ 45 ॥
इन्द्रजित् तु महा-मायः सर्व-सैन्य-समावृतः । विवेश नगरीम् लङ्काम् पितरम् च अभ्युपागमत् ॥ ४५ ॥
indrajit tu mahā-māyaḥ sarva-sainya-samāvṛtaḥ . viveśa nagarīm laṅkām pitaram ca abhyupāgamat .. 45 ..
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः । आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥ 46 ॥
तत्र रावणम् आसीनम् अभिवाद्य कृताञ्जलिः । आचचक्षे प्रियम् पित्रे निहतौ राम-लक्ष्मणौ ॥ ४६ ॥
tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ . ācacakṣe priyam pitre nihatau rāma-lakṣmaṇau .. 46 ..
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे । रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ॥ 47 ॥
उत्पपात ततस् हृष्टः पुत्रम् च परिषस्वजे । रावणः रक्षसाम् मध्ये श्रुत्वा शत्रू निपातितौ ॥ ४७ ॥
utpapāta tatas hṛṣṭaḥ putram ca pariṣasvaje . rāvaṇaḥ rakṣasām madhye śrutvā śatrū nipātitau .. 47 ..
उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः । पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ॥ 48 ॥
उपाघ्राय स मूर्ध्नि एनम् पप्रच्छ प्रीत-मानसः । पृच्छते च यथावृत्तम् पित्रे सर्वम् न्यवेदयत् ॥ ४८ ॥
upāghrāya sa mūrdhni enam papraccha prīta-mānasaḥ . pṛcchate ca yathāvṛttam pitre sarvam nyavedayat .. 48 ..
यथातौशरबन्धेननिश्चेष्टौनिष्प्रभौकृतौ । ॥ 49 ॥
यथा तौ शर-बन्धेन निश्चेष्टौ निष्प्रभौकृतौ । ॥ ४९ ॥
yathā tau śara-bandhena niśceṣṭau niṣprabhaukṛtau . .. 49 ..
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य । जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाभिननन्द पुत्रम् ॥ 50 ॥
स हर्ष-वेग-अनुगत-अन्तरात्मा श्रुत्वा वचः तस्य महा-रथस्य । जहौ ज्वरम् दाशरथेः समुत्थितम् प्रहृष्य वाचा अभिननन्द पुत्रम् ॥ ५० ॥
sa harṣa-vega-anugata-antarātmā śrutvā vacaḥ tasya mahā-rathasya . jahau jvaram dāśaratheḥ samutthitam prahṛṣya vācā abhinananda putram .. 50 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In