This overlay will guide you through the buttons:

| |
|
तस्मिन् प्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे । राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ॥ 1 ॥
तस्मिन् प्रविष्टे लङ्काम् तु कृतार्थे रावण-आत्मजे । राघवम् परिवार्य आर्ताः ररक्षुः वानर-ऋषभाः ॥ १ ॥
tasmin praviṣṭe laṅkām tu kṛtārthe rāvaṇa-ātmaje . rāghavam parivārya ārtāḥ rarakṣuḥ vānara-ṛṣabhāḥ .. 1 ..
हनूमानङ्गदो नीलः सुषेणः कुमुदो नलः । गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ 2 ॥
हनूमान् अङ्गदः नीलः सुषेणः कुमुदः नलः । गजः गवाक्षः गवयः शरभः गन्धमादनः ॥ २ ॥
hanūmān aṅgadaḥ nīlaḥ suṣeṇaḥ kumudaḥ nalaḥ . gajaḥ gavākṣaḥ gavayaḥ śarabhaḥ gandhamādanaḥ .. 2 ..
जाम्बवानृषभः सुन्दो रम्भः शतबलिः पृथुः । व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ॥ 3 ॥
जाम्बवान् ऋषभः सुन्दः रम्भः शतबलिः पृथुः । व्यूढ-अनीकाः च यत्ताः च द्रुमान् आदाय सर्वतस् ॥ ३ ॥
jāmbavān ṛṣabhaḥ sundaḥ rambhaḥ śatabaliḥ pṛthuḥ . vyūḍha-anīkāḥ ca yattāḥ ca drumān ādāya sarvatas .. 3 ..
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः । तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥ 4 ॥
वीक्षमाणाः दिशः सर्वाः तिर्यक् ऊर्ध्वम् च वानराः । तृणेषु अपि च चेष्टत्सु राक्षसाः इति मेनिरे ॥ ४ ॥
vīkṣamāṇāḥ diśaḥ sarvāḥ tiryak ūrdhvam ca vānarāḥ . tṛṇeṣu api ca ceṣṭatsu rākṣasāḥ iti menire .. 4 ..
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् । आजुहाव ततः सीता रक्षणी राक्षसीस्तदा ॥ 5 ॥
रावणः च अपि संहृष्टः विसृज्य इन्द्रजितम् सुतम् । आजुहाव ततस् सीता रक्षणीः राक्षसीः तदा ॥ ५ ॥
rāvaṇaḥ ca api saṃhṛṣṭaḥ visṛjya indrajitam sutam . ājuhāva tatas sītā rakṣaṇīḥ rākṣasīḥ tadā .. 5 ..
राक्षस्यस्त्रिजटा चापि शासनात्तमुपस्थिताः । ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः ॥ 6 ॥
राक्षस्यः त्रिजटा च अपि शासनात् तम् उपस्थिताः । ताः उवाच ततस् हृष्टः राक्षसीः राक्षसेश्वरः ॥ ६ ॥
rākṣasyaḥ trijaṭā ca api śāsanāt tam upasthitāḥ . tāḥ uvāca tatas hṛṣṭaḥ rākṣasīḥ rākṣaseśvaraḥ .. 6 ..
हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ । पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ॥ 7 ॥
हतौ इन्द्रजिता आख्यात वैदेह्याः राम-लक्ष्मणौ । पुष्पकम् च समारोप्य दर्शयध्वम् हतौ रणे ॥ ७ ॥
hatau indrajitā ākhyāta vaidehyāḥ rāma-lakṣmaṇau . puṣpakam ca samāropya darśayadhvam hatau raṇe .. 7 ..
यदाश्रयादवष्टब्धो नेयं मामुपतिष्ठति । सोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि ॥ 8 ॥
यद्-आश्रयात् अवष्टब्धः न इयम् माम् उपतिष्ठति । सः अस्याः भर्ता सह भ्रात्रा निरस्तः रण-मूर्धनि ॥ ८ ॥
yad-āśrayāt avaṣṭabdhaḥ na iyam mām upatiṣṭhati . saḥ asyāḥ bhartā saha bhrātrā nirastaḥ raṇa-mūrdhani .. 8 ..
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली । मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥ 9 ॥
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली । माम् उपस्थास्यते सीता सर्व-आभरण-भूषिता ॥ ९ ॥
nirviśaṅkā nirudvignā nirapekṣā ca maithilī . mām upasthāsyate sītā sarva-ābharaṇa-bhūṣitā .. 9 ..
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् । अवेक्ष्य विनिवृत्ताशा नान्यां गतिमपश्यती ॥ 10 ॥
अद्य काल-वशम् प्राप्तम् रणे रामम् स लक्ष्मणम् । अवेक्ष्य विनिवृत्त-आशा न अन्याम् गतिम् अपश्यती ॥ १० ॥
adya kāla-vaśam prāptam raṇe rāmam sa lakṣmaṇam . avekṣya vinivṛtta-āśā na anyām gatim apaśyatī .. 10 ..
अनपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् । तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः ॥ 11 ॥
अनपेक्षा विशाल-अक्षी माम् उपस्थास्यते स्वयम् । तस्य तत् वचनम् श्रुत्वा रावणस्य दुरात्मनः ॥ ११ ॥
anapekṣā viśāla-akṣī mām upasthāsyate svayam . tasya tat vacanam śrutvā rāvaṇasya durātmanaḥ .. 11 ..
राक्षस्यस्तास्तथेत्युक्त्वा प्रजग्मुर्यत्र पुष्पकम् । ततः पुष्पकमादय राक्षस्यो रावणाज्ञया ॥ 12 ॥
राक्षस्यः ताः तथा इति उक्त्वा प्रजग्मुः यत्र पुष्पकम् । ततस् पुष्पकम् आदय राक्षस्यः रावण-आज्ञया ॥ १२ ॥
rākṣasyaḥ tāḥ tathā iti uktvā prajagmuḥ yatra puṣpakam . tatas puṣpakam ādaya rākṣasyaḥ rāvaṇa-ājñayā .. 12 ..
अशोकवनिकास्थां तां मैथिलीं समुपानयन् । तामादाय तु राक्षस्यो भर्तृशोकपरायणाम् ॥ 13 ॥
अशोक-वनिका-स्थाम् ताम् मैथिलीम् समुपानयन् । ताम् आदाय तु राक्षस्यः भर्तृ-शोक-परायणाम् ॥ १३ ॥
aśoka-vanikā-sthām tām maithilīm samupānayan . tām ādāya tu rākṣasyaḥ bhartṛ-śoka-parāyaṇām .. 13 ..
सीतामारोपयामासुर्विमानं पुष्पकं तदा । ततः पुष्पकमारोप्य सीतां त्रिजटया सह ॥ 14 ॥
सीताम् आरोपयामासुः विमानम् पुष्पकम् तदा । ततस् पुष्पकम् आरोप्य सीताम् त्रिजटया सह ॥ १४ ॥
sītām āropayāmāsuḥ vimānam puṣpakam tadā . tatas puṣpakam āropya sītām trijaṭayā saha .. 14 ..
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ । रावणश्चारयामास पताकाध्वजमालिनीम् ॥ 15 ॥
जग्मुः दर्शयितुम् तस्यै राक्षस्यः राम-लक्ष्मणौ । रावणः चारयामास पताका-ध्वज-मालिनीम् ॥ १५ ॥
jagmuḥ darśayitum tasyai rākṣasyaḥ rāma-lakṣmaṇau . rāvaṇaḥ cārayāmāsa patākā-dhvaja-mālinīm .. 15 ..
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः । राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ 16 ॥
प्राघोषयत हृष्टः च लङ्कायाम् राक्षसेश्वरः । राघवः लक्ष्मणः च एव हतौ इन्द्रजिता रणे ॥ १६ ॥
prāghoṣayata hṛṣṭaḥ ca laṅkāyām rākṣaseśvaraḥ . rāghavaḥ lakṣmaṇaḥ ca eva hatau indrajitā raṇe .. 16 ..
विमानेनापि सीता तु गत्वा त्रिजटया सह । ददर्श वानराणां तु सर्वं सिन्यं निपातितम् ॥ 17 ॥
विमानेन अपि सीता तु गत्वा त्रिजटया सह । ददर्श वानराणाम् तु सर्वम् सिन्यम् निपातितम् ॥ १७ ॥
vimānena api sītā tu gatvā trijaṭayā saha . dadarśa vānarāṇām tu sarvam sinyam nipātitam .. 17 ..
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् । वानरांश्चापि दुःखार्तान्रामलक्ष्मणपार्श्वतः ॥ 18 ॥
प्रहृष्ट-मनसः च अपि ददर्श पिशित-अशनान् । वानरान् च अपि दुःख-आर्तान् राम-लक्ष्मण-पार्श्वतः ॥ १८ ॥
prahṛṣṭa-manasaḥ ca api dadarśa piśita-aśanān . vānarān ca api duḥkha-ārtān rāma-lakṣmaṇa-pārśvataḥ .. 18 ..
ततः सीता ददर्शोभौ शयानौ शततल्पयोः । लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ ॥ 19 ॥
ततस् सीता ददर्श उभौ शयानौ शत-तल्पयोः । लक्ष्मणम् च एव रामम् च विसंज्ञौ शर-पीडितौ ॥ १९ ॥
tatas sītā dadarśa ubhau śayānau śata-talpayoḥ . lakṣmaṇam ca eva rāmam ca visaṃjñau śara-pīḍitau .. 19 ..
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ । सायकैश्छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ ॥ 20 ॥
विध्वस्त-कवचौ वीरौ विप्रविद्ध-शरासनौ । सायकैः छिन्न-सर्व-अङ्गौ शर-स्तम्भ-मयौ क्षितौ ॥ २० ॥
vidhvasta-kavacau vīrau vipraviddha-śarāsanau . sāyakaiḥ chinna-sarva-aṅgau śara-stambha-mayau kṣitau .. 20 ..
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ । शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥ 21 ॥
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुष-ऋषभौ । शयानौ पुण्डरीक-अक्षौ कुमारौ इव पावकी ॥ २१ ॥
tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣa-ṛṣabhau . śayānau puṇḍarīka-akṣau kumārau iva pāvakī .. 21 ..
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ । दुःखार्ता सुभृशं सीता करुणं विललाप ह ॥ 22 ॥
शर-तल्प-गतौ वीरौ तथाभूतौ नर-ऋषभौ । दुःख-आर्ता सु भृशम् सीता करुणम् विललाप ह ॥ २२ ॥
śara-talpa-gatau vīrau tathābhūtau nara-ṛṣabhau . duḥkha-ārtā su bhṛśam sītā karuṇam vilalāpa ha .. 22 ..
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा । प्रेक्ष्य पांसुषु चेष्टन्तौ रुरोद जनकात्मजा ॥ 23 ॥
भर्तारम् अनवद्य-अङ्गी लक्ष्मणम् च असित-ईक्षणा । प्रेक्ष्य पांसुषु चेष्टन्तौ रुरोद जनकात्मजा ॥ २३ ॥
bhartāram anavadya-aṅgī lakṣmaṇam ca asita-īkṣaṇā . prekṣya pāṃsuṣu ceṣṭantau ruroda janakātmajā .. 23 ..
सबाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ । वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ॥ 24 ॥
स बाष्प-शोक-अभिहता समीक्ष्य तौ भ्रातरौ देव-सम-प्रभावौ । वितर्कयन्ती निधनम् तयोः सा दुःख-अन्विता वाक्यम् इदम् जगाद ॥ २४ ॥
sa bāṣpa-śoka-abhihatā samīkṣya tau bhrātarau deva-sama-prabhāvau . vitarkayantī nidhanam tayoḥ sā duḥkha-anvitā vākyam idam jagāda .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In